रविवार, 31 अक्तूबर 2021

तस्मै ददाम्यहम्

अन्तर्जाले कश्चन सज्जनोऽस्ति यो मह्यं गीतपाठान्निर्माति। पाठान्निर्मीय सोऽन्तर्जाले स्थापयति येनान्ये जना अपि तेभ्यः पाठेभ्यो लाभं प्राप्नुयुः। एतान्पाठान्स निश्शुल्कं रचयति। तस्य पाठेभ्यो मम वाद्ययन्त्रकौशलं वर्धते। मम प्रियतमानि गीतान्यपि वादयितुं शक्नोमि। एतस्मात्सज्जनाद्मया प्रभूतानन्तदो लब्धः। अतो निश्शुल्कं पाठान्स्वीकर्तुन्न शक्नोमि। आ षड्भ्यो मासेभ्यस्तस्मै प्रतिमासं किञ्चिद्धनं प्रेषयामि। परन्तु गते मासे स मह्यं द्वयोर्गीतयोः पाठौ निर्मितवान्। इमे गीते मह्यं रोचतेतमाम्। अतो द्वाभ्यां मासाभ्यामहं तस्मै द्विगुणितं धनं प्रेषयिष्यामि। यो जनो मह्यं प्रभूतानन्दं ददाति तस्मायहमपि किञ्चित्कर्तुं शक्नोमीति चिन्तयित्वा सन्तोषमनुभवामि।

रविवार, 24 अक्तूबर 2021

मध्याह्ने शयनन्नाकरवम्

अस्मिन्सप्ताहान्ते मध्याह्ने शयनन्नाकरवमुभयोर्दिनयोः। अहं रात्रौ सम्यक्तया शयन्न करोमि। सप्ताहे तु कार्यङ्करोमीत्यतो दिने शेतुन्न शक्नोमि। सप्ताहान्ते दिने शयनङ्करोमि। परन्तु तस्माद्रात्रौ निद्रावधिर्न्यूना भवति। अतः प्रयत्नङ्कृत्वा दिने शयन्नाकरवम्। तस्माद्रात्रौ निद्रा समीचीनतरा भवेदित्याशासे।

गुरुवार, 21 अक्तूबर 2021

भार्या विद्यालयङ्गन्ता

आगामिनि वर्षे त्रिमासेभ्यो भार्या विद्यालयङ्गत्वाङ्कपालनविद्यां लप्स्यते। तस्याः साम्प्रतिकोद्योगः सम्यगस्ति परन्तु तस्याः प्रबन्धको वेतनमवर्धयित्वा तस्यामधिकदायित्वङ्कार्यञ्च दद्यात्। अद्यत्वे कस्मिन्नप्युद्योगे स्वस्य कार्यङ्करणन्न पर्याप्तम्। ततोऽधिककार्यङ्करणायापेक्षा सर्वदास्ति। तस्या रुचिरङ्कविद्यायां वर्तते। तत्पठित्वाधिका उद्योगा लभ्येरन्। अतः सा विद्यालयङ्गत्वा तत्कौशलं प्रापणाय प्रयतिष्यते।

रविवार, 17 अक्तूबर 2021

नूतनसङ्गणकङ्क्रेतव्यम्

मया नूतनसङ्गणकङ्क्रेतव्यम्। आ चतुर्भ्यो वर्षेभ्यो वाद्ययन्त्रं वादयामि। अन्तर्जालेऽन्यैरारोपितानि वादनचलच्चित्राणि पश्यामि। काले मयापि स्वस्य वादनचलच्चित्राण्यारोपनीयानीति भावयामि। तत्कृते यत्कौशलमावश्यकं तन्मयि सम्प्रति नास्ति। अन्यच्च वादनस्य ध्वनिमुद्रणङ्करणीयमित्यन्यत्कौशलम्। तदपि साधनीयम्। वादनध्वनिमुद्रणाय नूतनसङ्गणकङ्क्रेतव्यम्। प्रायो वर्षान्तात्पूर्वङ्क्रेतास्मि।

शनिवार, 16 अक्तूबर 2021

शुल्कञ्जरीगृह्यते

गतमासे वातानुकूलयन्त्रे शीतकारिवायुः पूरित आसीत्। तस्मै कार्यकर्तृणा सार्धत्रिशतरुप्यकाण्यगृह्णीत। केवलं द्विपौण्डमितवायुरावश्यक आसीत्। अतस्तेन पञ्चसप्तत्यधिकशतरुप्यकाणि प्रतिपौण्डशुल्कमारोपितमावयोः। तस्मिन्काले तच्छुल्कमत्यधिकमभासत। अनन्तरमहमन्तर्जालात्सूचनामलभे यत्तद्वायोः शुल्कमुपदशरुप्यकाणि प्रतिपौण्डस्ति। तावच्छुल्कं दत्वा कार्यकर्त्रींसंस्था वायुः प्राप्नोति। कार्यकर्तुः संस्थया कार्यकर्तणे वेतनं देयं स्वस्यै लाभराशिरप्यर्जनीया। अतः दशरुप्यकेभ्योऽधिकशुल्कं ग्राहकाद्गृहीतव्यम्। परन्तु तथापि दशरूप्यकाणि कुत्र सार्धैकशतरुप्यकाणि कुत्र? एतयोः शुल्कयोर्मध्ये बृहदन्तरं वर्तते। अग्रिमेऽवसरे कस्माच्चिदन्यस्माद्वायुः पूरयिष्यामि।

गुरुवार, 14 अक्तूबर 2021

विद्युत्कोषाश्शैघ्र्येण क्षीयन्ते

स्मरामि दशभ्यो वर्षेभ्यः पूर्वं कारयानेषु विद्युत्कोषाः पञ्चषड्वर्षान्यावद्विद्युच्छक्तिर्ददति स्म। सम्प्रति विद्युत्कोषा द्वित्रिवर्षेभ्योऽधिकं विद्युच्छक्तिर्न ददति। भार्यायाः कारयाने द्वाभ्यां वर्षाभ्यां पूर्वं विद्युत्कोषः परिवर्तित आसीत्। केभ्यश्चिदिनेभ्यः पूर्वं स विद्युत्कोषः शक्तिहीनो जातः। यया संस्थया विद्युत्कोषः स्थापितस्तया निश्शुल्कं नूतनविद्युत्कोषः स्थापितो यतः क्रीतेन विद्युत्कोषेन न्यूनातिन्यूनं त्रीन्वर्षान्यावत्कार्यङ्कर्तव्यम्। मदीये कारयानेऽपि तया संस्थया द्वाभ्यां वर्षाभ्यां पूर्वं विद्युत्कोषः स्थापितः। शीघ्रं सोऽपि शक्तिहीनो भवेदित्यहमूहे। संस्थया निश्शुल्कं परिवर्त्स्यते नेति प्रश्नः।

संस्कृतचलनचित्रम्

अस्य मासस्य सम्भाषणसन्देशपत्रिकायां प्रतिकृतिरिति नूतनतया मुक्तस्य चलनचित्रस्य विषयेऽपठम्। संस्कृतचलनचित्राणि निर्मीयन्तयिति मोदावहो विषयः। परन्तु सर्वाणि संस्कृतचलनचित्राणि संस्कृतविषयकानि सन्तीति ममाक्षेपः। यदि चलनचित्राणि संस्कृतवक्तारोऽतिरिच्य सामान्यजनैर्द्रष्टव्यानि तर्हि चलनचित्राणां विषयाः सामान्यसामाजिकविषया भवन्तु येषु सामान्यजनानां रुचिर्भवेत्। आदिशङ्कराचार्यः, भग्वद्गीता, धेनुः, तालपत्राणीत्यादयो विषयाः सामान्याधुनिकजनेभ्यो न रोचन्ते। यदि संस्कृतचलनचित्रेभ्यो जनानां रुचिरवर्धनीया तर्हि सामान्यविषया दर्शनीयास्तेषु चलनचित्रेषु।

शनिवार, 9 अक्तूबर 2021

पदोन्नतिर्न प्राप्ता

गतसप्ताहे मम प्रबन्धको मामसूचयद्यद्मह्यं पदोन्नतिर्न दीयतेऽस्मिन्वर्षे। किञ्चिदधिककार्यङ्कर्तव्यम्। तस्मात्परं दातुं शक्यते। स नूतनप्रबन्धकः। कदाचिद्भासतेऽष्टघण्टाभ्योऽधिककार्यङ्कर्तव्यमिति तस्यापेक्षा। तदहं पदोन्नतयेऽपि न करिष्यामि। जीवने कार्यमतिरिच्यापि बहूनि कर्तव्यानि कार्याणि वर्तन्ते। कुटुम्बेन सह समयः। अभिरुचय इत्यादीनि। केवलङ्कार्यङ्कृत्वा कृत्वा न मर्तास्मि।

रविवार, 3 अक्तूबर 2021

नूतनछात्रः

मदीये संस्कृतवर्गेऽद्य नूतनछात्रः प्रवेक्ष्यति। तत्समीपेऽनुस्रियमाणं पुस्तकं भवेदिति चिन्तयामि।

शुक्रवार, 1 अक्तूबर 2021

प्रकल्पोऽवसितः

ह्यः मासान्तासीत्। मासान्तपूर्वं वर्तमानः प्रकल्पः समापनीय इति प्रबन्धकेन विहितमासीत्। अहं मम सहकर्मकरी च श्रमेण कार्यमकरवाव। ह्यः कार्यमवसितम्। प्रबन्धकाय मामकाय दलाय चाहङ्कृतङ्कार्यमदर्शयम्। प्रबन्धको हर्षितोऽभवत्। अद्य सोमवासरे चाहङ्कार्यालयादवकाशङ्गृह्णामि। परन्त्वद्य प्रशिक्षणेकङ्करणीयमित्यतो द्वाभ्याङ्घण्टाभ्याङ्कार्यङ्करिष्यामि। अनन्तरं विरामं ग्रहीष्ये।