ग्रीष्मकाल आगच्छति। साँयकाले घर्मो वर्धते। तस्मात्साँयकलाटनं कठिनं जायते।
मंगलवार, 28 अप्रैल 2026
रविवार, 26 अप्रैल 2026
मिष्ठान्नं प्रतिदिनम्
भार्यापुत्राभ्यां रात्रिभोजनस्य परस्तान्मिष्ठान्नं रोचेते। मह्यमपि रोचे नासत्यं वदानि परन्तु जानामि प्रतिदिनं मिष्ठान्नभोजनं न समीचीनम्। कथञ्चिन्मिष्ठान्नस्य भोजनं न्यूनीकरणीयम्।
शनिवार, 25 अप्रैल 2026
पर्सिस् खम्बाटा
गतरात्रौ मम मस्तिष्के 'पर्सिस् खम्बाटा' इति नामाकस्मिकतयागच्छत्। सा काचित्प्रसिद्धमहिला बभूवेति मया ज्ञातमासीत्परन्तु तस्याश्चित्रं तस्या विवरणं मम मस्तिष्के न प्राकटयत्। बाल्यकालेऽन्तर्जालं नासीत्। तस्मात् सूचना विरलतया मिलति स्म। सम्प्रति तु कदापि किमप्यन्वेष्टुं शक्यते। तस्या नामान्तर्जालेऽस्थापयम्। तेन ज्ञातं सा मिस्-इण्डिया-१९६५ आसीत्। सा चलचित्रविज्ञापनादिषु कार्यं चकार। धूम्रपानदुर्व्यसनात्केवलमेकोनपञ्चाशद्वयसि तस्याः स्वर्गवासं बभूव। तस्या आत्मा शान्तिं प्राप्यात्।
गुरुवार, 16 अप्रैल 2026
भार्याया जन्मदिनम्
भार्याया जन्मदिनमागच्छति। सा कार्यालयाद्विरामं ग्रहीतवती। अहं तु गृहादेव कार्यं करोमि। तस्मिन् दिने किं कुर्यावेति चिन्तयामि। उपायनेषु मम रुचिर्नास्ति तर्हि तस्यै पुष्पानि दास्यामीति चिन्तयामि। रात्रौ सकुटुम्बं भोजनालयं गच्छेमेत्यपि चिन्तयामि।
मंगलवार, 14 अप्रैल 2026
कठिनपुस्तकम्
भौतिकविज्ञानं पठामि। सम्प्रति यत्पुस्तकं पठामि तत् कठिनम्। आरम्भे तु किमपि नावगतम्। पुस्तकस्य दोशो न। विषय एव कठिनः। पुस्तकं तूत्तमम्। ए-आय सहातया शनैःशनै पुस्तकपाठा द्रवीभूयन्ते। द्वाभ्यां मासाभ्यां परस्तादिदानीमगन्तुं शक्यन्ते। कुठारेण पर्वतं भनज्मीति भासते। परन्तु शनैःशनैः पर्वतो निश्चयेन भज्यते।