बुधवार, 18 दिसंबर 2024
उद्योगत्यजनसूचना
मंगलवार, 17 दिसंबर 2024
उद्योगं त्यक्ष्यामि
अद्योद्योगं त्यक्ष्यामि। नूतनवर्षात्कार्यालयं प्रतिदिनं गन्तव्यम्। आ वर्षद्वयादयमोद्योगं मह्यं नारोचत। परन्तु वेतनं सम्यगासीत्। अन्यच्च सप्ताहे द्वयोर्दिनयोर्गृहात्कार्यं कर्तुं शक्तवान्। ताभ्यां कारणाभ्यां वर्षद्वयात्कथञ्चिदोद्योगऽनुवर्तितः। प्रतिदिनं वाहनसम्मर्दे वाहनचालनस्येच्छा नास्ति मम। अत उद्योगं त्यक्ष्यामि। आगामिनि वर्षे नूतनोद्योगस्यान्वेषणं करिष्यामि।
शुक्रवार, 25 अक्टूबर 2024
इदानीमपि कार्यं न्यूनम्
द्वाभ्यां मासाभ्यामनन्तरमपि कार्यं न्यूनमेवास्ति। ततोऽपरि पर्यवेक्षको वदति त्वं ज्येष्ठाभ्यन्ता, त्वयाधिकं कार्यं करणीयमिति। कार्यमेव नास्ति चेत्कथं कुर्याम्? कीदृशी विप्रतिपत्तिः!
शनिवार, 31 अगस्त 2024
नूतनदले
नूतनदले कार्यमारभे। परन्तु सम्प्रति कार्यमेव नास्ति। ह्यः पर्यवेक्षकात्कार्यमयाचे। सोऽवदिदानीं भवते कार्यन्नास्ति। तर्ह्यहं किमर्थं दलेऽन्तर्भूतः कृतो न जाने।
मंगलवार, 20 अगस्त 2024
आँकि-शब्दकोशः
आ बहुभ्यो वर्षेभ्यः संस्कृते पठति मया संस्कृतशब्दानां बृहच्छब्दकोशा रचितः। स शब्दकोशः 'एड्वानस्ड्-संस्कृत-वोकेबलरि` इति नाम्ना `आँकिवेब` इति नाम्ना जालस्थाने स्थापितो येनान्यजना अपि तस्य शब्दकोशस्य प्रयोगं कर्तुं शक्नुयुः।
शनिवार, 3 अगस्त 2024
भौतिकविज्ञानम्
आ बाल्यकालाद्भौतिकविज्ञानं पिपठिषामि। सम्प्रति वर्षद्वयात्पठन्नस्मि। तेन कारणेनैव अत्र लेखा विरला जाताः। गतवर्षे क्वाण्टम्-मकेनिक्स्-शास्त्रमपठम्। अधुना जेनेरल्-रिलेटिविटिशास्त्रं पठामि।
रविवार, 28 जुलाई 2024
दलपरिवर्तनम्
आ वर्षात्कार्यालये दलेऽकस्मिन् कार्यं करोमि। इदानीं दलपरिवर्तनं करिष्यामि। नूतनदले कार्यं रुचिकरं भूयात्।
रविवार, 28 अप्रैल 2024
संस्कृतं न पाठयिष्यामि
अहं बहुभ्यो वर्षेभ्यः संस्कृतं पाठयन्नस्मि। इदानीं तस्माच्छ्रान्तिमनुभवामि। अत इतः परं संस्कृतं न पाठयिष्यामि। प्रायोऽग्रिमेषु वर्षेषु पुनः पाठयितास्मि।
रविवार, 14 अप्रैल 2024
ह्यस्तनं मेलनम्
ह्योऽस्माकं स्थानीयमेलनमभूत्। अन्यस्माद्राज्यात् कार्यकर्तापि विद्यमान आसीत्। त्रयघण्टात्मकं मेलनं सम्यगासीत्। अन्ते भोजनमपि कृतम्।
गुरुवार, 14 मार्च 2024
शनिवार, 10 फ़रवरी 2024
आ सप्ताहात्
आ सप्ताहात् फ्रेंचभाषां पठन्नस्मि। महती प्रगति लब्धा। भौतिकविज्ञानं पठामीत्यस्मादन्याः सर्वाः पठनक्रियाः सरला भासन्ते।
शनिवार, 3 फ़रवरी 2024
दूरवाणीयन्त्रं न जागृतम्
अद्य प्रातःकालयुत्थाय दूरवाणीयन्त्रं दृष्टं चेत्तन्न जागृतम्। विद्युदुर्जा सम्यगासीदिति जानामि स्म यता रात्रावेवोर्जा पूरितासीत्। कथञ्चिद्दूरववाणी पुनर्जागृताभूत्।
फ्रेन्च्-भाषा
फ्रेन्च्-भाषाध्ययनमारभे यतो मार्चमासे फ्राँसदेशं गमिष्यामि। मासे कियती फ्रेन्च्-भाषां ज्ञातुं शक्नोमीति प्रश्नः।