रविवार, 19 दिसंबर 2021

मित्राण्यमिलम्

ह्यः साँयकाले नगरकेन्द्रमगच्छम्। पूर्वतनानां सहोद्योगिनां मेलनमासीत्। परह्यस्तु शैत्यन्नासीत्परन्तु ह्यः शैत्यमभवत्। तस्मात्किञ्चिदसौकर्यमन्वभवम्। यतो मदिरापानमपेक्षितमासीदतोऽहङ्कारयानं नाचालयम्। मम भार्या मां रेलस्थानकं प्रापयत्। प्रत्यागमनेऽपि सा मां रेलस्थानकादानयत्। शैत्यवशात्करोनावशाच्च केवलं षड्जना आगच्छन्। निमन्त्रणं तु पञ्चविंशतिजनेभ्यः प्रेषितमासीत्। तथापि पुरातनान्सहोद्योगिनो दृष्ट्वा सन्तुष्टोऽभवम्।

मंगलवार, 14 दिसंबर 2021

पर्यवेक्षकोऽनुपस्थितः

अद्य कार्यालये मदीयेन पर्यवेक्षकेणावकाशो गृहीतः। सामान्यतस्तादृशेषु दिनेष्वहङ्किञ्चिन्न्यूनङ्कार्यङ्करोमि परन्त्वद्यत्वे बृहत्कार्यं रुचिकरकार्यञ्च वर्तते। अन्यच्च यतः पर्यवेक्षको गतोऽतः सम्मेलनानि न भविष्यन्ति। तस्मादविरततया कार्यङ्कर्तुं शक्नोमि। अतो बृहत्कार्यङ्करिष्यामि।

रविवार, 12 दिसंबर 2021

जर्मन्क्रिस्तमसापणमगच्छाम

ह्योऽन्यस्मिन्नगरे प्रचलत्क्रिस्तमसापणमगच्छाम। रात्रौ तस्मिन्नेव नगरे वसतिमन्दिरेऽतिष्ठाम। अद्य पुनर्गृहयागमाम। प्रायो वर्षद्वयात्परं वयं प्रवासायागच्छाम। उत्तमः प्रवासः परन्तु प्रत्यागमने कारयानस्य वायुकाचकवचं द्वौ शिलाखण्डावतौत्ताम्। तस्मात्कवचे पाटावागतौ। आगामिषु दिनेषु कारयानं यानसमीकरणगृहं नीत्वा तौ पाटौ समीकरणीयौ। अन्यच्च मया ज्ञातं भार्या तस्याः कारयानस्य यन्त्रतैलं सपादवर्षान्न नवीकारितवती। सामान्यतस्तैलं षण्णमासेषु परिवर्तनीयम्। न क्रियते चेत्कारयन्त्रस्य महान्हानिर्भवितुं शक्नोति। कारयानस्य स्वास्थविषयेऽनावधानवत्या भार्ययाहं विस्मितः। श्वस्तैलपरिवर्तनङ्कारयिष्यतीति सावादीत्। बहुभ्यो वर्षेभ्यः पूर्वमेकवारं मया ज्ञातं सा द्बाभ्यां मासाभ्यामभिरक्षायोजनया विना कारयानञ्चालयन्त्यासीत्। तस्मात्कालादहं स्वयमेवाभिरक्षायोजनां नवीकरोमि यस्मात्सा कदापि योजनया विना न भवतु। एतादृशाः प्रमादा महान्हानिः कारयितुं शक्नुयुः। अतोऽस्माभिरुचितसमययेतादृशानि कार्याणि कर्तव्यानि।

बुधवार, 8 दिसंबर 2021

एकस्मिन्दिने द्वे गीते

चतुर्मासेभ्यः पूर्वं काञ्चन शिक्षिकाममुकगीतस्य पाठमनिवेदयम्। सामान्यतः सा तादृशाननुरोधान्न गृह्णाति। परन्तु सा गीतपाठमकरोत्। ममान्यगुरुरप्यस्ति यस्य पाठैरहं नवमासेभ्योऽभ्यासङ्कुर्वन्नस्मि। तमप्यहं भिन्नगीतस्य पाठमनिवेदयम्। दैवादुभाभ्यां शिक्षकाभ्यामेकस्मिन्दिनयेव तयोः पाठौ स्थापितौ। अनेन सम्प्रति मह्यं द्वयोर्गीतयोः पाठौ लभ्येते। आगामिषु दिनेषु ताभ्यामभ्यासङ्करिष्ये।

रविवार, 5 दिसंबर 2021

पुत्रः करोणौषधमलब्ध

अद्य पुत्रः करोणाया द्वितीयौषधमलब्ध। अनेन पुत्रोऽप्यावामिव सम्पूर्णकरोणौषधमलभत।

कार्यालये प्रकल्पः

कार्यालये कश्चन प्रकल्पः सप्टेम्बरमासान्तेऽवसतिव्य आसीत्। अन्यदलवशात्स प्रकल्पो नावसितः। इदानीं स प्रकल्पो मार्चमासान्ते सम्पद्येतेति विचारः।

पीडा गता

गतदिनेषु सरलव्यायाममेवाकरवम्। तस्माद्वामभागे पीडा गता। पुनः पूर्ववद्वयायामङ्कुर्याञ्चेत्पीडा पुनरागच्छेद्वेति प्रश्नः।

रविवार, 28 नवंबर 2021

वामभागे पीडा

आ केभ्यश्चित्सप्ताहेभ्यो विचित्रपीडानुभूयते। अहं तु बहुभ्यो वर्षेभ्यो व्यायामङ्करोमि। परन्तु गते मासे व्यायामङ्कृत्वा शरीरस्य वामभागे पीडामनुभवामि। यावन्तो भाराः पूर्वं वहामि स्म तावद्भ्योऽपि न्यूनतरा भारा उत्त्थाय पीडामनुभवामि। विचित्रोऽयङ्केवलं बाह्वोर्न परन्तु समग्रशरीरस्य वामभागे पीडानुभूयते - अंसे, बाहौ, कटौ, जानौ, पादौ। दक्षिणभागे कुत्रापि पीडान नास्ति। किं प्रचलति न जाने। स्यान्नाम वयो वर्धते तस्मात्।

श्वः कार्यङ्कर्तव्यम्

चत्वारदिनानि यावदवकाश उत्तम आसीत्। श्वः कार्यलयस्य कार्यङ्कर्तव्यम्।

नैरस्यमनुभवामि

आ मासात्प्रियतमङ्गीतं वादयितुं प्रयते। प्रतिदिनमभ्यासङ्करोमि। न्यूनातिन्यूनं शतवारं गुरुणा दत्तेन पाठेनाभ्यासमकरवम्। तथापि गीतं सम्यक्तया वादयितुं शक्नोमि। गीतं मम प्रियतमं परन्तु कतिवारं श्रोतुं शक्नुयाम्? प्रतिदिनं न्यूनातिन्यूनं त्रिवारं तु शृणोम्येव।

पुत्रमानैषम्

पुत्रो तस्य मातामह्या गृहमगच्छत्। गुरुवासरादारभ्याद्य पर्यन्तं तत्रैवासीत्। अद्य प्रातःकाले तमानैषम्। मध्यमर्गे मिलित्वा तस्य मातामही तं मह्ममदात्। स गृहमागत्य हर्षितः। मातामह्या गृहे स तया सह भिन्नानि पक्वानि पचति। मातामही बहूनि पक्वानानि प्रेषितवती।

बुधवार, 24 नवंबर 2021

गीतं तुदति

आ मार्चमासादमुकसङ्गीतसमूहस्य गीतानि वादयामि। एतावत्पर्यन्तं तत्समूहस्य सप्तगीतानि वादयितुं शक्नोमि। मदीयेन गुरुणा मम प्रियतमस्य गीतस्य पाठा रचितः। सत्पगीतानीव तद्गीतमपि वादयितुं शक्नुयामित्यहमचिन्तयम्। आ त्रिभ्यः सप्ताहेभ्यस्तद्गीतस्याभ्यासं प्रतिदिनङ्करोमि। तथापि तद्गीतं सम्यक्तया वादयितुन्न शक्नोमि। बहुषु मासेषु गीतमिदं प्रथममस्ति यन्मां तुदति। गीतमिदं मह्यं भृशं रोचते। तद्वादनायाहमभिलषामि। यायत्ये।

अवकाशमददाम्

आगामी सप्ताहान्तो दीर्घः। तदर्थं संस्कृतछात्रेभ्योऽवकाशमददाम्। छात्रेषु केवलमेकैवावकाशमयाचत परन्तु दीर्घसप्ताहान्ते बहवो जनाः प्रवासाय गच्छन्तीत्यतोऽहमवकाशमददाम्।

रविवार, 21 नवंबर 2021

गृहाभिरक्षायोजनाया शुल्कम्

प्रतिवर्षङ्गृहाभिरक्षायोजनाया शुल्कं वर्धते। अस्मिन्वर्षे तच्छुल्कं द्विशतरुप्यकाणिमितादवर्धत। गृहस्य हानिर्भवेच्चेदभिरक्षायोजनायाः किञ्चिद्धनं स्वेन दातव्यम्। तस्मात्परमेवाभिरक्षायोजना शिष्टं धनं ददाति। स्वेन दातव्यं शुल्कं वर्धय्येत चेदभिरक्षायोजनायाः शुल्कं न्यूनीभवति। अतोऽहं तदेवकरवम्। जानाम्यहङ्गृहस्य हानिर्भवेच्चेद्मयाधिकं धनं व्ययितव्यम्।

श्वश्रूश्वशुरौ

बुधवासरे श्वश्रूश्वशुरावगन्तारौ। कुटुम्बेन सह वयं भोजनङ्खादितास्मा रन्तास्महे च। पुत्रस्ताभ्यां सह गन्ता। तयोर्गृहे रविवासरपर्यन्तं स्थाता। आगामिनि सप्ताहे तस्य विद्यालयस्यावकाशोऽस्ति।

रविवार, 14 नवंबर 2021

गीते दृष्ट्वा द्वे चलचित्रे

मदीये द्वे प्रिये गीते यूट्यूब्जालस्थाने पश्यामि। तयोर्गीतयोर्द्वाभ्यां भिन्नाभ्याञ्चलचित्राभ्यां प्रकरणानि दर्शितानि। गीते दृष्ट्वा तच्चलचित्रे द्रष्टुं मनसीच्छागता। गतेषु दिनेषूभे चलचित्रे दृष्टे। चलचित्रमेकमुत्तममासीत्। अन्यत्किञ्चिन्निराशजनकमासीत्। तथाप्युभे चलचित्रे दृष्टयिति सन्तोषः।

जन्मदिवसोत्सवायागच्छाम

ह्यो मम भार्याया मित्रस्य पुत्रस्य जन्मदिवसोत्सवायागच्छाम। उत्सवोऽन्यस्मिन्नगरयासीत्। अतः श्वः पञ्चघण्टाभ्यो वयङ्गृहे नासम। आश्चर्यं नाम तथाप्यहं बहूनि कार्याणि कर्तुं समर्थः। वादनयन्त्राभ्यासमकरवम्। घण्टां यावच्शयनमकरवम्। चलचित्रैकस्यार्धभागमपश्यम्। सन्दर्शनाभ्यासाय द्वे समस्येऽप्यकरवम्। पञ्चघण्टाभ्यो बहिर्गत्वापीयन्ति कार्याणि कर्तुं समर्थोऽभवमिति आश्चर्यमनुभवामि। परन्तु पीठवेदनावशाद्वयायामन्नाकरवम्।

शनिवार, 6 नवंबर 2021

श्वो वर्गो न भविता

श्वः संस्कृतवर्गो न भविता। छात्रा दीपावलीपर्वणेऽवकाशमयाचन्त। दीपावली गुरुवासरयासीत्। वर्गा रविवासरे भवति। किमर्थं वर्गे नागन्तुं शक्नुवन्ति न जाने।

शुक्रवार, 5 नवंबर 2021

गीतवादनाभ्यासः

नूतनगीतवादनाभ्यासः सम्यक्तया प्रचलति। घोरपरिश्रम आवश्यकः। एतस्मात्पूर्वमपि मदीयं प्रियगीतमेकमभ्यस्तम्। तत्कृतेऽपि प्रायस्त्रयः सप्ताहा आवश्यका आसन्। परन्तु तस्माद्गीतान्मम कौशलमवर्धत। एतस्माद्गीतादपि स वर्धेतेति मन्ये।

रविवार, 31 अक्तूबर 2021

तस्मै ददाम्यहम्

अन्तर्जाले कश्चन सज्जनोऽस्ति यो मह्यं गीतपाठान्निर्माति। पाठान्निर्मीय सोऽन्तर्जाले स्थापयति येनान्ये जना अपि तेभ्यः पाठेभ्यो लाभं प्राप्नुयुः। एतान्पाठान्स निश्शुल्कं रचयति। तस्य पाठेभ्यो मम वाद्ययन्त्रकौशलं वर्धते। मम प्रियतमानि गीतान्यपि वादयितुं शक्नोमि। एतस्मात्सज्जनाद्मया प्रभूतानन्तदो लब्धः। अतो निश्शुल्कं पाठान्स्वीकर्तुन्न शक्नोमि। आ षड्भ्यो मासेभ्यस्तस्मै प्रतिमासं किञ्चिद्धनं प्रेषयामि। परन्तु गते मासे स मह्यं द्वयोर्गीतयोः पाठौ निर्मितवान्। इमे गीते मह्यं रोचतेतमाम्। अतो द्वाभ्यां मासाभ्यामहं तस्मै द्विगुणितं धनं प्रेषयिष्यामि। यो जनो मह्यं प्रभूतानन्दं ददाति तस्मायहमपि किञ्चित्कर्तुं शक्नोमीति चिन्तयित्वा सन्तोषमनुभवामि।

रविवार, 24 अक्तूबर 2021

मध्याह्ने शयनन्नाकरवम्

अस्मिन्सप्ताहान्ते मध्याह्ने शयनन्नाकरवमुभयोर्दिनयोः। अहं रात्रौ सम्यक्तया शयन्न करोमि। सप्ताहे तु कार्यङ्करोमीत्यतो दिने शेतुन्न शक्नोमि। सप्ताहान्ते दिने शयनङ्करोमि। परन्तु तस्माद्रात्रौ निद्रावधिर्न्यूना भवति। अतः प्रयत्नङ्कृत्वा दिने शयन्नाकरवम्। तस्माद्रात्रौ निद्रा समीचीनतरा भवेदित्याशासे।

गुरुवार, 21 अक्तूबर 2021

भार्या विद्यालयङ्गन्ता

आगामिनि वर्षे त्रिमासेभ्यो भार्या विद्यालयङ्गत्वाङ्कपालनविद्यां लप्स्यते। तस्याः साम्प्रतिकोद्योगः सम्यगस्ति परन्तु तस्याः प्रबन्धको वेतनमवर्धयित्वा तस्यामधिकदायित्वङ्कार्यञ्च दद्यात्। अद्यत्वे कस्मिन्नप्युद्योगे स्वस्य कार्यङ्करणन्न पर्याप्तम्। ततोऽधिककार्यङ्करणायापेक्षा सर्वदास्ति। तस्या रुचिरङ्कविद्यायां वर्तते। तत्पठित्वाधिका उद्योगा लभ्येरन्। अतः सा विद्यालयङ्गत्वा तत्कौशलं प्रापणाय प्रयतिष्यते।

रविवार, 17 अक्तूबर 2021

नूतनसङ्गणकङ्क्रेतव्यम्

मया नूतनसङ्गणकङ्क्रेतव्यम्। आ चतुर्भ्यो वर्षेभ्यो वाद्ययन्त्रं वादयामि। अन्तर्जालेऽन्यैरारोपितानि वादनचलच्चित्राणि पश्यामि। काले मयापि स्वस्य वादनचलच्चित्राण्यारोपनीयानीति भावयामि। तत्कृते यत्कौशलमावश्यकं तन्मयि सम्प्रति नास्ति। अन्यच्च वादनस्य ध्वनिमुद्रणङ्करणीयमित्यन्यत्कौशलम्। तदपि साधनीयम्। वादनध्वनिमुद्रणाय नूतनसङ्गणकङ्क्रेतव्यम्। प्रायो वर्षान्तात्पूर्वङ्क्रेतास्मि।

शनिवार, 16 अक्तूबर 2021

शुल्कञ्जरीगृह्यते

गतमासे वातानुकूलयन्त्रे शीतकारिवायुः पूरित आसीत्। तस्मै कार्यकर्तृणा सार्धत्रिशतरुप्यकाण्यगृह्णीत। केवलं द्विपौण्डमितवायुरावश्यक आसीत्। अतस्तेन पञ्चसप्तत्यधिकशतरुप्यकाणि प्रतिपौण्डशुल्कमारोपितमावयोः। तस्मिन्काले तच्छुल्कमत्यधिकमभासत। अनन्तरमहमन्तर्जालात्सूचनामलभे यत्तद्वायोः शुल्कमुपदशरुप्यकाणि प्रतिपौण्डस्ति। तावच्छुल्कं दत्वा कार्यकर्त्रींसंस्था वायुः प्राप्नोति। कार्यकर्तुः संस्थया कार्यकर्तणे वेतनं देयं स्वस्यै लाभराशिरप्यर्जनीया। अतः दशरुप्यकेभ्योऽधिकशुल्कं ग्राहकाद्गृहीतव्यम्। परन्तु तथापि दशरूप्यकाणि कुत्र सार्धैकशतरुप्यकाणि कुत्र? एतयोः शुल्कयोर्मध्ये बृहदन्तरं वर्तते। अग्रिमेऽवसरे कस्माच्चिदन्यस्माद्वायुः पूरयिष्यामि।

गुरुवार, 14 अक्तूबर 2021

विद्युत्कोषाश्शैघ्र्येण क्षीयन्ते

स्मरामि दशभ्यो वर्षेभ्यः पूर्वं कारयानेषु विद्युत्कोषाः पञ्चषड्वर्षान्यावद्विद्युच्छक्तिर्ददति स्म। सम्प्रति विद्युत्कोषा द्वित्रिवर्षेभ्योऽधिकं विद्युच्छक्तिर्न ददति। भार्यायाः कारयाने द्वाभ्यां वर्षाभ्यां पूर्वं विद्युत्कोषः परिवर्तित आसीत्। केभ्यश्चिदिनेभ्यः पूर्वं स विद्युत्कोषः शक्तिहीनो जातः। यया संस्थया विद्युत्कोषः स्थापितस्तया निश्शुल्कं नूतनविद्युत्कोषः स्थापितो यतः क्रीतेन विद्युत्कोषेन न्यूनातिन्यूनं त्रीन्वर्षान्यावत्कार्यङ्कर्तव्यम्। मदीये कारयानेऽपि तया संस्थया द्वाभ्यां वर्षाभ्यां पूर्वं विद्युत्कोषः स्थापितः। शीघ्रं सोऽपि शक्तिहीनो भवेदित्यहमूहे। संस्थया निश्शुल्कं परिवर्त्स्यते नेति प्रश्नः।

संस्कृतचलनचित्रम्

अस्य मासस्य सम्भाषणसन्देशपत्रिकायां प्रतिकृतिरिति नूतनतया मुक्तस्य चलनचित्रस्य विषयेऽपठम्। संस्कृतचलनचित्राणि निर्मीयन्तयिति मोदावहो विषयः। परन्तु सर्वाणि संस्कृतचलनचित्राणि संस्कृतविषयकानि सन्तीति ममाक्षेपः। यदि चलनचित्राणि संस्कृतवक्तारोऽतिरिच्य सामान्यजनैर्द्रष्टव्यानि तर्हि चलनचित्राणां विषयाः सामान्यसामाजिकविषया भवन्तु येषु सामान्यजनानां रुचिर्भवेत्। आदिशङ्कराचार्यः, भग्वद्गीता, धेनुः, तालपत्राणीत्यादयो विषयाः सामान्याधुनिकजनेभ्यो न रोचन्ते। यदि संस्कृतचलनचित्रेभ्यो जनानां रुचिरवर्धनीया तर्हि सामान्यविषया दर्शनीयास्तेषु चलनचित्रेषु।

शनिवार, 9 अक्तूबर 2021

पदोन्नतिर्न प्राप्ता

गतसप्ताहे मम प्रबन्धको मामसूचयद्यद्मह्यं पदोन्नतिर्न दीयतेऽस्मिन्वर्षे। किञ्चिदधिककार्यङ्कर्तव्यम्। तस्मात्परं दातुं शक्यते। स नूतनप्रबन्धकः। कदाचिद्भासतेऽष्टघण्टाभ्योऽधिककार्यङ्कर्तव्यमिति तस्यापेक्षा। तदहं पदोन्नतयेऽपि न करिष्यामि। जीवने कार्यमतिरिच्यापि बहूनि कर्तव्यानि कार्याणि वर्तन्ते। कुटुम्बेन सह समयः। अभिरुचय इत्यादीनि। केवलङ्कार्यङ्कृत्वा कृत्वा न मर्तास्मि।

रविवार, 3 अक्तूबर 2021

नूतनछात्रः

मदीये संस्कृतवर्गेऽद्य नूतनछात्रः प्रवेक्ष्यति। तत्समीपेऽनुस्रियमाणं पुस्तकं भवेदिति चिन्तयामि।

शुक्रवार, 1 अक्तूबर 2021

प्रकल्पोऽवसितः

ह्यः मासान्तासीत्। मासान्तपूर्वं वर्तमानः प्रकल्पः समापनीय इति प्रबन्धकेन विहितमासीत्। अहं मम सहकर्मकरी च श्रमेण कार्यमकरवाव। ह्यः कार्यमवसितम्। प्रबन्धकाय मामकाय दलाय चाहङ्कृतङ्कार्यमदर्शयम्। प्रबन्धको हर्षितोऽभवत्। अद्य सोमवासरे चाहङ्कार्यालयादवकाशङ्गृह्णामि। परन्त्वद्य प्रशिक्षणेकङ्करणीयमित्यतो द्वाभ्याङ्घण्टाभ्याङ्कार्यङ्करिष्यामि। अनन्तरं विरामं ग्रहीष्ये।

सोमवार, 27 सितंबर 2021

साहाय्यङ्करोमि

सहकारिणः साहाय्यङ्करोमि। स कदाचित्समयो व्यर्थीकरोतीति भासते। परन्तु मम कार्यं समाप्तमित्यतस्तस्य साहाय्यङ्करोमि। न करोमि चेदहङ्किङ्कुर्यामिति समस्या। मासान्तात्पूर्वं सर्वङ्कार्यं समाप्तुं शक्नुव इति भासते। तस्मात्प्रबन्धको मोदिष्यते।

शुक्रवार, 17 सितंबर 2021

किङ्कुर्याम्?

कार्यालये समधिककार्यं वर्ततयिति मया पूर्वं लिखितम्। प्रकल्पे द्वे जने कार्यङ्कुरुतः। अहमन्यश्च। मासान्तात्पूर्वकार्यमवसितव्यम्। मम कार्यं सम्यक्तया प्रचलति। मासान्तात्पूर्वङ्कर्तुं शक्नुयामित्यूहे। परन्तु मम सहकरी कर्तुन्न शक्नुयात्। केभ्यश्चिद्दिनेभ्यः पूर्वं स सप्ताहं यावदवकाशमगृह्णीत। तस्मिन्सप्ताहेऽहं बहुकार्यमकरवम्। तदवकाशवशात्स कार्यं समाप्तुं न शक्नुयात्। प्रायस्तस्य सहायतायै मत्सकाशे समयो भवितुं शक्नोति। परन्तु बृहत्कार्यङ्कृत्वाहमपि शाश्रन्थ्ये। किञ्च यदि तस्य कार्यङ्गृह्णीयां तर्हि मयैव समाप्तव्यम्। तस्य कार्यङ्गृह्णीयामुत नेति प्रश्नोऽस्ति।

बुधवार, 15 सितंबर 2021

समधिककार्यम्

अद्यत्वे कार्यालये समधिककार्यं वर्तते। ह्योऽहं मध्याह्नभोजनकरणमपि व्यस्मरम्। यादृशङ्कार्यमस्ति तादृशं मह्यं रोचते। बहुभ्यो वर्षेभ्यः परस्तादस्यां संस्थायामेतादृशङ्कार्यं लब्धम्। हास्यजनकः प्रसङ्गोऽस्ति कार्यमेतत्केनापि नोपयोक्ष्यते। कृतस्य कार्यस्य प्रयोजनायान्याभिः संस्थाभिः किञ्चित्कार्यङ्कर्तव्यम्। समयाभावात्तत्कार्यं न करिष्यते ताः संस्था असूचयन्तास्मान्। परन्त्वस्माकं नेतॄणामहम्भावस्य पूर्तये कार्यङ्करणीयम्। सितम्बरमासान्तात्पूर्वङ्कर्तव्यमिति नेतृभिः सूचितम्। मम प्रबन्धको मदीयै पदोन्नतये प्रयतते। अतः सम्प्रत्यहं यत्किमपि सोऽपेक्षते करोमि। तथापि दिनेऽष्टघण्टाभ्योऽधिकं तु कार्यङ्कदापि न करोमि। पदोन्नतिधने मह्यं रोचेते परन्त्वियन्न यस्मायहमहोरात्रङ्कार्यङ्करवाणि।

मंगलवार, 14 सितंबर 2021

द-सर्पेन्ट्

द-सर्पेन्टिति वृतान्तमपश्यं दूरदर्शने। चार्ल्ससोभराजस्य विषये सत्या कथा दर्शितास्मिंश्चलचित्रे। बाल्यकाले चार्ल्समहाश्यस्य विषये श्रुतमासीद्मातृपितृभ्याम्। जानामि स्म स दुष्ट आसीत्। परन्तु कियता दौष्ट्येन तेन बहवो जना हता इति न जानामि स्म। विस्मितोऽस्मि कीदृशो जनः स आसीत्। द्रष्टव्यञ्चलचित्रम्।

रविवार, 12 सितंबर 2021

नूतनसत्रमारब्धम्

अद्य संस्कृतवर्गस्य नूतनसत्रमारब्धम्। चत्वारो नूतनजना आगमन्। वर्ग उत्तमरीत्या प्राचालीत्।

गुरुवार, 9 सितंबर 2021

वातानुकूलयन्त्रं प्रतिसमाहितम्

वातानुकूलयन्त्रं पर्याप्तशैत्यन्न ददाति स्म। आ मासाद्वयङ्कथञ्चिद्घर्मे जीवामः स्म। ह्यो वातानुकूलयन्त्रं प्रतिसमाहितम्। कार्यकर्तृणा यन्त्रं शीतजनकवायुना पूरितम्। चतुष्षष्ट्यधिकचतुश्शतानि रुप्यकाणि व्ययितानि। शीतजनकवायोर्मूल्यं रत्नायते। एतादृशङ्कार्यङ्कुर्वद्भिः कार्यकर्तृभिस्तन्मूल्यं कृत्रिमतयोन्नमितमस्तीति मम मतिः। या शीतजनकवायुर्जगति कोटिषु यन्त्रेषु स्थाप्यते तस्या मूल्यङ्कथमेतावद्भवितुं शक्नोति?

रविवार, 5 सितंबर 2021

पर्यवेक्षको ज्यागमयिषति

मामकाय पर्यवेक्षकाय गृहात्कार्यन्न रोचते। यद्यपि वयं सर्वे गृहात्कार्यङ्कुर्मस्तथापि स प्रतिदिनङ्कार्यालयङ्गच्छति। किञ्च वयमपि कार्यालयमागच्छेमेति सोऽभिलषति। कार्यालयेण शेषवर्षाय गृहात्कार्यङ्करणायनुमतिर्दत्ताः। अतः सोऽस्मानागमयितुन्न शक्नोति। परन्त्वग्रिमवर्षात्स निश्चयेनास्मानागमयिता।

श्वश्रूश्वशुरयोर्गहमगच्छाम

ह्यो वयं श्वश्रूश्वशुरयोर्गहमगच्छाम। पूर्वस्मादेव गमनाय भार्यापुत्रयोर्योजनासीत्। अहमप्यगच्छामीत्यहमवदम्। आ त्रिभ्यो वर्षेभ्यस्तयोर्गहमहन्नगच्छम्। कदाचित्तावत्रागच्छताम्। ह्यो मिलित्वा वयमरमामहे। ताभ्यां स्वादुभोजनं परिविष्टम्। तज्जग्ध्वा वयममोदामहे। ताभ्यां वयमेव निकस्थः कुटुम्बः। अस्मभ्यं तावेव। न्यूनातिन्यूं वर्षे द्विवारं मिलेम चेद्वरम्।

गुरुवार, 2 सितंबर 2021

पदोन्नतये कार्याणि

कार्यालये मम पदोन्नतये कर्तव्यानि कार्याणि वेगेन प्रचलन्ति। प्रायः कार्याणि मामकेन पर्यवेक्षकेण क्रियन्ताम्। स आस्थया कार्याणि निर्वहति। पदोन्नतिर्लभ्यतयुत नेति द्रक्ष्यते।

प्यानोपाठाः पुनरारभन्ते

ह्यः पुत्रः प्यानोवादनस्याग्रिमं स्तरं प्राविशत्। स्तरोऽयं परिश्रममपेक्षते। गतवर्षे पुत्रेण प्यानवभ्यासः कृतः परन्तु यावानावश्यकस्तावानेव। एतया नीत्या किञ्चिद्वादयितुं शक्यते परन्तु प्रचुरकौशलं तु न लभ्यते। तस्मै न्यूनतां विहायाधिकतयाभ्यासः करणीयः। स कुर्यादुत न वक्तुन्न शक्यते।

मंगलवार, 31 अगस्त 2021

वातानुकूलयन्त्राच्चिन्ताग्रस्तोऽस्मि

द्वाभ्यां मासाभ्यां पूर्वमुपरितनस्य स्तरस्य वातानुकूलयन्त्रं परिष्कारितम्। तदर्थं पञ्चसहस्ररुप्यकाणि व्ययितानि। सम्प्रति बहुघर्मवशान्निम्नस्तरस्य वातानुकूलयन्त्रं रात्रिन्दिवङ्कार्यङ्करोति। तद्भग्नं भवेदिति चिन्ता बाधते।

सोमवार, 30 अगस्त 2021

द्वे गीते

प्रपरह्योऽन्दर्जाले द्वे गीते लब्धे। विशेषतस्तयोर्वादनशैली। आ विंशतिवर्षेभ्य इमे गीते मह्यं रोचेते। कस्मिंश्चिद्दिनेऽमू वादयिष्यामीति चिन्तयामि स्म। अद्यत्वे तयोरभ्यासङ्करोमि। मासप्राये ते वादयितुं शक्ष्यामीत्यूहेऽहम्।

पुत्रस्य स्वसङ्गणकम्

विद्यालयेन दत्तं सङ्गणकं बृहत्फलकेन सह युज्यते। अतोऽद्यारभ्य पुत्रः स्वस्य सङ्गणकस्य प्रयोगङ्करिष्यति। अनेन दिनेऽहं मम सङ्गणकस्य प्रयोगकङ्कर्तुं शक्नोमि। पूर्वं पुत्र आदिनं मदीयस्य सङ्गणकस्य प्रयोगङ्करोति स्म। तस्मादहं तस्य प्रयोगङ्कर्तुन्न शक्नोमि स्म।

रविवार, 29 अगस्त 2021

विद्यालयात्सङ्गणकम्

गतवर्षे पुत्रो गृहादशिक्षत। आवर्षं स मम सङ्गणं प्रायुङ्क्त। यद्यपि तस्य विद्यालयः सङ्गणं ददाति तथापि वयं तन्नागृह्णीम यतो वयं नाजानीमहि आवर्षङ्गृहादेव पठिष्यते। अस्मिन्वर्षेऽपि पुत्रो गृहाच्छिक्षते। परन्तु वयं विद्यालयात्सङ्गणकमगृह्णीम। यदि तत्सङ्गणकं बृहत्फलकेन सह युज्येत तर्हि वरमन्यथा पुनर्मम सङ्गणकं प्रयोक्तव्यम्।

गुरुवार, 26 अगस्त 2021

नूतनपर्यवेक्षकश्चेक्रीयते

आ द्वाभ्यां मासाभ्यां नूतनवपर्यवेक्षकेण सह कार्यङ्करोमि। स सज्जनो भासते। मत्पदोन्नतयेऽपि स यतते। तस्य पर्यवेक्षकोऽपि सज्जनो भासते परन्तु स किञ्चिदधिकतया कार्यमपेक्षते। अतो मम पर्यवेक्षको यायत्यते। तस्य द्विषड्वर्षीयौ पुत्रौ वर्तेते। तेन सहानुभवामि।

रविवार, 22 अगस्त 2021

अष्टजनाः पञ्ज्यकुर्वत

आग्रिममासाद्गीतासोपानवर्गोऽनुवर्तयिष्यते। अष्टजनाः पञ्ज्यकुर्वत। विस्मितोऽहं। सामान्यतो जना अन्तिमद्वित्रिदिनेषु पञ्जीकुर्वते। प्राय इतोऽपि जनाः पञ्जीकुर्युः। मोदावहो विषयोऽयम्।

शनिवार, 21 अगस्त 2021

याननिरीक्षणम्

प्रतिवर्षं कारयानस्य निरीक्षणङ्कारणीयमिति सर्वकारेण विहीतम्। मम यानस्य चक्रमेकं जीर्णम्। तन्निरीक्षणन्नोत्तरिष्यतीति मया चिन्तितमासीत्। परन्तु दिष्ट्या तेन निरीक्षणमुत्तरितम्। नोत्तरेच्चेच्चक्रं परिवर्तनीयम्। परन्तु परिवर्तनन्न कारणीयमासीत्।

काष्ठवृतिर्निर्मास्यते

मम मम प्रतिवेशिनो गृहयोर्मध्ये स्थिता वृतिर्जीर्णा जाता। पतन्ती सा वृतिः परिष्करणीया। अहं मम प्रतिवेशी च निर्णयमकुर्वहि नूतनवृतिः स्थापनीयेति। सहस्ररुप्यकाणि व्ययित्वा सा निर्मास्यते। मया प्रतिवेशिनोभाभ्यां पञ्चशतमितव्ययो वोढव्यः।

सार्धैकवर्षात्परस्तात्

ह्यः सार्धैकवर्षात्परस्तात्कार्यलयमगच्छम्। नूतनपर्यवेक्षकेण मदीयस्य समूहस्य मेलनमायोजितमासीत्। तस्मै सर्वे जना आगच्छन्। अहमधिकसमयाय नातिष्ठासम्। अतोऽर्धघण्टां यावदेव स्थित्वा गृहमागच्छम्। कार्यालये दग्धविद्युद्दीपाः कोषाश्च स्वीक्रियन्ते। गृहे सङ्गृह्यमाणा बहवो विद्युद्दीपाः कोषाश्च तत्रास्थापयम्।

शनिवार, 14 अगस्त 2021

कृदन्तवर्गोऽवसितः

गतसप्ताहे कृदन्तवर्गोऽवसितः। मुख्यकृदन्तप्रत्ययानपाठयम्। छात्राः कृतज्ञतामदर्शयन्। १२-सितम्बरदिनाङ्कान्नूतनवर्ग आरप्स्यते। गीतासोपानमनुवर्तयिष्यते।

गुरुवार, 12 अगस्त 2021

पर्यवेक्षक आगच्छति

कार्यालये मम पर्यवेक्षकोऽस्मिन्सप्ताहेऽन्यस्मान्नगरान्मम नगरमागच्छति। अन्यच्च स मद्गणीयान्सर्वान्मिमिलषति। मम नगरे करोणाप्रकोपो वर्धते। तादृगवस्थायां मेलनन्न समीचीनम्। कुत्रापि बहिर्मिलेम चेत्कर्तुं शक्यते परन्तु स कार्यालये मिमिलिषति। तत्र वयं सर्वेऽकस्मिन्प्रकोष्ठे भविष्यामः। मम पुत्रेणेतोऽपि सूच्यौषधन्न प्राप्तं तर्हि कार्यालयेऽन्यान्मिलित्वाहं तस्मायपायञ्जनयितुं शक्नोमि। तन्मयि चिन्ताञ्जनयति।

अफ्घानिस्तानस्य दुर्दशा

अफ्घानिस्तानदेशे बाह्यसेनानां निर्गमनात्परं स्वल्पकालयेवोग्रवादिभिर्देशस्य बहूनि नगराणि प्रसभं विजितानि। तद्वेगं दृष्ट्वा विस्मितोऽहम्। विंशतिवर्षेभ्योऽमेरिकीसेना तस्मिन्देशे विद्यमानासीत्। तावत्सु वर्षेषु साफ्घानिस्तानसेनायै प्रशिक्षणमायुधानि च ददौ। कीदृशं प्रशिक्षणमासीद्येन मासायापि स्वदेशस्य रक्षाङ्कर्तुन्न शक्यते? कस्य दोषः? अमेरिकीसेनायाः, अफ्घानिस्तानसेनायाः, सर्वकारेण वा? न जानेऽहं परन्तु तद्देशीयानां दुर्दशां दृष्ट्वा शोचामि।

रविवार, 8 अगस्त 2021

चीनगाहकौ

ह्यो दूरदर्शने गाहकानामौलोम्पिक्स्पर्धामपश्याम। बहवो गाहका आसन्। तेषु द्वौ चीनगाहकावेकब्रिटिशगाहक उत्तमाः। अन्येषाङ्गाहकानां कौशलं तेषामपेक्षया न्यूनमासीत्। परन्तु त्रिषु गाहकेषु चीनगाहकयोः कौशलमनन्यमासीत्। ब्रिटिशगाहकस्तावतिशेतुन्नाशक्नोत्। टीकावक्ताराववदताञ्चीनगाहकौ परस्परं वसतः प्रशिक्षणं प्राप्नुतश्च। तयोर्गृहाद्दूरे। तावन्यत्किमपि न कुरुतः। तयोर्जीवनङ्गाहनमेव। एवं सति कस्तावतिशयीत?

ओलोम्पिक्क्रीडा अवसिताः

अद्यौलम्पिक्क्रीडा अवसिताः। गृहात्कार्यङ्कुर्वन्नस्मीत्यतोऽस्मिन्वारमधिकतया क्रीडा अपश्यम्। पुत्रस्यपि ग्रीष्मविराम आसीत्। भार्याया रुचिरप्यासीत्। क्रीडाः पश्यन्तो वयं सर्वेऽरमामहि।

शनिवार, 7 अगस्त 2021

अग्रिमे वर्षे गन्तव्यम्

कार्यालयं प्रत्यागमनाय मदीयया कार्यसंस्थया ७-सितम्बरदिनाङ्को विहित आसीत्। परन्तु करोणाप्रकोपः पुनर्वर्धते। पुत्रेणापि विद्यालयो गन्तव्य आसीत्। तस्य विद्यालयेनान्तर्जालेन पठनाय विकल्पो दत्त आसीत्। परन्तु यद्यावाभ्यां कार्यालयौ गन्तव्यौ तर्हि पुत्रो गृहे स्थित्वा कथं पठितुं शक्नुयात्। स गृहादेव पठेदेतस्मायहं मम प्रबन्धकमन्वरुणधं माङ्गृहादेव कार्यङ्करणायानुमतिर्देयेति। सोऽददात्। परन्तु तस्मिन्नेव दिने कार्यालेण पुनरागमनाय तिथिर्व्याक्षिप्ता। इदानीं मया जनवरीमासे कार्यालयो गन्तव्यः। अतः पुत्रोऽपि गृहादेव पठितुं शक्नोति।

कार्यन्न चिकीर्षति

पुत्रस्य ग्रीष्मविरामो वर्तते। आ दिनं दूरदर्शनन्न पश्येदित्यस्मात्पुत्रेण तस्य गृहकार्यपुस्तकस्य चत्वारः पुटाः करणीया इत्यावाभ्यां विहितम्। तदतिरिच्य प्रतिदिनं प्यानोवादनाभ्यासोऽपि करणीय इत्यपि निर्दिष्टम्। उभाभ्याङ्कार्याभ्यामाहत्य घण्टामात्रमावश्यकम्। तथापि पुत्रस्ते कार्ये कर्तुन्न चिकीर्षति। गतग्रीष्मविरामे स इतोऽप्यधिककार्यङ्करोति स्म। स न विरुणद्धि स्म। परन्तु वर्षेऽस्मिन्स विरुणद्धिु। मम विरामोऽस्ति तर्हि मया किमर्थङ्कार्यङ्कर्तव्यमिति विद्रोहङ्करोति। स वर्धते। अतस्तस्य विवादशक्तिरपि वर्धते। आगामिषु वर्षेषु स आवाभ्यां विहितन्न करिष्यति। परन्तु सर्वेषां बालकानां तादृशो व्यवहारो वर्ततयिति मत्वाहञ्चिन्ताग्रस्तो नास्मि।

रविवार, 1 अगस्त 2021

पुत्रेण गीतङ्कारितम्

गीतवादनाभ्यासङ्करोमि। पुत्राय गीतमेकं रोचततेतमाम्। मह्यमाधिक्येन न रोचते स्म। पुत्रः पुनः पुनस्तद्गीतं श्रावयति स्म। गच्छता कालेन तद्गीतं मह्यमप्यरोचत। बहुभ्यो दिनेभ्यस्तद्गीतस्याभ्यासङ्कुर्वन्नस्मि। ह्यो गीतं पूर्णतया वादितम्। इदानीमदो गीतं श्रुत्वा वादयित्वा चाहं रमे। पुत्रवशादेव।

शनिवार, 31 जुलाई 2021

सप्ततन्त्रीं वादयामि

आ सप्ताहात्सप्ततन्त्रीं वादयामि। रमे। सप्ततन्न्रीं वादयित्वा षट्तन्त्री सरलं भासते।

रविवार, 25 जुलाई 2021

कृतज्ञास्तेऽहमपि

ह्यो मत्संस्कृतवर्गीयांश्छात्रानमिलम्। गुरुपूर्णिमावसरे ते मां मिमीलिषाम्बभूवुः। ते मह्यं पुष्पान्युपायनानि चाददुः। स्वादिष्टभोजनमप्यभोजयन्त। ते कृतज्ञतां प्राकटयन्। अहमपि तेभ्य आदारसत्कारं लब्ध्वा धन्योऽस्मि। संस्कृतभाषा विश्वव्यापिनी भूयात्।

शुक्रवार, 23 जुलाई 2021

सप्ततन्त्र्यागमिष्यति

अद्य सप्ततन्त्र्यागमिष्यति। यानि गीतान्यहं षट्तन्त्रिणि वादयितुन्न शक्नोमि तानि वादयितुं शक्ष्यामि। पुत्रोऽप्युत्सहते।

शिष्या मिमेलिषन्ति

गुरुपूर्णिमावसरे शिष्या मां मिमेलिषन्ति। अहमपि तान्मिमेलिषामि परन्तु करोनायाः प्रकोपो वर्धते। तद्भयादुद्याने मुखावरणं धृत्वा मेलिष्याम इति निर्णयः कृतः। प्रायः शनिवासरे मेलितास्मः।

रविवार, 11 जुलाई 2021

समयः कुत्र देयः

सन्दर्शनाय प्रभूतसन्नाहा आवश्यकाः। तदर्थं प्राचुर्येण समयो निवेशनीयः। उत्तमोद्योगं लब्ध्वा प्रभूतधनमपि प्राप्यते। तस्य संरक्षणं वर्धनञ्चापि महत्पूर्णम्। तन्न क्रियते चेदुत्तमोद्योगस्य को लाभः? परन्तु धनस्य वर्धनाय संरक्षणायापि बहूनि कार्याणि कर्तव्यानि। तेषाङ्कृतेऽपि बहुसमय आवश्यकः। तर्हि काचिद्विप्रतिपत्तिराविर्भवति। अनयोरेकस्मिन्समये दीयते चेदन्यस्मै समयो नावशिष्यते। क उपायः? उभयोरेक एव करणीय इति नास्ति। जीवनस्य बहुषु प्रसङ्गेषु तुल्यतावश्यकी। तेषु प्रसङ्गेषु विषयोऽयमन्यतमः। अतो यावच्छक्यमुभाभ्यां यतनीयम्। परन्तु समयाभावो भवेच्चेद्धनसंरक्षणं वर्धनञ्च वरम्। यदि लब्धं धनं संरक्षितुन्न शक्येत तर्ह्यधिकधनर्जनाय किं प्रयोजनम्?

क्तप्रत्ययाभ्यासः

क्तप्रत्ययस्य पाठनीयान्युदाहरणानि -

कृतेभ्यः कार्येभ्यः तेन शुल्कं न दत्तम्।

पठितेषु पुस्तकेषु एतत् उत्तमम्।

उत्सवे बहूनि गीतानि गीतानि।

सा खादितेन भोजनेन अस्वस्था अभवत्।

क्रीता पत्रिका पठिता।


शनिवार, 10 जुलाई 2021

व्यस्तो भवितास्मि

आगामिषु त्रिषु मासेषु कार्यालयेऽधिककार्यं भविता। तेन व्यस्तो भवितास्मि। यावच्छक्यं दिने घण्टाया अधिकार्यन्न कुर्याम्।

नूतनपर्यङ्कः

मम प्रकोष्ठे नूतनपर्यङ्कमस्थापयिष्वहि। अयसा निर्मितः पूर्वतनः पर्यङ्को नादङ्करोति स्म। तस्य स्थैर्यमपि सम्यङ्नासीत्। अतः काष्ठपर्यङ्कमक्रीणीवहि।

निष्ठा पाठिता

छात्रान्निष्ठा पाठिता। निष्ठायां क्तवतुक्तप्रत्यौ स्तः। श्वोऽपि क्तप्रत्ययाभ्यासङ्कारयिष्यामि।

चत्वारो बहिः

अद्य प्रातःकाले वर्षापप्तत्। वर्षां पश्यन्तः शृण्वन्तश्च चत्वारो वयं बहिः प्रातराशमकृष्महि। बहुभ्यो दिनेभ्यः परं वयं सर्वे साकं प्रातराशमकृष्महि। सामान्यतो भार्या कल्यं धावनाय गच्छति। पुत्रो विलम्बेन जागर्ति। अहं प्रातस्तमाञ्जागर्मीत्यतः शीघ्रं प्रातराशं भुञ्जे। वर्षावशाद्भार्या धावनाय नागमत्। बहिरुपविश्यावां समभाषिष्वहि। अनन्तरं पुत्र आगमत्। तदनन्तरं वयं हेम्स्टरमप्यानैष्म। ततःपरं प्रातराशमभौक्ष्म।

सोमवार, 5 जुलाई 2021

मित्रमन्यं राज्यङ्गन्ता

मम भार्याया मित्रमेकं तस्याः पतिश्च नगरमिदं त्यक्त्वान्यं राज्यङ्गन्तारौ। एकस्मिन्नेव वर्षे पतिरंशापणे प्रभूतधनमर्जयाञ्चक्रे। तेन धनेन स समुद्रं निकषा बृहद्भूमिञ्चिक्रिये। अस्मिन्मासे सकुटुम्बं स तत्र गन्ता। जना रात्रिन्दिवं प्रयत्यापि तादृशं धनं सङ्ग्रहीतुन्न शक्नुवन्ति। शक्नुवन्ति चेत्तदर्थं बहवो वर्षा आवश्यकाः। तेभ्यो हर्षामि।

सम्पत्कुमारो दिवङ्गतः

सुधर्मेत्यनन्या संस्कृतसमाचारपत्रिकास्ति। केभ्यश्चिद्वर्षेभ्यः पूर्वमहं तां वार्तापत्रिकां प्रतदिनं पठामि स्म। तस्यां पत्रिकायामेवाहमैदम्प्राथम्येन लिट्लकारस्य प्रयोगमपश्यम्। परन्तु पत्रिकाया जालपुटः सम्यक्तया कार्यन्न करोति स्म। तेन पत्रिकापठनञ्च्युतम्। तस्यै पत्रिकायै संरक्षणायाहं धनदानमप्यकरवम्। तस्याः पत्रिकायाः प्रकाशकः सम्पत्कुमार आसीत्। खेदेन सूचयामि सम्पत्कुमारो दिवङ्गतः। तेन संस्कृतायोपकृतम्। सुधर्मापत्रिकासंस्कृतञ्च रक्ष्यास्ताम्।

रविवार, 4 जुलाई 2021

भ्रात्रयुद्योगः

भ्राता तस्योद्योगं तत्याजेत्यहं पूर्वमसूचयम्। गतसप्ताहे भ्रात्रा मातृपितृभ्यां सह समभाषे। त्रयाणामपेक्षास्ति कथञ्चिदहङ्केनचित्सह सम्भाष्य तं नूतनोद्योगं प्रापयेयम्। आ जीवनं भ्राता वित्तकोषे कार्यञ्चक्रे। स तन्त्रांशं न जानाति। कथमहङ्कमप्युक्त्वा तमुद्योगं दापयेयम्? सहोद्योगिनङ्किं वदेयम्? मम भ्रातास्ति यस्तन्त्रांशं न जानाति तथापि तमुद्योगं देहि? अथवासत्यं वदानि किम्? मम भ्राता तन्त्रांशञ्जानाति। तस्मायुुद्योगं देहि?

शनिवार, 3 जुलाई 2021

नासिकायां शुक्लबिन्दुः

ह्यो हेम्स्टस्य नासिकायां शुक्लबिन्दुरेको दृष्टः। कथङ्किमर्थञ्चागत इति नाजानीमहि। स रोगं वार्ध्यक्यं प्राप्नोति वेति चिन्ताग्रस्तो भूत्वान्तर्जालेऽपश्यम्। चिन्ताजनकविषयो नास्तीति ज्ञातम्। हेम्स्टरः पञ्जरतन्त्रीषु दशति। अनेन नासाकेशा लुप्यन्ते।

पदोन्नत्यै यत्यताम्

मदीयामुद्योगसंस्थायां पदोन्नत्यै सर्वैर्यत्यतामित्यपेक्षास्ति। अहं ममोद्योगात्सन्तुष्टोऽस्मि। यद्यपि पदोन्नत्याधिकवेतनं लप्स्ये तथापि मम तीव्रेच्छा नास्ति पदोन्नत्यै। उन्नतपदे बहुषु मेलनेषु गन्तव्यम्। समयाभावोऽधिकदायित्वञ्च वर्तेते। तन्मह्यन्न रोचते। तथाप्यपेक्षास्तीत्यतस्तदर्थं यते। नूतनपर्यवेक्षक उत्साहेन मम पदोन्नत्यै कर्तव्यानि निर्वहति। केभ्यश्चिन्मासेभ्यः परं ज्ञास्यते पदोन्नतिः प्राप्ता वा न। प्रथमे प्रयासेऽस्यां संस्थायां पदोन्नतिर्दुर्लभ्यतयिति श्रूयते।

गुरुवार, 1 जुलाई 2021

ईर्ष्यामि?

आ षड्भ्यो मासेभ्य उद्योगसन्दर्शनसन्नाहाय प्रायायत्ये। अद्यत्वे सन्दर्शनेषु कठिनाः प्रश्नाः पृच्छ्यन्ते। षण्मासेभ्योऽभ्यासङ्कृत्वापि सज्जो नास्मीति भावयामि। मम मित्रमेकं त्रिभ्यो मासेभ्यः सन्नाहङ्कृत्वोत्तममुद्योगमलभत। गततिसृषु रात्रिषु विषयेऽस्मिन्नेव चिन्तयामि। मित्रायेर्ष्यामि वा? स्यान्नाम। तेन सह समभाषे। कीदृशाः प्रश्नाः पृष्टा इत्यहं तमपृच्छम्। ये प्रश्नाः पृष्टाः प्रत्येकप्रश्नस्य समाधानं सन्दर्शने स विंशतिनिमेषेषु ददौ। तादृशङ्कौशलं मयि नास्ति। प्रायः स मद्बुद्धिमत्तरः। सन्दर्शनाभ्यास अनुवर्तनीयः।

रविवार, 27 जून 2021

हेम्स्टरो विद्रुतः पुनर्लब्धः

अद्य कल्यमुत्थाय सङ्गणके कार्यङ्कुर्वन्नासम्। भार्या शयनप्रकोष्ठाद्बहिरागत्य मामुपसर्प्याप्राक्षीद्धेम्स्टरः कुत्रेति। अहं तां ससम्भ्रममद्राक्षम्। सावोचद्धेम्स्टरः पञ्जरे नास्ति कन्दुकेऽपि नास्ति पञ्जरस्य द्वारमप्यपावृत इति। क्षणाभ्यान्तरयावामवागमाव स पञ्जराद्विद्रुतः। पञ्जरद्वारस्यार्गलं सम्यङ्नास्ति। बहुभ्यो दिनेभ्यो वयं नक्तमर्गलङ्कीलयित्वा द्वारं तन्त्र्या बध्नीमः। परन्तु दिने न बध्नीमः। प्रातःकाले मया तन्त्र्यबद्धा कृतासीत्। तदनन्तरं स द्वारमुद्घाट्य विद्रुतः। आवाङ्गृहे तस्यान्वेषणमकुर्वहि। पाकशालायां तमद्राक्ष्व। कथञ्चित्कन्दुके स पुनर्गमित आवाभ्याम्। इदानीमारभ्य पञ्जरद्वारं तन्त्र्या सर्वदा बन्ध्नीयम्।

शनिवार, 26 जून 2021

गिटारापणमगच्छाव

सप्ततन्त्रिगिटारयन्त्रञ्चिक्रीषामीति पूर्वमसूचयम्। ह्योऽहं पुत्रश्च गिटारापणमगच्छाव। बहुषु गिटारयन्त्रेषु केवलमेकमेव सप्ततन्त्रियन्त्रमासीत्। अन्तर्जालापणेषु बहवो विकल्पा लभ्यन्ते। अन्तर्जालादेव क्रेष्यामि।

मंगलवार, 22 जून 2021

प्रबन्धकोऽवकाशङ्ग्रहीता

केभ्यश्चिद्दिनेभ्यः पूर्वं मदीयाय दलाय संस्थया नूतनप्रबन्धको नियुक्तः। ह्यः स मामसूचयत्तेन मासं यावदवकाशो ग्रह्णीयः। तस्य स्वास्थ्यविषये तेन काचिद्वार्ता ज्ञाता। शस्त्रचिकित्सावश्यकी। षड्जुलैदिनाङ्के चिकित्सा भविता। तदनन्तरं त्रिचतुस्सप्ताहं यावदकाशो ग्रह्णीयः। स शीघ्रं निरामयं लप्सीष्ट।

सोमवार, 21 जून 2021

भार्यापुत्रयोर्विहारः

यथारीति भार्यापुत्रौ विहारायागच्छताम्। पञ्चशद्मैलदूरे स्थितोद्याने तौ मम भार्यायाः पूर्वसहोद्योगिनीं मिमिलतुः। सहोद्योगिन्याः पतिरप्याजगाम। मया संस्कृतवर्गः करणीय आसीदतोऽहङ्गन्तुन्नाशक्नवम्। विहारेण तौ रेमाते।

रविवार, 20 जून 2021

गिटारयन्त्रापणङ्गन्तव्यम्

एतावत्पर्यन्तमहं षट्तन्त्रीयुक्तगिटारयन्त्रं वादयन्नासम्। परन्तु येषु गीतेषु मम रुचिरस्ति तेषु बहूनि गीतानि सप्ततन्त्रीगिटारयन्त्रे वाद्यन्ते। मयापि सप्ततन्त्रीयन्त्रङ्क्रेतव्यमिति चिन्तयामि। तस्मै गिटारयन्त्रापणङ्गन्तव्यम्।

शनिवार, 19 जून 2021

भार्यापुत्रौ गन्तारौ

भार्यायाः कार्यालयस्तस्याः सहोद्योगिनीं निर्गमयाञ्चकार। तां भार्या मिमिलिषति। श्वो भार्यापुत्रौ विहाराय गन्तारौ। उद्याने सहोद्योगिनीं तस्याः पतिञ्च मेलितारौ।

शुक्रवार, 18 जून 2021

यल्लिखितं तत्पठनीयम्

कृदन्तरूपवर्गमारभे। पञ्जीकरणपत्रे सर्वा सूचना स्पष्टतया लिखिता। तथापि जना न पठन्ति। एकेन छात्रेण पञ्जीकृतं परन्तु शुल्कन्न दत्तम्। पञ्जीकरणपत्रे भागविशेषः शुल्कायैव। कथं स तन्नापश्यदहमूहितुन्न शक्नोमि। एका छात्रा पञ्जीकृतवती परन्तु वर्गः कदारभते सा पृच्छति। प्रथमवर्गे नागच्छत्। वर्गः कदारभ्यत मया न ज्ञातमित्यवदत्। पञ्जीकरणपत्रे सुस्पष्टं वर्गस्य दिनाङ्कसमयौ लिखितौ। कथं तया न दृष्टं मां विचारविमूढङ्कारयति। एतादृशा अनवधानवन्तो जनाः कथं संस्कृतकौशलं प्राप्नुयुः?

हेमस्टराय क्रीडाङ्गनङ्क्रीतम्

हेमस्टराय क्रीडाङ्गनङ्क्रीतम्। तस्मिन्क्रीडकान्यपि स्थापितानि। परन्तु प्रायशो हेम्स्टरस्तस्मात्क्रीडाङ्गनाद्बहिर्गन्तुं प्रयतते। अस्मात्स्वल्पकालायैव तङ्क्रीडाङ्गने स्थापयितुं शक्नुमः।

मंगलवार, 15 जून 2021

हेम्स्टरः कन्दुके नागच्छति

आ द्वाभ्यां दिनाभ्यां हेम्स्टरः कन्दुके नागच्छति। पूर्वं स तस्मिन् रमते स्म। न जाने स किमर्थङ्कन्दुके न प्रविशति।

रविवार, 13 जून 2021

हेम्स्टरः कन्दुके रमते

प्रतिदिनं हेम्सटरङ्कन्दुके स्थापयामः। स तस्मिन्धावति। गृहस्य कोणे कोणे भ्रमति। तस्मात्स व्यायामं प्राप्नोति। कन्दुके स रमतयिति भासते।

कृदन्तरूपवर्ग आरभते

अद्यारभ्य कृदन्तरूपाणि पाठयामि। गतसत्रस्यान्तिमवर्गे बहवो जना असूचयँस्ते कृदन्तरूपाणि शिशिक्षिषन्ते। कृदन्तरूपाणि ममापि प्रियविषयः। वर्गाय सप्तजनाः पञ्जीकृतवन्तः।

शनिवार, 12 जून 2021

कार्यालयङ्गन्तव्यम्

परह्यो मम कार्यालयोऽसूचयद्यत्सप्टम्बरमासादारभ्य कार्यालयमागन्तव्यम्। गृहादेव कार्यङ्कुर्यामिति ममाद्यता। परन्तु कार्यालयः सप्ताहे द्वयोरदिनयोर्गृहात्कार्यङ्करणायानुमतिमादात्। तस्माद्धहर्षितोऽस्मि।

शुक्रवार, 11 जून 2021

आदिनं शेते

क्रीतो हेम्स्टरो नैशजन्तुः। स आदिनं शेते। रात्रौ जागर्ति। अतो दिने तेन सह विरलतयैव व्यवहरामः।

बुधवार, 9 जून 2021

सञ्चालकेन सह समभाषे

ह्योऽस्माकं संस्कृतकेन्द्रस्य सञ्चालकेन सह समभाषे। अहङ्ग्रीष्मकाले कृदन्तरूपाणि पाठयिष्यामि। स शरदर्तौ वर्त्स्यामानान्वर्गान्कल्पयति। सोऽवदद्भवता शरदर्तावपि वर्गः पाठयिष्यते। श्रान्तो मा भूरिति। आवश्यकतास्ति चेद्ग्रीष्मकाले वर्गं मा पाठय। मह्यं पाठनं रोचते। अनेन संस्कृतसम्भाषणायावसरो लभ्यतयित्यहं तमसूचयम्।

मंगलवार, 8 जून 2021

'स्टोऽवे'

'स्टोऽवे' इति चलचित्रमवीक्षे। मनोरञ्जकञ्चलचित्रम्। पृथ्व्या मङ्गलग्रहं गच्छन्तस्त्रयो जना विदन्ति तेषां यानेऽन्यजनोऽप्यस्ति। स कश्चन कर्मकरः। यानस्य प्राणवायुयन्त्रं भग्नञ्जातम्। केवलं द्वाभ्याञ्जनाभ्यां प्राणवायुरवशिष्टा। तदा ते किङ्कुर्युरिति दर्शितम्। चलचित्रस्य केचनांशा निन्दनार्हाः परन्त्वाहत्य सम्यक्चलचित्रमस्ति।

रविवार, 6 जून 2021

हेम्स्टरः कन्दुके

हेम्स्टरस्य पञ्जरं प्रतिसप्ताहं मार्जनीयम्। मलमूत्रपर्युषितभोजनादिन्यपसारणीयानि। मार्जनकाले हेम्स्टरः कुत्रापि स्थापनीयम्। तत्कृते कन्दुकमेकङ्क्रीतम्। तत्कन्दुकं हेम्स्टरायैव। तं तस्मिन्कन्दुकेऽस्थापयाम। स तस्मिन्कन्दुके गृहे भ्रमितुं शक्नोति। कन्दुकाद्बहिरपि द्रष्टुं शक्नोति यतः कन्दुकं पारदर्शि। अनेन तस्मै वातावरणं परिवर्तते। आजीवनं स पञ्जरे तिष्ठेदिति भावना नागच्छेत्। सम्प्रति वयं तं स्प्रष्टुं शक्नुमः। गच्छता कालेन सोऽस्माकं हस्तेष्वागच्छेदित्याशास्ति।

बुधवार, 2 जून 2021

नूतननियन्त्रकं स्थापितम्

ह्य आवां नूतनवातानुकूलयन्त्रनियन्त्रकमस्थापयाव। शुभवार्तेयं तेन नियन्त्रकेन यन्त्रं पुनः सम्यक्तया कार्यङ्करोति। उपरितने स्तरे पुनश्शीतवायुर्लभ्यते।

मंगलवार, 1 जून 2021

यदि हेम्स्टरो वदेत्

क्रीतस्य हेम्स्टरस्य जीवनङ्कथमिति चिन्तयामि। वयं तस्मायुत्तमजीवनं दानाय प्रयतामहे। तेन भोजनन्न सङ्ग्रह्यतां यतोऽस्माभिर्दीयते। कोऽपि तं भक्षयिष्यतीति भीतिरपि न तस्मै। तद्दृष्ट्या तस्य जीवनमुत्तमम्। परन्तु स आजीवनं पञ्जरे स्थास्यति। अहञ्जानेऽहङ्कदापि स्वातन्त्र्यं त्यक्त्वा निश्शुल्कभोजनं सुरक्षाञ्च ग्रहीतुन्नेषिष्यामि। तर्हि तं पिपृच्छिषामि यदि स स्वातन्त्र्यमिच्छति पञ्जरे सुरक्षितभोजनान्वितजीवनं वा?

सोमवार, 31 मई 2021

अशनेर्यन्त्रं विकृतम्

परह्यः साशनिं वृष्टिरपतत्। अशनेर्वशाद्वातानुकूलयन्त्रस्य नियन्त्रकं विकृतमभवत्। यद्यन्त्रं सप्ताहपूर्वं स्थापितं तस्य नियन्त्रकम्! अतः सम्प्रति पञ्चसहस्राणि रुप्यकाणि व्ययित्वापि तद्यन्त्रं प्रयोक्तुन्न शक्नुमः। अद्य नूतननियन्त्रकमागच्छेत्। तदारोप्य प्रायः नूतनयन्त्रं चालयितुं शक्येत।

शुक्रवार, 28 मई 2021

नूतनसङ्गणकम्

कार्यालयान्नूतनसङ्गणकं प्राप्तम्। पूर्वतनसङ्गणकं पञ्चवर्षीयमासीत्। तस्य पालने क्लेशो वर्धमान आसीत्। अतो नूतनसङ्गणकमयाचे। तल्लब्ध्वा मोदे।

जानुवेदनया पीड्ये

बहुभ्यो वर्षेभ्यो मया ज्ञातमासीन्मम दक्षिणस्थे जानुनि सर्वं सम्यङ्नास्ति। कदाचित्कदाचित्पीडानुभूयते तस्मिन्। गतेषु मासेषु पीडा वर्धमाना जाता। पूर्वमहं द्विचक्रिकाचलन्यन्त्रे व्यायामङ्करोमि स्म। परन्तु ते जानुनोर्निपीडयतः। अस्मात्तयोः प्रयोगस्त्यक्तः। अद्य प्रातःकाले किमप्यकुर्वत्यपि जानुवेदना बाधते। आगामिषु मासेषु जानु चिकित्सकं दर्शयानि।

पुत्रस्य ग्रीष्मावकाश आरभते

अद्य पुत्रस्य ग्रीष्मावकाश आरभते। स हर्षितः। ह्यस्तस्य विद्यालयङ्गत्वाध्यापिकायाः कानिचन वस्तून्यगृह्णीवहि। वर्षे प्रथमवारं स तस्याध्यापिकामभिमुखमपश्यत्। अन्यथा तु सर्वदा सङ्गणकेनैव सा दृष्टासीत्।

मंगलवार, 25 मई 2021

संस्कृतवर्गोऽवसितः

वसन्तर्तुसंस्कृतवर्गोऽवसितः। सामान्यतो ग्रीष्मकाले वर्गो न भवति। परन्तु छात्रा निवेदनमकुर्वत कृदन्तरूपाणि विषये वर्गः पाठ्यताम्। भवतु नाम। मम रुचिः सम्भाषणे पाठने च सर्वदा वर्तते। वर्गङ्करिष्यामि।

मल्लयुद्धाय गन्तास्वः

मल्लयुद्धं पुत्राय रोचतेतमाम्। वर्षं यावत्करोनावशात्सर्वं पिहितमासीत्। सम्प्रति मल्लयोद्धारो नगरन्नगरङ्गत्वा युद्धानि प्रदर्शयन्ति। तेऽस्माकन्नगरे तु न परन्तु निकषागमिष्यन्ति। चिटिके क्रीत्वा पुत्रं नेतास्मीति चिन्तयामि। चिटिकाः श्वः प्रातःकाले लब्धुं शक्यन्ते। क्रेताहे।

रविवार, 23 मई 2021

हेम्स्टरः क्रीतः

ह्यः पुत्रस्य जन्मदिवस आसीत्। तस्मै हेम्स्टर इति मूषकविशेषा रोचतेतमाम्। तस्मै हेम्स्टरः क्रापितः। केवलं पुत्रो नावामपि हर्षितौ। कुटुम्बे नूतनसदस्य आगतः। अस्माकं दायित्वमस्ति तस्य लघुजीवनं हर्षेण परिपूर्णं भवेत्। तदर्थं स जन्तुः किङ्करोति, किङ्खादतीति पठामि। स सुखीजीवनं लप्सीष्ट।

शनिवार, 22 मई 2021

वातानुकूलयन्त्रं स्थापितम्

वातानुकूलयन्त्रं स्थापितम्। अद्यत्वे बहुघर्मो नास्ति। आगामिषु दिनेषु समधिकघर्मो भविष्यति। द्रक्ष्यामि यन्त्रङ्कियच्छैत्यं दास्यति।

शुक्रवार, 21 मई 2021

वातानुकूलयन्त्रं स्थाप्यते

अद्य वातानुकूलयन्त्रं स्थाप्यते। बहुभ्यो वर्षेभ्य उपरिस्तरस्य वातानुकूलयन्त्रं सम्यक्तया न कार्यङ्करोति। उपरिस्तरं वयङ्केवलं व्यायामायोपयुञ्ज्महे। ग्रीष्मकालयुपरिभागे महदातपो वर्तते। अतो नूतनयन्त्रं स्थाप्यतेऽस्माभिर्येनातापे व्यायामन्न करणीयम्।

गुरुवार, 20 मई 2021

भार्या क्षुब्धा

पुत्रजन्मदिवसे भार्या तस्या मातृपितरावकुणयत्। तौ कमपि व्याजङ्कृत्वा नागन्तारौ। अमुना सा क्षुब्धा। अहं तया सहानुभवामि। लघुकुटुम्बोऽस्माकम्। यदि वयं परस्परन्न मिलेम तर्हि जीवने सन्तोषो हीयते। अन्यच्च तयोर्व्याजो व्याज एव। न किमपि विशेषकारणम्। यदि तावगच्छेतां तर्हि पुत्रस्यापि हर्षाय। तस्य सन्तोषविषये तु चिन्तनीयं ताभ्यां ननु?

भार्याया अवकाशः

शनिवासरे पुत्रस्य जन्मदिवसः। गुरुशुक्रवासरयोर्भार्या कार्यालयाद्वकाशङ्गृह्णीते। सा गृहे स्थित्वा जन्मदिवसाय पक्वानि पक्ष्यति।

बुधवार, 19 मई 2021

अर्धदिनावकाशः

ह्योऽर्धदिनावकाशमगृह्णि। गतसप्ताहे समधिककार्यमासीत्। तदवसितम्। तस्मात्।

मंगलवार, 18 मई 2021

नूतनप्रबन्धक आगन्ता

सप्तजूनदिनाङ्के नूतनप्रबन्धक आगन्ता। अस्माकं संस्थायां स नूतनकार्यकर्ता। तन्मयि चिन्ताञ्जनयति। यतः स नूतनोऽतः स गृहात्कार्यङ्करणाय उत्सुको न भवेदिति चिन्तयामि। नूतनकार्यकर्तृभिस्तेषाङ्कौशलं प्रमाणीयम्। दलसदस्याः कथङ्कार्यङ्कुर्वन्तीति नूतनप्रबधन्केन निरीक्षणीयम्। तस्मै स सर्वान्दलसदस्यान्कार्यालयमाह्वातेति मम मतिः। गृहात्कार्यं मह्यं रोचते। समयस्य सदुपयोगः शक्यते।

सोमवार, 17 मई 2021

मातापितरौ चिन्ताग्रस्तौ तिष्ठतः

मातुः करोनास्थितिः स्थिरा जाता। इयमुत्तमां वार्तां ज्ञात्वापि मातापितरौ चिन्ताग्रस्तौ तिष्ठतः। तयोर्मानसिकप्रवृत्तिरेव चिन्तामामन्त्रयति। यङ्किमपि विषयमधीकृत्य तौ चिन्तयतः। विशेषतो मम पिता। यदा कदापि ताभ्यां सह सम्भाषे तौ वदतोऽहङ्कृषो भवन्नस्मि। पदोन्नतेर्विषये तौ पृच्छतः। किमर्थमेतावद्भ्यो वर्षेभ्यः परस्तात्पदोन्नतिर्न प्राप्यतयति तौ चिन्तां प्रकटयतः। निवृत्तेः परं तौ किमपि कार्यन्न कुरुतः। गृहे स्थित्वा केवलं दूरदर्शनं पश्यतः। एकाकितानुभवतः। किमपि नूतनकौशलं साधयितुन्नेच्छतः। पुस्तकन्न पठतः। कुत्रापि न गच्छतः। गच्छेताङ्कथम्? कारयानञ्चालयितुन्न शक्नुतः। आजीवनं मम पिता न केवलङ्कारयानं परन्तु द्विचक्रिकामपि चालयितुन्नाशक्नोत्। तौ मम मद्भ्रातुश्च विषये चिन्तामनुभवतः। अहं तावसूचयमावयोर्विषये चिन्ता न करणीया। स्वयमेव विषये चिन्ताङ्कुरुतम्। जगति प्रत्येकमानवेन स्वस्य जीवनसार्थका स्वयमेवान्वेषणीया साधनीया च। यो मानवः स्वयस्य सन्तोषोऽन्येष्वाधारीकुर्यात्स सन्तोषेण जीवनं यापयितुं न शक्नुयात्।

वृष्टिरपतत्

ह्यो वृष्टिरपतत्। बहुभ्यो घण्टाभ्यो वयं पृष्ठोद्यानयुपविश्यानन्दमन्वभवाम भोजनञ्चाकुर्महि।

रविवार, 16 मई 2021

पृष्ठोद्याने तृणबीजानि

पृष्ठोद्याने केषुचित्स्थानेषु तृणानि पूर्णतयापगतानि। तस्मान्न केवलं मृत्तिका दृश्यते परन्तु तस्या ह्रासोऽपि भवति। कतिपयदिनेभ्यः पूर्वं भार्या तेषु स्थानेषु तृणबीजान्यारोपितवती। इदानीं नूतनतृणान्युद्भवन्ति। तस्मात्सौन्दर्यं वर्धेत मृत्तिकाया ह्रासो विरमेदित्याशास्वहे।

मातृपितृभ्यां सह समभाषामहि

ह्यो मातृपितृभ्यां सह समभाषामहि। तौ स्वस्थौ। मोदावहो विषयोऽयम्। तयोर्देशे करोनायाः प्रचण्डपीडा वर्तते। तौ करोनौषधमलभतामित्यस्माच्चिन्ता किञ्चिन्न्यूना जाता।

बुधवार, 12 मई 2021

अन्तिमवर्गः

त्रयस्त्रिंशन्मई दिनाङ्केऽन्तिमसंस्कृतवर्गो भविता। ग्रीष्मकाले बहवो जनाः प्रवासेभ्यो गच्छन्त्यतो यद्यप्यहं पिपाठयिषामि तथापि जना नागच्छेयुरिति मत्यावकाशं ददामि। मह्यं तु संस्कृतं रोचतेतमाम्। वर्गे संस्कृतसम्भाषणायावसरः प्राप्यते। अतोऽहं सर्वदा संस्कृतं पिपाठयिषामि।

द्वितीयौषधमलभे

ह्यः करोनाया द्वितीयौषधमलभे। मया न ज्ञातमासीद्यद्वितीयौषधं लब्ध्वा ज्वरपीडानुभूयते। इदानीं त्वहं स्वस्थोऽस्मि। परन्तु बहवो जना द्वित्रिदेनभ्यो ज्वरपीडामनुभवन्ति। द्रक्ष्यामि यद्यहमप्यनुभवामि।

सोमवार, 10 मई 2021

पत्रिकामपठिषम्

अद्य प्रातःकाले बहिः शीतवायुरवाक्षीत्। पृष्ठोद्यानयुपविश्य काफीपेयं पिबन्पत्रिकामपठिषम्। पुत्रो गृहस्यान्तर्विद्यालयवर्गं पर्युपासिष्ट।

रविवार, 9 मई 2021

श्वोऽवकाशः

कार्यालयाच्छ्वोऽवकाशङ्गृह्णामि। नूतनप्रकल्प आरभे। तस्मिन्निदानीङ्कश्चन विलम्बः। गच्छता कालेन वेग आगच्छेत्। इदानीमवकाशावसरोऽस्ति चेद्ग्रहणीयः। कालान्तरं पुनर्लभ्यते वा न वक्तुं न शक्यते।

मातृदिवसे बहिस्तः प्रातराशः

मातृदिवसे प्रास्तमामुत्थाय प्रातराशमानैषम्। भार्यापुत्रावहर्षिष्टाम्। पुत्रो मात्रेऽभिनन्दनपत्रं रचयित्वादात्।

शनिवार, 8 मई 2021

मम पर्यवेक्षको गन्ता

आगामी सप्ताहो मम पर्यवेक्षकस्य मदीये दलेऽन्तिमसप्ताहो भविता। सोऽन्यस्मिन्दले गच्छति।

मातुः स्वास्थ्यं स्थिरम्

करोनापीडिताया मातुः स्वास्थ्यं स्थिरं वर्तते। आरोग्यङ्किञ्चित्समीचीनमभवत्। उत्तमा वार्तास्ति तस्या रोगो न वर्धते। स्थिरोऽस्ति। सा चिकित्सकेन दत्तमौषधं सेवते। अपि च सा प्रतिरोगौषधं ग्रहीतवती। तस्मादपि रोगो नियन्त्रणे वर्तते।

रविवार, 2 मई 2021

माता करोनाग्रस्ता

ह्यो वार्ता प्राप्ता मम माता करोनाग्रस्तेति। दुःखकरिणी वार्तेयम्। अत्रोपविश्य किङ्कर्तुं शक्नुयाम्? सावधानतया जीवनीयं धैर्यमाचरणीयमित्येव वक्तुं शक्नोमि। मातापितरौ करोनाविषाणोः प्रथमौषधमलभताम्। अतस्तस्याः स्वास्थ्यं शीघ्रं सम्यग्भवेदिति भावयाम्याशासे च। तौ विंशतिदिनेभ्यः परं द्वितीयमौषधं लब्धारौ। सा शीघ्रं स्वस्था भूयात्।

सम्पत्तिकरो वरीवर्धते

सम्पत्तिकरो वरीवर्धते। अस्माकं परिसरे गृहाणां मूल्यमूर्ध्वमूर्ध्वङ्गच्छति। सर्वकारेण गृहाणामापणमूल्यं दृष्ट्वा सम्पत्तिकरो निश्चीयते। अनेन प्रतिवर्षं करो वर्धते। बहवो जना अन्यान्प्रदेशानस्माकं प्रदेशयायान्ति। गृहाणि क्रीत्वा क्रीत्वा तैर्गृहमूल्या वर्धिताः। किङ्कर्तुं शक्यते। करस्तु दातव्य एव। न कोऽपि विकल्पः। केषुचिद्वर्षेषु प्रायो वयं करं दातुन्न शक्नुयुः। तदा कुत्राप्यन्द्नगन्तव्यम्।

जलसेचकयन्त्रं परिष्कृतम्

अद्य प्रातःकाले भार्या जलसेचकयन्त्रं पर्यकार्षीत्। यन्त्रे केचन सेचका उपरि नागच्छन्ति स्म। कार्यकर्तारमाहूय कारयितुं शक्नुवः परन्तु प्रथमतः स्वयमेव चेष्टायिति धिया सायतिष्ट। षट्सेचका नवीकृताः। अनेन जलं वीथ्यान्न क्षेप्स्यते। इतोऽपि बहवः सेचकाः परिवर्तनीयाः।

शुक्रवार, 30 अप्रैल 2021

वातानुकूलयन्त्रं स्थाप्यताम्

गृहस्योपरितने स्तरे वातानुकूलयन्त्रं सम्यक्तया न कार्यङ्करोति। द्वयोः संस्थयोराहूय दर्शितम्। तयोः कार्यकर्तारोऽवदन्यन्त्रमेतत्पञ्चदशवर्षपुरातनम्। नूतनयन्त्रं स्थाप्यताम्। तदर्थं सार्धसप्तसहस्ररुप्यकाण्यवाश्यकानि। प्राय आगामिषु दिनेषु यन्त्रं स्थापयिष्यते। तस्मादुपरितेन स्तरे ग्रीष्मकालेऽत्यधिकोष्णता नानुभविष्यते।

शुक्रवार, 23 अप्रैल 2021

जन्मदिवस आचरितः

ह्यो भार्याया जन्मदिवस आचरितः। गृहेऽतिष्ठाम। रात्रौ भोजनालयाद्भोजनमानीयाभुञ्ज्महि। भार्या मधुरपिष्टकमपचत्। प्रतिवेशिन्यपि किञ्चिद्भोजनमददात्। आहत्य बहूनि स्वादूनि खाद्यान्यखादाम। अद्य ह्यश्च भार्या कार्यालयादवकाशमगृह्णीत परन्तु मया पुत्रेन च कार्यङ्कर्तव्यम्।

गुरुवार, 22 अप्रैल 2021

पृथ्वीदिवसः

अद्य पृथ्वीदिवसः। बहवो जनाः केवलमद्य पर्यावरणपृथ्वीविषये चिन्तयन्ति। बहवस्त्वद्यापि न चिन्तयन्ति। यदि पर्यावरणपृथ्व्यौ संरक्षणीये तर्हि प्रतिदिनञ्जागरुकतयास्माभिर्व्यवहर्तव्यम्। केवलमेकस्मै दिनाय व्यवहापरिवर्तनेन पृथ्व्या उद्धारन्न भवेत्।


भार्यापुत्राभ्यां मधुराल्पाहारः

भार्याया जन्मदिवसः। प्रातस्तमामुत्थायापणङ्गत्वा मधुराल्पाहारमलप्सि। तावमोदिषाताम्। अहं तस्यायुपायनवर्धापनपत्रादीनि न ददामि। तस्मादप्रयोजनकरीणि वसतूनि सङ्गृह्यन्ते। जन्मदिवसे तादृशानि वस्तूनि ददामि यानि भुक्त्वा लुप्यन्ते। तेषु भोजनं सर्वप्रथमम्। अपि च वयङ्कदापि प्रातःकाले मधुरखाद्यानि न भुञ्ज्महे। अतस्तावश्यचर्यचकितावभूताम्।

बुधवार, 21 अप्रैल 2021

नूतनप्रयोगः

पर्याप्तनिद्रा मह्यं दुर्लभा। कथं पर्याप्तनिद्रा प्राप्तुं शक्यतयिति सर्वदा मस्तिष्के गणना प्रचलति। एकः प्रयोग आरब्धः। रात्रौ निद्रायाः पूर्वमूर्जांशयुक्तभोजनञ्जग्ध्वा निद्रां गन्तव्यमिति प्रयते। तस्मान्निद्राधिका भवेदित्यहमूहे। गतनिशयोः स प्रयोगः सफलो जातः। षड्घण्टाभ्योऽधिका निद्रा प्राप्ता। दिने निद्राभावाच्छ्रान्तिन्नानुभवामि। एतदेव प्रवर्तिषीष्ट।

पर्यवेक्षको गतः

अद्यारभ्य सप्ताहान्तं पर्यन्तं मम पर्यवेक्षकः कार्यालयाद्गतः। तेनावकाशो गृहीतः। तस्मिन्गते सामान्यतः कार्यन्न्यूनायते परन्तु कार्यालये नूतनप्रकल्प आरब्धो मया। सप्तम्बरमासात्पूर्वङ्कर्तव्यः। मम पर्यवेक्षको मम कार्यकौशलमेतं प्रकल्पमधीकृत्य मास्यति।

भार्याया जन्मदिवसः

श्वो भार्याया जन्मदिवसः। सा बुधशुक्रवासरयोरवकाशङ्ग्रहीता।

बुधवार, 14 अप्रैल 2021

करोनानिवारकौषधं प्राप्तम्

ह्यश्चिकित्सालयङ्गत्वा करोनानिवारकौषधं सूच्यालभे। दृष्ट्या जनसम्मर्दो नासीत्। क्षिप्रं प्राप्तम्।

शुक्रवार, 9 अप्रैल 2021

चतसृभ्यो घण्टाभ्यो निद्रा

गतनिशयोः प्रतिरात्रि केवलञ्चतसृभ्यो घण्टाभ्यो यावन्निद्रा लब्धा। स्वप्नवशान्मध्यरात्रौ जागर्मि। तदनन्तरन्निद्रा पुनर्नागच्छति।

गुरुवार, 8 अप्रैल 2021

वेतनवृद्धिः प्राप्ता

ह्यो मम पर्यवेक्षको मामसूचयद्यन्मह्यं वेतनवृद्धिर्दीयमानास्ति। प्राप्स्यामीति मयोहितमासीत्परन्तु कियतीति प्रश्न आसीत्। प्रायः पञ्चदशप्रतिशतं वृद्धिरस्ति। गणनया तु सम्यगस्ति परन्तु सा वृद्धिरस्मिन्वर्षे न परन्त्वागामिनि वर्षयारप्स्यते। तदुपरि वृद्धिरग्रिमयोर्द्वयोर्वर्षयोर्वितरिष्यते। अतो वृद्धिः २०२२-२०२३ वर्षयोर्मम धनस्यूतयागन्ता। तथापि हृषामि। अनेन नूतनोद्योगान्वेषणस्य प्राधान्यन्न्यूनायते। परन्तु संस्थया सूचितं शीघ्रं सर्वैः कार्यालयमागन्तव्यम्। अहमनया सूचनया नोत्सहे। स्यान्नाम नूतनोद्योगोऽन्वेषणीय य गृहात्कार्यङ्करणायानुमतिर्ददाति।

रविवार, 4 अप्रैल 2021

ईस्टरपर्वाचर्यत

अस्माभिरीस्टरपर्वाचारि। पुत्रः पृष्ठोद्याने कृत्रिमाण्डानि समग्रहीष्ट। तेषु चाकलेहानि स्थापितानि तस्य मात्रा। स तानि लब्ध्वामोदिष्ट।

मात्रा सह समभाषिषि

अद्य प्रातःकाले मातरं दूरवाण्याह्वम्। आवां पञ्चदशनिमेषेभ्यः समभाषिष्वहि। पिता भ्रमणाय गत आसीत्। तयोर्नगरे करोनानिवारकौषधं दीयमानमस्ति। तौ सप्तत्यधिकवर्षीयौ। तौ तदौषधं प्रापणाय पङ्क्तौ सर्वेभ्योऽग्रिमौ। तथापि ताभ्यामौषधसूच्येतावत्पर्यन्तन्न ग्रहीता। आलस्यं वशात्। उक्तिविकलोऽस्मि।

शनिवार, 3 अप्रैल 2021

कार्यालयं पुनर्गम्यताम्

गतसप्ताहे कार्यालेन विपत्रं प्रेषितं यस्मिन्सूचितामासीत्केभ्यश्चिन्मासेभ्यः परस्तात्सर्वैः कार्यालयमागन्तव्यमिति। तद्दृष्ट्वा खिन्दे। ममाशासीत्ते शाश्वतङ्गृहात्कार्यङ्करणायानुमतिं दद्युः। परन्तु तादृशन्नाभवत्। नूतनोद्योगो लब्धव्यो यो गृहात्कार्यङ्करणायानुमतिर्ददाति।  कार्यालयङ्गच्छेयञ्चेत्प्रतिदिनं वाहनसम्मर्दे न्यूनातिन्यूनङ्घण्टा यापनीया। तस्मै नोत्सहेऽहम्।

गच्छता दलसदस्येन सह समभाषे

ह्यः साँयकाले गच्छता दलसदस्येन सह समभाषे। तेन सहाहं पूर्वमपि यदा कदा भाषे स्म (कार्यमतिरिच्य)। सोऽवदद्दलेऽस्मिन्पदोन्नतेः सम्भावना विरला। अतः सोऽन्यस्मै दलाय गच्छति यत्र पदोन्नतेरवसरा आधिक्येन लभ्येरन्।

गिटारयन्त्रं पुनः परिष्करणीयम्

अस्मिन्सप्ताहान्ते गिटारयन्त्रं पुनः परिष्क्रियताम्। यत्पूर्वं परिष्कृतमासीत्तदिदानीमपि सम्यगस्ति परन्तु केभ्यश्चिद्दिनेभ्यो यन्त्रादतिरिक्तध्वनिरागच्छति। तं परिष्करणाय प्रयतिष्ये।

बुधवार, 31 मार्च 2021

भ्रात्रा सह समभाषे

गतसप्ताहान्ते भ्रात्रा सह समभाषे। स तु कदापि मां दूरवाण्या नाह्वयति। अहमेव तमाह्वयामि। भवतु नाम। अनेनावां सम्पर्कस्तु वर्तते। तेनोद्योगस्त्यक्तः। स मामसूचयद्गतवर्षे कार्यालये तस्य परिवेक्षिका तस्य कार्यपरिमाणात्सन्तुष्टा न बभूव। केभ्यश्चिन्मासेभ्यः परस्तात्किञ्चित्प्रशंसा प्राप्ता भ्रात्रा। अनेन तस्योद्योगापायो न भवेदिति मम भ्राता मेने। परन्तु फरवरीमासे परिवेक्षिकायाः विपत्रमागतं यस्मात्स्पष्टमासीत्सा भ्रातुः कार्यात्सन्तुष्टा नासीत्। तदनन्तरं भ्रातोद्योगं तत्याज। स बुद्ध्या न व्यवजहारेति पितुरमतिः। अहं वक्तुन्न शक्नोमि। यदि तत्स्थानेऽहमभविष्यं यावच्छक्यमुद्योगं परिपालयितुं प्रायतिष्ये यत आयेन विना जीवनङ्कठिनम्। परन्तु भ्रातुः कार्यालये कियत्यहसहमाना स्थितिरासीत्तत्तु स एव जानाति।

दलसदस्यो व्यपयाति

कार्यालये मदीयदलादेकः सदस्यो व्यपगमिष्यति। केभ्यश्चिन्मासेभ्यः पूर्वमावां समभाषावहि। तेनोक्तमासीद्दलेऽस्मिन्पदोन्नतेरवसरा विरलाः। प्रायोऽनेन कारणेन स गच्छति। मामकीनेषु दलजनेषु स मम प्रियतमः। तेन सहाहङ्कार्यं विहायन्यान्विषयानपि चर्चयामि स्म। स आगामिनि सप्ताहे गमिष्यति। शोचामि।

मंगलवार, 30 मार्च 2021

उद्योगो दत्तः

गतसप्ताहे यस्य सन्दर्शनमकरवं तस्मै मदीयया संस्थययोद्योगो दत्तः। स बुद्धिमाञ्छ्रमी च कार्यकर्ता भासते।

गिटारयन्त्रं सम्यकरवम्

आ बहुभ्यो दिनेभ्यो गिटारयन्त्रं समीचिकीर्षामि। तस्य तन्त्र्यः समीकर्तव्या आसन्। गिटारयन्त्रापणे यन्त्रन्नीत्वा धनं दत्त्वा कार्यतामित्यचिन्तयम्। परन्तु स्वयमेव कार्यविधिर्ज्ञायते चेद्भविष्यत्काले स्वयमेव कर्तुं शक्येत धनं व्ययेन विना। अतोऽन्तर्जालात्कानिचन चलचित्राणि दृष्ट्वा स्वयमेवाकुर्वि। इदानीङ्गिटारयन्त्रं पूर्वापेक्षया वरं वाद्यते। अपि च भविष्यत्काले स्वयमेव कर्तुं शक्नुयाम्।

शनिवार, 27 मार्च 2021

सङ्गीतकाराद्धन्यवादः प्राप्तः

प्रातःकालेऽमुकसङ्गीकाराय धनमजीगमम्। तस्मात्सङ्गीत्कारादभिनन्दनवचांस्यागमन्। सोऽवादीदनेन तस्य नूतनपाठरिरचयिषा बदेत्।

धनं दत्तम्

अन्तर्जाले बहवः सङ्गीतकारा निश्शुल्कं पाठान्स्थापयन्ति। तेषु कश्चन सज्जनोऽस्ति यस्य पाठावधीत्याहं द्वे नूूतने मदीये प्रिये गीते वादयितुं शक्नोमि। ते गीते वादयित्वात्यन्तानन्दमनुभवामि। गुरवे दक्षिणा दीयतामिति मनसि चिन्तनमागतम्। अद्य प्रातःकाले तस्मै किञ्चिद्धनमगमयम्। मनश्शान्तिः प्राप्ता। अन्यथा निश्शुल्कं लाभं लब्ध्वृणीवनुभवन्नासम्।

गुरुवार, 25 मार्च 2021

चुल्लिकायामण्डे पापच्येते

ह्यः साँयकाले व्यायामङ्कृत्वा गृहस्याधोभागं यदागच्छं तदापश्यञ्चुल्लिकायां द्वे अण्डे पच्यमाने आस्ताम्। परन्तु गृहे कोऽपि नासीत्। भार्यापुत्रौ बहिर्जग्मतुः। उखायाञ्जलन्नासीत्। सर्वञ्जलं बाष्पीभूतमासीत्। सत्वरमहञ्चुल्लिकां निर्वापितवान्। चुल्लिकायामण्डे आस्तामिति बहिर्गच्छन्ती भार्या व्यस्मरत्। सुदैवादहं समुचितकाले निच्चैरागच्छम्। यदि नागत आसं तर्हि किमभविष्यदिति चिन्तयित्वा बिभेमि।

आशासे

काचिच्छुभवार्ता दत्ता मदीयेन पर्यवेक्षकेन ह्यः। प्रतिवर्षङ्कार्यालये कार्यकौशलं मीयते। मदीयेन पर्यवेक्षकेन मां सर्वोच्चतरा श्रेणी दत्ता। तस्मायहं धन्यवादानददाम्। शब्दैः प्रशंसा मह्यं रोचते परन्तु यद्यहं श्लाघनार्होऽस्मि तर्हि वेतनेऽपि प्रशंसा दर्शनीयेत्यप्यवदम्। सोऽवदद्वाभ्यां सप्ताहाभ्यां परं त्वं द्रक्ष्यसि। तादृशो वचो मां सूचयत्यहं वेतनवृद्धिं प्राप्स्यामि। आ द्वाभ्यां वर्षाभ्यामहं तस्माद्वेतनवृद्धिं याचमान आसम्। तेन न दत्ता। तस्मात्कारणादेवाहं सन्दर्शनेभ्यः सन्नाहान्करोमि। प्रायोऽस्मिन्वर्षे वेतनवृद्धिर्दास्यते। परन्त्वधुना न हर्षेण कूर्दे। वेतनवृद्धिं लब्ध्वैव कूर्दिष्यामि। वेतनवृद्धिं लप्सीय!

बुधवार, 24 मार्च 2021

सन्दर्शनङ्करवाणि

अद्य सन्दर्शनङ्करवाणि। अभ्यर्थित्वेन न परन्त्वुद्योगदातृत्वेन। तदर्थङ्किञ्चित्सन्नाहः करणीयः। यस्तन्त्रांशप्रश्नोऽभ्यर्थिने दीयतां स स्वेनापि कर्तुं शक्यतामिति मम नियमः। आ त्रिभ्यो मासेभ्योऽहं स्वयं सन्दर्शनसन्नाहङ्कुर्वे। अतः समधिक सन्नाहो न करणीयः।

मंगलवार, 23 मार्च 2021

व्यस्तता समापयिष्यते

यथा मया पूर्वोक्तङ्गतसप्ताहोऽतिव्यस्त आसीत्। अद्य मध्याह्ने सा व्यस्ततावसिता भविष्यति। मध्याह्नभोजनात्परङ्कार्यालयाद्विरामं लप्स्ये येन विश्रामङ्कर्तुं शक्नुयाम्।

सोमवार, 22 मार्च 2021

अध्ययनमारभते

अद्य पुत्रस्य वसन्तर्तुविरामात्परं विद्यालयः पुनरारभते। तेन सङ्गणकेन वर्गौ पर्युपास्येताम्। नवसु सप्ताहेषु तस्य ग्रीष्मकालविराम आरपस्यते। तस्मै स उत्साहितः। गतवर्षे स ग्रीष्मविरामे किञ्चिदध्ययमकुरुत। परन्त्वस्मिन्नवसरे स न कुर्वीदिति भावयामि यतः स पृच्छति यदि तस्य विरामोऽस्ति तर्हि तेन किमर्थङ्कार्यङ्करणीयम्।

पर्णानि समगृह्णाम्

ह्यः पुनः पर्णानि समगृह्णाम्। भार्या पुत्रमानयनायागच्छत्। तौ गृहमागमनात्परं श्रान्तावास्ताम्। अतोऽहमेकाकी पर्णानि समगृह्णाम्। सार्धैकघण्टा यावत्कार्यमकरवमुद्याने। तत्पश्चाद्व्यायामस्यावश्यकता नाभवत्।

रविवार, 21 मार्च 2021

देशसीमायां बालकाः

परदेशीया जनाः स्वेषां बालकान्नस्मदीयां देशसीमां गमयन्ति। तत्र सर्वकारस्तान्गृहीत्वा तेभ्यः कुटीरजलभोजनादीनि ददति। परदेशीया जनाः पश्यन्ति, अहो! तेऽस्माकं बालकान्स्वीकुर्वन्ति तेभ्यो जीवनसाधनानि च ददति। तद्दृष्ट्वा जना इतोऽप्यधिकबालकान्प्रेषयन्ति। परदेशीयेभ्यो जनेभ्यो बालकेभ्यश्च मम सहानुभूतिर्वर्तते। परन्तु यदि जनाः स्वीक्रियेरन्, तेभ्यः कुटीरभोजनादीनि च ददीरंस्तर्हि लक्षशो जना आगच्छेयुः। सर्वेभ्यस्तु साधनानि दातुन्न शक्यन्ते। अतः सर्वकारेणावैधजनानां स्वीकरणं विरमणीयम्। अन्यथा लक्षशो जनानां धनव्ययोऽस्माभिः करदातृभिर्वोढव्यः।

पुत्रः प्रत्यागमिष्यति

अद्य पुत्रस्तस्य मातामह्या गृहात्प्रत्यागमिष्यति। गतेषु त्रिषु दिनेषु शान्तिरासीत्। इदानीं पुनः कोलाहलो भविष्यति।

भार्या प्रातस्तमाञ्जागर्ति

सप्ताहान्ते सामान्यतो भार्या सार्धषड्वादने सप्तवादने वा जागर्ति। पुत्रो गतः। तादृशे काले ततोऽपि विलम्बेन जागृयादित्यूह्येत। परन्तुरभयोर्दिनयोः सा षड्वादनात्पूर्वमजागः। विलक्षणम्।

शनिवार, 20 मार्च 2021

पुनः पर्णानि सङ्ग्रहीतानि

अद्य पुनः कानिचन पर्णानि समग्रहीष्व। कानिचनेत्युक्ते बहूनि। तथापि बहून्यवशिष्यन्तयुद्याने। श्वो भार्या पुत्रमानेता। अतः श्वः कर्तुन्न शक्ष्यावः। प्रायोऽग्रिमे सप्ताहान्ते पुनः कुर्याव।

शुक्रवार, 19 मार्च 2021

समधिककार्यम्

सप्ताहेऽस्मिन्कार्यालये समधिककार्यं वर्तते। अद्यारभ्य मङ्गलवासरं पर्यन्तं मम पर्यवेक्षकः कार्यालयादवर्तमानः। सामान्यत ईदृशेऽवसरे दिनानि सरलानि भवेयुः। परन्त्वद्यत्वे कार्यमधिकम्। अतो यद्यपि स गतस्तथापि प्रतिदिनं दशघण्टा यावत्कार्यङ्कुर्याम्। सप्ताहान्ते कार्यं मा वर्तिषीष्ट।

गुरुवार, 18 मार्च 2021

पुत्रो गमिष्यति

अद्य पुत्रस्य मातामही गृहमागत्य पुत्रं नेष्यति। त्रिभ्यो दिनेभ्यः पुत्रस्तया सह वसिष्यति। स रविवासरे प्रत्यागन्ता।

रविवार, 14 मार्च 2021

भ्रात्रोद्योगस्त्यक्तः

गतसप्ताहे मातृपितृभ्यां सहाभाषामहि। तावकथयतां मम भ्राता तस्योद्योगं तत्याज। भ्रात्रा किमपि विशेषकारणन्न दत्तम्। पिताति संक्षुब्ध आसीत्। ममाग्रजेन मूर्खता दर्शिता। पुनस्तादृश उद्योगो न लप्स्यतयति पितुर्मतिः। अहं पितरमवदं मम भ्राता षट्चत्वारिंशद्वर्षीयः पुरुषः। स न बालकः। तस्य जीवनं तस्यैव न तव। तस्य जीवने किङ्करणीयमिति तस्याधिकारः। युवाभ्याम् (पित्रा मात्रा च) युवयोः कर्तव्यपालनं सम्यक्तया कृतम्। सम्प्रत्यावां (तयोः पुत्रौ) सज्जनौ। सम्प्रति युवाभ्याञ्चिन्ता न करणीया। स्वयोर्वृद्धजीवनस्य विषये चिन्ता करणीया। युवयोरारोग्यं सम्यग्भवेदेतस्य विषये यतेथामिति।

अतिरिक्तायकरः प्रत्यागतः

सर्वकारेणातिरिक्तायकरः प्रतिदत्तः। हर्षामि।

सङ्गीतकाराः श्लाघ्नीयाः

सङ्गीतकारा आद्रियन्ते श्लाघ्यन्ते चाहञ्जाने। अहं वाद्ययन्त्रं वादयामि। कियती श्रमकौशलेऽपेक्ष्येतयित्यनुभूय विस्मितोऽस्मि। अस्मात्सङ्गीतकारेभ्यो मम श्रद्धेतोऽपि वर्धमाना।

वर्षे द्विवारं व्यर्था क्रिया

वर्षे द्विवारं घटिकासमयः परिवर्तनीय इति सर्वकारस्य नियमः। अद्यत्वे कालः शैघ्र्येण गच्छति। वर्षे द्विवारङ्किमपि करणीयञ्चेदपि बहुशः क्रियतामिति भासते। अन्यच्च घटिकासमयस्य परिवर्तनात्कोऽपि विशेषलाभो न सिध्यते मम धिया।

शनिवार, 13 मार्च 2021

किञ्चित्किञ्चित्साफल्यं प्राप्यते चेत्...

ह्यस्त्रिघण्टा यावद्वाद्ययन्त्राभ्यासमकुर्वि। अङ्गुलीषु वेदनाजायत परन्तु तथाप्यकुर्वि। यद्गीतं वादयन्नासं तस्मिन्नियततया साफल्यं लब्धम्। अतो न व्यरिरंसे।

रविवार, 7 मार्च 2021

त्रयोदशवर्षाणामनन्तरम्

त्रिभ्यो वर्षेभ्यः पूर्वं यदाहङ्गिटारवादनमारभे तदा बहुषु गीतेषु अमुकङ्गीतमेकमवादयम्। तस्य पाठो यू-ट्यूब्जालस्थाने प्राप्त आसीत्। तं पाठं कश्चन शिक्षको दशवर्षेभ्यः पूर्वमारोपयञ्चकार। पाठे प्रायः सर्वं सम्यगासीत्परन्तु द्वयोर्भागयोर्मम संशय आसीत्तौ सम्यङ्नास्तामिति। परन्तु कोऽप्यन्यो विकल्प नासीत्तस्मिन्काले। त्रिभ्यः सप्ताहेभ्यः पूर्वं तेन शिकक्षेणैव तस्य गीतस्यैव नूतनपाठ आरोपितः। शिक्षकेण तौ भागौ परिष्कृतौ। तद्दष्ट्वा मम संशयो यथार्थमासीदित्यजानि। इदानीं तौ भागौ सम्यक्तया वादयितुं शक्नोमि।

शनिवार, 6 मार्च 2021

त्रयोरपि पर्णानि सङ्ग्रहीतानि

प्रातःकाले सार्धैकघण्टां यावत्सर्वे कुटुम्बसदस्याः पर्णान्यार्जिषुः। तस्मात्कार्यं शीघ्रतया समपद्यत। परन्त्वितोऽपि बहूनि पर्णान्युद्याने वर्तन्ते। श्वः पुनः कर्तास्मः। अग्रिमे सप्ताहान्तेऽपि करिष्यते।

कोटिः पर्णानि

शरद्धेहमन्तर्तू गतौ। गृहस्थोद्यानेषु कोटिः पर्णानि विकीर्णानि। गतवर्षे काञ्चनोद्यानपालकसंस्थामाहूय पर्णानि निरस्तान्यासन्। परन्तु तया संस्थया द्विशतं रूप्यकाण्ययाचन्त। अतो वर्षेऽस्मिन्स्वयमेव करिष्यावहे। सप्ताहान्तेऽस्मिन्बहुषु कार्येष्वेतदन्यतमम्।

आयकरपत्रं पुनः प्रेषितम्

तन्त्रांशसंस्थया तन्त्रांशस्थो दोषः परिष्कृत इति भासते। संस्थाया जालस्थाने बहुभिर्जनैर्भणितं तेषामायकरपत्रं स्वीकृतं सर्वकारेण। अद्य प्रातःकालेऽहमपि पत्रं पुनरजीगमम्। अस्मिँल्लेखे लिख्यमाने सर्वकाराद्विपत्रमागतं तैरायकरपत्रं स्वीकृतम्। अहं हर्षामि।

शुक्रवार, 5 मार्च 2021

ऊहितो जलदेयकः

जलदेयक आगतः। ऊहाया न्यूनः। यतो गतमासे हिमवशात्सर्वेषाञ्जलप्रयोगोऽधिक आसीदतो नगरपालिकया गतवर्षस्य फरवरीमासमधीकृत्यास्य फरवरीमासस्य जलदेयक ऊहितः। तस्मादधिक देयको न देयः। परन्तु तस्मादग्रमिस्य मासस्य जलदेयकोऽधिकतरो भवेत्। नगरपालिकया मासेऽस्मिञ्जलमापकयन्त्रन्न पठितम्। परन्त्वग्रिमे मासे यदा पठिष्यते तर्हि तदा मासेऽस्मिन्यज्जलमधिकं प्रयुक्तं तस्य शुल्कमग्रिमे मासे दीयताम्। अन्यच्चाधिकमात्रायाञ्जलं प्रयुज्यते चेत्तस्य शुल्कमधिकायते। अतोऽग्रिमे मासे जलायाधिकशुल्कं देयमिति सिध्यते। परन्तु तैरेका सूचना प्रकाशिता। अग्रिमे मासे यद्यप्यधिकामात्रा मीयते तथापि शुल्कं न्यूनीकरिष्यते येनाग्रिमे मासस्य देयकोऽपि सामान्यो भवेत्। उत्तमङ्कृतन्नगरापालिकया। इदानीमग्रिममासस्य देयको द्रष्टव्यः। सामान्यश्शुल्कं देयासम्।

बुधवार, 3 मार्च 2021

जलदेयको न दत्तः

मदीयेन राज्येन गतमासे हिमप्रयलोऽभवत्। तद्भयात्पञ्चभ्यो दिनेभ्यो गृहस्थाः सर्वा जलनलिकाः स्राविता अस्माभिर्येन नलिकासु जलं हिमीभूय नलिका न विदार्येत। तस्मायत्याधिकजलं प्रयुक्तम्। देयकमपत्यधिको भवेदिति भीतिर्बाधते माम्। सामान्यतो मासस्य पञ्चविंशतिदिनाङ्कं पर्यन्तं देयको दीयते नगरपलिकया। अवसरेऽस्मिन्मासः समाप्तस्तथापि देयको न लब्धः। कियान्देयक इति वर्तमाना चिन्ता पीडयति।

मंगलवार, 2 मार्च 2021

समयः कुत्र याप्यते?

जीवने समयः सीमितः। सर्वेभ्यो दिने चतुश्चत्वारिंशद्घण्टा वर्तन्ते। ताः कथं प्रयुज्यन्तामिति प्रश्नः। सन्दर्शनायाहं तन्त्रांशाभ्यासङ्करोमि। तस्मायत्यधिकसमय आवश्यकः। तदुपरि वाद्ययन्त्राभ्यासोऽपि करणीयः। तयोः परं दिने कार्यालयस्य कार्यमपि करणीयम्। तत्तु महत्वपूर्णतमं यतस्तेनैव जीविकार्ज्यते। साँयकाले कुटुम्बेन सहापि समयो यापनीयः। एतत्सर्वङ्क्रियेरंश्चेच्छ्रान्तिर्जायते। दीर्घकालँय्यावत्त्वेतादृशङ्कर्तुन्न शक्यते। अन्यच्च तन्त्रांशाभ्यासस्य स्वरूपमीदृशं यत्स मस्तकारूह्यमानः। तेन जीवने वर्तमानान्यन्यानि कार्याण्युपेक्ष्यन्ते। धनार्जनाय समग्रा बुद्धिर्दीयते परन्तु यद्धनमर्जितं तस्य संरक्षणाय वर्धनाय चावधानो व्यपगम्यते। तर्हि तन्त्रांशाभ्यासाय यः समयो याप्यते स लाभकरः वा न?


आयकरपत्रमस्वीकृतम्

सर्वकारेण मया प्रेषितमायकरपत्रमस्वीकृतम्। आयकरपत्रे दोषो वर्ततयित्युक्तम्। प्रेषणात्पूर्वं मया सर्वं सूक्ष्मतया परिशीलितमासीत्। तत्र दोषो न दृष्टः। सर्वकारेण यो दोषो व्यपादिशत सा स्थितिर्मयि न प्रसज्यते। यस्तन्त्रांशो मया प्रयुक्तस्तस्यान्यैः प्रयोक्तृभिरपि स दोषः प्राप्तः। स्पष्टमस्ति तन्त्रांशेन दोषः कृतः। तन्त्रांशनिर्मातृणा भणितं तैस्तन्त्रांशो विविच्यते। सप्ताहानन्तरं सूचना दास्यते।

रविवार, 28 फ़रवरी 2021

गृहाभिरक्षायोजनाशुल्कमितोऽपि वर्धेत

मदीये प्रदेशे गृहाभिरक्षायोजनाशुल्कमन्येषां प्रदेशानामपेक्षयाधिकमस्ति। गतसप्ताहीयेन हिमपातेन समग्रराज्ये महद्धानिः कृतः। मम भीतिरस्ति तस्मात्प्रयलादभिरक्षायोजनाशुल्कमितोऽपि वर्धेत। कियदग्रिमे वर्षे नवीकरणसमये ज्ञास्यते।

रात्रिभोजनं बाह्यम्

ह्यस्तनस्य रात्रिभोजनं बहिस्तः क्रीतम्। आ केभ्यश्चिद्दिनेभ्यः पुत्रो वदति स्म बहिस्तो भोजनङ्क्रेतव्यम्। भार्यापि प्रतिदिनं भोजनं पाचं पाचं श्रान्ता भवति। ताभ्यां मयाङ्गीकृतम्। भोजनालये सम्मर्दो दृष्टः। दिष्ट्या तेन भोजनालयेन कारयानयेव भोजनं दीयते। कारयाने स्थित्वा दूरवाण्या क्रयणसङ्ख्या नाम च प्रेषितवान्। कार्यकर्ता भोजनालयाद्बहिरागत्य कारयाने मह्यं भोजनमददात्।

आयकरपत्रं प्रेषितम्

ह्य आयकरपत्रं प्रेषितम्। प्रतिवर्षमिदङ्कार्यङ्करणीयम्। मार्चमासात्पूर्वङ्क्रियेच्चेच्छुल्कं विंशतिरुप्यकाणि न्यूनतरम्। तस्मादहम् आ त्रिभ्यो वर्षेभ्यः फरवरीमासे पत्रं प्रेषयामि।

सोमवार, 22 फ़रवरी 2021

जलनलिकाः परीक्षिताः

ह्यो जलनलिकाः परीक्षिताः। सुदैवात्सर्वं सम्यगस्ति। नलिका भग्ना न बभूवुः। सम्पूर्णसप्ताहश्चिन्ताजनक आसीत्। हिमभयाज्जलनलिकाः पञ्चदिनेभ्यः स्राविता आवाभ्याम्। तस्माज्जलदेयकमधिकं भवेत्। ह्यः जलमापकयन्त्रे विराजमानान्यङ्कानि पठित्वापेक्षितं देयकमौहे। तेन काचिन्मनशान्तिः प्राप्ता। ममौहा यथार्थिकास्ति नास्ति वेति द्रक्ष्यावः।

रविवार, 21 फ़रवरी 2021

पात्रक्षालनयन्त्रम्

गतकेषुचिद्दिनेभ्यः पात्रक्षालनयन्त्रं सम्यक्तया कार्यन्न करोति स्म। यन्तामाहूय धनं दत्त्वा समीकर्तव्यमिति चिन्तनमासीदावाम्। अद्य प्रातःकाले किञ्चित्प्रायतिष्वहि। तस्मादिदानीं तत्यन्त्रङ्कार्यङ्करोति। यन्त्रमेवमेव कार्यङ्क्रियात्।

हिमातङ्को गतः

गतसप्ताहे प्रचलन्हिमातङ्को गतः (अन्ततः)। तेन सहाधिका चिन्तापि जगाम। परन्तु सर्वाश्चिन्ता इतोऽपि न गताः। बहिस्थो जलनलिका हिमस्तब्धा अभवन्। सम्प्रति हिमो द्रवति। भयोऽस्ति हिमनिपीडया नलिका भग्ना जाताः। अद्य तासां नलिकानां परीक्षणं करिष्यावहे। ताभ्यो जलन्न स्रूयात्।

शुक्रवार, 19 फ़रवरी 2021

अत्यधिकशैत्यम्

गतसप्तसु दिनेष्वत्यधिकशैत्यमासीत्। एतावच्छैत्यं पूर्वं राज्येऽस्मिन्कदापि न दृष्टम्। तस्माद्बृहत्समस्या उत्पन्नाः। बहुत्र जलनलिकासु जलं हिमीभूतम्। तस्माज्जलनलिका विदीर्णाः। तस्माज्जलन्न लभ्यते। अत्यधिकशैत्यवशाद्विद्युच्छक्तिनिर्माणयन्त्राणि क्षतिग्रस्तानि भूतानि। तस्माद्विद्युच्छक्तेरभावोऽभवत्। एतावत्पर्यन्तमस्मासु कापि विशेषक्षतिर्नापतिता। परन्तु यावद्यावज्जलनलिकासु हिमं द्रवीभूयते तावत्तावज्ज्ञास्यते यदि गृहे कयापि नलिकया क्षतिः प्राप्ता।

रविवार, 7 फ़रवरी 2021

श्वोऽवकाशः

कार्यालयाच्छ्वोऽवकाशो गृहीतो मया। पुत्रो विद्यालयेन दत्तान्पाठान्पठिता। अहं सङ्गणके तन्त्रांशाभ्यासङ्कर्तास्मि।

पादकन्दुकक्रीडा

अद्य कुटुम्बेन सह दूरदर्शने पादकन्दुकक्रीडा दृष्टा। पुत्रो वर्धते। अपि च क्रीडासु तस्य रुचिः। अतस्तेन सह मिलित्वा क्रीडामपश्यम्। तस्य माता स्वादुभोजनमपाक्षीत्। साँयकाल उत्तमरीत्यागमत्।

शुक्रवार, 5 फ़रवरी 2021

पुत्रस्य प्यानोवादनम्

आ द्वाभ्यां वर्षाभ्यां पुत्रः प्यानोपाठान्गृह्णाति। प्रत्येकषण्मासिकसत्रान्ते सर्वे छात्रा तेषाङ्कौशलं प्रदर्शयन्ति। बुधवासरे साँयकाले तादृशं प्रदर्शनमभवत्। पुत्रेण तस्य सहपाठिभिश्च प्यानोवादनङ्कृतम्। करोणावशात्सर्वं सङ्गणकेन कारितम्। सर्वैरुत्तमं वादनङ्कृतम्। घोरपरिश्रमस्य परिणामोऽयम्।

तन्त्रांशे रुचिः पुत्रस्य

प्रतिरात्रिं तन्त्रांशं रचयामि। येषां विषयानां विषये तन्त्रांशं लिखामि तान्पुत्रः सरलतयावगन्तुं शक्नोति। तस्मात्तस्य रुचिस्तन्त्रांशे वर्धते। मोदावहो विषयोऽयम्।

शनिवार, 30 जनवरी 2021

शाश्रथ्ये

प्रतिदिनं सन्दर्शनेभ्यः सन्नाहान्करोमि। बुद्धियुक्तः श्रमः सः। तस्माच्छ्रान्तिर्जायते। कदाचिच्छाश्रथ्येऽहम्। वेगः किञ्चिन्नयूनः करणीय इति चिन्तयामि।

रविवार, 24 जनवरी 2021

जना विभक्तीर्नवगच्छन्ति

तृतीयस्तरीयछात्रान्पाठयामि। मम वर्गे ये छात्रा वर्तन्ते ते बहुभ्यो वर्षेभ्यः संस्कृतं पठन्ति। परन्त्वितोऽपि प्रायशः संस्कृतेन सम्भाषितुन्न शक्नुवन्ति। किञ्च सम्यग्विभक्तिप्रयोजनङ्कर्तुन्न शक्नुवन्ति। कारणङ्किम्? अभ्यासाभावः। वर्गाद्गत्वा ते कदापि संस्कृताय न प्रयतन्ते। तर्हि कौशलङ्कथं वर्धेत? सप्ताहे घण्टामात्रं वर्गमागत्य तु संस्कृतकौशलन्न लप्स्यते।

रात्रिभोजनम्

अद्य रात्रिभोजनाय भार्या मृगमासमपाक्षीत्। क्रिस्तमसपर्वणि तया मृगमासं पक्तमासीत्परन्तु तच्छुश्कमभवत्। अद्य शुश्कन्नाभूत्। मृगमासेन सह शाकानि मदिराञ्चासेविष्महि। उत्तमं भोजनमभूत्। तद्भोजनङ्कृत्वा समभाषिष्वहि। तत्परं दूरदर्शने पादकन्दुकक्रीडामद्राक्ष्म। उत्तमं रविवासरोऽभूत्।

कौशलं वर्धते

अद्यत्वे ये प्रश्नाः सन्दर्शनेषु पृच्छ्यन्ते तेषां सामान्यतन्त्रांशेन न कोऽपि सम्बन्धः। अतः सम्प्रति सन्दर्शनेभ्यो विशेषाभ्यासः करणीयः। तदर्थं प्रयते। इदानीं मासादधिको गतः। निश्चयेन प्रगतिर्दृश्यते। यान्प्रश्नान्दृष्ट्वा पूर्वं शिरस्भ्रमणं प्राप्नोमि स्म तान्दृष्ट्वा भयन्नानुभवामि। बहुवारं तेषां परिहारमपि दातुं शक्नोमि। इतोऽपि बहुकौशलमर्जनीयम्। तस्मै प्रायः पञ्चषणमासा आवश्यकाः।

शनिवार, 23 जनवरी 2021

पुत्रस्यासक्तिश्चतुरङ्गे

पुत्रः प्रतिदिनं सङ्गणके चतुरङ्गङ्क्रीडति। तस्य विद्यालयस्य जालपुटे चतुरङ्गपाठाः सन्ति। तान्स प्रतिदिनङ्करोति। तस्मात्तस्य ज्ञानमभिवर्धते। अधुना स मां चतुरङ्गे बहुशः पराजेतुं शक्नोति। मुदितोऽहम्।

त्रिंशद्दिनेष्वशीतिः प्रश्नाः

सन्दर्शनाय प्रतिदिनं तन्त्रांशाभ्यासङ्करोमि। त्रिंशद्दिनेष्वशीतिः प्रश्नाः कृता मया। एतद्दृष्ट्वा मोदेऽहम्। परन्त्वितोऽपि बहवः प्रश्नाः करणीयाः। न्यूनातिन्यूनं त्रिशतं प्रश्नाः करणीयाः। तस्मादात्मविश्वासो वर्धिष्यते। तावद्भ्यः प्रश्नेभ्यः षण्मासा आवश्यका इत्यूहेऽहम्।


रविवार, 17 जनवरी 2021

चतुर्णां दिनानामवकाशः

मम चतुर्दिवसीयावकाशो वर्तते। शुक्रवासरे कार्यलयादवकाशमगर्हे। सोमवासरेऽप्यवकाशोऽस्ति। परन्तु चतुर्णां दिनानामवकाशो भूत्वापि मयावकाशो न लभ्यते। सन्दर्शनाय सन्नाहान्करोमि। तदर्थं महच्छ्रम आवश्यकः। प्रतिदिनं तन्त्रांशं लिखामि। किञ्च स तन्त्रांशो न सरलः। कठिनसमास्यानां परिहारा लेखनीयाः। तस्मायत्यधिकचित्तैकाग्रतावश्यकी। समस्तावकाशस्तस्मिन्नेव गतः।

शुक्रवार, 15 जनवरी 2021

इतोऽपि हिमोऽवशिष्यते

गतरविवासरे हिमपातोऽभवत्। तस्मिन्काले पुत्रः पृष्ठोद्यानेऽक्रीडत्। तेन हिममानवा रचितः। पञ्चभ्यो दिनेभ्यः परस्तात्तस्माद्धिममानवाद्धहिम इतोऽपि दृश्यते। मानवविग्रहं तु परेद्यवि गत आसीत्परन्तु हिमः शनैः शनैः विगलति।  अधुना स्वल्पमात्रावशिष्टा। श्वो हिमो न भवितेति निश्चयेन वक्तुं शक्यते।

रविवार, 10 जनवरी 2021

सप्तलक्षरुप्यकार्हङ्गृहम्

मम परिसरे मत्सदृशङ्गृहमेकं सप्तलक्षरुप्यकेभ्यो विक्रीतम्। अहञ्चेखिद्ये। मम नगरे सम्पत्तिकरो गृहाणामद्यत्वे किं मूल्यमिति दृष्ट्वा निर्णीयते। सम्पत्तिकरस्तु प्रतिवर्षं वर्धते। परन्तु सप्तलक्षरुप्यकेभ्यो मम सदृशगृहं विक्रीयते चेत्सम्पत्तिकरो वरीवर्धिष्यते।

प्रतिजैविकौषधन्न ग्रहीष्यति

करोणाविषाणोः प्रतिजैविकौषधमुपलभ्यते। अद्य चिरमित्रेण सह समभाषिषि। सोऽवादीत्तस्य प्रतिजैविकौषधे विश्वासन्नास्ति यतः केवलं केषुचिद्मासेषु तस्य विकासमभवत्। अतस्तस्य सम्पूर्णकुटुम्बः प्रतिजैविकौषन्न ग्रहीष्यति। सामान्यतः स कस्मिन्नप्यौषधे न विश्वसिति। तादृशञ्जनङ्किं वक्तव्यम्। तूष्णीं भूत्वा तस्य वचांस्यश्रौषम्।

हिमः पतति

अद्य हिमं पतति। सामान्यतो नगरेऽस्मिन्हिमपातो न भवति। परन्त्वद्य आ प्रातःकालाद्धिमं पनीपत्यते। पुत्रेण सह पृष्ठोद्याने गत्वाक्रीडिष्महि। स जरीहृष्यते।

शनिवार, 2 जनवरी 2021

गृहात्कार्यं मह्यं रोचते

करोणाविषाणुवशाद्वर्षं यावद्गृहात्कार्यङ्करोमि। प्रतिविषाण्वौधमगच्छेदागिमिनि वर्षे। तत्परङ्कार्यालयः पुनः कार्यालयमागन्तुं प्रेरयेच्चेन्न मम सौकार्याय। गृहादेव कार्यङ्कुर्यामिति ममेच्छा।

शुक्रवार, 1 जनवरी 2021

केन्द्रसञ्चालकस्त्यजति

अस्माकन्नगरस्य संस्कृतसञ्चालकः संस्कृतकार्यं त्यजति। नैजकारणेभ्य इति तेनोक्तम्। तानि कारणानि कान्यहन्न जाने। सामान्यतस्तस्मिन्गतेऽहं सञ्चालकङ्गृह्णामि परन्तु वर्षेऽस्मिन्न मया नूतनोद्योगो लब्धव्यः। तस्मै सन्दर्शनसन्नाहाय बहुसमयो गमयितव्यः। अतोऽहं सञ्चालकत्वङ्ग्रहीतुन्न शक्नोमि। अन्यः सञ्चालकत्वङ्गृह्यात्।

नूतनवर्ष आरभते

नूतनवर्ष आरभते। गतवर्षोऽनान्य आसीत्। स्यान्नाम वर्षोऽयं समीचीनतरं भवेत्। गतवर्षे गृहादेव कार्यङ्कृत्वाहं प्रचुरसमयमार्जयम्। वर्षेऽस्मिन्नपि गृहादेव कार्युङ्कर्तुं शक्यते चेदुत्तमं भवेत्।