व्याकरणम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
व्याकरणम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

शनिवार, 28 नवंबर 2020

समासपरिचयः

समासवर्गाय मुख्यपाठ्यांशाः सङ्ग्रह्यन्ते।

समासः कः? 

बहूनि पदानि योजयित्वा नूतनं पदमेकं रचयामश्चेत्समासो भवति। उदाहरणं शीतलं जलम् = शीतलजलम्

सामान्यतो द्वयोः प्रातिपदिकयोर्मध्ये समासो भवति (सुबन्तयोर्न तु तिङ्न्तयोः)। समासाय पदयोर्मध्ये परस्परान्वयः आश्यकः।

यथा शीतलं जलम् ऊष्णं दुग्धम्। अत्र शीतलपदस्यान्वयो जलेन सहास्ति। ऊष्णस्य दुग्धेन सह। अतः जलोष्णमिति समासो न कर्तुं शक्यते।

समासः क्रियते चेत् पूर्वपदस्य विभक्तिरपसारणीया। पदयोर्योजनङ्कृत्वा, सन्धिङ्कृत्वा, उत्तरपदमनुसृत्य विभक्तिर्योजनीया।

अहं मम पुत्रं पाठयामि।

मद् पुत्रमं = मत्पुत्रं (चर्त्वसन्धिः)


सन्धिसमासयोर्भेदः कः?

सन्धिः सम्यगुच्चारणाय। यदि सन्धिनियमो युज्यते तर्हि सन्धिङ्कर्तुं शक्नुमः। परन्तु समासः केवलमन्विपदयोर्मध्ये कर्तुं शक्यते।

समासस्य मुख्यभेदाः

तत्पुरुषः (उत्तरपदं प्रधानम्)

द्वन्द्वः (उभे प्रधाने)

बहुव्रीहिः (अन्यत् पदं प्रधानम्)

अव्ययीभावः (पूर्वपदं प्रधानम्)




सोमवार, 22 जून 2020

पुत्रेण पुनः संस्कृतपठनमारब्धम्

अद्यत्वे ग्रीष्मकालविरामः पुत्रस्य। स गृहे प्रतिदिनं त्रीणि कार्याणि करोति। तेषु कार्येषु देवनागरीलेखनमन्यतमम्। स पुनरक्षराँल्लिखति। अस्मिन्वारं तेन न्यूनतरः कष्टोऽनुभूयते यतः स सम्प्रति शिशुर्नास्ति। स संस्कृताध्ययनमनुवर्तेत चेद्वरम्।

रविवार, 31 मई 2020

उपयोगिनो धातवः

इमे धातवः सम्भाषणे लेखने चोपयोगिनः सिध्यन्ति -

अधीते (२) (अध्ययन करना)
(उद्) + एति (२) ऊपर जाना / निकलना / arise / rise
कथयति (१०) कहना
कम्पते (१) काँपना
करोति (८) करना
काङ्क्षति / अभि + लषति (१) इच्छा करना / अभिलाषा करना / चाहना
किरति (६) तितर बितर होना
कुप्यति / क्रुध्यते (४) (गुस्सा होना)
कृन्तति (६) / छिनत्ति (७) काटना
क्रोशति (१) चिल्लाना / रोना
क्लामति (१) थकना
क्षाम्यति (४) (क्षमा करना)
क्षुध्यति (४) भूख लगना
गिरति (६) निगलना
गृह्णाति (९) लेना / पकड़ना
ग्लायति (१) गलना / क्षीण होना
चकास्ति (२) चमकना
चिनोत (५) चुनना / इकट्ठा करना
चिन्तयति (१०) सोचना
जयति (१) जीतना
जहाति (३) छोड़ना
जायते (४) (उत्पन्न होना)
ज्वलति (१) जलना
तनोति (८) फैलाना
त्रुटति (६) टूटना
दहति (१) जलाना / भस्म करना / तबाह करना
दाम्यति (४) दबाना
दुष्यति (४) बिगड़ना / खराब होना
द्राहते (१) / जागर्ति (२) जागना, नीन्द न आना
द्रुह्यति (४) (द्रोह करना)
धरति (१) धारण करना / पहनना
ध्यायति (१) ध्यान करना
नश्यति (४) (नष्ट होना)
(आ) + पृच्छते (६) to bid adieu / say goodbye / see off
बध्नाति (९) बाँधना
(निर्) + बध्नाति (९) insist, urge, be persistent
बिभर्ति (३) धारण करना / पोषण करना / offer / convey
बिभेति (३) डरना
बोधति (१) / बुध्यते (४) / जानाति (९) जानना
भक्षयति (१०) खाना
प्रति + भाति (२) लगना / seems
भासते (१) चमकना / लगना / to become evident
भ्रमति (१) भ्रमण करना
भ्राम्यति (४) (घूमना)
भुनक्ति (७) पालन करना / खाना
मथ्नाति (९) मथना
मन्यते (४) समझना / मानना
मुञ्चति (६) छोड़ना
अनु + मोदते (१) express approval, allow
म्रियते (६) मरना
युनक्ति / युङ्क्ते (७) मिलना / लगना / जुड़ जाना
युध्यते (४) लड़ना
रक्षति (१) रक्षा करना
रुणद्धि (७) रोकना
लुण्ठति (१) चोरी करना / डाका डालना / लूटना
विद्यते (४) (होना)
विध्यति (४) (भेदना)
शंसति (१) प्रशंसा करना
शङ्क्ते (१) शङ्का करना / सन्देह करना
शास्ति (२) शासन करना
शिक्षते (१) सीखना / पढ़ना
शुष्यति (४) सूखना
शोचति (१) शोक करना
शोभते (१) शोभित होना
श्रयति (१) सहारा लेना
सिध्यति (४) (सिद्ध होना)
सेवते (१) सेवा करना
प्र + स्तावयति (२) suggest
स्नाति (२) नहाना
स्पृशति (६) छूना
स्यति (४) अन्त करना / खत्म करना
स्वपिति (२) सोना
स्वादते (१) / स्वादयति (१०) चखना / स्वाद लेना
हन्ति (२) मारना
ह्लादते (१) / हृष्यति / तुष्यति (४) / मोदते (१) प्रसन्न होना

रुकिनियमः

'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत्' इति पुस्तकं पठामि। अत्युत्तमं पुस्तकम्। एको नूतननियमो ज्ञातः। 'रुकिनियमः' नाम्नोच्यते। रेफात् परं, ककारात् परं, अ आ विहाय सर्वेभ्यः स्वरेभ्यः परञ्च सकार आगच्छति चेत्तस्य षकारो भवति। यदि सकारः शब्दस्यान्तेऽस्त्यथवा सकारस्याग्रे रेफोऽस्ति तर्हि सकारस्य शकारो न भवति।

उदाहरणानि -
नरे + सु = नरेषु  (सकारस्य शकारो भवति यता रेफसकारयोर्मध्ये ए अस्ति।)
सेना + सु = सेनासु (सकारस्य शकारो न भवति यत सकारात्पूर्वम् आ अस्ति।)
क् + स = क + श् = क् + ष = क्ष (मक्षिका, क्षत्रियः, क्षमा इत्यादयः।)

शुक्रवार, 21 दिसंबर 2018

'वद्' धातुः सोपसर्गम्

‘वद्’ इति धातोः सोपसर्गा अर्था अत्र सङ्ग्रह्यन्ते -

वदति - speak
प्रवदति - speak well or a lot
संवदति - converse (with someone else)
सम्प्रवदति - yell, crow
अभिवदति - welcome, greet
विवदति - debate, argue
अपवदति - tell lie
उपवदति - curse, speak ill of
आवदति - shout, be loud
अववदति - insult, abuse
अनुवदति - speak after / following, translate
परिवदति - accuse, defame
विसंवदति - contradict, fail to honor agreement, break promise

गुरुवार, 20 दिसंबर 2018

'हृ' धातुः सोपसर्गम्

'हृ' इत्यत्युपयोगी धातुः। उपसर्गैः सह बहवोऽर्था निष्पद्यन्ते -
हृ - to carry
अपहरति - to kidnap
उपहरति - to offer / gift
आहरति - to eat
विहरति - to stroll
परिहरति - to ward off / avoid
उद्धरति - to borrow / extract
प्रहरति - to hit
प्रतिहरति - to close / shut
संहरति - to cut short

रविवार, 1 जुलाई 2018

लुङ्लकारः

पठ् (लुङ्)
अपठीत् / अपाठीत् अपठिष्टाम् / अपाठिष्टाम् अपठिषुः / अपाठिषुः
अपठीः / अपाठीः अपठिष्टम् / अपाठिष्टम् अपठिष्ट / अपाठिष्ट
अपठिषम् / अपाठिषम् अपठिष्व / अपाठिष्व अपठिष्म / अपाठिष्म्


पठ् (लुङ् कर्मणि)
अपाठि अपठिषाताम् अपठिषत
अपठिष्ठाः अपठिषाथाम् अपठिढ्वम्
अपठिषि अपठिष्वहि अपठिष्महि


पठ् (लुङ् णिजन्ते)
अपीपठत् अपीपठताम् अपीपठन्
अपीपठः अपीपठतम् अपीपठत
अपीपठम् अपीपठाव अपीपठाम


पठ् (लुङ् णिजन्ते कर्मणि)
अपीपठ्यत अपीपठ्येताम् अपीपठ्यन्त
अपीपठ्यथाः अपीपठ्येथाम् अपीपठ्यध्वम्
अपीपठ्ये अपीपठ्यावहि अपीपठ्यामहि

बुधवार, 20 दिसंबर 2017

व्याकरणे सन्धेर्वैलक्षण्यम्

संस्कृतव्याकरणे सन्धिविषयो विलक्षणः। प्रायः सर्वे जना विषयोऽयं द्विषते। सन्धिनियमा बहवः। ते जटिलाश्च। विसन्धिना लिखिता लेखा न केवलमनायासेनावगन्तुं शक्यन्तेऽपितु सन्धिर्वर्तते चेत्पठनवेगोऽवरुध्यते। सन्धिः सर्वासु भाषासु भिन्नमात्रायां दृश्यते परन्तु तासु भाषासु सन्धिः केवलमनौपचारिकरूपेण वर्तते। स व्याकरणनियमेषु न समाविष्टः। संस्कृते सन्धिर्व्याकरणनियमेषु समाविष्टः। अतः स औपचारिकरुपेण पाठ्यते। यतः सन्धिरष्टाध्याय्याँल्लिखितोऽतः स त्यक्तुन्न शक्यते। संस्कृतमाधुनिककाले लौकिकभाषा नास्ति तस्मादेव सन्धिरद्य जीवति। यदि संस्कृतं पुनरलौकिकभाषा भवेत्तर्हि निश्चयेन कोऽपि सन्धिर्न प्रयुजयेत। तर्हि मया स किमरथं प्रयुज्येत? स मह्यं रोचते। स सुन्दरो मनोहरश्च। बहुषु नियमेषु के नियमाः प्रयोक्तव्या इति निर्णयकरणे सन्तोषमनुभवामि। मयि सन्धियुक्तशब्दाँल्लिखत्सु मन्मनो मोमुद्यते। सन्धेरभ्यासोऽपि प्राप्नोमि। अभ्यासेन सन्धिनियमा न विस्मरामि। इमे लेखा मदभ्यासस्य कृतयेव न त्वन्येषां पठनाय।

शनिवार, 25 नवंबर 2017

अलुक्समासः

सामान्यतः समासे पूर्वपदस्य विभक्तिर्लुप्यते। समस्तपदे यदि पूर्वपदस्य विभक्तिर्न लुप्यते तदालुक्समासो भवति। अलुक्समासस्तत्पुरुषसमासस्य भेदः।

युधि स्थिरः → युधिष्ठिरः
परस्मै पदम् → परस्मैपदम्
जनुषा अन्धः → जनुषान्धः (जन्मान्धः)
दूरात् आगतः → दूरादागतः

इदमवधेयम् - एतत्समासस्य प्रयोगश्चिकीर्षसि चेत् साहित्ये पूर्वं दृष्टं समस्तपदान्येव प्रयोक्तव्यानि। नूतनसमस्तपदानि न सृष्टव्यानि।

उपपदसमासः

समस्तपदे यद्युपपदं (पूर्वपदम्) उत्तरपदं कृदन्तरूपे विकारयति तदोपपदसमासो भवति। उपपदसमासस्तत्पुरुषसमासस्य भेदः। अस्य समासस्य विग्रहवाक्यमस्वपदविग्रहयुक्तोऽस्त्यत उत्तरपदं विग्रहवाक्ये न दृश्यते।

कुम्भं कारयति → कुम्भकारः (अत्र कारः इति कृदन्तरूपमपि च विग्रहवाक्ये न दृश्यते।)
धनं ददाति → धनदः
साम गायति → सामगः
भयं करोति → भयङ्करः
प्रियं वदति → प्रियंवदः

इदमवधेयम् - विग्रहवाक्ये तिङ्न्तं दृश्यते परन्त्वेष स्वपदविग्रहः। अतोऽस्मिन् समासे सुबन्तं तिङ्न्तेन सह समस्यतयिति न मन्तव्यम्। समासे सुबन्तं तिङ्न्तेन सह कदापि न योक्तव्यम्।

प्रादिसमासः

प्रादिसमासस्तत्पुरुषसमासस्य भेदः। प्र, परा, अप, सम इत्यादयो द्वाविंशतिः प्रादयः शब्दाः। ते परेण शब्देन समस्यन्ते। समासे यदि पूर्वपदं प्रादिरस्ति तदा प्रादिसमासो भवति।

प्रति गतः अक्षम् → प्रत्यक्षम्
परगतः आचार्यः → प्राचार्यः
अभिगतः मुखम् → अभिमुखम्
दुराचारः पुरुषः → दुष्पुरुषः
उत्क्रान्तः कुलात् → उत्कुलः

गतिसमासः

गतिसमासस्तत्पुरुषसमासस्य भेदः। ‘गति’ काचनाष्टाध्याय्यां विहिता संज्ञा। 'च्वि' 'डाच्' प्रत्ययान्तशब्दा ऊर्यादयः शब्दाश्च गतिसंज्ञकाः (अन्ये शब्दा अपि सन्ति, सर्वे नात्र लिखिताः)। गतिसंज्ञाशब्दः परेण शब्देन समस्यते।

अङ्गीकारं कृत्वा → ऊरीकृत्य
अशुक्लं शुक्लं कृत्वा → शुक्लीकृत्य
पटपटा इति शब्दं कृत्वा → पटपटाकृत्य
पुरस्कारं कृत्वा → पुरस्कृत्य
मनसि कृत्वा → मनसिकृत्य
अशुक्लं शुकलं भूत्वा → शुक्लीभूय

गुरुवार, 23 नवंबर 2017

कुसमासः

कुसमासस्तत्पुरुषसमासस्य भेदः। कुशब्दः सुबन्तेन समस्यते।

कुत्सितः पुरुषः → कुपुरुषः / कापुरुषः (गर्हितः पुरुषः, दुष्टः पुरुषः)
कुत्सितम् अन्नम् → कदन्नम्
कुत्सितः अश्वः → कदश्वः

इदमवधेयम्
पुरुषशब्दस्य परे कुशब्दः काशब्दे विकल्पेन परिवर्तते।
स्वराणां परे कुशब्दः ‘कद्’ शब्दे नित्यं परिवर्तते।

नञ्समासः

नञ्समासस्तत्पुरुषसमासस्य भेदः। नञ् (न) सुबन्तेन समस्यते।

न अश्वः → अनश्वः (यः न अश्वः सः)
न ब्राह्मणः → अब्राह्मणः (यः न ब्राह्मणः सः)
न उपलब्धिः → अनुपलब्धिः (उपल्बधेरभावः)
न विवादः → अविवादः (विवादस्याभावः)

इदमवधेयम्
नञ् + स्वरः → अन + स्वरः (न अश्वः → अनश्वः)
नञ् + व्यञ्जनः → अ + व्यञ्जनः (न विवादः → अविवादः)

सोमवार, 20 नवंबर 2017

अव्ययीभावसमासः

यदा प्रायः पूर्वपदमव्ययं प्रधानञ्चास्ति तदाव्ययीभावसमासो भवति। समस्तपदमप्यव्ययमस्ति। समस्तपदं नपुंसकलिङ्गेकवचनं भवति। अव्ययीभावसमासस्य भेदा बहवः। केचनैवात्र दीयन्ते।

अव्ययपूर्वपदम्
१. सप्तमीविभक्त्यर्थे - हरौ इति → अधिहरि
२. सामीप्यार्थे - कृष्णस्य समीपम् → उपकृष्णम्
३. समृद्ध्यार्थे - मद्राणां समृद्धिः → सुमद्रम्
४. व्यृद्ध्यार्थे (विगता वृद्धिः, नाशः, दरिद्रता) - यवनानां व्यृद्धिः → दुर्यवनम्
५. अभावार्थे - मक्षिकाणाम् अभावः → निर्मक्षिकम् (मक्षिकेभ्यो विमुक्तिः)
६. अत्ययार्थे (नाशः, समाप्तिः) - हिमस्य अत्ययः → अतिहिमम् (हिमस्य समाप्तिः)
७. असम्प्रत्यार्थे (अनुचिततार्थे) - निद्रा सम्प्रति न युज्यते → अतिनिद्रम्
८. पश्चादार्थे - विष्णोः पश्चात् → अनुविष्णु
९. शब्दप्रादुर्वभावे (शब्दस्य प्रकाशः) - हरिशब्दस्य प्रकाशः (उच्चारणः) → इतिहरि
१०. योग्यतार्थे - रूपस्य योग्यता → अनुरूपं (उचितम्)
११. वीप्सार्थे - ग्रामं ग्रामं प्रति → प्रतिग्रामं (प्रत्येके ग्रामे)
१२. अनतिक्रम्यार्थे - शक्तिमनतिक्रम्य → यथाशक्ति
१३. यौगपद्यार्थे (साकमार्थे) - चक्रेण युगपत् → सचक्रम् (चक्रेण सहैव)
१४. सादृश्यार्थे - हरेः सादृश्यम् → सहरि
१५. बहिरार्थे - वनात् बहिः → बहिर्वनम्
१६. मर्यादार्थे (मर्यादया विना) - आ हिमालयात् → आहिमालयम् (हिमालयोऽसमाविष्टः)
१७. अभिविध्यार्थे (मर्यादया सह) - आ हिमालयात् → आहिमालयम् (हिमालयः समाविष्टः)
१८. अभिमुख्यार्थे - अग्निं प्रति → प्रत्याग्नि
१९. आनुपूर्व्यार्थे (क्रमार्थे) - ज्येष्ठताया क्रमेण → अनुज्येष्ठम्
२०. सम्पत्त्यार्थे - क्षत्राणां सम्पत्तिः → सक्षत्रम्
२१. साकल्यार्थे (सहितार्थे) - तृणमापि अपरित्यज्य → सतृणम्
२२. अन्तार्थे (अन्तः पर्यन्तम्) - अग्निकाण्डं पर्यन्तम् → साग्नि
२३. अवधारणार्थे - यावन्ति नामानि → यावन्नामम्

अव्ययोत्तरपदम्
मात्रार्थे - शाकस्य लेशः (अल्पमात्रा) → शाकप्रति (अल्पमात्रायां शाकम्)

अव्ययपदरहितम्
१. पारेशब्दयुक्तः - गङ्गायाः पारे → पारेगङ्गम्
२. मध्येशब्दयुक्तः - गङ्गाया मध्ये → मध्येगङ्गम्
(टीका - यदि गङ्गापारे / गङ्गामध्ये लिख्येते तर्हि षष्ठीतत्पुरुषसमासो भविष्यति।)

द्वन्द्वसमासः

यदा सर्वाणि पदानि प्रधानानि तदा द्वन्द्वसमासो भवति। द्वन्द्वसमासः प्रमुखतस्त्रिविधा -

इतरेतरद्वन्द्वसमासः
यदा द्वौ द्वाधिका वा पदानामेकया क्रियया सहान्वयोऽस्ति।
माता च पिता च → मातापितरौ (उपयोगोदारहणम् - मातापितरौ पुत्रँल्लाडयतः।)
रामश्च लक्ष्मणश्च भरतश्च शत्रुघ्नश्च → रामलक्ष्मणभरतशत्रुघ्नाः (उपयोगोदारहणम् - रामलक्ष्मणभरतशत्रुघ्ना मातृभ्यः प्रणमन्ते।)

समाहारद्वन्द्वसमासः
यदा सर्वाणि पदानि कश्चन समाहारा रचयन्ति (समस्तपदं सदैव नपुँसकलिङ्गेकवचनं भवति)।
संज्ञाश्च परिभाषाश्च एतासां समाहारः → संज्ञापरिभाषम्
(टीका - संज्ञाश्च परिभाषाश्च एतासां समाहारः (इतरेतरापि रचयितुं शक्यम्) → संज्ञापरिभाषाः)

कासुचित् स्थितिषु समाहारद्वन्द्वसमासो नित्यं भवति।
शरीरस्याङ्गानां विषये - पाणी च पादौ च एतेषां समाहारः → पाणिपादम्
जन्मजातशत्रुताविषये - अहि च नकुलं च अनयोः समाहारः → अहिनकुलम्
सङ्गीतस्यावयवा विषये - मार्दङ्गिकाश्च पाणविकाश्च एतेषां समाहारः → मार्दङ्गिकपाणविकम् (ये जना मृदङ्गं पणवञ्च वादयन्ति तेषां समाहारः)
सेनयाया अवयवा विषये - रथिकाश्च अश्वारोहाश्च एतेषां समाहारः → रथिकाश्वारोहम्

एकशेषद्वन्द्वसमासः
यदैकपदमेव शिष्यते।
माता च पिता च → पितरौ
अजश्च अजा च → अजौ

द्विगुसमासः

द्विगुसमासस्तत्पुरुषसमासस्य कश्चन भेदः। यदा पूर्वपदं सङ्ख्यावाच्यस्ति तदा द्विगुसमासो भवति। अवधेयम् - येषु समस्तपदेषु पूर्वपदं सङ्ख्यावाच्यस्ति ते सर्वे न द्विगवः। यदि समस्तपदमुत्तरपदञ्चोभावेकां संज्ञामुल्लेखयतस्तर्हि तादृशः समासो द्विगुर्न प्रत्युत विशेषणपूर्वपदकर्मधारयसमासः।
सप्त ऋषयः → सप्तर्षयः
सप्तर्षयः (समस्तपदम्) संज्ञा, ऋषयः (उत्तरपदम्) संज्ञा चोभे अप्यृषीणामेकमेव समूहमुल्लेखयतः। अतोऽयं विशेषणपूर्वपदकर्मधारयसमासो न द्विगुसमासः।

द्विगुसमासस्य प्रमुखभेदास्त्रयः।

तद्धितार्थद्विगुः
यदा तद्धितप्रत्ययमुपयुज्य समस्तपदं साध्यते।
षण्णां मातॄणाम् अपत्यम् → षाण्मातुरः
द्वयोः मात्रोः अपत्यम् → द्वैमातुरः

उत्तरपदद्विगुः
यदा पूर्वपदं सङ्ख्यावाच्यस्ति समस्तपदञ्च कश्चनान्यां संज्ञामुल्लेखयति।
पञ्च गावः धनं यस्य सः → पञ्चगवधनः
अत्र द्वौ समासौ स्तः। पञ्चगवधन इति बहुव्रीहिसमासः। अस्मिन् बहुव्रीहिसमासे ‘पञ्गव’ इतयुत्तरपदद्विगुसमासः। यद्यस्मिन् समासे ‘धन’ पदं न अभविष्यत्तर्हि ‘पञ्चगव’ द्विगुर्नाभविष्यत् प्रत्युत ‘पञ्चगावः’ इति विशेषणपूर्वपदकर्मधारयसमासोऽभविष्यत्। किमर्थम्? यतः ‘पञ्चगावः’ (समस्तपदम्) संज्ञा ‘गावः’ (उत्तरपदम्) संज्ञामेवोल्लेखयति (अस्य लेखस्यादौ ‘अवधेयम्’ भागो दृश्यताम्)। यदि ‘पञ्चगावः’ स्थाने ‘पञ्चगवम्’ इति समस्तपदमलेखिष्यते तर्हि ‘पञ्चगवम्’ समाहारद्विगुसमासोऽभविष्यत्।

समाहारद्विगुः
यदा पूर्वपदं सङ्ख्यावाच्यस्ति समस्तपदञ्च कश्चन समाहार उल्लेखयति।
पञ्चनां गवां समाहारः → पञ्चगवम्
त्रयाणां भुवानां समाहारः → त्रिभुवनम्
अवधेयम् - समाहारद्विगुः समाहारद्वन्द्वस्यापेक्षया भिन्नः। समाहारद्वन्द्वे पूर्वपदं सङ्ख्यावाचि नास्ति।

रविवार, 19 नवंबर 2017

उन्नयनी

ह्यः कस्याञ्चित् पठ्यमानायाङ्कथायां ‘उन्नयनी’ शब्दो मया पठितम्। तस्यार्थो मया न ज्ञातः। शब्दकोशेऽपि लब्धुमसमर्थोऽहम्। तदानीं संस्कृतव्याकरणे सहायतया स्वयमेवास्य शब्दस्यार्थोऽवगन्तुमशक्नवमहम्। अस्मिञ्छब्दे ‘उद्‘ उपसर्गः ‘नी’ धातुश्च प्रयुज्येतयिति मयोहितम्।

उद् + नयनी → उन्नयनी (अनुनासिकसन्धिः)

किञ्चिद्वस्तूर्ध्वं नयतीति सन्दर्भो मयोहितम्। अनन्तरङ्कथायां सन्दर्भं दृष्ट्वा मयोहितँय्यत् ‘उन्नयनी’ शब्दस्यार्थः ‘एलिवेटर’ अस्ति।

उन्नयनी - योर्ध्वं नयति सा (समानाधिकरणबहुव्रीहिसमासः)

व्याकरणज्ञानेन स्वयमेव नूतनशब्दस्यार्थो मयोहितमिति ज्ञात्वा मन्मनसि महान् सन्तोष उदभवत्।

बुधवार, 11 अक्टूबर 2017

बहुव्रीहिसमासः

अस्मिँल्लेखे वयं बहुव्रीहिसमासविषये पठिष्यामः। यदा पूर्वोत्तरुभयोः पदयोः किमपि पदम्प्रधानन्नास्ति तदा बहुव्रीहिसमासो लभ्यते। एते बहुव्रीहिसमासस्य भेदाः -

समानाधिकरणबहुव्रीहिसमासः
यदोभे पदे समानविभक्तौ वर्तेते।
स्थितप्रज्ञः → स्थिता प्रज्ञा यस्य सः
जितः आत्मा येन सः → जितात्मा
ज्ञानं चक्षुः येषां ते → ज्ञानचक्षुः

व्याधिकरणबहुव्रीहिसमासः
यदोभे पदे भिन्नविभक्तौ वर्तेते।
चक्रं पाणौ यस्य सः → चक्रपाणि
ऊर्णं नाभौ यस्य सः → ऊर्णनाभः

सङ्ख्योत्तरपदबहुव्रीहिसमासः
यदोत्तरपदं सङ्ख्यावाच्यस्ति।
विंशतिः समीपे ये सन्ति → उपविंशाः (नित्यं बहुवचनान्तः)
त्रिंशत् समीपे ये सन्ति → उपत्रिंशाः
पञ्चविंशतेः आसन्न → आसन्नपञ्चविंशाः
सहस्रात् अधिकाः → अधिकसहस्राः

सङ्ख्योभयपदबहुव्रीहिसमासः
यदोभे पदे सङ्ख्यावाचिनौ स्तः।
द्वौ वा त्रयः वा → द्वित्राः
पञ्च वा षड् वा → पञ्चषाः
त्रयः वा चत्वारः वा → त्रिचतुराः

सहपूर्वपदबहुव्रीहिसमासः
यदा पूर्वपदं ‘सह’ इत्यर्थं सङ्केतयति।
पुत्रेण सह वर्तते इति → सपुत्रः
कर्मणा सह वर्तते इति → सकर्मकः

व्यतिहारलक्षणबहुव्रीहिसमासः
यदा किञ्चिद्वस्तुनो विनिमयक्रिया वर्तते (सदैवाव्ययानि)।
केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् → केशाकेशि
मुष्टिभिः मुष्टिभिः प्रहृत्य इदं युद्धं प्रवृत्तम् → मुष्टीमुष्टि
बाहौ बाहौ गृहीत्वा इदं युद्धं प्रवृत्तम् → बाहूबाहवि

दिगन्तराललक्षणबहुव्रीहिसमासः
विदिक्षु
दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालम् → दक्षिणपूर्वा (आग्नेयी)
पूर्वस्या उत्तरस्याश्च दिशोर्यदन्तरालम् → पूर्वोत्तरा (ऐशानी)
उत्तरस्याः पश्चिमस्याश्च दिशोर्यदन्तरालम् → उत्तरपश्चिमा (वायवी)
पश्चिमस्या दक्षिणस्याश्च दिशोर्यदन्तरालम् → पश्चिमदक्षिणा (नैर्ऋती)

नञबहुव्रीहिसमासः
नञतत्पुरूषसमास इव परन्तु किमपि पदम्प्रधानन्नास्ति। समस्तपदङ्किञ्चिदन्यद्वस्तूल्लेखयति।
अधनः → अविद्यमानं धनं यस्य सः
अनपत्यः → अविद्यमानं अपत्यं यस्य सः

प्रादिबहुव्रीहिसमासः
यदा प्रादिगणे दत्ताः शब्दा उपयुज्यन्ते।
निर्गता दया यस्मात् सः → निर्दयः
उद्गतः गन्धः यस्यः सः → उद्गन्धिः

उपमानपूर्वपदबहुव्रीहिसमासः
यदा पूर्वपदमुपमानमस्ति। उपमानपूर्वपदकर्मधारयसमास इव परन्तु समस्तपदङ्किञ्चिदन्यद्वस्तूल्लेखयति।
गजाननम् इव आननं यस्य सः → गजाननः
उष्ट्रमुखम् इव यस्य सः → उष्ट्रमुखः
जलजे इव अक्षिणी यस्या सा → जलजाक्षी
घटः इव ऊधः यस्या सा → घटोघ्नी (गौः)

रविवार, 1 अक्टूबर 2017

कर्मधारयसमासः

पूर्वतनलेखेऽहं सामान्यतत्पुरुषसमासविषयेऽलिखम्। समासो विस्तरो विषयः। अस्मिँल्लेखे वयङ्कर्मधारयसमासः कुत्रोपयोक्तुं शक्यतयिति पश्यामः। कर्मधारयसमासस्तत्पुरुषसमासस्य भेदः।

विशेषणपूर्वपदकर्मधारयसमासः
यदा पूर्वपदमोत्तरपदस्य विशेषणो भवति।
दीर्घः रज्जुः → दीर्घरज्जुः
उन्नतः वृक्षः →उनन्नतवृक्षः

विशेषणोत्तरपदकर्मधारयसमासः
यदोत्तरपदं पूर्वपदस्य विशेषणो भवति।
वैयाकरणः खसूचिः → वैयाकरणखसूचिः
कविः श्रेष्ठः → कविश्रेष्ठः

विशेषणोभयपदकर्मधारयसमासः
यदोभौ पदौ विशेषणौ भवतः।
शीतम् ऊष्णम् → शीतोष्णम्
कृतम् अकृतम् → कृताकृतम्

उपमानपूर्वपदकर्मधारयसमासः
यदा पूर्वपदोपमानोऽस्ति।
कुसुमम् इव कोमलम् → कुसुमकोमलम्
वज्रम् इव कठोरम् → वज्रकठोरम्

उपमानोत्तरपदकर्मधारयसमासः
यदोत्तरपदोपमानोऽस्ति।
पुरुषः व्याघ्र इव → पुरूषव्याघ्रः
नरः शार्दूल इव → नरशार्दूलः

अवधारणापूर्वपदकर्मधारयसमासः
यदा पूर्वपदावधारणास्ति।
गुरु एव देवः → गुरुदेवः
विद्या एव धनम् → विद्याधनम्

सम्भावनापूर्वपदकर्मधारयसमासः
यदा पूर्वपदँय्यद्यपि संज्ञा भवति तथापि तद्विशेषण इवाचरति।
दिल्ली इति नगरी → दिल्लीनगरी
नारिकेल इति वृक्षः → नारिकेलवृक्षः
दुष्यन्तः इति नृपः → दुष्यन्तनृपः
गीता इति ग्रन्थः → गीताग्रन्थः

मध्यमपदलोपीकर्मधारयसमासः
यदा विग्रहवाक्ये मध्यमपदं दृश्यते परन्तु समासे तल्लुप्यते।
छायाबहुला वृक्षाः → छायावृक्षाः
द्वयाधिका दशः → द्वादशः

मयूरव्यंसककर्मधारयसमासः
ये तत्पुरुषसमासा अन्यगणेषु नान्तर्भवितुं शक्यन्ते तेऽस्मिन् गणे समाविष्टाः। अस्मिन् गणे बहवः समासाः सन्ति। दैनन्दिनजीवनयुपोगमभावादुदाहरणान्यत्र न दीयमानानि।