आ पञ्चदशमासेभ्यो साम्प्रतिकोद्योगमकरवम्। सर्वेषाणां वस्तूनां शुल्को वर्धते तर्हि कश्चनोऽन्य उद्योगः करणीयो यस्मादधिकवेतनं प्राप्तुं शक्यते। तर्ह्युद्योगस्त्यक्तः। इदानीमुद्योगान्वेशणं करणीयम्।
बुधवार, 29 जुलाई 2026
मंगलवार, 14 अक्टूबर 2025
इदानीमपि मित्राय कार्यम्
इदानीमपि मित्राय कार्यं करोमि। परन्त्वग्रिमे वर्षे कुर्यां वा न न जाने। जीवने सर्वासां वस्तूनां शुल्कं वर्धते। तेन कारणेन मया वेतनवृद्धिर्याचनीया मित्रात्। स कुर्याद्वा नेति द्रष्टव्यम्। न क्रियते चेदन्यमुदयोगमनविष्यामि।
बुधवार, 25 जून 2025
भार्याया दीर्घदिनम्
सामान्यतो मद्भार्यायाः कार्यालये सा स्वयमेव कार्यं करोति। अन्ये जना अन्येषु नगरेषु वसन्तस्ततत्रतः कार्यं कुर्वन्ति। परन्तु सप्ताहेऽस्मिन्नुपदशजना कस्मैचित्सम्मेलनायागतवन्तः। सामान्यतो भार्या सार्धनववादने गत्वा चतुर्वादने गृहमागच्छति। परन्तु सप्ताहेऽस्मिँस्तया कार्यालयमष्टवादने गत्वा पञ्चवादनपर्यन्तं स्थातव्यम्। अहो दीर्घदिनं तस्याः।
मंगलवार, 24 जून 2025
कार्यं प्रचलति
मित्राय कार्यं प्रचलति। प्रथमयोर्द्वयोः कार्ययोर्ध्रुववेतनमासीत्। इत्युक्ते कार्याभ्यां कियान् समय आवश्यक इत्यपरिगणय्य कार्यं कृतम्। परन्तु तदनन्तरमहं मित्रमवदमिति न समीचीनम्। कार्याय यावान् समय आवश्यकस्तदाधारिकृत्य वेतनं दीयताम्। तेन्तदङ्गीकृतम्। इदानीं कार्यं वेतनञ्च किञ्चित्सममाने।
सोमवार, 5 मई 2025
मित्राय कार्यम्
मित्राय कार्यं करोमीति सूचितवानासम्। स मां बहुकार्यं ददाति। वेतनं न्यूनम्। द्वे सम्भावने। प्रथमा - स स्वयमेव न जानाति कियत्कार्यम्। द्वितीया - स जानाति परन्तु बुद्ध्याधिककार्यं ददाति। यद्यग्रिमं कार्यमपि बहु भवेत्तर्हि तं सूचयिष्यामि कार्यं न्यूनं क्रियतामन्यथा वेतनवृद्धिः करणीया।
बुधवार, 18 दिसंबर 2024
उद्योगत्यजनसूचना
मंगलवार, 17 दिसंबर 2024
उद्योगं त्यक्ष्यामि
अद्योद्योगं त्यक्ष्यामि। नूतनवर्षात्कार्यालयं प्रतिदिनं गन्तव्यम्। आ वर्षद्वयादयमोद्योगं मह्यं नारोचत। परन्तु वेतनं सम्यगासीत्। अन्यच्च सप्ताहे द्वयोर्दिनयोर्गृहात्कार्यं कर्तुं शक्तवान्। ताभ्यां कारणाभ्यां वर्षद्वयात्कथञ्चिदोद्योगऽनुवर्तितः। प्रतिदिनं वाहनसम्मर्दे वाहनचालनस्येच्छा नास्ति मम। अत उद्योगं त्यक्ष्यामि। आगामिनि वर्षे नूतनोद्योगस्यान्वेषणं करिष्यामि।
शुक्रवार, 25 अक्टूबर 2024
इदानीमपि कार्यं न्यूनम्
द्वाभ्यां मासाभ्यामनन्तरमपि कार्यं न्यूनमेवास्ति। ततोऽपरि पर्यवेक्षको वदति त्वं ज्येष्ठाभ्यन्ता, त्वयाधिकं कार्यं करणीयमिति। कार्यमेव नास्ति चेत्कथं कुर्याम्? कीदृशी विप्रतिपत्तिः!
शनिवार, 31 अगस्त 2024
नूतनदले
नूतनदले कार्यमारभे। परन्तु सम्प्रति कार्यमेव नास्ति। ह्यः पर्यवेक्षकात्कार्यमयाचे। सोऽवदिदानीं भवते कार्यन्नास्ति। तर्ह्यहं किमर्थं दलेऽन्तर्भूतः कृतो न जाने।
रविवार, 28 जुलाई 2024
दलपरिवर्तनम्
आ वर्षात्कार्यालये दलेऽकस्मिन् कार्यं करोमि। इदानीं दलपरिवर्तनं करिष्यामि। नूतनदले कार्यं रुचिकरं भूयात्।
मंगलवार, 26 दिसंबर 2023
वर्षस्यान्तिमसप्ताहः
वर्षस्यान्तिमसप्ताहः। मदीये दले बहवो जनाः कार्यं कुर्वन्ति। अन्तिमे सप्ताहे मुख्यतया जना अवकाशे भवेयुरिति मन्ये। परन्तु दलस्य सदस्याः कुुटुम्बविहीनाः। येषां कुटुम्बोऽस्ति स कुटुम्बोऽन्यस्मिन्नगरे वर्तते। अतो दलसदस्या अत्रैकाकिनः। न केवलं ते कार्यं कुर्वन्ति ते कार्यालयमागत्य कार्यं कुर्वन्ति। यस्मिन् दलसदस्या मम समवयस्कास्तादृश उद्योगो लब्धव्यः।
शनिवार, 14 अक्टूबर 2023
नूतनोद्योगार्थं प्रयायत्ये
साम्प्रतिकोद्योगसंस्थां त्यजेयमिति बहुवारं चिन्तयामि। परन्तु संस्थया सर्वोत्तमवेतनं दीयतयित्यस्मात्त्यक्तुं न शक्नोमि। अधुना कार्यं न रोचतयेव। किञ्च यत्कौशलमोद्योगापणयेपेक्षयते तत्कौशलमस्यां संस्थायां न प्रयुज्यते। इत्यस्माद्वेतनह्रासं स्वीकृत्याप्योद्योगपरिवर्तेयेति चिन्तयामि। तेन कौशलवृद्धिर्भवेत्। इतोऽपि बहुभ्यो वर्षेभ्यः कार्यं करणीयं तर्हि नूतनकौशलनानि ग्राह्याणि।
गुरुवार, 28 सितंबर 2023
नूतनकार्यं न रोचते
कार्यालये दलपरिवर्तनमकरवम्। नूतनकार्यं समधिकमस्ति। मह्यं न रोचते। अस्य दलस्य ग्राहका विश्वव्यापिनः। अतो कुत्रापि कदापि समस्या आगच्छेच्चेत्तेऽस्मानाह्वयेयुः। तस्मान्मध्यरात्र्यप्याह्वानमागच्छति। पूर्वतने दले ग्राहकाः केवलं केषुचिद्देशेष्वासन्। नववर्षयोद्योगपरिवर्तनं करवाणि। वर्षान्तयुद्योगपरिवर्तनो दुर्लभः।
सोमवार, 7 अगस्त 2023
अस्मिन्सप्ताहे विरामः
अस्मिन्सप्ताहे मया कार्यालयाद्विरामो गृहीतः। पुत्रो ग्रीष्मकालविद्यालयं न गच्छति। स गृहे तिष्ठति। तर्हि मयापि स्थातव्यम्। सम्प्रति ममोद्योगसंस्था मां सप्ताहे त्रिवारं कार्यालयमाह्वयति। कार्यालयं न गच्छानि तदर्थहं विरामं स्वीकृतवान्।
शुक्रवार, 4 अगस्त 2023
बहूनि मेलनानि
कार्यालये नूतनदले कार्यं करोमि। वस्तुतो द्वौ दलौ स्तः। तयोरहमेव महानुभवी। अतो द्वयोर्दलयोरपेक्षास्त्यहं तयोः साहाय्यं करोमि। तस्मादहं द्वयोर्दलयोर्मेलनेषु गच्छामि। तेन प्रतिदिनमर्धदिनं मेलनेष्वेव याति। तदुपरि सम्प्रति नियततया कार्यालयं गन्तव्यम्। तस्मादपि समयो व्यर्थीभवति।
रविवार, 23 जुलाई 2023
वाचालः सहकरी
कार्यालये नूतनदले मम सहकरी वाचालः। केवलं वाचालो न स सर्वदौच्चैर्वदति। यत्किमपि सो वदति सर्वलोकः श्रोतुं शक्नुयुः। तेन सह सम्भाषणं दुष्करं यतः स कार्यालयस्य जनानां विषये कटुवचांसि वदति। मम विषयेऽपि ममानुपस्थित्यां किं वदेदिति चिन्तयामि।
शनिवार, 24 जून 2023
कार्यं प्राप्तम्
कार्यालये आ मासान्नूतनदलेऽस्मि। एतावत्पर्यन्तं कार्यं न प्राप्तमासीत्। तेन कारणेन प्रतिदिनस्थेषु मेलनेषु किं कार्यं कुर्वन्नस्मीत्यस्य वर्णनं क्लेशाय। ह्यः कार्यं प्राप्तम्। प्रथमं कार्यं सम्यग्भूयादिति प्रार्थये यतः सर्वे तत्कार्यं दृष्ट्वा मद्विषये तेषां मतं रचयेयुः। प्राथमिकं मतं महत्वपूर्णम्।