सोमवार, 27 सितंबर 2021

साहाय्यङ्करोमि

सहकारिणः साहाय्यङ्करोमि। स कदाचित्समयो व्यर्थीकरोतीति भासते। परन्तु मम कार्यं समाप्तमित्यतस्तस्य साहाय्यङ्करोमि। न करोमि चेदहङ्किङ्कुर्यामिति समस्या। मासान्तात्पूर्वं सर्वङ्कार्यं समाप्तुं शक्नुव इति भासते। तस्मात्प्रबन्धको मोदिष्यते।

शुक्रवार, 17 सितंबर 2021

किङ्कुर्याम्?

कार्यालये समधिककार्यं वर्ततयिति मया पूर्वं लिखितम्। प्रकल्पे द्वे जने कार्यङ्कुरुतः। अहमन्यश्च। मासान्तात्पूर्वकार्यमवसितव्यम्। मम कार्यं सम्यक्तया प्रचलति। मासान्तात्पूर्वङ्कर्तुं शक्नुयामित्यूहे। परन्तु मम सहकरी कर्तुन्न शक्नुयात्। केभ्यश्चिद्दिनेभ्यः पूर्वं स सप्ताहं यावदवकाशमगृह्णीत। तस्मिन्सप्ताहेऽहं बहुकार्यमकरवम्। तदवकाशवशात्स कार्यं समाप्तुं न शक्नुयात्। प्रायस्तस्य सहायतायै मत्सकाशे समयो भवितुं शक्नोति। परन्तु बृहत्कार्यङ्कृत्वाहमपि शाश्रन्थ्ये। किञ्च यदि तस्य कार्यङ्गृह्णीयां तर्हि मयैव समाप्तव्यम्। तस्य कार्यङ्गृह्णीयामुत नेति प्रश्नोऽस्ति।

बुधवार, 15 सितंबर 2021

समधिककार्यम्

अद्यत्वे कार्यालये समधिककार्यं वर्तते। ह्योऽहं मध्याह्नभोजनकरणमपि व्यस्मरम्। यादृशङ्कार्यमस्ति तादृशं मह्यं रोचते। बहुभ्यो वर्षेभ्यः परस्तादस्यां संस्थायामेतादृशङ्कार्यं लब्धम्। हास्यजनकः प्रसङ्गोऽस्ति कार्यमेतत्केनापि नोपयोक्ष्यते। कृतस्य कार्यस्य प्रयोजनायान्याभिः संस्थाभिः किञ्चित्कार्यङ्कर्तव्यम्। समयाभावात्तत्कार्यं न करिष्यते ताः संस्था असूचयन्तास्मान्। परन्त्वस्माकं नेतॄणामहम्भावस्य पूर्तये कार्यङ्करणीयम्। सितम्बरमासान्तात्पूर्वङ्कर्तव्यमिति नेतृभिः सूचितम्। मम प्रबन्धको मदीयै पदोन्नतये प्रयतते। अतः सम्प्रत्यहं यत्किमपि सोऽपेक्षते करोमि। तथापि दिनेऽष्टघण्टाभ्योऽधिकं तु कार्यङ्कदापि न करोमि। पदोन्नतिधने मह्यं रोचेते परन्त्वियन्न यस्मायहमहोरात्रङ्कार्यङ्करवाणि।

मंगलवार, 14 सितंबर 2021

द-सर्पेन्ट्

द-सर्पेन्टिति वृतान्तमपश्यं दूरदर्शने। चार्ल्ससोभराजस्य विषये सत्या कथा दर्शितास्मिंश्चलचित्रे। बाल्यकाले चार्ल्समहाश्यस्य विषये श्रुतमासीद्मातृपितृभ्याम्। जानामि स्म स दुष्ट आसीत्। परन्तु कियता दौष्ट्येन तेन बहवो जना हता इति न जानामि स्म। विस्मितोऽस्मि कीदृशो जनः स आसीत्। द्रष्टव्यञ्चलचित्रम्।

रविवार, 12 सितंबर 2021

नूतनसत्रमारब्धम्

अद्य संस्कृतवर्गस्य नूतनसत्रमारब्धम्। चत्वारो नूतनजना आगमन्। वर्ग उत्तमरीत्या प्राचालीत्।

गुरुवार, 9 सितंबर 2021

वातानुकूलयन्त्रं प्रतिसमाहितम्

वातानुकूलयन्त्रं पर्याप्तशैत्यन्न ददाति स्म। आ मासाद्वयङ्कथञ्चिद्घर्मे जीवामः स्म। ह्यो वातानुकूलयन्त्रं प्रतिसमाहितम्। कार्यकर्तृणा यन्त्रं शीतजनकवायुना पूरितम्। चतुष्षष्ट्यधिकचतुश्शतानि रुप्यकाणि व्ययितानि। शीतजनकवायोर्मूल्यं रत्नायते। एतादृशङ्कार्यङ्कुर्वद्भिः कार्यकर्तृभिस्तन्मूल्यं कृत्रिमतयोन्नमितमस्तीति मम मतिः। या शीतजनकवायुर्जगति कोटिषु यन्त्रेषु स्थाप्यते तस्या मूल्यङ्कथमेतावद्भवितुं शक्नोति?

रविवार, 5 सितंबर 2021

पर्यवेक्षको ज्यागमयिषति

मामकाय पर्यवेक्षकाय गृहात्कार्यन्न रोचते। यद्यपि वयं सर्वे गृहात्कार्यङ्कुर्मस्तथापि स प्रतिदिनङ्कार्यालयङ्गच्छति। किञ्च वयमपि कार्यालयमागच्छेमेति सोऽभिलषति। कार्यालयेण शेषवर्षाय गृहात्कार्यङ्करणायनुमतिर्दत्ताः। अतः सोऽस्मानागमयितुन्न शक्नोति। परन्त्वग्रिमवर्षात्स निश्चयेनास्मानागमयिता।

श्वश्रूश्वशुरयोर्गहमगच्छाम

ह्यो वयं श्वश्रूश्वशुरयोर्गहमगच्छाम। पूर्वस्मादेव गमनाय भार्यापुत्रयोर्योजनासीत्। अहमप्यगच्छामीत्यहमवदम्। आ त्रिभ्यो वर्षेभ्यस्तयोर्गहमहन्नगच्छम्। कदाचित्तावत्रागच्छताम्। ह्यो मिलित्वा वयमरमामहे। ताभ्यां स्वादुभोजनं परिविष्टम्। तज्जग्ध्वा वयममोदामहे। ताभ्यां वयमेव निकस्थः कुटुम्बः। अस्मभ्यं तावेव। न्यूनातिन्यूं वर्षे द्विवारं मिलेम चेद्वरम्।

गुरुवार, 2 सितंबर 2021

पदोन्नतये कार्याणि

कार्यालये मम पदोन्नतये कर्तव्यानि कार्याणि वेगेन प्रचलन्ति। प्रायः कार्याणि मामकेन पर्यवेक्षकेण क्रियन्ताम्। स आस्थया कार्याणि निर्वहति। पदोन्नतिर्लभ्यतयुत नेति द्रक्ष्यते।

प्यानोपाठाः पुनरारभन्ते

ह्यः पुत्रः प्यानोवादनस्याग्रिमं स्तरं प्राविशत्। स्तरोऽयं परिश्रममपेक्षते। गतवर्षे पुत्रेण प्यानवभ्यासः कृतः परन्तु यावानावश्यकस्तावानेव। एतया नीत्या किञ्चिद्वादयितुं शक्यते परन्तु प्रचुरकौशलं तु न लभ्यते। तस्मै न्यूनतां विहायाधिकतयाभ्यासः करणीयः। स कुर्यादुत न वक्तुन्न शक्यते।