सोमवार, 30 जनवरी 2023

पुत्रा रुग्णः

शनिवासरे पुत्रा रुग्ण आसीत्। आ दिनमवमत्। तस्मात्स चतुरङ्गस्पर्धायां भागं नावहत्। षट्त्रिंशद्धहोराभ्यः स किमपि नाखदत्। ह्यः शनैः शनैः स खादनमारभत। इदानीं स सम्यगस्ति। अद्य विद्योलयमप्यगच्छत्। श्वो हिमसम्भावनावशाद्विद्यालयः पिहितः। अतः स श्वो न गन्ता।

रविवार, 29 जनवरी 2023

रिच्-डैड्-पूर्-डैड् - २

रिच्-डैड्-पूर्-डैड् इति पुस्तकं पठामि। विंशतिवर्षेभ्यः पूर्वं पुस्तकमपठम्। धनविषये पुस्तकमस्तीत्येव स्मरामि। तस्मादधिकं किमपि न स्मरामि। अधुना पुनः पठामि।

अथ द्वितीयाध्यायस्य पाठः।

धनार्जनाय धनस्य कृते न कार्यं करणीयम्। धनार्जनाय धनेनास्मभ्यं कार्यं कारयितव्यम्। सामान्योद्योगोऽस्ति चेत्काश्चन होरा यावत्कार्यं कृत्वा ध्रुवराशिधनं लभ्यते। स्वस्य व्यवसायो भवेच्चेदसीमितधनं लब्धुं शक्यते। किञ्च लभ्यमानो धनराशिर्व्ययितहोराराशेः समधिको भवितुं शक्नोति।

थिङ्किङ्ग्-इन्-बेट्स् - ६

अथ षष्ठाध्यायस्य पाठः।

निर्णयं कुर्वति सति तस्य निर्णयस्य विषये भूतकाले भविष्यत्काले च चिन्तनीयम्। निर्णयोऽयं यदि पञ्चवर्षेभ्यः पूर्वमकरिष्यतासीत् तर्हि कथं भाव्यते। पञ्चवर्षेभ्यः परं क्रियेत चेत्तर्हि कथं भाव्यते। मदिरापानं कृत्वा वाहनचालनाय सज्जो जनः स्वं प्रष्टुं शक्नोति - एतस्य विषये श्वोऽहं कथं चिन्तयामि। अन्यच्च भविष्यत्काले कीदृशाः प्रमादाः कर्तुं शक्नुयाम तद्विचिन्त्य सम्प्रति तन्निवारणाय पदानि स्थापनीयानि येन प्रमादाः न भवेयुरेव। बहुषु विकल्पेषु कस्य विकल्पस्य कियती सम्भावनास्तीति चिन्तयित्वा निर्णयः करणीयः। यल्लक्ष्यमस्ति तत्साधितमिति चिन्तयित्वा तत्साधनाय किं किं कर्तव्यमिति स्पष्टं भवति। भविष्यत्काले लक्ष्यमसाध्यं तिष्ठतीति चिन्तयित्वा किं किं न करणीयमिति स्पष्टं भवति। सम्यङ्निर्णयकरणायोभे आवश्यके।

शनिवार, 28 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - ५

अथ पञ्चमाध्यायस्य पाठः।

कोऽपि सन्देशो न रोचते चेद्दूतो न हन्तव्य इति तु सर्वज्ञातम्। सत्यमेव। तदतिरिच्य सन्देशः सत्योऽस्ति चेत्सन्देशोऽपि न हन्तव्यः। तन्नाम सन्देशस्य सत्यता न रोचते चेत्सन्देशो नोपेक्षणीयः। किमपि सत्यं कुत आगतम्, कथमागतम्, केन दत्तमित्युपेक्ष्य तत्सत्याद्वयं किं शिक्षितुं शक्नुयामेति चिन्तनीयम्। तस्मान्निर्णयकरणकौशलं वर्धनीयम्। जनसमूहे कैश्चन जनैः सह मतभेदस्तु भवत्येव। तत्सामान्यम्। येभ्यो मतभेदोऽस्ति तेषामुपेक्षा न करणीया। तेषां मतं श्रुत्वा स्वस्य मते ये दोषाः सन्ति ते परिष्करणीयाः। अपि चान्यैः सह मतभेदे सति 'परन्तु' इत्यस्य प्रयोगोऽत्यवधानेन करणीयः। यावच्छक्यं 'च' प्रयोक्तव्यः। 'त्वमेवमेवं वदसि परन्तु...' इत्यस्य स्थाने 'त्वं यद्वदस्यहमवगच्छामि। तदतिरिच्यास्माभिरेवमेवमपि परिशीलनीयम्' - एतत्क्रियते चेत्समूहे द्वेषभावना न भवेत्। सर्वे मिलित्वा कर्तव्यं कार्यं समीचीनतया करणाय प्रयतन्तयिति भावो वर्धते।

पुत्रस्य स्वास्थ्यम्

अद्य चतुरङ्गस्पर्धास्ति परन्तु पुत्रस्य स्वास्थ्यं सम्यङ्नास्ति। स्पर्धायै गच्छेव वा नेति न जाने।

मंगलवार, 24 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - ४

अथ चतुर्थाध्यायस्य पाठः।

कृतस्य निर्णयस्य दुष्परिणामस्य निमित्तं दौर्भाग्यमिति चिन्तनस्य निवारणाय केषाञ्चिद्विशिष्टमित्राणां समूहः सृष्टव्यः। सामान्यतो मित्राणि दुष्परिणामेषु सान्त्ववचांसि ददति। न तव दोषो दौर्भाग्यस्यैव दोष इति सामान्यमित्राणि ब्रुवन्ति। परन्तु दुष्परिणामेभ्यो वयं नूतनपाठान्पठाम। तदर्थं ये जनाः सान्त्ववचांसि त्यक्त्वा वयं कुत्र दोषमकरवामिति विशदीकुर्युस्तादृशानि मित्राणि भवन्तु। एभिर्मित्रैः परस्परावगमनं भवतु यद्वयमस्मिन् समूहे निस्सङ्कोचं दोषान् विषदीकुर्याम। एतस्मात्परस्परं लाभो भवेत्। समूहे केनापि दोषे विशदीकुर्वत्यन्यैर्द्वेषो न करणीयः। अनेन भविष्यत्कालेऽस्माकं समीचीननिर्णयकरणकौशलं वर्धेत।

सोमवार, 23 जनवरी 2023

चतुरङ्गस्पर्धा

आ द्वाभ्यां वर्षाभ्यां पुत्रश्चतुरङ्गाभ्यासं कुर्वन्नस्ति। आगामिनि सप्ताहे विद्यालये चतुरङ्गस्पर्धा भविता। स तस्यां भागं वक्ष्यति। स विजेता भूयात्।

रविवार, 22 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - ३

अथ तृतीयाध्यायस्य पाठः।

कृतस्य निर्णयस्य दुष्परिणामः स्याच्चेद्वयं दुर्भाग्ये दोषं स्थापयामः। परिणामोऽस्मदनुगुणं स्याच्चेद्वयं स्वस्य कौशलं कारणभूतं घोषयामः। अन्यैः कृतेषु निर्णयेषु वयं विपरीततया व्यवहरामः। दुष्परिणामास्तेषां कौशलाभाववशाद्घोषयामः। उत्तमपरिणामास्तेषां सौभाग्यवशाद्घोषयामः। एषा प्रवृत्तिः परिहरणीया। कोऽपि परिणामो भाग्यकौशलयोः केनिचित्संयोजनेन लभ्यते। दुष्परिणामो भवेत्सुपरिणामो भवेद्वा कृतेषु निर्णयेषु के के दोषा अस्माभिः कृताः, तेभ्यो दोषेभ्यो वयं कं पाठं ग्रहीतुं शक्नुम इति चिन्तनीयम्। तस्मादग्रिमेषु निर्णयेषु जीवने च लाभो भवेत्।

शनिवार, 21 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - २

अथ द्वितीयाध्यायस्य पाठ:।

सर्वेषामुकी विचारसरणिरस्ति। जनास्तद्विचारसरणिं दृढीकरणाय प्रमाणमन्विष्यन्ति। विचारसरणेर्विपरीतप्रमाणं लभ्यते चेज्जनास्तत्प्रमाणं तृणीकुर्युः। तन्न कर्तव्यम्। अस्माकं साम्प्रतिकविचारसरणिः समीचीनास्ति वा नेत्यस्य प्रश्नः करणीयः। गच्छता कालेन यदा यदा प्रमाणं लभ्यते तदा तदा तदाधारीकृत्य विचारसरणिः परिवर्तनीया त्यक्तव्या वा। यस्मिन्नस्माकं विश्वासस्तदुपरि वयं धनेन पणयितुं सज्जा वा? यदि न तर्ह्यधिकप्रमाणमन्वेषणीयम्। जीवने सर्वे निर्णयाः पणीकरणमिव। कियती दृढा प्रतीतिरस्तीति चिन्तयित्वा निर्णयाः करणीयाः।

तरणपरीक्षा

पूर्वं पुत्रस्तरति स्म। तस्य तरणकौशलं न क्षीयेतित्यतः स पुनस्तरणपाठाँल्लभेतामिति चिन्तयावः। अद्य प्रातःकाले तरणपरीक्षणार्थं तमनैष्व। पञ्चनिमेषान्यावत् तस्य कौशलं दृष्ट्वा शिक्षकस्तस्य तरणवर्गस्य स्तरमचैषीत्। प्रतिरविवासरं साँयकाले स तरणाभ्यासाय गमिष्यति।

अण्डानामाभावः

कुक्कुटरोगवशात् पञ्चदशलक्षकुक्कुटा मारिताः। तस्मादण्डानामाभावो वर्तते।

थिङ्किङ्ग्-इन्-बेट्स् - १

थिङ्किङ्ग्-इन्-बेट्स् इति पुस्तकं पठामि। अथ प्रथमाध्यायस्य पाठः।

कश्चन निर्णयः सम्यगसीद्वा नेत्यस्य निर्णयः कृतस्य निर्णयस्य परिणाममाधारीकृत्य न कर्तव्यः। जीवने बहूनि निमित्तकारणानि न केवलमस्माकं हस्ते न सन्ति परन्तु तेषां विषये बहुवारं वयं न जानीम एव। निर्णयः सम्यक् सत्यपि परिणामो हानिकारको भवितुं शक्नोति। निर्णयसमये सर्वा ज्ञातसूचनाः परिशील्य पर्याप्तचिन्तनं कृत्वा च निर्णयः कृत एतदेव सम्यङ्निर्णयं सूचयति। परिणामस्त्वस्माकं हस्ते नास्ति।

बुधवार, 18 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः १२

अथ द्वादशमाध्यायस्य पाठः।

कौतुकमत्यावश्यम्। बालकेषु कौतुकं श्लाघनीयम्। तस्माच्छिक्षणं सम्यग्भवेत्। तस्माद्बालका नूतनकौशलानि लभेरन्।

ब्रेन्-रूल्स् - अध्यायः ११

अथैकादशमाध्यायस्य पाठः।

पुरुषस्त्रियोर्मस्तिष्कौ भिन्नतया कार्यं कुरुतः। तयोर्भेदमवगम्य तदानुसारं पठनं पाठनञ्च करणीयम्। तस्मात्पुरुषस्त्रियोरुभयोः शिक्षणं सम्यग्भवेत्। एतन्न केवलं विद्यालयेऽपितु कार्यालयेऽपि करणीयः।

यद्यपि पुस्तकमुपरिदत्तं पाठं पाठयति तथाप्यद्यत्वे तादृशं कर्तुं शक्यतयित्यस्मिन् मम सन्देहः। यतोऽद्यत्वे सर्वत्र स्त्रीपुरुषसामान्यताया गानमेवास्ति। कोऽपि भिन्नतया वदेच्चेत्स स्त्रीद्वेषी भाव्यते।

ब्रेन्-रूल्स् - अध्यायः १०

अथ दशमाध्यायस्य पाठः।

सर्वेष्विन्द्रियेषु दृष्टिः प्रधाना। सर्वेष्विन्द्रियेषु मस्तिष्को दृष्टये सर्वाधिकसंसाधनानि ददाति। चित्रमेकं सहस्रशब्दा इवेत्युच्यते। तत्सत्यम्। अवगमनाय सूचनां दानाय च चित्राणां प्रयोगः करणीयः। तस्मात्सूचना दीर्घं यावत्स्मर्येत।

सोमवार, 16 जनवरी 2023

पुत्रस्य मित्रस्य जन्मदिवसोत्सवः

अद्य कार्यालयस्य विद्यालयस्य चावकाशोऽभूत्। पुत्रस्य मित्रस्य जन्मदिवसोत्सवेऽहं पुत्रश्चागमाव। तिस्रो घण्टा यावत्पुत्रोऽरंस्त। स्वादुभोजनं जग्ध्वा चलच्चित्रक्रीडाः क्रीडित्वा सोऽहर्षीत्।

ब्रेन्-रूल्स् - अध्यायः ९

अथ नवमाध्यायस्य पाठः।

कस्यचिद्वविषयेऽवगमने बहूनीन्द्रियाणी प्रयुज्यन्ते चेद्दीर्घकालं यावद्विषयस्य स्मरणं भवति। इन्द्रियेषु जिघ्रणं विशिष्टमस्ति। सुगन्धेन बहुवर्षेभ्यः पूर्वं स्मृतमपि झटिति मस्तिष्के मुखे चागच्छति।

ब्रेन्-रूल्स् - अध्यायः ८

अथाष्टमाध्यायस्य पाठः।

उद्वेगो मस्तिष्कस्य स्मरणपरीक्षणशक्ती क्षाययति। कार्यालये विद्यालये चोत्तमरीत्या कार्यं करणाय मानसिकसन्तुलमावश्यकम्। करणीयेषु कार्येषु यद्यस्माकं नियन्त्रणं भवेत्तर्ह्युद्वेगो न्यूनो भवेत्।

भ्रातुर्नूतनोद्योगः

शनिवासरे भ्रात्रा सह समभाषे। गते सप्ताहे तेन नूतनोद्योग आरब्धः। वेतनं सम्यगस्ति। कार्यमपि तस्मै रोचते। तस्य तन्त्रांशनुभवः स्वल्पमस्ति। अहं तस्मै साहयकं ज्ञानमददाम्। नूतनोद्योगे स साफल्यं लप्सीष्ट।

रविवार, 15 जनवरी 2023

यात्रा १

मार्चमासे पुत्रस्य विद्यालयस्य विरामो भविता। तस्मिन्काले यात्रां कर्तास्मः। यात्रायाः पूर्वमितोऽपि द्वे मासे वर्तेते। परन्तु गच्छता कालेन निवासालयभाटको वर्धिष्यते। अतोऽद्यैव निवासालयेषु भाटके प्रकोष्ठा ग्रहीताः। कारयानेन गन्तास्मः। अतो विमानचिटिकाक्रयणं नावश्यकम्।

शाखाः लूनाः

गृहोद्याने केषाञ्चन् वृक्षाणां शाखा लम्बमाना आसन्। बालका उद्याने क्रीडन्ति। ताभ्यः शाखाभ्यो बालका व्रणिता न भवेयुरित्यतो ह्यः शाखाः लूनाः। अहं भार्या च विद्युतलवित्रेण शाखा अलुनीव। अग्रिमे सप्ताहे सर्वेभ्यो गृहेभ्यः सर्वकारो लूनाः शाखाः सङ्ग्रहीष्यति। अतो लूनाः शाखाः कथमोणामेत्यस्य विषये चिन्ता नास्ति।

गुरुवार, 12 जनवरी 2023

कार्यालयं गमिष्यामि

अधुनापि गृहादेव कार्यं करोमि। इतःपरं कार्यालये सर्वेभ्यो ध्रुवस्थानं न भविष्यति। अतः कार्यालयं गत्वा नैजवस्तून्यानेतव्यानि। तदर्थमद्य द्वाभ्यां घण्टाभ्यां कार्यालयं गमिष्यामि।

सोमवार, 9 जनवरी 2023

पुत्राय वित्तकोषः

बहुभ्यो दिनेभ्यः पुत्रः स्वस्मै वित्तकोषं याचमान आसीत्। ह्यस्तस्मै मया वित्तकोष उद्घाटितः। स उत्साहितः।

रविवार, 8 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः ७

अथ सप्तमाध्यायस्य पाठः।

दिने यदधीतं रात्रौ निद्रायां मस्तिष्कस्तद्दृढीकरोति। अतः सम्यगवगमनाय स्मरणाय च पूर्याप्ता निद्रावश्यकी।

शनिवार, 7 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः ६

अथ षष्ठाध्यायस्य पाठः।

कस्यचिद्विषयं सम्यक् स्मरणाय तद्विषयः पौनःपुन्येन पठनीयः। तावदेव न। पुनरपठनानां मध्ये किञ्चित्कालो भवितव्यः। तस्माद्विषयो मस्तिष्के दीर्घकालं यावत्तिष्ठेत्।

बुधवार, 4 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः ५

अथ पञ्चमाध्यायस्य पाठ:।

स्मरणमावर्तनेन शाश्वतं भवति। यदि स्थानभावनादीनि घटितवृतान्त इव भवन्ति तर्हि स्मृतेः प्रत्यावर्तनमनायासेन भवति।

ब्रेन्-रूल्स् - अध्यायः ४

अथ चतुर्थाध्यायस्य पाठः।

बहुषु प्रसङ्गेषु मस्तिष्कोऽवधानं दातुं न शक्नोति। बहूनि कार्याणि युगपत् कर्तुं न शक्नोति। यावच्छक्यमेकस्मिन् समये कार्यमेकमेव सम्यक्तया करणीयम्। अन्यच्च मस्तिष्को लघुवेलां यावदेवावधानं दातुं शक्नोति। ततः परं पुनरवधानवान् भवितव्यम्। मस्तिष्को मुख्यविषयमधीकृत्य प्रथममवधानवान् करणीयः। तदनन्तरमेव विस्तरेण तद्विषयः पठनीयः। अन्यथा मस्तिष्कस्यावधानं गच्छेद्विषयो न स्मर्येत च।

मंगलवार, 3 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः ३

अथ तृतीयाध्यायस्य पाठः।

यद्यपि सर्वेषां मस्तिष्कानां रचना समाना तथापि सर्वेषु मस्तिष्केषु नाडीकोशानां सम्पर्कमार्गा भिन्नाः सन्ति। तस्माद्भिन्नजना भिन्नतया शिक्षन्ते। इदं मनसि निधायैव शैक्षणिकव्यवस्था निर्वहणीया।

ब्रेन्-रूल्स् - अध्यायः २

अथ द्वितीयाध्यायस्य पाठः।

आ प्राचीनकालात् केवलमस्माकं शरीर एव न मन्दपरिवर्तित:। अमस्माकं मस्तिष्कोऽपि।

ब्रेन्-रूल्स् - अध्यायः १

ब्रेन्-रूल्स् इति पुस्तकं पठामि। अथ प्रथमाध्यायस्य पाठः।

व्यायामो बहून् रोगान् निवारयति। कदाचिद्रोगमपसारयत्यपि। व्यायामो दीर्घजीवनं कल्पयति।

सोमवार, 2 जनवरी 2023

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १५

अथ पञ्चदशमाध्यायस्य पाठः।

अन्ये जना अस्माकं विषये किं चिन्तयन्तीत्यस्माकं निर्णयान् प्रभवति। वयमन्येषानुकरणं न कुर्मः, अस्माकं स्वबुद्धिरस्तीति दर्शनाय कदाचिद्वयं यं निर्णयं कुर्मो यो वयं गुप्ततया कदापि न कुर्याम। एतस्मादवधानवन्तो भवाम।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १४

अथ चतुर्दशमाध्यायस्य पाठः।

सामान्यतः सज्जना व्याजं न कुर्वन्ति। परन्तु व्याजावसरे यदि धनस्य स्थाने किमप्यन्यद्वस्तु भवेच्चेत्ते सज्जना एव व्याजं कुर्तुं शक्नुयुः। अतोऽस्माभिर्विशेषावधानं देयं यद्वयं धनाभावस्थितौ व्याजं न करवाम।

रविवार, 1 जनवरी 2023

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १३

अथ त्रयोदशमाध्यायस्य पाठः।

अवसरो लभ्यते चेज्जना व्याजं कुर्युः। परन्तु धार्मिकनैतिकशपथाः स्मार्यन्ते चेत्ते जना एव व्याजं न कुर्युः। अतो दैनन्दिनजीवने विशेषतो ये जना प्रभावशालिनः सन्ति तान् निश्चयेन शपथाः स्मारयितव्याः।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १२

अथ द्वादशमाध्यायस्य पाठः।

समाजे विश्वासस्य महत्त्वमस्ति। येषु समाजेषु जनाः संस्थाश्च विश्वसनीया न सन्ति तस्मिन् समाजे जीवनं कठिनमस्ति। अतो यावच्छक्यं विश्वासः परिरक्षणीयः।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ११

अथैकादशमाध्यायस्य पाठः।

कस्यचिद्वस्तुनः शुल्कं तस्य गुणवत्ताया विषयेऽस्मान् प्रभवति। महार्घं वस्तु वरिष्ठं न्यूनशुल्कवस्तु जघन्यमिति वयं चिन्तयामः। औषधं प्रभावि नास्ति चेदप्यौषधमस्माकं रोग्यं निवारयतीति चिन्तयित्वैव वयं बहुवारं तदौषधं भुक्त्वा निरामया भवेम। अतो वस्तुनो विषयेऽस्माकं के विचाराः कियती श्रद्धेत्यस्य विशेषमहत्त्वमस्ति। यावच्छक्यं तादृशी चित्तवृत्तिः परिहरणीया।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १०

अथ दशमाध्यायस्य पाठः।

अपेक्षाऽस्माकं दृष्टिकोणं प्रभवति। कस्यापि वस्तुनः समीचीनासमीचीनत्वं साध्वसाधुता तारातम्यं च तस्य वस्तुनो विषये वयं किं जानीमः, तद्ववस्तु कीदृश्यां व्यवस्थायामस्तीत्यस्य समधिकमहत्त्वमस्ति। एकमेव वस्तु भिन्नजनैर्विविधदृष्ट्या दृश्यते। अतोऽपेक्षाणां प्रभावः सर्वदा मनसि निधायैव निर्णयः करणीयः।