गुरुवार, 31 दिसंबर 2020

कियन्मूल्यम्?

सन्दर्शनसन्नाहाय कठोरश्रम आश्यकः। तस्मान्न बिभेमि। करोमि। परन्तु तस्मै कियन्मूल्यं दीयतामिति चिन्तयामि। दिने कार्यालयस्य कार्यङ्कर्तव्यम्। तत्तूपेक्षितुन्न शक्यते यतस्तस्मादेव जीविकार्ज्यते। तर्हि प्रातःकाले साँयकाले च श्रमः कर्तव्यः। तस्मादन्येभ्यः कार्येभ्यः समयो न लभ्यते। कुटुम्बाय। मनोरञ्जनाय। नूतनोद्योगमवाप्य वेतनवृद्धिर्भवेच्चेत्किं सा वेतनवृद्धिरीदृशी हुत्यार्हा?

रविवार, 27 दिसंबर 2020

त्रयाणां दिनानां विरामः समाप्तः

त्रिदिवसीयः सप्ताहान्त आसीत्। रमणीयङ्कालम्। श्वो मया भार्यया च कार्यङ्कर्तव्यम्। पुत्रस्य विद्यालयस्य विरामो वर्तते। स जनवरीषड्दिनाङ्कादारभ्य पुनर्विद्यालयवर्गे भागं वक्ष्यति। यतो मम प्रबन्धको गतोऽतश्चिन्तयामि सप्ताहेऽस्मिन्नधिकार्यन्न भविता।

सन्दर्शनाय सन्नाह आडम्बरेण प्रचलति

नूतनोद्योगो लब्धव्य इति मया पूर्वं भणितम्। तदर्थं सन्नाह आवश्यकः। सम्प्रति मदीयेन प्रबन्धकेन विरामो गृहीतः। अतः कार्यं शून्यप्रायमस्ति। सुवर्णावसरमेतमहं प्रयुञ्जे। दिने चतुःपञ्चघण्टा यावत्तन्त्रांशाभ्यासङ्करोमि येन सन्दर्शनेषु लाभो भवेत्।

शुक्रवार, 25 दिसंबर 2020

छात्रो नागतः

मम वर्गे छात्र एको योऽन्यस्मिन्नगरे वसति। जनवरीमासादारभ्य गीतासोपानमिति पुस्तकं पाठयिष्यामि। तत्सकाशे पुस्तकमिदन्नास्ति। कस्मैचित्कार्यायाद्य तेन मामकं नगरमागन्तव्यमासीत्। मत्पुस्तकमपि स्वीकर्तव्यमासीत्। परन्तु तस्यागमनं स्थगितमभूत्। अतः स पुस्तकं जालस्थानात्क्रेष्यति।

शुष्कं मृगमासम्

साँयकाले भार्या मृगमासमपाक्षीत्। सामान्यतः सा पाकनिपुणा। परन्त्वद्य मृगमासं शुष्कञ्जातम्। तया पूर्वङ्कदापि मृगमासन्नापक्तम्। तया कृतं पाककार्यन्न निन्द्येतेति चिन्तयित्वा कथञ्चिदखादिषम्। परन्तु शाकानि स्वादिष्टान्यभूवन्।

उपायनानि

प्रातःकाले प्रातराशङ्कृत्वा सर्वैरुपायनान्युद्घाटितानि। क्रिस्तमसवृक्षस्याध उपायनानि स्थापितान्यभूवन्। पुत्रस्तस्य प्रियक्रीडकानि लब्ध्वा हर्षितः। भार्यायै तस्या उपयोगीनि वस्तून्यदाव। अहं पुस्तकङ्काफीपेयञ्चालप्सि।

गुरुवार, 24 दिसंबर 2020

श्वः क्रिस्तमसपर्व

श्वः क्रिस्तमसपर्व। पुत्रोऽत्युत्सुको यतः स जानाति स उपायनानि प्राप्ता। श्वो भार्या मृगमासं मिष्ठानि च पक्ता।

सन्दर्शनेभ्यः सन्नाहा आरब्धा

आगामिनि वर्षे नूतनोद्योगो लब्धव्यो मया यतः कार्यालयो वेतनवृद्धिं पदोन्नतिं वा न करोति। अद्यत्वे सन्दर्शनानि कठिनानि। कठोरश्रम आवश्यकः। तदर्थमहमधुनैव सन्नाहमारभे। प्रतिदिनमभ्यासङ्करिष्ये। त्रिचतुरमासेषु नूतनोद्योगं लप्सीय।

रविवार, 20 दिसंबर 2020

पिष्टकम्

अद्य मम जन्मदिवसावसरे भार्या पिष्टकमपचत्। आ दिनं पुत्रस्तत्खादनायोऽधीरः स्थितः। साँयकाले सर्वे कुटुम्बजनाः खादित्वारंस्महि।

शनिवार, 19 दिसंबर 2020

ग्राहकता क्रीता

सम्भाषणसन्देशपत्रिकाया ग्राहकता नवीकरणीयेति पूर्वं सूचितं मया। तत्र वर्तमानं द्वैविध्यमपि भणितम्। अन्तर्जालग्राहकताङ्क्रयणाय प्रायते परन्तु जालपुटेन मम वर्तमानः कोषो न स्वीकृतः। नूतनकोषा रचनीय इति सन्देशो दृष्टः। तस्मै दूरभाषसङ्ख्यागृहसङ्केतौ दीयेताम्। केवलमन्तर्जाले पठनाय तादृशी सूचना नूतनजालस्थानाय दानाय मम रुचिर्नाभवत्। अतोऽहङ्कागदपत्रिकाया ग्राहकतामेवाक्रीणि। तस्मिन्जालस्थाने मम कोषः पूर्वमेवासीत्।

शुक्रवार, 18 दिसंबर 2020

प्रस्तुतिः

ह्यः कार्यालये पञ्चदशजनानां प्रत्यक्षं प्रस्तुतिमकरवम्। कार्यमेतत्कार्यालयस्य बहुषु कार्येषु तादृशङ्कार्यमासीद्यस्य किमपि प्रयोजनन्नास्ति तथापि यतः प्रबन्धकेनोक्तमतः करणीय एव। कार्यं तु मयोत्तमरीत्या कृतम्। प्रबन्धको मां श्लाघितवान्। तथापि कार्यं व्यर्थमेवासीदिति ममाभिप्रायः। कृत्वा मम कर्तव्यं पूरितम्।

मातृपुत्रौ गमिष्यतः

अद्य मम भार्या पुत्रश्च पुत्रस्य मातामहीमातामहौ मेलनाय गमिष्यतः। सामान्यतस्तौ क्रिस्तमसपर्वण्यस्माकङ्गृहमामिष्यतः। परन्तु वर्षेऽस्मिन्करोणाविषाणुवशात्तौ नागन्तारौ। तथापि तौ पुत्रायोपायनानि दित्सतः। तस्मै तौ मम भार्यापुत्रावर्धमार्गे मेलिष्यतः। तौ तान्युपायनानि दास्यतः। गतसप्ताहे भार्याः सहकरिण्याः पतिर्मृगाखेटाय जगाम। स तस्य मित्रेण सह त्रीन्मृगानाजघ्ने। तावते मासाय तस्य शीतपेटिकायामवकाशो नासीत्। अतस्तेन मृगमासमस्मभ्यं दत्तम्। तावतो मासाद्वयङ्किञ्चिद्भार्याया मातृपित्रभ्यामद्य दद्मः।

बुधवार, 16 दिसंबर 2020

नूतनवर्ग आरब्धा

जनवरी-१० दिनाङ्कादारभ्य नूतनवर्ग आरब्धा। गतवसन्तर्तौ वयङ्गीतासोपानमपठाम। गतशरदृतौ सन्धिमपठाम। तस्माद्गीतासोपानस्य पठनं स्थगितमभवत्। अर्धान्न्यूनं पुस्तकं पठितम्। तस्यैवानुर्तनङ्कर्तास्मः।

मंगलवार, 15 दिसंबर 2020

रमणीयः समयः

वर्षस्य कालोऽयं सर्वदा रमणीयः। शैत्यमस्ति। कार्यालये बहवो जना अवकाशङ्गृह्णते। तस्मात्कार्यं न्यूनायते। पुत्रस्य विद्यालयेनावकाशो दीयते। गृहेऽन्दिकां निकषा स्थित्वा चायपानङ्करोमि। भार्या स्वादिष्टानि खाद्यानि पचति। वयं रमामहे।

पत्रिकाया ग्राहकता

सम्भाषणसन्देशपत्रिका मह्यं रोचते। प्रतिमासं तां पठामि। पत्रिका कागदेऽन्तर्जाले वा पठितुं शक्यते। उभाभ्याङ्ग्राहकतावश्यकी।  अन्तर्जालापेक्षया कागदपत्रिकां पठित्वाहमानन्दं लभे। गतवर्षे द्वादशमासेषु प्रायः सप्ताष्टमासेष्वेव पत्रिका प्राप्ता। आमासं प्रतीक्ष्य पत्रिका न लभ्यते चेत्पत्रिकाकार्यालयमी-पत्रं गमयितव्यमासीद्मया। अनन्तरं ते पत्रिकामप्रेषयिष्यन्त। पुनः पत्रिकायाः प्रतीक्षा करणीया आसीत्। यदाकदाचिदिदं भवेच्चेन्न कोऽपि हानिः। परन्तु गतवर्षे बहुवारं तादृशमभवत्। अतो वर्षेऽस्मिंश्चिन्तयामि पत्रिकाया अन्तर्जालग्राहकता क्रेतव्या। यद्यपि कागदपत्रिका ग्राहकताशुल्कं द्विगुणमस्ति तथापि तस्यां प्राप्तेऽन्तर्जालपत्रिका न दीयते। विलक्षणमेतत्। यद्यपि मम पत्रिकायायन्तर्जालकोषोऽस्ति तथाप्यन्तर्जालपत्रिकेष्यते चेन्नूतनान्तर्जालकोषा रचनीयः। एतदपि विलक्षणम्। किङ्करवाणि?

सोमवार, 14 दिसंबर 2020

एक एव प्रयतते

अहं तृतीस्तरीयांश्छात्रान्संस्कृतं पाठयामि। संस्कृतेन सम्भाषणमस्माकं लक्ष्यमेकम्। पुनः पुनरुक्त्वापि कोऽपि संस्कृतेन न वदति। परन्त्वेको नूतनश्छात्रः संस्कृतसम्भाषणाय सर्वदा प्रयतते। स भाविसंस्कृतकार्यकर्ता भूयात्।

समासवर्गः समपद्यत

गतरविवासरे समासवर्गः सम्यक्तया समपद्यत। ममापक्षेासीद्ममवर्गं वर्जयित्वान्ये छात्रा अप्यागच्छेयुः परन्तु सर्वे जना मदीयस्य वर्गस्यैवासन्। द्विघण्टे यावदव्याहततया वदनवशात्कण्ठे वेदनाजायत।

शनिवार, 12 दिसंबर 2020

'म्यू-टू'

पुत्रस्य रुचिः पोकेमोनक्रीडायां वर्तते। केभ्यश्चिद्मासेभ्यः पूर्वं तस्मै क्रीडायन्त्रङ्क्रापितमासीत्। बहुभ्यः सप्ताहेभ्यस्तेन क्रीडैका क्रीडिता। तेन क्रीडा समाप्तप्राया कृता। परन्त्वन्ते म्यू-टू इति नाम्ना रिपुरासीद्यं स जेतुन्नाशक्नोत्। केभ्यश्चिद्दिनेभ्यस्तेन क्रीडा पुनर्न क्रीडिता। अहं तमवदं तेन क्रीडा समापनीया। अद्य स क्रीडां पुनरक्रीडीत्। म्यू-टू-महाशयमजैषीत्। अतिप्रसन्नोऽस्ति सः।

शुक्रवार, 11 दिसंबर 2020

पुत्रश्चतुरङ्गपटुः

पुत्रश्चतुरङ्गपटुो भवति। गतेषु मासेषु चतुरङ्गे तस्य रुचिरधिका जाता। स प्रतिदिनं सङ्गणके चतुरङ्गपाठान्पठति। तस्मात्तस्य चतुरङ्गज्ञानमभिवर्धते। इदानीं यदा कदापि स मया सह क्रीडति, अहं जेष्याम्युत नाहन्न जाने। बहुवारं स जयति। आगामिषु दिनेष्वहञ्जेतुन्न शक्ष्यामीति स्पष्टमस्ति। बालावस्थायां तेन कौशलमेतल्लब्धमिति प्रशंसार्हम्।

मंगलवार, 8 दिसंबर 2020

शून्यात्परं शून्यम्

सन्धिवर्गाय द्वे गृहकार्ये दत्त आस्ताम्। उभयोः सन्धिविच्छेदः करणीय आसीत्। उभयोर्गृहकार्ययोरुपरि स्थूलाक्षरैः सूचना दत्तासीत्सन्धिविच्छिन्नपदयोर्मध्ये रिक्तस्थानं स्थापनीयमन्यचिह्नन्न। तथापि केनचिच्छात्रेण + इति चिह्नं स्थापितम्। इत्यस्मात्तेनोभयोर्गृहकार्योः शून्ये लब्धे। सूचनापठनं तदनुगुणङ्करणमिति कौशलं सर्वेषु नास्ति।

रविवार, 6 दिसंबर 2020

कारयानात्तैलं सुस्राव

केभ्यश्चिद्दिनेभ्यः पूर्वंङ्कारयानस्याधो भूमौ तैलमदृश्यत मया। पूर्वस्मिन्काले कदाचित्कारयानात्तैलं सुस्रावेत्यचिन्तयम्। तैलं मार्जितम्। परन्तु त्रयाणां दिनानामनन्तरं तैलं पुनरदृश्यत। मासात्पूर्वङ्कारयानस्य यन्त्रतैलपरिवर्तनङ्कारितमासीत्। कार्यकर्तृणा सम्यक्तया कार्यन्न कृतमित्यचिन्तयम्। ह्यः कारयानं समीकरणापणं पुनरनयम्। तैरुक्तं तैलकोषस्यावरणं तैः सम्यक्तया न पिहीतमासीत्। इदानीं समीकृतम्। पुनस्तैलन्न स्रूयात्।

शनिवार, 28 नवंबर 2020

एम्निसिया-ए-मशीन्-फोर्-पिग्स् इति क्रीडा समाप्ता

आ केभ्यश्चित्सप्ताहेभ्यः 'एम्निसिया-ए-मशीन्-फोर्-पिग्स्' इति क्रीडाङ्क्रीडामि स्म। अद्य प्रातःकाले सा क्रीडा समाप्ता। प्रायशः पुत्रेण सहाक्रीडम्। उत्तमा क्रीडासीत्। तथापि तस्या अपेक्षया 'दि-डार्क्-डिसेन्ट्' मह्यमधिकमरोचत। तस्यामधिका भयजनिकाः स्थितय आसन्। तस्य सङ्गीतमपि समीचीनतरमासीत्। उभाभ्याङ्क्रीडायाभ्यां मनोरञ्जनमलभे।

समासपरिचयः

समासवर्गाय मुख्यपाठ्यांशाः सङ्ग्रह्यन्ते।

समासः कः? 

बहूनि पदानि योजयित्वा नूतनं पदमेकं रचयामश्चेत्समासो भवति। उदाहरणं शीतलं जलम् = शीतलजलम्

सामान्यतो द्वयोः प्रातिपदिकयोर्मध्ये समासो भवति (सुबन्तयोर्न तु तिङ्न्तयोः)। समासाय पदयोर्मध्ये परस्परान्वयः आश्यकः।

यथा शीतलं जलम् ऊष्णं दुग्धम्। अत्र शीतलपदस्यान्वयो जलेन सहास्ति। ऊष्णस्य दुग्धेन सह। अतः जलोष्णमिति समासो न कर्तुं शक्यते।

समासः क्रियते चेत् पूर्वपदस्य विभक्तिरपसारणीया। पदयोर्योजनङ्कृत्वा, सन्धिङ्कृत्वा, उत्तरपदमनुसृत्य विभक्तिर्योजनीया।

अहं मम पुत्रं पाठयामि।

मद् पुत्रमं = मत्पुत्रं (चर्त्वसन्धिः)


सन्धिसमासयोर्भेदः कः?

सन्धिः सम्यगुच्चारणाय। यदि सन्धिनियमो युज्यते तर्हि सन्धिङ्कर्तुं शक्नुमः। परन्तु समासः केवलमन्विपदयोर्मध्ये कर्तुं शक्यते।

समासस्य मुख्यभेदाः

तत्पुरुषः (उत्तरपदं प्रधानम्)

द्वन्द्वः (उभे प्रधाने)

बहुव्रीहिः (अन्यत् पदं प्रधानम्)

अव्ययीभावः (पूर्वपदं प्रधानम्)




समासवर्गः

द्वयोः सप्ताहयोः समासं पाठयितास्मि। उत्सहेऽहम्। पूर्वङ्कदापि मया समासो न पाठितः। अमुष्मै किञ्चित्सन्नाहः करणीयः। प्रायो मन्नगरस्था जना विद्यमानाः स्युरिति मन्ये परन्त्वन्येभ्यो नगरेभ्यो जना आगच्छेयुश्चेन्न कोऽप्याश्चर्यः।

गुरुवार, 26 नवंबर 2020

थैङ्क्सगिविङ्गपर्वाचरितम्

अद्यास्माभिस्थैङ्क्सगिविङ्गपर्वाचरितम्। भार्या स्वादिष्टभोजनमपाक्षीत्। सा पातालमयूरं दधिकपिष्टकञ्चापाक्षीत्। उत्तमं दिनमभूत्।

सम्भाषणसन्देशपत्रिका

आ षड्भ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां लभे। पूर्वेषु वर्षेषु पत्रिका नियततयागच्छति स्म। वर्षेऽस्मिन्बह्व्यः सञ्चिका नागताः। मार्चारभ्य जुलैमासपर्यन्तं तु करोणाविषाणुवशात्पत्रिका न प्रेषिता यतः सर्वत्र दिग्बन्ध आसीत्। परन्तु सम्प्रति तु दिग्बन्धो नास्ति। तथापि विरलतयैव सञ्चिकां प्राप्नोमि। कस्मात्कारणादिति न जाने। कागदपत्रिकाया ग्राहकता पञ्चत्रिंशद्रुप्यकाण्यस्ति। केवलमन्तर्जालग्राहकतापि लब्धुं शक्यते। तस्या मूल्यं पञ्चदशरुप्यकाणि। मह्यं कागदपत्रिकापठनं रोचते। परन्तु पत्रिका नागच्छति चेत्किमर्थमधिकशुल्कं देयम्। नूतनवर्षादारभ्यान्तर्जालग्राहकतामेव क्रेताहे।

थेङ्कसगिविङ्गपर्व

अद्य थेङ्क्सगिविङ्गपर्वणोऽवकाशः। अतः सर्वे कुटुम्बसदस्या गृहे सन्ति। श्वरवकाशस्तु नास्ति परन्तु कार्यालये न्यूना जना एव कार्यङ्कुर्युः। अतोऽवकाशः सदृश एव भविता।

रविवार, 22 नवंबर 2020

अष्टघण्टा यावदशयि

गतरात्रावष्टघण्टा यावदशयि। ह्यः साँयकाले कठिनव्यायाममकुर्वि। तस्माछ्रान्तिरभवत्। अपि च व्यायामात्परमधिकभोजनमखादम्। तेनापि निद्रा सम्यगागता।

शनिवार, 21 नवंबर 2020

आ नवमासेभ्यो नापिता

आ नवमासेभ्यो मम भार्या मम पुत्रस्य च केशकर्तनङ्करोति। आरम्भे तस्यां भीतिरजायत। सम्प्रति सा निपुणनापितेव केशकर्तनङ्करोति। तस्मादाहत्य वर्षेऽस्मिन्नेतावत्यपर्यन्तं द्विशतरुप्याकाणि तु व्ययाद्ररक्षितान्येव।

सरलेभ्यो गीतेभ्यः प्रयत्नः करणीयः

गिटारयन्त्राभ्यासं प्रतिदिनङ्करोमि। आ मासात्कठिनगीतमेकं वादनायाभ्यासङ्कुर्वन्नस्मि। मन्दप्रगतिः। तस्मादवसादो जायते। गतयोर्दिनयोः सरलमगीतमेकमवादयम्। तस्माद्धर्षितोऽभवम्। प्रोत्साहनमपि लब्धम्। तर्हि बहुकठिनगीतेभ्यः प्रयत्नो न करणीयः। अन्यथा यन्त्रवादनमेव त्यजेयम्।

निद्राभावः

गतरात्रौ केवलञ्चतुर्घण्टा यावन्निद्रा प्राप्ता। मम जीवने निद्रायाः क्लेशस्तु वर्ततयेव परन्तु सामान्यतः षड्घण्टा यावन्निद्रां प्राप्नोमि। मध्याह्ने शयनङ्कर्तव्यमेव।

सोमवार, 16 नवंबर 2020

जानुवेदना

परह्यः पादोनचतुर्मैलमितमटनङ्कृतं मया चलनयन्त्रे। यन्त्रे सर्वदा दशडिगरीमितमुत्कूलङ्गच्छामि। तस्माज्जानुवेदनाजायत। वामस्थे जानौ किमपि नानुभूयते। दक्षिणस्थे जानौ वेदनानुभूयते। केभ्यश्चिद्दिनेभ्यश्चलनयन्त्रे नाटिष्यामि।

शनिवार, 14 नवंबर 2020

चित्रक्रीडा समाप्ता

चित्रक्रीडा समाप्ता। हर्षितोऽस्मि। आ दशभ्यो वर्षेभ्यश्चित्रक्रीडाममूमचिक्रीडिषम्। पुत्राय चित्रक्रीडायन्त्रमक्रीणाम्। तस्मान्मम दशवर्षपुरातनीच्छा पूरिता। अद्य नूतनचित्रक्रीडारब्धा - 'एम्निसिया-ए-मशीन्-फ़ोर्-पिग्स्'। असावपि भयङ्करी।

गुरुवार, 12 नवंबर 2020

चित्रक्रीडावसानं निकटम्

प्रयत्नेन प्रतिदिनङ्किञ्चिदावधये चित्रक्रीडाङ्क्रीडामि। तस्मात्क्रीडान्तो निकट आगतः। अस्मिन्सप्ताहान्ते तां समापयितुं शक्नोमीत्याशासे। यद्यप्यसौ क्रीडा पुत्रं भाययति तथापीतोऽपि पुत्रस्य बृहद्रुरचिर्वर्तते क्रीडायाम्। स प्रतिदिनं तस्या विषये मया सह सम्भाषते। क्रीडायां विकटजन्तव आगच्छन्ति चेत्स विद्रवति। अनन्तरं पुनरागच्छति।

रविवार, 8 नवंबर 2020

भयङ्करी चित्रक्रीडाङ्क्रीडामि

'एम्नीसिया-द-डार्क्-डिसेन्ट्' इति भयङ्करी चित्रक्रीडाङ्क्रीडामि। सम्यक्प्रगतिर्वर्तते। नियतरूपेण क्रीडेयमुत नेति न ज्ञातं परन्त्वेतावत्पर्यन्तं सहासङ्कृत्वा क्रीडामि। पुत्रस्तस्याः क्रीडाया बिभेति। परन्तु तस्य रुचिरस्ति। अग्रे किं भविष्यति, के के प्रेता आगच्छेयुरिति कुतूहलमस्ति तस्य। अतो भीत्वापि स ताङ्क्रीडां पश्यति यदा कदाप्यहङ्क्रीडामि। तस्य सहकारो मह्यमपि रोचते। केवलोऽहं यदि क्रीडेयं तर्हि भयनैरस्यावसादाननुभवामि। यदि स मया सह क्रीडति तर्हि सर्वं सरलं भासते। इदानीं प्रायः सप्तप्रतिशतक्रीडा समाप्ता। दिपावलीपर्वणः पूर्वं पर्यवसास्यामीति लक्ष्यमस्ति। ततः परङ्क्रीडामुद्रिकायामन्ये द्वे चित्रक्रीडे स्तः। ते अपि भयङ्कर्यौ। ते अपि क्रीडिष्यामि। तिस्रोऽपि क्रीडाः क्रीडनाय प्रायः केचन मासा आवश्यकाः।

गुरुवार, 5 नवंबर 2020

हेलोईनपर्वणि

हेलोईनपर्वणि सामान्यतो बालका गृहङ्गृहङ्गत्वा मधुराणि प्राप्नुवन्ति। करोणाविषाणुभयादावाभ्यामस्मत्पुत्रो न प्रेषितः। गृहयेव मातृपुत्राभ्यां मधुराणि रन्धितानि। तानि मधुराणि प्रेतानां विग्रहं दत्तं ताभ्याम्। सुन्दराणि तानि। शर्कराधिक्यान्मया मितप्रमाणेनैव सेवितानि।

सन्धिवर्गे नूतनछात्रागता

सन्धिवर्गे नूतनछात्रागता। सम्प्रति वर्गः समाप्तप्रायः। तथापि तया पञ्जीकृतं शुल्कं दत्तञ्च। तादृशी श्रद्धा श्लाघ्नीया। आगामिनि वर्गे सन्धिविषयं पर्यवसातेति मन्ये। तदारभ्य परीक्षा गृहकार्यञ्च कारयितास्मि।

रविवार, 1 नवंबर 2020

पुत्रेण सह चलचित्रक्रीडा

अस्मिन्सप्ताहान्ते पुत्रेण सह चलचित्रक्रीडामक्रीडम्। असौ चलचित्रक्रीडान्धकारमयी भयङ्करी च। अमुष्याङ्क्रीडायां भयजनकसङ्गीतमपि विद्यते। तस्मात्पुत्रो बिभेति। सोऽदो भयङ्करं सङ्गीतन्न शृणुयात्तन्निमित्तं श्रवणयन्त्रमक्रीणि। श्वो मया कार्यालयादवकाशो गृहीतः। यदा पुत्रस्तस्याध्यापिकायाः पठिता तदाहं श्रवणयन्त्रमुपयुज्य क्रीडाङ्क्रीतास्मि।

शनिवार, 31 अक्तूबर 2020

ऐन्द्रजालिकोऽस्मि

अहमैन्द्रजालिकोऽस्मीत्यद्य प्रमाणितम्। वयं सर्वदा प्रातराशङ्गृहयेव कुर्मः। अतिविरलतया बहिस्तो भोजनमानयामः। अद्याहं पञ्चवादनेऽजागरिषम्। कुटुम्बः सुप्त आसीत्। बहिर्गत्वा प्रातराशमानैषम्। किञ्चित्कालानन्तरं पुत्रो जागृतः। सोऽवादीद्बहिस्तो भोजनमानेतुं शक्यते वा। अहं तमवादिषं यदहं क्षणाभ्यान्तरे भोजनं प्रकटयितुं शक्नोमि यतोऽहमैन्द्रजालिकः। सोऽहसीत्। अहं मन्त्रमेकं पठित्वा तमवदं यत्तेनोत्पीठिकायां द्रष्टव्यम्। सोऽद्राक्षीत्। तत्र भोजनं विद्यमानः! स विस्मितः। तस्य माताजीहसत्।

गिटारयन्त्रस्य काठिन्यम्

गिटारयन्त्रस्य काठिन्यं मां विस्मयीकरोति। आ द्वाभ्यां वर्षााभ्यां गिटारयन्त्राभ्यासङ्करोमि। कौशलं वर्धते परन्तु मन्दगत्या। वादनमतिकठिनं भासते। सर्वेभ्य एतादृशी स्थितिरस्ति। अन्तर्जाले पठामि चेद्बोधामि सर्वेण काठिन्यमनुभूयते। कदापि सन्तोषेण प्रहर्षेण वादयेयमुत न न जाने।

गतावसरे सन्धिवर्गस्य विरामो गृहीतः

गतभानुवासरे विजयदशमीवशात्सन्धिवर्गस्य विरामो गृहीतः। तादृशोऽवसरे सर्वः संस्कृतं पठेत्तर्हि वरम्। अहमपि पिपाठयिषामि परन्तु जना एव वर्गन्नागच्छन्ति तर्हि को लाभः। पञ्चाशत्प्रतिशं जना आगच्छेयरित्यस्माद्वर्गः स्थगितो मया।

रविवार, 18 अक्तूबर 2020

सङ्गणकाय नवविद्युत्कोषः

सङ्गणकाय नवविद्युत्कोषमक्रेषि। सङ्गणकं तस्य विद्युत्कोषश्चाष्टवर्षीयौ। पूर्वतनो विद्युत्कोषो दशनिमेषान्यावदप्यूर्जां न ददाति स्म। अतो नवविद्युत्कोषस्यावाश्यकतासीत्। अनेन पौनःपुन्येन विद्युत्पाशो न योजनीय इत्याशासे।

शनिवार, 17 अक्तूबर 2020

अहन्न चित्रक्रीडापटुः

कतिपयेभ्यो दिनेभ्यश्चित्रक्रीडाङ्क्रीडामि। सा चित्रक्रीडा भयङ्करी। घोरान्धकारः सर्वत्र तस्याङ्क्रीडायाम्। सा क्रीडा मह्यं रोरुच्यते। परन्त्वहङ्क्रीडापटुर्नास्मि। महत्प्रयत्नेन प्रगतिं प्राप्नोमि। तदर्थं प्रभूतसमय आवश्यकः। किञ्चान्तर्जालाद्दृष्ट्वापि समधिकसमयं यापयानि। मह्यं घोरान्धकारः कदापि न रोचते। येषु चलचित्रेषु मुख्यतयान्धकारोऽस्ति तान्याप्यहं सहतुं न शक्नोमि। भयान्न। परन्त्वीक्षणे काठिन्यमनुभवामीत्यस्मात्। प्रायर्दृष्टिः सम्यङ्नास्ति वान्यत्किमपि कारणमस्तीति न जानामि परन्तु बहुप्रयत्नमावश्यकमिति भासते। तेन मनोरञ्जनं व्यपगच्छति। सैव समस्यास्याङ्क्रीडायां वर्तते। घोरन्धकारवशाद्मनोरञ्जनं न्यूनायते। प्रगतये प्रयते। बहुसमय आवश्यकः। तादृशी सहना मयि नास्ति। अपि च तादृशः समय व्ययितुन्नेच्छामि।

रविवार, 11 अक्तूबर 2020

एकादशभ्यो मासेभ्यः परङ्कारयन्त्रतैलं परिवर्तितम्

ह्यरेकादशभ्यो मासेभ्यः परङ्कारयन्त्रतैलं परिवर्तितम्। तैलं प्रति पञ्चसहस्रमैलेभ्यः परस्तात्परिवर्तनीयम्। सामान्यतः षण्मासेषु पञ्चसहस्रमैलमिता यात्रा भवति। परन्तु कोरोणाविषाणुवशात्कारयानमहं न प्रयुञ्जे। भार्यैव मदीयेन कारयानेन तस्याः कार्यालङ्गच्छति। सा सप्ताहयेकस्मिन तस्याः कारयानं नयति। अपरस्मिन् सप्ताहे मम कारयानं नयति। अनेनोभयोः कारयानयोः प्रयोगो न्यूनो जातः। एकादशसु मासेषु मम कारयानङ्केवलञ्चतुस्सहस्रमैलमिता यात्रा कृता। तथाप्यहं तैलपरिवर्तनमकारयं यतः प्रायः षण्मासेषु तैलपरिवर्तनीयोऽस्ति मैलितमवेक्ष्य।

आलस्यान्वितं दिनम्

अहं सर्वदा यत्किमपि कुर्वन्नस्मि। यदि कार्यालयस्य कार्यन्नास्ति तर्हि वाद्ययन्त्राभ्यासं व्यायामं वा कुर्वे। अद्यैतावत्पर्यन्तमुभयोः किमपि न कृतम्। आलस्यङ्कृतमस्माद्मनः खिद्यते परन्तु सुखमप्यनुभवामि। दिनं दीर्घं शनैश्च भासते। उभयोर्दिनयोः सङ्गणकेऽपि न्यूनः समयो यापितो मया। काले कालयीदृशं दिनं भवेच्चेत्प्रायर्लाभायैव न हानये।

पुत्रो मातामह्या गृहे रमते

पुत्रो मातामह्या गृहे रमते। मातामह्या सह तेन स्वादष्टानि मधुराणि खाद्यानि पच्यन्ते। अत्र तु स विरलतया मधुराणि खाद्यानि प्राप्नोति। आवामप्यरमावहे। ह्यस्तनं दिनं सम्यगासीत्। रात्रौ चीन्भोजनालयाद्भोजनं लब्धम्। पुत्रो नास्ति चेद्दिने प्रभूतसमयो वर्तते।

शनिवार, 10 अक्तूबर 2020

लवनयन्त्रतैलं पुनश्चक्रीकृतम्

द्वाभ्यां मासाभ्यां पूर्वं लवनयन्त्रस्य तैलं पर्यवर्ते। तैलमवकरे न क्षिप्यताम्। तर्हि तेन किङ्कर्तव्यमिति विमूढता सर्वदा बाधते। सर्वकारस्तादृशपदार्थानां पुनश्चक्रीकरणाय विरलानि साधनानि ददाति। ह्यः कारयानस्य तैलपरिवर्तनायगच्छत्। लवनयन्त्रस्य पुनश्चक्रीकरणार्हं तैलमप्यनयम्। ते स्वीकुर्युरुतेति न ज्ञातम्। दिष्ट्या तैः स्वीकृतम्। तैलमवकरे नाक्षिप्यतेति सन्तोषमनुभवामि।

शुक्रवार, 9 अक्तूबर 2020

पुत्रः श्वर्गन्ता

यस्मात्कालात्कोरोणाविषाणुः प्रसृतस्तस्मात्कालात्पुत्रस्तस्य मातामह्या गृहन्न गतः। सामान्यतः स द्वयोर्मासयोस्तु गच्छत्येव। सम्प्रति दशमासा गताः। कोरोणाविषाणुस्तु जीवनस्य भाग एवाद्यत्वे। अतः कियत्कालं यावत्पुत्रन्नागमयेव? स तस्य मातामही मातामहश्च सर्वे हर्षितास्तस्यागमनेन। अहं श्वस्तं नेतास्मि। अर्धमार्गं मिलित्वा पुत्रं तस्य मातामह्यै दातास्मि। तस्य माता सोमवासरे तमानेता।

मंगलवार, 6 अक्तूबर 2020

शयनप्रकोष्ठे सङ्गणकन्न नयामि

यस्मात्कालान्नूतनसङ्गणफलकमागतं तस्मात्कालात्सङ्गणकं शयनप्रकोष्ठे नानयम्। तेन रात्रौ किञ्चिच्छीघ्रं शये। गताभ्यां द्वाभ्यां निशाभ्यां सम्यङ्निद्रा प्राप्ता। प्रायः सङ्गणकाभावात्। निश्चिततया तु न जाने। यावच्छक्यं सङ्गणकं शयनप्रकोष्ठे न नेष्यामि।

पर्यवेक्षको गतः

सप्ताहेऽस्मिन्मदीयेन पर्यवेक्षकेणावकाशो ग्रहीतः। अतः कार्यन्न्यूनमस्ति। गुरुशुक्रवासरयोरहमपि विरामङ्ग्रहीताहे।

रविवार, 4 अक्तूबर 2020

चलचित्रक्रीडाञ्चिक्रीषामि परन्त्वसमर्थः

पुत्राय चलचित्रक्रीडायन्त्रङ्क्रापितमिति पूर्वं सूचितं मया। स हर्षेण क्रीडति तेन। तस्मै यन्त्राय क्रीडैकास्ति यस्यां मम रुचिरस्ति। आ बहुभ्यो वर्षेभ्योऽहं ताङ्क्रीडाञ्चिक्रीडिषामि परन्तु मम सङ्गणकं पुरातनमस्ति। तस्मिन्सङ्गणके नूतनचित्रक्रीडाः क्रीडितुन्न शक्यन्ते। इदानीं यन्त्रमेतत्क्रीत्वावसरः पुनर्लभ्यते। ह्यरहं प्रयत्नमकरवं परन्तु यन्त्रस्य तन्त्रांशे कश्चन दोषो दृष्टो यस्मादहञ्चित्रक्रीडाङ्क्रेतुन्नाशक्नवम्। अन्तर्जालेऽप्यन्विष्टवान्परन्तु कोऽपि समाधानो न लब्धः। किङ्कर्तव्यविमूढतामनुभवामि।

शनिवार, 3 अक्तूबर 2020

जीर्णा काष्ठवृतिः २

पूर्वं मयोक्तं जीर्णा काष्ठवृतिः परिष्कारयितव्या। गतसप्ताहे संस्थैकागत्य कर्तव्यङ्कार्यं दृष्ट्वा शुल्कानुमानमददात्। सार्धचतुश्शतं रुप्यकाणि। भार्यावदत्सम्यच्छुल्कं भासतयिति। अहं तामवदमन्यामेकां संस्थामाहूय तामपि पृष्टव्यं येन प्रथमसंस्थया निवेदितं शुल्कमुपमातुं शक्नुव आवाम्। अद्य द्वितीया संस्थागमत्। तया सार्धत्रिशतं रुप्यकाणि निवेदितानि। तदुपरि समीचीनतरं काष्ठं प्रयोक्ष्यति। ताङ्कार्यमदिष्वहि। बुधवासरे सा संस्था काष्ठवृतिं परिष्कर्ता। अस्मादेव वदामि किमपि कार्यङ्कारयितव्यञ्चेत्सर्वदा न्यूनातिन्यूनं द्वाभ्यां संस्थाभ्यां शुल्कानुमानङ्ग्रहीतव्यम्।

नूतनसङ्गणकफलकासन्दौ पुत्रस्य लाभाय

नूतनसङ्गणकफलकासन्दावगच्छताम्। तौ पुत्रस्य लाभाय। ताभ्यां पुत्रस्य विद्यालयाध्ययनं सुविधया प्रचलति। तस्य पृष्ठं नेत्रे च हानिर्न भूयात्। ममापि हिताय। अहं बहुवारं सङ्गणकं शयनप्रकोष्ठे नयामि तत्र रात्रौ प्रयुञ्जे। इदानीं सङ्गणं सङ्गणकफलकेन योजितम्। अनेन सर्वदा सङ्गणकङ्फलकादपादाय शयनप्रकोष्ठे न नयामि। प्रायस्तस्मादधिकनिद्रां प्राप्नुयाम्।

गुरुवार, 1 अक्तूबर 2020

अवकाशङ्गृह्णामि

अद्य कार्यालयादवकाशङ्गृह्णामि। यत्कार्यङ्कुर्वन्नासं तत्समाप्तम्। अन्यच्च प्रतिमासं मया न्यूनातिन्यूनं त्रीणि दिनानि यावदवकाशो ग्रहीत्वयोऽन्यथा नूतनावकाशो नार्जयिष्यते।

बुधवार, 30 सितंबर 2020

तन्त्रांशे दोषाः परीक्षाया महत्वञ्च

आ पञ्चदशभ्यो वर्षेभ्यस्तन्त्रांशं रचयामि। तन्मह्यं रोचते। जानाम्यहं तन्त्रांशे दोषा भवन्ति। तन्त्रांशं रचयित्वा यथार्थं तस्य परीक्षा करणीया। तस्माद्दोषा आविर्भवन्ति। परह्यर्मया तन्त्रांशेका रचितः। अतिलघुतन्त्रांशः सः। यावच्छक्यं मया मम सङ्गणके तस्य परीक्षा कृता। यद्यपि परीक्षाया मम सन्तोष आसीत्तथापि मया चिन्तितं यदा स तन्त्रांशः परीक्षासङ्गणके स्थापयिष्यते तदा पुनः परीक्षा करणीया। कोऽपि दोषो द्रक्ष्यतयिति मया नापेक्षितम्। तथाप्यहं परीक्षामकुर्वि। परीक्षायाङ्कुर्वत्यां दृष्टं तन्त्रांशः पूर्णतया भग्नः! कथमेतच्छक्यमिति विस्मयमन्वभवम्। घण्टां यावद्विविच्य भानञ्जातं यन्मया परीक्षायामेव दोषः कृत! तेन तन्त्रांशदोषस्तिरोहितः। अनन्तरं तन्त्रांदोषं परिष्कृत्य पुनरगमयम्। अद्य परीक्षासङ्गणके तस्य परीक्षा पुनः करिष्यामि।

मंगलवार, 29 सितंबर 2020

आसन्दसङ्गणकफलके क्रीते

पुत्रः सङ्गणकेन पठति। केभ्यश्चित्सप्ताहेभ्यः पूर्वं तस्मै टङ्कनफलकं मूषकयन्त्रञ्च क्रापिते। अङ्कसङ्गणकस्य फलकं तु लघ्वस्ति। अतस्तस्मै बृहत्तरं फलकमक्रीणाम्। विद्यालयः सङ्गणकेन व्यायामपि कारयति। तस्मै तेनासन्दोऽपसारयितव्यः। परन्तु यस्मिन्नासन्दे स उपविशति स महद्भारयुक्तः। सचक्रासन्द आश्यको येन स तमनयासेनापसारयितुं शक्नुयादिति सोऽयाचत। स आसन्दोऽपि क्रीतः। एतावतोभे वस्तू नागते। सप्ताहान्तपर्यन्तमागच्छेताम्।

सन्धिवर्गः - ५

सन्धिः पाठ्यमानोऽस्ति मदीये वर्गे। जनाः पिपठिषन्ति परन्तु तस्मै यावत्प्रयत्नमावश्यकं तावन्न कुर्वते। गृहकार्ये दत्तेऽन्तिमदिनस्यान्तिमक्षणे कुर्वन्ति। तेन बहवो दोषा भवन्ति। सन्धिनियमा बहवः। तेषु को नियमो योजनीयस्तस्मायभ्यास आवश्यकः। तत्सप्ताहे दिनैकस्मै पठित्वा न साध्यते।

रविवार, 27 सितंबर 2020

पुत्रः सप्तवादेनऽजागरीत्

अद्य पुत्रः सप्तवादेनऽजागरीत्। सामान्यतः स उपाष्टवादने जागर्ति। तेनावां शान्त्या वार्ताः पश्यन्तौ चायं पातुं शक्नुवः। नाद्य।

अंसे वेदना

केभ्यश्चिद्दिनेभ्यो वामस्थांसे पृष्ठे च वेदनामनुभवामि। कस्माद्वेदना जाता न जाने। व्यायामाय भारं वहामि प्रायस्तस्मादभवत्। तन्निवारणाय ह्यः स्नानकुण्डे मेग्नीसियमलवणं निक्षिप्य विंशतिनिमेषान्यावदतिष्ठम्। तथापि वेदना पूर्वसदृशी। सामान्यतोऽहं स्नानकुण्डन्न प्रयुञ्जे यतस्तस्मै प्रभूतजलमाश्यकम्। अद्यत्वे सर्वत्र जलाभावो जलस्य शुल्कमधिकमस्ति च। अतो बहुभ्यो मासेभ्यः परस्तात्स्नानकुण्डेऽस्नाम्।

शनिवार, 26 सितंबर 2020

चित्रक्रीडायन्त्रम्

पुत्रञ्चित्रक्रीडायन्त्रमक्रापयाव। षण्णमासेभ्यः सोऽदो यन्त्रं याचमानोऽस्ति। परन्तु करोणाविषाणुवशात्तदयन्त्रस्याभावोऽस्ति। विक्रेतारो द्वित्रगुणशुल्कं याचन्ते। सामान्यशुल्कं त्रिंशद्रुप्यकाण्यस्ति। अन्तर्जाले न्यूनातिन्यूनं पञ्चशद्रुप्यकाणि याच्यन्ते। तस्मादेतावत्पर्यन्तं तस्मै यन्त्रन्न क्रीतमीसीत्। गतसप्ताहयेकस्मिन्नन्तर्जालापणे यन्त्रं सामान्यशुल्केन विक्रियतयति दृष्टमावाभ्याम्। तस्मिन्नेव समये क्रयणादेशमददाव। चित्रक्रीडायन्त्रक्रीडामुद्रिकाक्रयणकरेभ्य आहत्याष्टसप्तत्याधिकत्रिशद्रुप्यकाण्यददाव। चित्रक्रीडायन्त्रं लब्ध्वा पुत्रः सुहर्षितोऽस्ति।

भित्ती रजति

आ बहोः कालाद्भार्या पाकशालाया भित्ती रिरङ्क्षति। अद्य सा ते रजति। कषायवर्णं सा चिच्ये। तादृशो गहनवर्णो मह्यन्न रोचते परन्त्वहं विषयेऽस्मिंस्तटस्थोऽस्मि। अतोऽहमङ्गीकृतवान्। रञ्जनायाहं मम साहाय्यमहौषं परन्तु तया न स्वीकृतम्। नूतनतया रञ्जिते भित्ती कथं द्रक्ष्येतयति द्रष्टव्यम्।

मंगलवार, 22 सितंबर 2020

भाराः क्रीताः

करोणासमयात्पूर्वमपि मम कुटुम्बस्तु गृहयेव व्यायामङ्करोति स्म। व्यायामे कुर्वत्यहं भारान्वहामि। गच्छता कालेनामीषां भाराणाङ्गुरुत्वन्न्यूनायते यतो मम बलं वर्धते। अस्मान्नूतनभाराः क्रेतव्याः। परन्तु करोणाकाले बहवो जना गृहे व्यायामङ्कुर्वते। अतो भाराणां शुल्कं समधिकं भूतम्। गतसप्ताहान्ते केनचिदन्तर्जालेन तस्य भाराः क्रयणाय विज्ञप्ताः। मम भार्या तस्य गृहङ्गत्वा षड्भारांश्चिक्रिये। दशपौण्डमितस्य प्रत्येकभारस्य शुल्कङ्केवलं पञ्चरुप्यकाणि। सम्प्रति तादृशान्नूतनभारान्क्रयणाय चतुर्गुणं शुल्कं याच्यते विक्रेतृभिः। भार्यया सम्यक्कृतम्।

रविवार, 20 सितंबर 2020

सन्धिवर्गः ४

अद्य विसर्गसन्धिरारब्धः। अर्धघण्टां यावद्गतसप्ताहस्य गृहकार्यस्य विषये चर्चाभूत्। गृहकार्याय सम्पूर्णसप्ताहो दत्त आसीत्तथापि त्रयो जनाः समये न कृतवन्तः।

प्रशीतको मां भाययति

रसवत्यां प्रशीतको मां भाययति। सामान्यतादधिकनादं स करोति। तस्य वामपार्श्वे हस्तं स्थापयमि चेत्सामान्यतादधिकोष्णतामनुभवामि।

शुक्रवार, 18 सितंबर 2020

प्रशीतकादुत्सः

गतसप्ताहे भार्या पाकशालायाः कुट्टिमं मार्जवत्यासीत्। प्रशीतकस्य समीपे जलं दृष्टम्। विचारणायै सा प्रशीतकमाकृष्टवती। प्रशीतकस्य पृष्ठवर्ती भित्तिर्जलक्लिन्नासीत्! कथमेतद्बभूवेति न ज्ञातमावाभ्याम्। तदानीमहं व्यायामङ्कृत्वागत आसम्। जलपानायाहं प्रशीतकस्य जलमोचनयन्त्राज्जलमगृह्णि। तदा प्रशीतकस्य पृष्ठवर्त्या नलिकाया महज्जलोत्सो दृष्टः। भित्तिः कथञ्जलार्द्राभवदिति बुद्धम्। नूतननलिका स्थापनीयेति चिन्तयित्वावाङ्कार्यकर्तारमाह्वयाव। परन्तु नलिकायां यच्छिद्रमासीत्तेन तस्योपरि पट्टिका स्थापिता। तस्मै तेन शताधिकपञ्चपञ्चाशद्रूप्यकाण्ययाचत! आवाभ्यामेव पट्टिका स्थापनीयासीदिति विषादमन्वभवाव।

गुरुवार, 17 सितंबर 2020

जीर्णा काष्ठवृतिः

गृहस्याभितः काष्ठवृतिर्वर्तते। सा वृतिर्गृहनिर्माणसमये स्थापिता। बहुभ्यो वर्षेभ्यः परस्तात्सा वृतिर्जीर्णा जाता। केभ्यश्चिद्मासेभ्यः पूर्वं तस्यैकमंशं नवीकृतम्। इदानीमन्योऽंशः परिष्करणीयः। गतसप्ताहे कार्यकर्तृभिरागन्तव्यमासीत्परन्तु महद्वृष्टिरपतत्। अतस्ते श्व आगच्छेयुः। श्वः केवलं कियत्कार्यं कियच्छुल्कमाश्यकमिति सूचनायै तयागच्छेयुः। यदि शुल्कं सम्यगस्ति तर्हि वयं तैः कार्यं कारयिष्यामः।

मंगलवार, 15 सितंबर 2020

कार्यालये विलक्षणा स्थितिः

सामान्यतः कार्यालयेऽहमन्येषां दलानां तन्त्रांशेषु कार्यङ्करोमि। तस्मात्कार्यमतिमन्दगत्याग्रे सरति। परन्तु स्मप्रति तु कार्यं पराकाष्ठाङ्गतम्। लघुकार्यं साधयनायापि मासा आवश्यकाः। कदापि नैरस्यमनुभवामि। कदापि चिन्तयाम्युद्योगपरिवर्तनः करणीयः। परन्तु सम्प्रति या स्थितिर्वर्तते तया वाद्ययन्त्राभ्यासायाहं प्रभूतसमयं प्राप्नोमि। उद्योगपरिवर्तनङ्कुर्याञ्चेन्नूतनसंस्थायास्तन्त्रांशमवगन्तव्यम्। तस्मै महत्परिश्रम आश्यकः। समयाभावोऽपि भवेत्। अत उद्योगपरिवर्तनं दुष्करम्।

सोमवार, 14 सितंबर 2020

भार्याया विरामः

अद्य भार्या तस्याः कार्यालयाद्विरामङ्गृह्णाति। पुत्रस्य तु वर्गौ भविष्यत एव। ममापि कार्यमस्ति। तया कानिचिन्नैजकार्याणि कर्तव्यानि।

सन्धिवर्गः - ३

ह्यः स्वरसन्धिविषयः समाप्तः। सर्वे स्वरसन्धयो न पाठिता मया। ये बहुशो दृश्यन्ते तयेव पाठिताः। गृहकार्यमपि दत्तम्। कति जनाः कुर्युः कथङ्कुर्युरिति द्रष्टव्यम्।

गुरुवार, 10 सितंबर 2020

सन्दर्शनानि विलुप्तानि

अस्मिञ्छुक्रवासरे मया मदीयै संस्थायै त्रीणि सन्दर्शनानि कर्तव्यान्यासन्। परन्तु ह्यो विपत्रेण सूचना प्राप्ता तानि सन्दर्शनानि न भवितारः (कस्माच्चित्कारणात्)। तां सूचनां प्राप्य किञ्चिद्धर्षमन्वभवम्। शुक्रवासरे सार्धद्विवादनादारभ्य सप्तवादनं पर्यन्तं सन्दर्शनानि कर्तव्यानयीति चिन्तयित्वा सप्ताहास्यान्तिमदिनस्य मोदो गतः। इदानीं पुनरागच्छति।

यू-ट्यूब्जालस्थाने पाठाः

वाद्ययन्त्राभ्यासं प्रतिदिनङ्करोमि। यू-ट्यूब्जालस्थाने बहवः पाठाः सन्ति। ह्य एकं पाठमपठम्। पाठयितारेण कीदृशः परिश्रमः कृतः पाठरचनायायिति दृष्ट्वा पाठोऽयं मयि विस्मयमजनयत्। द्वाविंशतिनिमेषमितः पाठस्तेन सप्ततिघण्टा यापयित्वा रचितः। परिणामः पाठे दृष्टुं शक्यते। अत्युत्तमपाठः। ईदृशः परिश्रमो यः करोति पाठश्च निश्शुल्कं पाठयति स तस्य फलं प्राप्तुमर्हः। अस्मिन्सप्ताहान्ते तस्मै धनदानङ्कर्तास्मि। गुरवे नमामि।

बुधवार, 9 सितंबर 2020

सन्धिवर्गः - २

गतसप्ताहान्ते छात्रान्यान्तवान्तादेशपूर्वरूपसन्धी अपाठयम्। एतावत्पपर्यन्तं मया छात्रेभ्यो गृहकार्यन्न दत्तम्। सन्धेर्बहुषु नियमेषु को नियमो योजनीय इत्यस्य प्रधानकौशलस्य विकास आवश्यकः। यदि प्रत्येकस्मात्सन्धेः परङ्गृहकार्यं दद्यां तर्हि गृहकार्यं सरलो भवेत्। छात्राणाङ्कौशलमपि न वर्धेत। अतः स्वरसन्धिं पूर्णतया पाठयित्वैव गृहकार्यं दास्यामि।

समयो वेगेन गच्छति

चतुर्णां दिनानामवकाशो वेगेनागच्छत्। अवकाशात्पूर्वमहमचिन्तयं यच्चतुर्दिनानामवकाशो दीर्घं भावयिष्यते परन्तु तन्नाभवत्। किमपि विशेषन्नकरवम्। तथापि समयो वेगेन गतः। शनिवासरे भोजनालयाद्भोजनमानीयाखादाम। तेन भार्यापुत्रौ हर्षितौ।

शुक्रवार, 4 सितंबर 2020

चत्वारि दिनानि यावदवकाशः

अस्मिन्सप्ताहान्ते कार्यालयाच्चत्वारि दिनानि यावदवकाशं गृह्णामि। वाद्ययन्त्रमभ्यासायोत्तमावसरः।

बुधवार, 2 सितंबर 2020

सन्धिवर्ग आरब्धः

गतसप्ताहान्ते सन्धिवर्ग आरब्धः। दश जना आगच्छन्। सर्वेषां सन्धिविषये रुचिरस्ति। जना उत्साहेन पठन्ति। आसत्रं तादृश उत्साहो भूयात्। सर्वे जनाः स्वेषां परिचयमददुः। अनन्तरमहं यण्सन्धिमपाठयम्। एका छात्रा अन्यस्मान्नगरादस्ति। सा सन्धिं पठित्वा हर्षिताभवत्।

भ्रातुर्जन्मदिवसः

परश्वो भ्रातुर्जन्मदिवसः। समरित्वा तं दूरवाण्याहूय शुभाशया दातास्मि।

शुक्रवार, 28 अगस्त 2020

अंशापणः पुनरुपर्यागतः

करोणाविषाणुर्यदारेभे तदांशापणः पपात। सम्प्रत्यार्थिकव्यवस्था किञ्चित्समीचीना जाता। परन्तु पूर्ववत्तु नास्ति। तथाप्यंशापण उपरिष्टादुपरि पद्यते। एतद्दृष्ट्वा भयमनुभवामि।

बुधवार, 26 अगस्त 2020

अन्तर्जालेन विद्यालयः

सम्प्रति करोणाविषाणुवशात्पुत्रोऽन्तर्जालेन पठति। विद्यालयन्न गच्छति। अनेन तेन प्रातस्तरान्न जागरितव्यम्। अधिकनिद्रां प्राप्नोति सः। दिने द्वे घण्टे यावदाध्यापिका पाठयति। अनन्तरं स्वयमेव कार्यङ्कर्तव्यम्। तस्य माता कार्यालयादागत्य तस्य साहाय्यङ्करोति।

शनिवार, 22 अगस्त 2020

पितृव्याय सन्देशः

केभ्यश्चिद्दिनेभ्यः पूर्वं पितृव्यजात्सन्देशः प्राप्तः। पितुः पञ्चसप्ततिजन्मदिवसोत्सव आचरिष्यतयिति। अतः पितृव्याय चलचित्रसन्देशं मुद्रणङ्कृत्वागमयम्। सन्देशे तस्मिन्वयं सर्वे मिलित्वा तस्मै वर्धापनानि शुभाशयाश्चाददाम्। अस्माकं सन्देशं दृष्ट्वा स सुहर्षितोऽभवदयतस्तेनास्माकं सन्देशो नापेक्षितः।

त्रयो वर्गा आरप्स्यन्ते

अस्माकं संस्कृतकेन्द्रं वर्धते। सत्रेऽस्मिंस्त्रयो वर्गा भविष्यन्ति। किञ्चाहमेकं वर्गमेव पाठयिष्यामि। अन्ये शिक्षका अन्यान्वर्गान्पाठयिष्यन्ति। सन्तोषजनिका वार्तेयम्।

कस्मात्कारणाद्विलम्बोऽयम्?

बहुभ्यो दिनेभ्यः परमत्र लिखामि। कस्मात्कारणाद्विलम्बोऽयमभूत्? वाद्ययन्त्राभ्यास आडम्बरेण प्रचलति। सम्यक्प्रगतिरनुभवामि। अनेन सङ्गणके न्यूनं समयं यापयामि। सङ्गीताभ्यासप्रगतिं दृष्ट्वा सन्तुष्टोऽस्मि। वाद्ययन्त्राभ्यासस्त्वाजीवनाभ्यासो वर्तते। अमुना वेगेनाभ्यासः प्रचलिष्यतीत्याशासे।

शनिवार, 8 अगस्त 2020

नूतनसहोद्योगी

कार्यालये नूतनसहोद्योग्यागतः। स 'अनुभवी'। तस्योद्योगस्तरोऽपि मदुच्चतरः। गतसप्ताहे तेन किञ्चित्कार्यङ्कृत्वा मां दर्शतिम्। दृष्ट्वा विस्मितोऽभवमहम्। तन्त्रांशे सर्वङ्कार्यमेकलपरीक्षां समन्वयपरीक्षाञ्च कृत्वैवाग्रे सार्यते। तेनैकलपरीक्षा तु कृता परन्तु समन्वयपरीक्षा न कृता। तन्नाम तस्य तन्त्रांशं सम्यक्तया कार्यङ्करोति वा न तेन न ज्ञातम्। तथापि तेन तस्य तन्त्रांशं मद्दिशि प्रेषितं मम परीक्षणाय। यदा मयावगतं तेन तस्य तन्त्रांशं न परीक्षितं तर्हि मयि क्रोधमजायत यतः स उच्चस्तरीयतन्त्रांशज्ञोऽस्ति। कथं परीक्षया विना स तन्त्रांशमग्रे सारयितुं साहसमकरोदिति तर्कातीतं मह्यम्।

रविवार, 2 अगस्त 2020

तृणलवनयन्त्रम्

ग्रीष्मकाले तृणं वेगेन न वर्धते। अतस्तृणलवकः स्थगितः। सम्प्रति मयैव लवनङ्करणीयम्। तदर्थं लवणयन्त्रमस्ति।  साहायकपुस्तिका कथयति प्रतिवर्षं स्नेहतैलं परिवर्तनीयम्। परन्तु त्रिचतुर्षु वर्षेषु गतेषु मया तैलं न परिवर्तितम्। तस्मिन्स्निहतैलं परिवर्तनीयम्। स्नेहतैलङ्क्रीतम्। श्वः परिवर्तिष्यते।

शनिवार, 1 अगस्त 2020

मार्स्

'मार्स्' इति शृङ्खलां दूरदर्शने पश्यामि। यदा मानवो मङ्गलगृहङ्गमिष्यति तदा किं भवितुं शक्नोतीति दर्शितमस्यां शृङ्खलायाम्। मुख्यतो वैज्ञानिकवाणिज्यक्षेत्रयोर्मध्ये प्रचलन्सङ्घर्षो दर्षितः। मध्ये मध्ये साम्प्रतिकाले पृथ्व्यां प्रचलतस्तादृश्स्य सङ्घर्षस्य विषये विविधवैज्ञिनाकानां नेतॄणाञ्च सन्दर्शनानि दर्शितानि। यथा पृथ्व्यां वाणिज्यसंस्था वातावरणमुपेक्ष्य धनार्जनाय सर्वं नाशयन्ति तादृशी स्थितिरेव मङ्गलगृहे भवितुं शक्नोतीति सन्देशः। एकस्मिन् प्रकरणे मङ्गलगृहे वैज्ञानिकैर्विषाणुर्विनिज्ञायते। तेन बहवो जना रोगग्रस्ता भवन्ति। तादृशी स्थितिः सम्प्रति वास्तविकजीवने प्रवर्तते। तद्दृष्ट्वा विचित्रभावना मम मनस्यागता।

सोमवार, 27 जुलाई 2020

प्रियगीतमवादयम्

यौवनकाले मम प्रियगीतमासीच्छेरिलक्रोवर्यया 'इफ् इट् मेक्स् यू हेप्पी'। मम स्वप्नमासीत्कदाचित् गिटारयन्त्रे गीतमेतत्वादयेयम्। ह्यः स स्वप्नः पूर्णोऽभवत्। सङ्गणके शेरिलक्रोवर्यायां गायन्त्यां गिटारयन्त्रेऽहं तया सह सङ्गीतमवादयम्। महदानन्दमन्वभवम्। तस्या एकोऽन्यो गीतोऽस्ति - 'मै फे़वरेट् मिस्टेक्'। तदपि मह्यं रोचतेतमाम्। तद्गीतस्य वादनङ्किञ्चिद्दुष्करं तथापि प्रयत्नङ्करिष्यामि।

रविवार, 26 जुलाई 2020

काले काले साफल्यमावश्यकम्

वाद्ययन्त्रं वादने मम सङ्घर्षेण तु यूयं परिचिता एव। केषुद्दिनेषु निमेषमात्राभ्यासन्न चिकीर्षामि। ह्य आहत्य द्वे घण्टे यावदाभ्यासमकरवम्। कस्मात्कारणाद्भेदोऽयम्? यत्किमपि गीतं शिक्षे, बहुपरिश्रमात्परमपि यदि किञ्चित्साफल्यं न प्राप्यते तर्हि निराशा जायते, अवसादोऽनुभूते च। समयो व्ययते महच्छ्रमोऽपेक्षितश्च। किमर्थमियच्छ्रमङ्कुर्याम्? परन्तु साफल्यं प्राप्यते चेदानन्दोऽनुभूयते, अग्रेऽग्रे गन्तव्यमिति चिन्तनं मनस्यागच्छति। नूतनानि गीतानि वादनाय सज्जो भवामि। स्पष्टमस्ति काले काले किञ्चित्साफल्यमावश्यकमन्यथा निराशापतति। जीवनस्य सर्वेषु क्षेत्रेषु तादृशो नियमो वर्तते।

मध्याह्ने कुटुम्बेन संस्कृपदानि पठितानि

अद्यत्वे पुत्रः संस्कृतमधीते। ह्यो मध्याह्नेऽहं तस्य चित्रपदकोशं पठामि स्म। तद्विषये भार्यया सह सम्भाषणञ्जातम्। पुत्रोऽन्यस्मिन्प्रकोष्ठे सङ्गणके किमप्युकुरुत। आवयोः सम्भाषणं श्रुत्वा स प्रकोष्ठाद्बहिरागच्छत्। मातरं संस्कृतं पाठयामीत्यवदत्। तदा वयं त्रयोरपि संस्कृतचित्रपदकोशं पठनरता अभवाम। तादृशः समय बहुशः स्याच्चेत्तस्याभ्यासं सम्यग्भवेत्।

शनिवार, 25 जुलाई 2020

अपायन्निवारणाय कियच्छुल्कं दीयेत?

अपायन्निवारणाय कियच्छुल्कं दीयेत? कोऽपायः कियच्छुल्कं तदनयोरवलम्बते। कार्यालये तन्त्रांशे पङ्क्तिरेकापसारणीया। सा पङ्क्तिरतिमहत्वपूर्णा। तदपसार्य कोऽपि हानिर्न भवेदिति मया पूर्वमेव दर्शितम्। तथापि आ मासद्वयात्सा पङ्क्तिर्नापसृता। बहूनां श्रमः समयश्च गमितस्तस्या निरीक्षणाय। प्राय आगामिनि सप्ताहे कार्यं समपद्येतेति चिन्तयामि।

शुक्रवार, 24 जुलाई 2020

समाहारो न कर्तव्यः

अद्य प्रतिवेशिनः पुत्रस्य जन्मदिवसः। सर्वैर्ज्ञायते करोणारोगभयात्समाहारो न कर्तव्यः। सर्वकारस्य नेतारोऽपि निवेदयन्त्यनाश्यकतया जनाः समूहे न समागच्छेयुरिति। तदुपेक्ष्य प्रतिवेशी तस्य पुत्रस्य जन्मदिवसो वीथ्यामाचरिष्यति। मम सामन्ते जना मुखावरणमपि न धरन्ति, सामाजिकदूरत्वमपि न कुर्वन्ति। अहं पुत्रमवदं तज्जन्मिदवसोत्सवं मा गच्छ। स निराशोऽभूत्परन्तु स बुद्धिमान्। सोऽवादीत्तेन ज्ञायते करोणारोगभयात्सावधानं भवितव्यमस्माभिः। अतः स न गमिष्यति। तस्य माता तं प्रत्यज्ञासीच्छ्वः सा तस्मै मिष्ठान्नं पक्ष्यति।

गुरुवार, 23 जुलाई 2020

भिन्नसामन्तयाटिष्व

प्रातःकालेऽहं पुत्रश्च भ्रमणाय गच्छावः। परिसरे विविधरथ्यास्वटित्वा तासां नामानि पठने तस्य रुचिः। नूतनासु रथ्यासु गमने तस्य रुचिः। स प्रतिदिनं याचते नूतना रथ्या द्रष्टव्या इति। परन्तु गृहस्य परितस्तु काचन रथ्या एव सन्ति। कतिवारं तासु भ्रमेव? अद्य नूतना रथ्या दर्शनायाहं तं कारयानेन भिन्नसामन्तमजीगमम्। तत्र सर्वा रथ्या आवाभ्यामदृष्टाः। तासु भ्रमित्वा सोऽमोदिष्ट।

बुधवार, 22 जुलाई 2020

दूरत्वन्नाचर्यते

वातायनाद्बहिः पश्यामि चेल्लक्ष्यते जनाः सामाजिकदूरत्वन्नाचरन्तीति। बालका मिलित्वा क्रीडन्ति। नार्यः परस्परं सन्निद्धौ जल्पन्ति हसन्ति च। एकयापि मुखावरणन्न ध्रियते। तस्मादेव देशेऽस्मिन्करोणारोगो वर्धते।

रविवार, 19 जुलाई 2020

न गमिष्यति चिकित्सालयम्

मित्रेण सह समभाषिषि। निसर्गतः करोणारोगविषये सम्भाषणमभूत्। सोऽवादीत्करोणारोगग्रस्तो भवेयञ्चेदपि चिकित्सालयन्न गमिष्यामि यतो वैद्या बहून्यौषधानि शरीरे पातयन्ति। तैर्लाभस्थाने हानिर्जायते। श्रुत्वा चकितोऽभूवम्। चिकित्सालयन्न गमिष्यति केवलमनेन न परन्तु कियदात्मविश्वासेन तेनोक्तं तेनापि।

दुर्दृष्टः सन्दर्शनपरिणामः

गतसप्ताहे कार्यालययेकस्मिन्सन्दर्शने भागमवहम्। अहं सन्दर्शनप्रशिक्षणङ्करोमीत्यतः सन्दर्शने केवलं श्रोतृरूपेणासम्। अन्यैर्जनैः सन्दर्शनञ्चालितम्। मया सहैकोऽन्यो जन आसीद्येन सर्वे प्रश्नाः पृष्टाः। अभ्यर्थिना सर्वे प्रश्नाः साधुतयोत्तरिताः। तथापि तेन जनेन तमभ्यर्थिनमुत्तीर्णन्न घोषितम्। अभ्यर्थिनन्निराकरणाय तेन कानिचित्कारणानि दत्तानि परन्तु मदीयां दृष्ट्यां तानि कारणानि किञ्चित्कराण्येवासन्। एतस्माज्ज्ञायतेऽद्यत्वे सन्दर्शनानि केन कारणेन कठिनानि।

छात्रा जालवृत्ती रचयन्ति

ग्रीष्मकालस्य गृहकार्यरूपेण संस्कृतेन जालवृत्तिं रचयतेति कार्यं मया निर्दिष्टम्। एतावत्पर्यन्तं तिसृभिश्छात्राभिर्जालवृत्ती रचिताः। एतद्दृष्ट्वा सन्तुष्टोऽस्मि।

भार्या बहिर्धावति

आ द्वाभ्यां दिनाभ्यां प्रातःकाले भार्या धावनाय बहिर्गच्छति। प्रायः चत्वारमैलमितं धावति। एतन्निरामयाय। सामान्यत आवाञ्चलनयन्त्रे धावावः परन्तु परिवर्तनाय सा बहिर्धावति। प्रातःकाले बहवो जना न सन्ति। अन्यच्च मार्गेषु समधिकावकाशोऽस्ति। अनेनान्ये जना विरलतयैव सम्मुखमागच्छन्ति। अतः करोणाविषाणुरपायो न्यून एव भवति।

त्रिसप्ताहान्यावद्गृहादेव पठनम्

तनयस्य विद्यालयेनोद्घोषितं त्रिसप्ताहान्यावद्गृहादेव पठनं भवितेति। तच्छ्रुत्वा सन्तुष्टोऽस्मि। मन्मतौ तदनन्तरमपि गृहात्पठनं वरम्। यदि किमपि कार्यङ्गृहात्कर्तुं शक्यते तर्हि किमर्थं बहिर्गत्वा करोणारोगापायं लभ्येत।

शनिवार, 18 जुलाई 2020

सोमवासरे विरामः

गतसप्ताहे किञ्चिदधिकतया कार्यमकरवम्। अपि चाहत्य चत्वारसप्ताहमितोऽवकाश एव सङ्ग्रहीतुं शक्यते। अतः सोमवासरे विरामं स्वीकर्तास्मि येन विश्रामो भवेद्विरामदिनञ्चापि व्ययेत्।

सोमवार, 13 जुलाई 2020

विद्यालया उद्घाटयिष्यन्ते वा न?

सामान्यतोऽगस्तमासे विद्यालया उद्घाटयिष्यन्ते। परन्तु करोनाविषाणुवशात्सर्वमस्तव्यस्तमस्ति। करोनारोगो वर्धमानोऽस्ति। सम्प्रति विद्यालया न उद्घाटयेरंश्चेद्वरम्। अन्यथा छात्राः शिक्षकाश्च रोगं प्राप्नुयुः। इदानीमेव वार्तासु दृष्टं यत्त्रिभ्यः सप्ताहेभ्यो वर्गा अन्तर्जालेन पाठयिष्यन्ते। तदेवोचितम्। मम मतौ तदनन्तरमप्यन्तर्जालेन पाठनीयम्। यावत्करोनारोगो न्यूनो न भवेत्तावदन्तर्जालेनैव पाठनीयम्।

केचन जना न कुर्वन्त्येव

अहं सम्भाषणकक्ष्ये चालयामि। तयोः सर्वैः संस्कृतेन सम्भाषणङ्करणीयम्। बहवो जनाः प्रयासङ्कुर्वन्ति। परन्तु केचन जनाः सन्ति ते कदापि संस्कृतेन न वदन्ति। आङ्गलभाषया वदन्ति लिखन्ति च। हा हन्त!

रविवार, 12 जुलाई 2020

एकविंशतिर्गीतानि

वाद्ययन्त्रस्य विषयेऽहमधिकतया न लिखामि। बहुवारं तस्मिन्विषये मयावसादोऽनुभूयते। सततपरिश्रमाद्गुरुणा पठनाच्च परमपि प्रगतिर्न दृश्यते। न दृश्यत इत्यस्यार्थः प्रगतिर्नास्तीति नियतन्नास्ति। यानि गीतान्यहं वादयितुं शक्नोमि ह्योऽहं तेषां सूचीमलिखम्। तस्यामेकविंशतिर्गीतान्यवर्तन्त। तेषु गीतेष्वेकादशगीतान्यहं पूर्णतया वादयितुं शक्नोमि। दश भागशो वादयितुं शक्नोमि। सा प्रगतिरस्ति ननु? अन्यच्च गतयोर्दिनयोरहं द्वे गीतेऽध्यैयि। केषुचिन्निमेषेष्वेव ते गीते वादयितुमशक्नवम्। यद्यपि ते गीते सरले तथापि कौशलं वर्धितमित्यस्मादेव स्वल्पकाले नूतनगीते वादयितुमशक्नवम्। सा प्रगतरिस्ति किल?

वर्गौ पर्यवस्येते

अद्य ग्रीष्मकालीनौ वर्गौ पर्यवस्येते। अष्टसप्ताहात्मकौ ग्रीष्मकालवर्गौ। मासप्रायं विरामङ्गृहयित्वा शरदृतौ वर्गौ पुनरारप्स्येते। बहवो जनाः सन्धिं पिपठिषन्ति। अतः सन्धिमध्यापयितास्मि। प्रथमस्तरीयछात्रा द्वितीयस्तरङ्गच्छेयुः। तेभ्यो नूतनपुस्तकं पाठयिष्यामि। तस्मिन्पुस्तके नूतनविषया न सन्ति। परन्तु पूर्वपठितांशान्दृढीकरणाय तस्य पुस्तकस्य पाठनमावश्यकम्।

शनिवार, 11 जुलाई 2020

संस्कृतङ्कः कियत्प्रीणाति?

संस्कृतं प्रीणामीति बहवो जना भणन्ति। संस्कृतङ्कः कियत्प्रीणातीति द्रष्टव्यञ्चेज्जना अनायासेन संस्कृताय धनं व्ययन्त्युत नेति दृश्यताम्। बहूनां संस्कृतपुस्तकानां प्रतिकृतयोऽन्तर्जाले प्राप्यन्ते। ताः प्रतिकृतयो निश्शुल्काः। कागदीयाः प्रकाशिताः प्रतिकृतयः शुल्कं दत्त्वा क्रेतुं शक्यन्ते। या प्रतिकृतिर्निश्शुल्कं लब्धुं शक्यते तस्यै किमर्थं धनं देयमिति विचारो मनस्यागच्छत्येव। संस्कृतस्य हिताय शुल्कं दत्त्वा पुस्तकानि क्रेतव्यानीति मम मतः। यदि शुल्कं न दीयेत तर्हि लेखकाः प्रकाशकाश्च कथं धनं प्राप्नुयुः। धन्न प्राप्नुयुश्चेत्ते किमर्थं संस्कृतपुस्तकानि लिखेयुः प्रकाशयेयुश्च। ते संस्कृतं त्यक्त्वा किमप्यन्त्कुर्युर्ननु? अन्तर्जालस्य प्रयोगः सौकार्याय। सः प्रयोगः कर्तव्य एव। परन्तु तदतिरिच्य कागदीयानि पुस्तकान्यपि क्रेतव्यानि येन संस्कृतेन जना धनार्जनङ्कर्तुं शक्नुयुः। संस्कृतेन धनमर्जयितुं शक्यते चेदितोऽपि नूतनलेखकाः संस्कृतक्षेत्रयागच्छेयुः। तत्संस्कृतस्य हिताय।

शनिवार, 4 जुलाई 2020

चलनयन्त्रं स्निग्धीकृतम्

सार्धशतमैलेभ्यः परस्ताच्चलनयन्त्रस्य पट्टिकाया अधोभागस्तैलेन सिञ्चनीय इति चलनयन्त्रस्य साहायकपुस्तके लिखितम्। सार्धशतमैलेभ्यः परस्ताच्चलनयन्त्रेण तस्य फलके सिञ्चनाय सन्देशः दर्शनीयः। आ जन्वरीमासाद्वयं नियततया चलनयन्त्रमुपयुञ्ज्महे। परन्तु तादृशः सन्देशो न दृष्टः। अतोऽद्य वयं तैलसिञ्चनमकृष्महि। अनेन चलनयन्त्रं दीर्घकालायोपयोगि भवेदित्याशा।

द्वारवारङ्गः परिष्कृतः

गृहस्य मुख्यद्वारस्य वारङ्गो विषमो जातः। तस्माद्गृहाद्बहिस्तो द्वारो नोद्घाटयितुमशक्यत। अद्य प्रातःकालेऽहं भार्या च तद्वारङ्गं पर्यकृष्वहि। आरम्भे तस्य वियोजने कष्टमनुभूतम्। कथङ्करणीयमिति न ज्ञातम्। अनन्तरमन्तर्जालाद्दृष्ट्वा वारङ्गो वियुक्तः। परिष्कृत्य पुनःस्थापितः। अन्तर्जालो नाभिष्यच्चेदावाङ्कदापि तद्वारङ्गमुद्घाटयितुन्नाशक्ष्याव। अन्तर्जालेन प्रायः सहस्रशः कर्मकरिणामुद्योगच्युतिः कारितेति प्रत्येमि।

शुक्रवार, 3 जुलाई 2020

इतोऽपि विरामङ्गृह्णै

कार्यालयेऽधिकाधिकं षष्ट्यधिकशतमिता होरा विरामरूपेण सङ्ग्रहीतुं शक्यन्ते। ततोऽधिका भवेयुश्चेद्वेतनान्वितविरामदिनानि व्यर्थतां यान्ति। करोनाविषाणुवशात्कुत्रापि गन्तुं तु न शक्यते। तर्हि विरामदिनान्युपचिन्वे। तानि दिनानि चतुर्भ्यः सप्ताहेभ्योऽधिकानि न भवेयुरित्यस्मात्सोमवासरे विरामङ्ग्रहीताहे। आहत्य सप्ताहान्तेऽस्मिँश्चत्वारि दिनानि यावद्विरामः सम्भवति।

सर्वेषां विरामः

अद्य सर्वेषां कार्यालयस्य विरामः। ह्यः कार्यालयस्य प्रातःकालीने सम्मेलनेऽहमवदम् - श्वोऽवकाशो भविता किल? अद्यावकाश इति मदीयैर्बहुभिर्दलसदस्यैर्न ज्ञातमासीत्। केवलं प्रबन्धकेन ज्ञातमासीत्। मदुक्तिञ्छ्रुत्वा सर्वे सदस्या हर्षिताः। सामान्यतः कार्यालयो विरामात्पूर्वं विपत्रेण विरामसूचनां प्रेषयति। केनापि कारणेनास्मिन्वारन्न प्रेषता। भार्यायाः कार्यालयस्यापि विरामः। पुत्रोऽप्राक्षीत्यत्तेन त्रीणि कार्याणि कर्तव्यानीति। अहं तमजीज्ञपं यत आवयोर्विरामोऽस्ति तस्मात्त्वमपि विरामङ्गृह्णीष्व। एतच्छ्रुत्वा साहृषत्।

मंगलवार, 30 जून 2020

द्विमैलमितं भ्रमणम्

अहं पुत्रश्च गतद्वयोर्दिनयोः प्रातःकाले भ्रमणायागच्छाव। उभयोर्दिनयोर्वातावरणमुत्तममासीत्। शीतलवायुरवहत्। तापमान उचितः। द्विमैलमितं भ्रमणमकुर्वहि। पुत्रेणैतावती दूरता कदापि नाटिता। तस्मात्स श्रान्तोऽभूत्। अहं तमबोधिषं येन व्यायामेन श्रान्तिर्जायेत स एव लाभकरी। येन श्रान्तिर्नजायेत तेन न्यूनो लाभ एव लभ्यते। 

सोमवार, 29 जून 2020

शब्दकोषमदाम्

अद्य साँयकाले छात्रया सह मिलित्वा तस्यै शब्दकोषमदाम्। सान्यानि पुस्तकान्यानैषीत्। तानि पुस्तकानि कथं प्रयोक्तव्यानीति साप्राक्षीत्। अहं तामजीज्ञपम्। सा संस्कृतेन सम्भाषितुमचेष्टिष्ट। तद्दृष्ट्वाहमहृषम्।

वार्तापत्रस्य ग्राहकतामक्रैषम्

अद्यत्वे वार्ताः समधिकमात्रायां प्राप्यन्ते। अन्यच्च निश्शुल्कम्। परन्तु तासु वार्तासु बहवो वार्ताः केवलं विज्ञापनानि विक्रयणाय लिख्यन्ते। उत्तमा वार्तासङ्ग्रहणाय उत्तमा विवेचनावश्यकी। तदर्थं पत्रकारेभ्यः समुचितधनं देयम्। तादृशं धनङ्केवलं विज्ञापनानि विक्रीय नार्ज्यते। 'न्यू-यार्क्-टैम्स्' इति वार्तापत्रं श्लाघ्नीयेषु वार्तापत्रेष्वन्यतमम्। तस्य पत्रकारा महच्छ्रमेण साम्प्रतिकसामाजिकविषयानां विवेचनङ्कुर्वन्ति। अद्यत्वे तस्य वार्तापत्रस्य ग्राहकता स्वल्पधनेन प्राप्तुं शक्यते। मासाय केवलञ्चत्वारि रुप्यकाण्यपेक्ष्यन्ते। अतोऽहं वार्तापत्रस्य ग्राहकतामक्रैषम्।

रविवार, 28 जून 2020

वर्षया मेलनं स्थगितम्

मदीयस्य वर्गस्यैका छात्रा शब्दकोषञ्चिक्रीषति। अहं पुस्तकङ्क्रयणाय तस्यै जालपुटसङ्केतमगमयम्। अनन्तरमवेदिषं यद्यत्पुस्तकं सा चिक्रीषति तस्य पुस्तकस्यातिरिक्ता प्रतिकृतिर्मत्सकाशे विद्यमाना। अहं तामवादिषमष्टवादने मिलित्वा पुस्तकं मत्क्रेतुं शक्नोति। सपादसप्तवादने महती वृष्टिरपप्तत्। मया ज्ञातं वृष्टिर्दीर्घकालाय न भविष्यति। अतः सार्धसप्तवादनं पर्यन्तं प्रतीक्षामकार्षम्। वृष्टिर्न्यूनाभूत्परन्तु नावसिता। अतोऽहं तां सन्देशमगमयं यन्मेलितुं न शक्नोमि। श्वो मेलितास्वः। परन्तु पादोनाष्टवादने वृष्टिः समाप्तप्रायाभूत्। तावता तु मेलनं विलुप्तङ्कृतमेव। हा हन्त! श्वो गच्छानि।

पूर्वतनं फलकविधानं प्रयुञ्जे

नूतनफलकविधानं प्रयोक्ष्ययिति मया पूर्वोक्तम्। केभ्यश्चिद्दिनेभ्यो नूतनफलकविधानं प्रयुज्याबोधं यत्तद्विधानङ्किञ्चित्कष्टदायकोऽस्ति। प्रायः सम्यगस्ति परन्तु तस्मिन्विधाने केचित्स्वरा उचितस्थाने न सन्तीति मम चिन्तनम्। विशेषत गुणवृद्धिस्वरस्थानाः सम्यङ्न सन्ति । टङ्ककने तेषां प्रयोगस्तु बहुशो भवति परन्तु फलके तेषां स्थितिर्यत्रास्ति तन्मम सौकार्याय नास्ति। अतः पुनः पूर्वतनविधानमधिगच्छामि। यदि कदापि वैदिकाक्षराणाण्टङ्कनमावश्यकं भवेत्तर्हि तत्फलकविधानं प्रयोक्ष्ये।

शनिवार, 27 जून 2020

मातृपितृभ्यां सह समभाषिष्महि

मातृपितृभ्यां सह समभाषिष्महि। तयोर्नगरे सर्वकारकार्यकर्तारो गृहङ्गृहङ्गत्वा करोनापरीक्षाङ्करिष्यन्ति। यदि करोनारोगी लक्ष्येत तर्हि रोगी सर्वकारीयञ्चिकित्सालयं नेष्यते। ताववादिष्टां सर्वकारीयकार्यालये स्थितिः सम्यङ्नास्ति। रोगिणो बान्धवा रोगिणं मेलितुन्न शक्नुयुः। दूरवाण्या सम्भाषितुमपि न शक्नुयुः। तौ चिन्ताग्रस्तौ। अहं तावबूबुधं ताभ्याञ्चिन्ता न करणीया यतस्तौ प्रायो गृहयेव तिष्ठतः। एतच्छ्रुत्वा ताववादिष्टां यतस्तौ सप्ततिवर्षीयावतस्तयोः रक्तपरीक्षा क्रियते चेत्किमपि रोगस्तु द्रक्ष्यतयेव। मनसि विहस्याहमवादिषञ्चिकित्सालयेषु रिक्तस्थानानि न सन्ति। प्रथमं तु ते केवलङ्करोनापरीक्षामेव कुर्युः। अन्यच्च यदि कोऽप्यन्या रोगो प्राप्येतापि ते न नयेयू रिक्तस्थानाभावात्। अनेन तयोश्चिन्ता किञ्चिन्निवारिता।

कोस्टकवेमेज़ोनयोर्भेदः

आवाङ्कोस्टकवेमेज़ोनापणाभ्यां वस्तूनि क्रीणीवः। करोनाविषाणोः पूर्वमुभयाभ्याङ्क्रयणं सुकरमासीत्। परन्तु करोनाविषाणोरागमनात्परस्ताद्बृहद्भेदो दृष्यतयुभयोः। आरम्भयुभयोरापणयोर्वस्तूनि लुप्तानि। परन्तु शीघ्रातिशीघ्रमेमेज़ोनापणेन तस्य पूर्तिशृङ्खला पुनः कल्पिता। केषुचिद्दिनेष्वेव सर्वाणि वस्तूनि लभ्येरन्। चतुर्भ्यो मासेभ्यः परस्तादपि कोस्टकवापणस्य जालस्थानाद्वस्तूनि विरलतया प्राप्यन्ते। तस्य भौतिकापणं त्वावान्न गच्छावः। प्रायस्तत्र वस्तूनि लभ्येरन्। परन्तु जालस्थानात्क्रयणयेमेज़ोनापणो वरम्।

सार्धद्विवादने द्राहितः

रात्रौ सार्धद्विवादनेऽहं द्राहितः। दूरवाणयनादीत्। कार्यालयस्य कस्मिंश्चित्सङ्गणके काचित्समस्यागता। उत्थाय निरैक्षिषि। सार्धैकघण्टां यावत्कार्यङ्कृत्वा चतुर्वादने पुनर्न्यद्रासिषम्। तदनन्तरं सपादसप्तवादनेऽजागरिषम्। प्रायो मध्याह्ने निद्रास्यामि।

शुक्रवार, 26 जून 2020

पुत्राय चित्रक्रीडा

दूरदर्शने पुत्रश्चित्रक्रीडामेकां पश्यति। स ताङ्क्रीडां प्रीणातितमाम्। परन्तु स कदापि स्वयङ्क्रीडितुन्नाशक्नोत्। एकस्मिन्दिने तेन ज्ञातं यद्याङ्क्रीडां स पश्यति सा लघुसङ्गणके स्थापयितुं शक्यते। गतसप्ताहेऽहं ताङ्क्रीडां लघुसङ्गणकेऽस्थापयम्। सोऽमोमुदत। सम्प्रति स प्रतिदिनं दीव्यति। तं दृष्ट्वाहं तुष्यामि।

नेयां वर्षेऽस्मिन्कार्यालयम्

करोनाविषाणुर्जगत्त्रासयति। ओक्टोबरमासादारभ्य कार्यालयमागन्तव्यं सर्वैरिति कार्यालयो जगाद। परन्तु तन्नभवेदिति प्रतिभाति। करोनारोगिणो वर्धमानाः। सर्वकारेण पुनर्दिग्बन्धादेशो दत्तः। वर्षेऽस्मिन्कार्यालयन्नेयामिति मन्ये। अभूतपूर्वस्थितिरेषा। पुत्रस्य विद्यालयमपि नारभेतेति चिन्तयामि।

गुरुवार, 25 जून 2020

वैदिकजनाः

अद्य 'भारत एक खोज' इत्यस्य कार्यक्रमस्य वैदिकजनविषयकं प्रकरणमैक्षिषि। वैदिकजनानां विषये ऋग्वेदस्य विषये च बोधयिष्यतयिति चिन्तयित्वोत्साहेन दर्शनमारब्धम्। परन्त्वाशाभङ्गोऽभूत्। किमपि ज्ञानवर्धकन्न दर्शितम्। बहूनि गीतानि गीतानि। ऋग्वेदस्य रचना न दर्शिता। ऋग्वेदे किमस्तीत्यपि न बोधितम्। ऋग्वेदस्य मन्त्राण्यपि हिन्द्यामुच्चारितानि। वैदिकसभ्यताविषये पाठनस्य सुवर्णावसरो गमित इति मन्ये।

रचना भक्षणात्कठिनतरा

रचना भक्षणात्कियती कठिनतरेति प्रत्यक्षमद्राक्षम्। पुत्रस्याभ्यासपुस्तके केषुचिदभ्यासेषु शब्दा दत्ता अन्येषु स्वीयाः शब्दा रचनीयाः। यत्र शब्दा दत्तास्तत्र पुत्र उत्साहेन शीघ्रं पूरयति। यत्र शब्दा रचनीयास्तत्र तेनातीवकाठिन्यमनुभूयते। घण्टां यावत्स एकेनाभ्यासेन सह तिष्ठति रोदिति च। तस्य साहाय्यङ्कृत्वा कथञ्चित्कार्याणि फलन्ति।

पुत्रः प्रयतते

ग्रीष्मकालविरामे पुत्रः प्रतिदिनं प्रयतते। स प्रतिदिनं त्रीणि कार्याणि करोति। तस्मै पुस्तकमेकङ्क्रीतम्। तस्मिन्पुस्तके विविधविषयानाधारीकृत्याभ्यासा दत्ताः। तान्स प्रतिदिनङ्करोति। अनेन तस्य ज्ञानबुद्धी वर्धेयाताम्।

आतिष्व

अद्य पुत्रः सार्धसप्तवादनेऽजागरीत्। अतः प्रातराशङ्कृत्वावां भ्रमणायागमाव। स द्विचक्रिकयातीदहं तमनुसरन्पादाभ्यामातिषम्। यतोऽहञ्चलनयन्त्रे नियततया घण्टामितञ्चलामि तथापि पञ्चदशनिमेशेष्वेव स्वेदार्द्रोऽभूवम्। चलनयन्त्रे दशडिगरीमितं प्रतिकूलञ्चलामि। जानुवेदनावशान्न धावामि। पुत्रे द्विचक्रिकायां सति मम धावनमभूदेव। यद्यपि चलनयन्त्रे मैलत्रयमितञ्चलामि धावने मैलात्परमेवाक्लमम्। यावान्स्वेदश्चलनयन्त्रे त्रिमैलमितञ्चलित्वा स्रवेत्तावान्स्वेदो मैलमात्रं धावनात्परमेवास्नौत्।

गीतमवादयम्

ह्यो वाद्ययन्त्रयेकङ्गीतमवादयम्। तद्गीतमहं प्रीणामि। तद्वादयित्वाहृष्यम्।

बुधवार, 24 जून 2020

सार्धाष्टवादनेऽद्राहिष्ट

अद्य पुत्रः सार्धाष्टवादनेऽद्राहिष्ट। पूर्वं स कदाप्येतावता विलम्बेन नाद्राहत। तस्मादावां भ्रमणाय नागमाव यतो मया नववादनादारभ्य कार्यालयस्य कार्यमारब्धव्यम्।

सोमवार, 22 जून 2020

अङ्गुष्ठावभ्रमम्

कार्यालये मम कार्यमीदृषमस्ति यदन्येन दलेन पारयितव्यम्। यदहङ्कर्तुं शक्नोमि तन्मया कृत्वा कार्यमन्यस्मै दलाय प्रेषितम्। स दलस्तस्य समयानुसारङ्कार्यङ्करिष्यति। यावता तेन दलेन कार्यन्न पार्यते तावताहमग्रिमङ्कार्यङ्कर्तुन्न शक्नोमि। अतोऽद्याङ्गुष्ठौ भ्रमयन्नस्थामहम्।

पुत्रेण पुनः संस्कृतपठनमारब्धम्

अद्यत्वे ग्रीष्मकालविरामः पुत्रस्य। स गृहे प्रतिदिनं त्रीणि कार्याणि करोति। तेषु कार्येषु देवनागरीलेखनमन्यतमम्। स पुनरक्षराँल्लिखति। अस्मिन्वारं तेन न्यूनतरः कष्टोऽनुभूयते यतः स सम्प्रति शिशुर्नास्ति। स संस्कृताध्ययनमनुवर्तेत चेद्वरम्।

उद्याने छिद्राणि

काले कालेयुद्याने छिद्राणि कर्तव्यानि। तेन मृत्तिकायां जलवायू सम्यक्तया गच्छतः। अस्मात्तृणानि वरीवर्धन्ते। एतस्मै पादकवचविशेषङ्क्रीतम्। तयोः कवचयोरधः कीलाः सन्ति। कवचौ धृत्वोद्याने चल्यते चेद्मृत्तिका भिद्यते। ह्यो भार्या तदकरोत्। द्रक्ष्यावो यदि तृणानि वरीवर्धेरन्।

विद्युत्कोषौ स्थापितौ

भार्याया यानकुञ्चिकयोर्विद्युत्कोषावस्थापयम्। अनेन यानं दूरात्कीलितुमकीलितुं शक्यते। एतदावयोरुभयोर्लाभाय।

रविवार, 21 जून 2020

ᳲ ᳳ ᳵ ᳶ ळ म॒ क॑

अहं 'लैनक्स्' सङ्गणकं प्रयुञ्जे। तस्मिन्बहुभ्यो वर्षेभ्यो देवनागरीकीलफलकविधानं प्रायुञ्जि। तेनैव मया संस्कृतण्टङ्क्यते। अदो विधानं हिन्दीटङ्कनाय। केचनाक्षराः (विसर्गविरामावग्रहाः प्रभृतयः) हिन्द्यां विरलतयोपयुज्यन्तॆ। तादृशानामक्षराणां विधाने स्थितिरुचितस्थाने नास्ति। अद्याद्राक्षं संस्कृतविधानमुपलभ्यते। तदारोपितम्। यद्यप्यहं वैदिकसंस्कृतन्न टङ्कयामि (एतावत्पर्यन्तम्) तथापि तस्मिन्विधाने वैदिकाक्षरान्दृष्ट्वा हृष्टोऽभूवम्। जिह्वामूलीय उपध्मानीयः स्वरितोऽनुदात्त इत्यादीनक्षरान् (ᳲ ᳳ ᳵ ᳶ ळ म॒ क॑) दृष्ट्वामोदिषि। अद्यारभ्येमं विधानमेव प्रयोक्ष्ये।

सोमवार, 15 जून 2020

यानकुञ्चिका

सप्ताहेऽस्मिन्मम भार्या मदीयङ्कारयानं नयति। प्रातःकाले पुत्रेण सहोद्यानङ्गच्छामि। तस्याः कारयानकुञ्चिकायां विद्युदूर्जा नास्ति। विद्युत्कोषः परिवर्तनीय इत्यचिचिन्तेऽहम्। परन्तु कुञ्चिकाकवचः कथमुद्घाटनीय इति चिन्तञ्चिन्तमपि मार्गो न दृष्टः। कारयानसाहायकपुस्तकमानैषम्। तस्मिन्नद्राक्षङ्कुञ्चिकाकवचः कथमुद्घाटनीय इति। उद्घाट्य ज्ञातं यो विद्युत्कोषस्तस्यामपेक्ष्यते स मत्सकाशे नास्ति। क्रीत्वा स्थापयिष्यामि।

'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत' २

गतेषु केषुचिद्दिनेष्वहं 'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत' इति पुस्तकमपठम्। अत्युत्तमं पुस्तकमस्ति। पुस्तकस्थाः प्रायः सर्वे विषया मया ज्ञायन्ते। अतः कुतूहलवशादेव पुस्तकङ्क्रीतम्। सप्ताहाभ्यान्तरे सम्पूर्णपुस्तकं मया पठितम्। एतादृशं पुस्तकं संस्कृतप्रसारायात्यावश्यकम्।

रविवार, 14 जून 2020

प्रातराशमानैषम्

ह्यः पुत्रोऽवदद्बहिस्तः प्रातराशमानेतव्यमिति। ह्यस्तु विलम्बोऽभवत्परन्त्वहं तमवदं श्व आनेतास्मीति। अहं तु सार्धपञ्चवादने प्रातस्तमाञ्जागर्मि। भार्यापुत्रावुपसप्तवादने जागृतः। अतोऽहं षड्वादने गत्वा प्रातराशमानैषम्। तयोर्जागरणात्पूर्वङ्गृहं प्रत्यागमम्। पुत्रो निद्राया उत्थायाप्राक्षीत् - हे पितः! त्वं बहिस्तो भोजनमानेष्यसि वा? अहमवदिषम् - आम्। गत्वानेष्यामि। अहं सुखासनादुत्थाय पाकशालाङ्गत्वा भोजनमानैषम्। उभौ हर्षितौ विस्मितौ च। ताभ्यान्न ज्ञातमहं पूर्वमेवापणङ्गत्वा भोजनमानैषम्। वयं सर्वे मिलित्वा प्रातराशमघसाम।

शनिवार, 13 जून 2020

ओट्टोमन्स्

'ओट्टोमन्स्' इति दूरदर्शने वृत्तान्तमपश्यम्। मेहमूद्-२ नामौट्टोमन्राजा कथङ्कोन्स्टान्टीनोपल्नगरञ्जिगाय तस्मिन्वृत्तान्ते दर्शितम्। तस्माद्राज्ञः पूर्वं त्रयस्त्रिंशत्सेना तन्नगरञ्जेतुं विफलतया प्रयेतिरे। मेहमूद्-२ राजापि महता कृच्छ्रेण विजयं लेभे। बहुवारं तस्य दृढसङ्कल्पश्चस्खाल। परन्तु स जेष्यतीति प्रतीतिः स कदापि न तत्याज। कोन्स्टान्टीनोपल्नगरस्य राजा वेटिकन्राज्यात्साहाय्यं ययाचे परन्तु समये साहायता नागता। वेटिकन्राज्यं साहाय्यङ्गमयाञ्चकार परन्तु तावता विलम्बो बभूव। सम्प्रति कोन्स्टान्टीनोपल्नगरम् 'इस्तान्बुल्' नाम्ना ज्ञायते। तन्नगरं टर्किदेशस्य राजधान्यस्ति।

जलसेचकयन्त्रम्-२

जलसेचकयन्त्रं समीकृतम्। जलसेचनायोद्यानन्नवसु भागेषु विभक्तमस्ति। तेषु भागेषु पञ्चमः षष्ठः सप्तमश्च भागा जलंन्न प्राप्नुवन्ति स्म। जलसेचननियन्त्रणयन्त्रे दोष आगतः। कार्यकर्तृणा दोषो निवारितः। सम्प्रति नवापि भागा जलं प्राप्नुवन्ति। अद्यः प्रातःकालेऽहं तद्यन्त्रमवालोकिषि। नवमो भागो किञ्चिन्न्यूनतया जलं प्राप्यते। अपि च केचन जलसेचकोत्सा स्वेन भूमेरुपरि नागच्छन्ति, पुनर्भूमौ नावतरन्ति। हस्तेन तान्गतिर्देया। परन्तु सम्प्रति प्रायशो जलसेचकयन्त्रं सम्यक्कार्यङ्करोति।

गुरुवार, 11 जून 2020

राष्ट्रीयस्तरीयः प्रशिक्षणमारप्स्यते

मम वर्गस्थेभ्यः केभ्यश्चिच्छात्रेभ्योऽहं सम्प्रति शिक्षकप्रशिक्षणं ददामि। राष्ट्रीयस्तरे तादृशो वर्ग आरप्स्यतयिति वार्ता प्राप्ता। छात्रानबूबुधं तैस्तस्मिन्वर्गे भागो वोढव्यो यतः स शिक्षको मदपेक्षयानुभवी। अतः शनिवासरे चाल्यमानो वर्गः स्थगितः। अमुना शनिवासरे घण्टाधिकां लब्धाहे।

पादकन्दुकायागाव

यथा चिन्तितं तथा पादकन्दुकायागाव। उद्याने न्यूना जना एवाभूवन्। अतः करोनाविषाणुभीतिर्नाभूत्। सामान्यतोऽहं साँयकाले व्यायामङ्करोमि परन्त्वद्य प्रातःकालयेव सोऽभूत्। अन्यच्च भिन्नरीत्या व्यायाममभूदयतोऽहं सामान्यतः पादकन्दुकन्न क्रीडामि। अर्धघण्टा यावद्धावनञ्जातम्। अनेन टङ्गयोर्भिन्नमांसपेश्य उपयुक्ताः। तद्वरम्। तथापि साँयकाले गृहे सामान्यरीत्या व्यायाममकार्षम्।

बुधवार, 10 जून 2020

श्वः पादकन्दुकाय गन्तास्वः

यतः साँयकालेऽत्यूष्णं भवत्यतः श्वः प्रातःकाले पुत्रं पादकन्दुकायोद्यानङ्गमयितास्मि। अनेनावयोर्व्यायामो भवेत्। सोऽन्वरुधत्स सप्तवादने बोधव्यो मयेति। अहं तमवदिषं बालकेभ्योऽधिका निद्रावश्यकी यतस्तेषां विकसद्भिर्मस्तिष्कैः रात्रौ दिनेऽधीता विषया दृढीक्रियन्ते। यदि स मध्याह्ने स्वप्यात्तर्हि तं प्रातस्तरां बोधयिष्यामि। परन्तु स कदापि मध्याह्ने न सुषुप्सति।

निदाघे पुत्राय गृहकार्यम्

विद्यालयो निदाघकालाय स्थगितः। तनय आदिनं दूरदर्शनन्न पश्येत्तदर्थमावाभ्यं तस्मै कार्याणि दीयन्ते। प्रतिदिनं तेन त्रीणि कार्याणि क्रियन्ताम्। चित्रलेखनं, कथापठनं, गणितमित्यादीनि कार्याणि। स करोति परन्तु केवलं सरलानि कार्याणि चिकीर्षति। कठिनकार्यमागच्छेच्चेद्बहु रुदित्वैव कार्यङ्करोति। रोदनेन समयः क्षयते। तस्मात्तस्य दूरदर्शनावधिर्रह्रसते। अनेन स ततोऽपि रोदिति। अद्य तादृशं दिनमभूत्।

मंगलवार, 9 जून 2020

पुत्रा रोदिति

साँयकाले गृहाद्बहिर्बालकाः क्रीडन्ति। मम पुत्रोऽपि चिक्रीडिषति। तस्य माता तं सप्ताहे न्यूनातिन्यूनं पञ्चदिनेषु बहिर्नयति। तस्य मातुरुद्योगस्तादृशो यस्मिंस्तया प्रातःकाले षड्वादने गृहाद्गन्तव्यम्। अतः पर्याप्तनिद्रा प्राप्नाय तया दशवादनात्पूर्वं शेतव्यम्। यदि तावता न शयीत तर्हि पर्याप्तनिद्रा न प्राप्येत। अन्ये कुटुम्बा उपद्वादशवादने शेरते। वयं दशवादने शेमहे। यदि पुत्रो बहिस्तो विलम्बेनागच्छेत्तर्हि शयने विलम्बो भवेत्। तेन कारणेनाद्य तस्य मात्रा तं बहिर्नानयत्। सोऽरोदीत्। तेन केवलं तस्मै न परन्तु तस्य मात्रेऽपि चिन्तनीयमित्यहं तमबोधयम्। परन्तु बालकः स कथमेतादृशञ्चिन्तनङ्कुर्यात्?

सोमवार, 8 जून 2020

कार्ये व्यस्तोऽस्मि

सप्ताहेऽस्मिन् कार्यालयस्य कार्ये व्यस्तोऽस्मि। मदीये दले प्रतिसप्ताहमेको जनो ग्राहकानां साहाय्यायोपलभ्यते। अस्मिन् सप्ताहेऽहं स जनः। एतन्नूतनन्नास्ति। परन्तु सम्प्रत्यस्माकं तन्त्रांशा बहुभिर्ग्राहकैरुपयुज्यन्ते। अतः कार्यमधिकायते।

रविवार, 7 जून 2020

विद्युच्छक्तिः प्रत्यागता

विद्युच्छक्तिर्दशवादने प्रत्यागता। यतो हि विद्युत्परिवर्तनयन्त्रं दग्धञ्जातं तथापि सार्धैकघण्टायाः परस्तादेव विद्युदागता। विद्युत्कार्यकर्तारः प्रशंसार्हाः।

शनिवार, 6 जून 2020

विद्युच्छक्तिर्गता

घण्टायाः पूर्वं विद्युच्छक्तिर्गता। विरलतयैव विद्युच्छक्तिर्व्यपगच्छति। गच्छति चेत्केभ्यश्चिन्नेमिषेभ्य एव गच्छति। अद्य तादृशन्नास्ति। निकटवर्ति विद्युत्परिवर्तनयन्त्रं दग्धमभवदिति श्रुतम्। तत्समीकरणाय केभ्यश्चिद्घण्टा आवश्यका एव। आरात्रि न गच्छेदिति वरमन्यथा गृहेऽत्यूष्णं भविष्यति। कारयानप्रकोष्ठशस्य द्वार उद्घटितः। विद्युता विना स निच्चैर्नागच्छति। द्वारस्य साहायकपुस्तके एको मार्गो दत्तः परन्तु पूर्वङ्कदापि नानुसृतस्तन्मार्गः। यदि सार्धदशवादनात्पूर्वं विद्युदागच्छेत्तर्हि सामान्यरीत्या द्वारं पिधातुं शक्नुमः। नोचेत्तन्मार्गमनुसरिष्यामः।

प्रौढशिक्षकप्रशिक्षणम् - २

अद्य प्रौढशिक्षकप्रशिक्षणमरब्ध। यथापेक्षितं द्वौ जनावागमताम्। दत्तङ्गृहकार्यं तौ कृत्वागमताम्। वर्गारम्भः कथङ्करणीय इति मया ज्ञापितम्। तौ पूर्वादेव जानीयातां यतस्तौ वर्षादप्यधिकं मदपठताम्। प्रशिक्षणं सम्यगभूत्।

शुक्रवार, 5 जून 2020

अंशापणः पुनरूर्ध्वमेति

करोनाविषाणु तु कुत्रापि न गच्छति। देशे करोनारोगिणस्तु वर्धमाना एव। तथाप्यंशापण ऊर्ध्वङ्गच्छति। आर्थिकव्यवस्था त्विदानीमपि न सम्यगस्ति तर्ह्यंशापणः किमर्थमूर्ध्वङ्गच्छति। आशायाम्? करोनाविशाणु जीवनस्य सामान्यभागमभवदिति प्रतिभाति।

प्रौढशिक्षकप्रशिक्षणमारभेत

यद्यहं मन्नगरे संस्कृतवर्धनमिच्छामि तर्हि मया नूतनशिक्षका निर्मातव्याः। अहं स्वयमेव तु बहून् वर्गानध्यापयितुन्न शक्नोमि। तावान् समयो नास्ति। तन्निमित्तं प्रौढशिक्षकप्रशिक्षणवर्गमारभे। द्वित्रैर्जनैः रुचिर्दर्शिता। ते कतिवारमगच्छेयुरिति द्रष्टव्यम्। यदि द्वावेव नूतनशिक्षकौ निर्मीयेयातां तर्हि महत्साहाय्यं भवेत्।

बुधवार, 3 जून 2020

सन्धिवर्गः

मया पाठ्यमानास्तृतीयस्तरीयाश्छात्राः सन्धिं पिपठिषन्ति। मोदावहो विषयोऽयम्। सप्ताहान्तिके शिबिरे सन्धिः पाठ्येतेति मदीयेन संस्कृतकेन्द्रसञ्चालकेन प्रस्तावितम्। सन्धिः कश्चन जटिलविषयः। मन्मतौ सप्ताहान्तिकशिबिरन्न पर्याप्तम्। जटिलविषया मन्दगत्या पाठनीयाः। सन्धिविषये तु बहवो नियमा वर्तन्ते। छात्रास्तेषामभ्यासस्मरणे न कुर्युश्चेच्छीघ्रं सर्वं विस्मर्येत। अगस्तमासादरभ्य दिसम्बरमासपर्यन्तं सामान्यरीत्या सन्धिवर्ग आयोजनीय इति मम मतः।

मंगलवार, 2 जून 2020

लुण्ठनमनैतिकम्

अमेरिकादेशे सम्प्रति जना विद्रुह्यन्ति। यस्मात्कारणाद्विद्रोहाः क्रियन्ते तस्मै हेतवे विद्रोहा आवश्यका एव। परन्तु जना आपणान्यपि लुण्ठन्ति। तदनैतिकमधार्मिकञ्च। आपणिकैः किङ्कृतम्? तेषां दोषो नास्ति। आपणिकानां धनजीवनयोरपायो भवेदिति न समीचीनम्।

रविवार, 31 मई 2020

उपयोगिनो धातवः

इमे धातवः सम्भाषणे लेखने चोपयोगिनः सिध्यन्ति -

अधीते (२) (अध्ययन करना)
(उद्) + एति (२) ऊपर जाना / निकलना / arise / rise
कथयति (१०) कहना
कम्पते (१) काँपना
करोति (८) करना
काङ्क्षति / अभि + लषति (१) इच्छा करना / अभिलाषा करना / चाहना
किरति (६) तितर बितर होना
कुप्यति / क्रुध्यते (४) (गुस्सा होना)
कृन्तति (६) / छिनत्ति (७) काटना
क्रोशति (१) चिल्लाना / रोना
क्लामति (१) थकना
क्षाम्यति (४) (क्षमा करना)
क्षुध्यति (४) भूख लगना
गिरति (६) निगलना
गृह्णाति (९) लेना / पकड़ना
ग्लायति (१) गलना / क्षीण होना
चकास्ति (२) चमकना
चिनोत (५) चुनना / इकट्ठा करना
चिन्तयति (१०) सोचना
जयति (१) जीतना
जहाति (३) छोड़ना
जायते (४) (उत्पन्न होना)
ज्वलति (१) जलना
तनोति (८) फैलाना
त्रुटति (६) टूटना
दहति (१) जलाना / भस्म करना / तबाह करना
दाम्यति (४) दबाना
दुष्यति (४) बिगड़ना / खराब होना
द्राहते (१) / जागर्ति (२) जागना, नीन्द न आना
द्रुह्यति (४) (द्रोह करना)
धरति (१) धारण करना / पहनना
ध्यायति (१) ध्यान करना
नश्यति (४) (नष्ट होना)
(आ) + पृच्छते (६) to bid adieu / say goodbye / see off
बध्नाति (९) बाँधना
(निर्) + बध्नाति (९) insist, urge, be persistent
बिभर्ति (३) धारण करना / पोषण करना / offer / convey
बिभेति (३) डरना
बोधति (१) / बुध्यते (४) / जानाति (९) जानना
भक्षयति (१०) खाना
प्रति + भाति (२) लगना / seems
भासते (१) चमकना / लगना / to become evident
भ्रमति (१) भ्रमण करना
भ्राम्यति (४) (घूमना)
भुनक्ति (७) पालन करना / खाना
मथ्नाति (९) मथना
मन्यते (४) समझना / मानना
मुञ्चति (६) छोड़ना
अनु + मोदते (१) express approval, allow
म्रियते (६) मरना
युनक्ति / युङ्क्ते (७) मिलना / लगना / जुड़ जाना
युध्यते (४) लड़ना
रक्षति (१) रक्षा करना
रुणद्धि (७) रोकना
लुण्ठति (१) चोरी करना / डाका डालना / लूटना
विद्यते (४) (होना)
विध्यति (४) (भेदना)
शंसति (१) प्रशंसा करना
शङ्क्ते (१) शङ्का करना / सन्देह करना
शास्ति (२) शासन करना
शिक्षते (१) सीखना / पढ़ना
शुष्यति (४) सूखना
शोचति (१) शोक करना
शोभते (१) शोभित होना
श्रयति (१) सहारा लेना
सिध्यति (४) (सिद्ध होना)
सेवते (१) सेवा करना
प्र + स्तावयति (२) suggest
स्नाति (२) नहाना
स्पृशति (६) छूना
स्यति (४) अन्त करना / खत्म करना
स्वपिति (२) सोना
स्वादते (१) / स्वादयति (१०) चखना / स्वाद लेना
हन्ति (२) मारना
ह्लादते (१) / हृष्यति / तुष्यति (४) / मोदते (१) प्रसन्न होना

रुकिनियमः

'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत्' इति पुस्तकं पठामि। अत्युत्तमं पुस्तकम्। एको नूतननियमो ज्ञातः। 'रुकिनियमः' नाम्नोच्यते। रेफात् परं, ककारात् परं, अ आ विहाय सर्वेभ्यः स्वरेभ्यः परञ्च सकार आगच्छति चेत्तस्य षकारो भवति। यदि सकारः शब्दस्यान्तेऽस्त्यथवा सकारस्याग्रे रेफोऽस्ति तर्हि सकारस्य शकारो न भवति।

उदाहरणानि -
नरे + सु = नरेषु  (सकारस्य शकारो भवति यता रेफसकारयोर्मध्ये ए अस्ति।)
सेना + सु = सेनासु (सकारस्य शकारो न भवति यत सकारात्पूर्वम् आ अस्ति।)
क् + स = क + श् = क् + ष = क्ष (मक्षिका, क्षत्रियः, क्षमा इत्यादयः।)

गुप्तपदम्

ह्यः पित्रा सह समभाषे। मम नेट्फ़्लिक्स्-गुप्तपदं सोऽयाचत। अपि नाम तस्य प्रतिवेशिनः पुत्रेण प्रतिवेषिने तस्य गुप्तपदं दत्तम्। तस्मात्स प्रतिवेशी स्वदेशे नेट्फ़्लिक्स् द्रष्टुं शक्नोति। अहं पितरमवदम् - प्रथममेएकेन नेट्फ़्लिक्स्-कोषेण जनद्वयमेव युगपद्द्रष्टुं शक्नुयाताम्। अस्मकाङ्कुटुम्बे त्रयो जनाः सन्ति। यदि ताभ्यां नेट्फ़्लिक्स् दृश्येत तर्हि मदीये कुटुम्बे केवलमेकेन जनेन द्रष्टुं शक्यते। प्रतिवेशिपुत्रस्त्वेकलः। अतस्तस्य क्लेशोऽयन्न वर्तते। द्वितीयम् - नीतिदृष्ट्याप्येतदसाधु। यावद्धनं नेट्फ़्लिक्स्-ग्राहकतापेक्षते, तावत्स व्ययितुं शक्नोति। तृतीयम् - विभिन्नेषु देशेषु सर्वे कार्यक्रमा न समानाः। पितुर्देशे ये कार्यक्रमा दर्श्यन्ते ते ममदेशाद्भिन्नाः। अता रुच्यनुगुणङ्कार्यक्रमान्न द्रष्टुं शक्नुयातां तौ।

शनिवार, 30 मई 2020

जलसेचकयन्त्रं समीकरणीयम्

जलसेचकयन्त्रमुद्यानं सिञ्चति। केभ्यश्चित्सप्ताहेभ्यः पृष्ठोद्यानाज्जलध्वनिर्न श्रूयमानोऽस्ति। अद्य प्रातःकाले यन्त्रं पर्यैक्षिषि। यत्सन्दिग्धं तत्सत्यम्। अग्रिममुद्यानं यन्त्रेण सम्यक्तया सिच्यते परन्तु पृष्ठोद्याने जलबिन्दुरपि न दृश्यते। गतवर्षयेव जलसेचकयन्त्रं समीकरणाय सहस्ररुप्यकाणि व्ययितानि। सम्प्रति पुनर्धनव्यय आवश्यक इति भासते। किङ्कर्तुं शक्यते? गृहे यति यन्त्राणि तति भग्नानि भवितुमर्हन्ति।

कीटनाशकव्यवसायौ

ह्यः कीटनाशकव्यवसायाभ्यां सह समभाषे। यावद्धनं मया नियुक्ता संस्था याचते न्यूनातिन्यूनं तावद्धनमुभाभ्यां संस्थाभ्यां याचितम्। अतो नियुक्तया संस्थयैव कीटनाशङ्कारयिष्यामि।

गुरुवार, 28 मई 2020

द्वे कार्ये कर्तव्ये

यतः श्वोऽवकाशोऽतो मया द्वे कार्ये कर्तव्ये। काले काले धनव्ययं निरीक्षेऽहम्। सम्प्रति मया नियुक्तेन व्यवसायेन सम्यग्धनं याच्यते न वेति जिज्ञासामि। न्यूनातिन्यूयनं द्वौ कीटनाशकव्यवसायौ पृष्टव्यौ। तौ कीटनाशनाय कियद्धनमपेक्षेतयिति। अन्यच्च पृष्ठोद्याने जलसेचकयन्त्रं सम्यक्तया न प्रचलति, तस्य निरीक्षणङ्करणीयम्। प्रायो जलसेचकयन्त्रज्ञ आह्वानीयः।

श्वः कार्यालयावकाशः

कार्यालये मम विभागाध्यक्षकेन विपत्रेण घोषितं श्वोऽवकाशो भवितेति। करोनाविषाणुवशात् सर्वे जना गृहात्प्रयतन्ते। कृतज्ञतां दर्शनाय तेनासौ घोषणा कृता।

बुधवार, 27 मई 2020

'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत'

'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत' इति पुस्तकमक्रीणाम्। वर्षद्वयात्पूर्वं पुस्तकमिदं प्रकाशितम्। तत्काले मया पुस्तकं दृष्टं परन्तु तत्काले पुस्तकस्य मूल्यं शतरूप्यकेभ्योऽपि गुरुतरमासीत्। अतो न क्रीतम्। सम्प्रति पुस्तकस्य मूल्यं सप्तत्रिंशद्रुप्यकाणि वर्तते। अतः क्रीतम्। अद्य पुस्तकमागमिष्यति। अहं हृष्यामि। प्रायो वर्षात्परं मया संस्कृतपुस्तकङ्क्रीतम्।

मंगलवार, 26 मई 2020

ग्रीष्मकालसंस्कृतवर्गौ १

गतरविवासरे वर्गावभवताम्। उभयोर्वर्गयोर्बहुभिश्छात्रैः पञ्जीकृतम्। इमौ वर्गौ सम्भाषणवर्गौ - प्रथमस्तरीयः, द्वितीस्तरीयश्च। नूतनविषयान्न पाठयिष्यामि। छात्राणां सम्भाषणकौशलं वर्धयिष्यामि। गृहकार्याय सम्भाषणविषयं ददामि। छात्रास्तं विषयमधिकृत्य सम्भाषणं रचयित्वागच्छन्ति। वर्गे पूर्वरचितानि सम्भाषणानि वदन्ति।

सोमवार, 25 मई 2020

पृष्ठोद्यानस्थं सोपानम्

ह्यः पृष्ठोद्यानसोपानं नवीकृतम्। कार्यकर्तृभ्यां दिनद्वये पञ्चघण्टा यावत् कार्यङ्कृतम्। ताभ्यामुत्तमङ्कार्यङ्कृतमिति भासते। इदानीं सोपानं सुन्दरं दृढञ्च जातम्। बालकास्तस्योपरि क्रीडितुं शक्नुयुः। उद्यानपालकः, कीटनाशकः, इत्यादयः कार्यकर्तारः सक्षेमं तदारोढुं शक्नुयुः।

फलपुष्पगुच्छम्

ह्यो मध्याह्ने मुख्यद्वाराकारिका कयाचिन्नादिता। द्वारयुद्घाटिते फलपुष्पगुच्छपाणि काचिद्महिला दृष्टा। सावदत् तव प्रतिवेशिना तव पुत्राय जन्मदिवसोपायनं प्रेषितम्। अमुष्मिन् गुच्छे पष्पानि कानिचन फलानि चादृश्यन्त। तत् प्राप्य वयममोदामहि। प्रतिवेशिने धन्यवादाः।

कलरवः

ह्या रात्रौ वर्षापतत्। अद्य प्रातःकाले वातारवणं बहूत्तममभूत्। सूर्योऽदृष्टः, तापमानः सम्यक्, शीतलवायुः प्राचालीत्। चायपेयं प्रातराशञ्च पृष्ठोद्यानेऽखादिष्म। सार्धैकघण्टा यावद्बहिरासिष्महि। पक्षीणाङ्कलरवमश्रौष्म। आनन्दमयः कालः।

शनिवार, 23 मई 2020

इतिहासः

सप्ताहस्यैकस्मिन् दिने पुत्रो मया सह शेते। रात्रौ स बहून् प्रश्नान् पृच्छति। सामान्यतः स गणितप्रश्नान् पृच्छति। गतावसरे स इतिहासविषये प्रश्नानपृच्छत्। अहं तमबोधयम् - पृथ्वी गोलाकारिकास्तीति प्राचीनकाले जना न जज्ञिरे। अपि च सूर्यः पृथ्व्याः परितो भ्रमतीति ते चिन्तयामासुः। कारयानानि, शीतपेटिकाः, विमानानि, वातानुकूलयन्त्राणि न बभूवुः। उभयोर्विश्वयुद्धयोः कोटिशो जना मम्रुः। एतच्छ्रुत्वा स विस्मयमन्वभवम्।

पृष्ठसोपानम्

गृहस्य पृष्ठोद्याने सोपानमस्ति। काष्ठमयं तत्सोपानं पञ्चदशवर्षेभ्यः पूर्वं निर्मितम्। तत्सोपानमियज्जर्जरितं यस्मात् कोऽपि सोपाने गच्छति चेत् पतनस्य सम्भावना वर्तते। पृष्ठोद्याने कार्यकर्तारा आगच्छन्ति - उद्यानपालकाः, कीटनाशकाः। ते सोपानमारोहन्ति। कोऽपि व्रणितो न भवेत्, तन्निमित्तमस्माभिः सोपानस्य परितः पट्टिका कीलिता। अस्मिन् सप्ताहान्ते नूतनसोपानं स्थापयिष्यते। तत्परं सोपानं पुनः दृढं भविता।

सप्तवर्षाणि गतानि

ह्यः पुत्रः सप्तवर्षीयोऽभवत्। तस्य जन्मदिवस आचरितः। करोनाविषाणुभयादन्ये जना नामन्त्रिताः। केवलं वयं त्रय एवास्म। तस्य माता पिष्टकमपचत्। पुत्ररुच्यनुगुणं भोजनालयताद्भोजमानीत्वाद्म। पुत्रायोपायने दत्ते। एकमावाभ्याम्। अन्यत्तस्य मातामहमातामहीभ्याम्। सोऽमोदत।

मंगलवार, 19 मई 2020

द्वे कार्ये कृते

अद्य सामान्यकार्यदिवसोऽभूत् परन्तु प्रातःकाले द्वे कार्ये क्रियेताम्। पुत्रस्य विद्यालयङ्गत्वा ग्रन्थालयस्य पुस्तकानि समर्प्य विद्यालयस्थानि तदीयानि वस्तून्यनैषम्। दिष्ट्या तस्मिन् कार्ये केवलमर्धघण्टैव व्ययिता। तदनन्तरं वाहनचक्रस्य परीक्षणाय कारयानमनैषम्। नूतनचक्रमावश्यकं भवेदिति मम चिन्तावर्तिष्ट। दिष्ट्यापणिकश्चक्रं समीकर्तुमशकत्। मध्याह्ने कार्यालयस्य कार्यमपि सम्यक्तया समपादि।

रविवार, 17 मई 2020

चतस्रो घण्टा यावत्

अद्य चतस्रो घण्टा यावद्दूरदर्शनमद्राक्षम्। सामान्यतोऽहमेतावद्दूरदर्शनन्न पश्यामि, परन्त्वद्य रुचिकरिणः कार्यक्रमा प्रासारिताः। मध्याह्ने लन्डननगरस्येतिहासविषये कार्यक्रम आगतः। तमद्राक्षम्। तदनन्तरम्, द्वितीयविश्वमहायुद्धविषये, तदनन्तरं, विरलजीवानां विषये। सर्वे कार्यक्रमा अतिरुचिकरिणोऽभूवन्। विरलजीवकार्यक्रमे, निर्माताभिर्जीवानां मध्ये पशुरूपेण चित्रग्राहकाः स्थापिताः। अमूनि यन्त्राणि पशुरिव केवलमदृश्यन्तैव न, पशुरिवाचलन्नपि, व्यवाहरन्नपि। यन्त्रमेकं पक्षिणा रूपं धृत्वाकाशेऽडयत्। अन्यत् कच्छपस्य रूपं धृत्वाचलत्, तस्य ग्रीवामप्यकम्पयत्। अपरं भल्लूक इव व्यवाहरत्। अन्यत् कर्कटस्य रूपं धृत्वा, कर्कटानां समुद्रपर्यन्तं यात्रामवलोकयत्। जलशुनकस्य रूपं धृत्वैकञ्जलशुनकानां व्यवहारमवीक्षत। जीवा विस्मयजनका आसन्, परन्तु चित्रग्राहकास्तेभ्योऽप्याश्चर्यजनका आसन्। कीदृशे श्रमधने चित्रग्राहकेषु निर्माताभिर्व्ययितयिति चिन्तयामि।

वाहनचक्रे कीलः

गतसप्ताहे कारयानस्यैकस्मिंश्चक्रे वायुभारः द्वाविंशतिः पी-एस्-ऐ दृष्टो मया। अन्येषु त्रिषु चक्रेषु वायुभारोऽष्टविंशतिरासीत्। तन्मयि सन्देहमजनयत्। अद्य प्रातःकाले तस्मिन्नेव चक्रे वायुभारः केवलं त्रयोदश पी-एस्-ऐ अदृश्यत। अहं वायुभारं पुनः त्रिंशत् पी-एस्-ऐ कृतवान्। तत्समयेऽद्राक्षं चक्रे कीलोऽस्ति। प्रतिवर्षं वाहनचक्राणि कीलैर्नुद्यन्ते। केचनापणिका निश्शुल्कं तान् कीलान् कर्षन्ति, परन्तु बहुशः कीलाश्चक्राणि नाशयन्ति। श्वः कारयानमापणन्नेतास्मि। द्रष्टास्मि यदि चक्रं सम्यग्भवेदुत न।

शनिवार, 16 मई 2020

द्विचक्रिका साहायकचक्राभ्यां विना

वर्षद्वयात् पुत्रः साहायकचक्राभ्यां द्विचक्रिकायामटन्नस्ति। अहं तस्य मातरमवदम् - सम्प्रति साहायकचक्रे त्यक्तव्ये। मातृपुत्रौ सरलतया न सम्मतिं दद्यातामित्यहमचिन्तयम्। परन्तु स तस्य माता चाङ्ग्यकुरुताम्। अद्य प्रातःकाले साहायचक्राभ्यां विना स द्विचक्रिकामचीचलत्। शिरस्जानुकफोणिरक्षास्तेन धृताः, अतः कापि शारीरिकक्षतिर्नाभूत्। अभ्यासेन केषुचिद्दिनेषु स आवयोः साहाय्येन विना द्विचक्रिकाञ्चालयेत्।

गुरुवार, 14 मई 2020

साफल्याय लघुमार्गो न वर्तते

मदीय एकश्छात्रः कञ्चन पुरातनं संस्कृतग्रन्थं पठति। तस्माच्छब्दानां विषये पृच्छति। तेषु शब्देषु कयुपसर्गाः, के सन्धयः, के समासाः, के प्रत्ययाः, के धातवः, एषामभिज्ञानाय सरलोपायः कः - इति पृच्छति। अहं तमवदम् - सरलो वा कठिनो वा, एक एवोपायः - सततपरिश्रमः। क्रमशः कौशलमागच्छेत्। प्रथममाधुनिकसरलसाहित्यं पठनीयम् - पत्रिका लघुकथाश्च। अनेन शब्दज्ञानं व्याकरणज्ञानञ्च वर्धेयाताम्। तस्मादभिज्ञानशक्तिर्वर्धेत। साफल्याय लघुमार्गो मार्गति सः। नास्ति भोः! परिश्रमः कर्तव्यः!

स्वद् शिक्ष् द्राह् च

केचन धातवोऽत्युपयोगिनः सन्ति तथापि तेषां प्रयोगो विरलतया दृश्यते। उदाहरणतः 'स्वद्' (आस्वादने) इति धातुर्भोजनसम्बद्धार्थं द्योतयति। तथापि तस्योपयोगो न श्रूयते। तथैव 'शिक्ष्' (विद्योपादाने) इति धातुः पठनाध्ययने बोधयति परन्तु सामान्यतः 'पठ्' धातुः प्रयुज्यते। 'द्राह्' (निद्राक्षये) इत्यन्यो धातुः। कदापि न श्रुतम्। अर्थदृष्ट्या तूपयोगी धातुः। एतादृशानां धातूनां सूची रचनीया मया।

रविवार, 10 मई 2020

वर्गौ नाभूताम्

गतसप्ताहे संस्कृतवर्गौ समाप्तौ। अतोऽद्य वर्गौ नाभूताम्। तेन प्रातःकाले द्वे घण्टे अधिके अभूताम्। बहुभ्यो मासेभ्यः परं भानुवासरस्य प्रातःकाले समयः प्राप्तः। अद्य प्रातःकालयेव व्यायाममकृषि।

नवसप्ताह आरभते

श्वः नवसप्ताह आरभते। पुनः कार्यालयस्य कार्यङ्कर्तास्मि। कदाचिन्नैरस्यमनुभवामि। सम्प्रति कोटिशो जनानामुद्योगच्युतिर्जायमानास्ति। अतोऽहं भाग्यवानस्मि यन्ममोद्योगो वर्तते।

मातृदिवसः

अद्य मातृदिवसः। सामान्यतो भार्यायै पुष्पानि दद्वः। सम्प्रति वयमापणन्न गच्छाम। अहं प्रातस्तमाञ्जागर्मि। अतो ह्योऽचिन्तयं भार्याया जागरणात्पूर्वं बहिस्तः प्रातराशमानेष्यामि। परन्त्वद्य सा मत्पूर्वमजागरीत्। तर्हि भार्यापुत्राववदिषम् - आपणात् प्रातराशमानेष्यामीति। एतच्छ्रुत्वा तावमोदिषाताम्। इदानीमेवास्माकं प्रातराशं समाप्तम्।

शनिवार, 9 मई 2020

बालकैः किं क्रियेत?

सम्प्रति बालका गृहस्थिताः। विद्यालयस्य कार्यं समधिकं नास्ति। ते बहिर्गत्वा मित्रैः सह क्रीडितुन्न शक्नुयुः। तेषां दायित्वान्यपि न सन्ति। प्रौढानां तु दायित्वानयेव बहूनि सन्ति। तर्हि समययापनाय बालकैः किङ्क्रियेत? अहं पुत्रं दूरदर्शनस्य पुरतः स्थापयितुन्नेच्छामि परन्तु कियत्यो घण्टा यावत् स क्रीडनकैः क्रीडेत्? यदि तेन नैरस्यमनुभूयेत तर्हि स रुद्यात्। तेन सहाहं काश्चन क्रीडाः क्रीडामि परन्तु तत्परमपि समयोऽवशिष्यते। अतो दूरदर्शनमेव भजावहे।

कार्यकर्तॄणां सम्मेलनम्

ह्यो मम कार्यालयदलस्य सम्मेलनमभवत्। अनौपचाचरिकसम्मेलनमासीत्। कार्यविषये चर्चा न कृता। कार्यदिनस्य परस्तात् साँयकाले सर्वे दलसदस्या अन्तर्जालेनामिलन्। सर्वे मदिरापानञ्चाकुर्वन्। खाद्यान्यप्यखादन्। अहं सार्धचतुर्वादने भोजनस्य क्रयणादेशमददाम्। सामान्यतोऽर्धघण्टायां भोजनमागच्छेत् परन्तु ह्यो भोजनं षड्वादनं पर्यन्तन्नागतम्। मम सम्मेलनं पञ्चवादनादारभ्य षड्वादनपर्यन्तमासीत्। मम भार्या भोजनापणं दूरवाण्याहूतवती। भोजनवितरणाय काचिद्विमूढता जाता। प्रमत्ततयान्यस्मिन् गृहे भोजनं प्रेषितमित्यापणस्वीमिना सूचितम्। अतस्तेन नूतनभोजनं प्रेषितम्। यावता भोजनमागतं तावता मम सम्मेलनं समाप्तमासीत्। मेलनानन्तरं भोजनमखादम्। दूरवाण्या भोजनापणस्वामिना सूचितं भोजनं निश्शुल्कं करिष्यते। द्रक्ष्यामि भोजनशुल्कस्य प्रतिभुक्तिः करिष्यते वा न।

शुक्रवार, 8 मई 2020

वाहनाभिरक्षाशुल्कम्

जून्मासे वाहनाभिरक्षायोजना नवीक्रियताम्। अभिरक्षासंस्थया देयकं प्रेषितम्। पूर्वदेयकस्यापेक्षया देयकमिदं पञ्चत्रिंशद्रुप्यकाणि गुरुतरम्। सम्प्रति रथ्यासु न्यूनानि वाहनानि सञ्चर्यमाणानि। अनेन वाहनापघातापाया न्यूना भवेयुरिति ममाभिप्रायः। अतोऽभिरक्षाशुल्कमपि न्यूनं भवत्विति चिन्तयामि। संस्थयैप्रिल्मेमासाभ्यां शुल्कं न्यूनीकृतम्। तस्मै धन्यवादाः। परन्तु जून्मासादारभ्य शुल्कं वर्धितम्। तन्मयि विस्मितमजनयत्। ह्योऽहं संस्थाकार्यकर्तृणा सह समभाषे। सोऽवदद्यद्यपि न्यूनानि वाहनानि सञ्चरन्ति तथापि वाहनापघातसङ्ख्या वर्धमानास्ति। वाहनसम्मर्दन्यूनतावशाद्बहवो जनाः समधिकवेगेन वाहनानि चालयन्तः सन्ति। अनेन शुल्कं वर्धितम्। अभिरक्षायोजनायां वाहनापघातावसरे संस्थया प्रतिभुक्तिः क्रियेत चेत्, तस्मिन् शुल्के किञ्चिद्भागो मयापि देयः। एतत् 'डिडक्टिबल्' नाम्ना शुल्कं मया वर्धितम्। अनेनाभिरक्षाशुल्कं पूर्वस्मादपि न्यूनतरमभवत्।

गणितवर्तुलः

प्रतिसप्ताहं यया सहाहं संस्कृतेन सम्भाषे सा गणिताध्यापिका। बालकेभ्यः सा गणितवर्तुल इति नाम्ना वर्गान् पाठयति। तेषु वर्गेषु किञ्चिद्भिन्नरीत्या गणितः पाठ्यते - इति सा वदति। मम पुत्राय गणिताङ्का रोचन्तेतराम्। अतोऽहं तस्मै पञ्ज्यकरवम्।

गुरुवार, 7 मई 2020

सन्धिं पिपठिषवः

बहवो जना सन्धिं पठनायेच्छां प्राकटयन्। अहं पाठयितुं शक्नोमि। सन्धिः किञ्चित्कठिनो विषयः। बहवो नियमाः सन्ति। ते स्मर्यन्ताम्। अहञ्जनान् स्पष्टमबोधयम् - सन्धिं पठनाय परिश्रम आवश्यकः। स्मरणमावश्यकम्। प्रतिसप्ताहं परीक्षा भविष्यति। अन्यथा सर्वे नियमा विस्मर्येरन्। जनाः सज्जाः। सन्धिवर्गः करणीय उत न, एतावत् पर्यन्तं निर्णयो न कृतः। द्रक्ष्यामः।

बुधवार, 6 मई 2020

२०२० वसन्तर्तुवर्गौ पर्यवसितौ

गतरविवासरे मया पाठ्यमानौ संस्कृतवर्गौ पर्यवसितौ। प्रथमस्तरीये वर्गेऽष्टछात्रा उत्तीर्णा अभवन्। अमी छात्रा आवर्षं नियततया वर्गमागच्छन् गृहकार्यञ्चाकुर्वन्। तेषां श्रद्धा श्लाघ्नीया। अष्टापि द्वितीयेस्तरे भागं वहेयुरिति ममाशा। किञ्चित्कालाय विरामं स्वीकृत्य वर्गौ पुनः आरप्स्येते यतो हि करोनाविषाणुवशाज्जनाः प्रावासाय न गच्छेयुर्ग्रीष्मविरामे। अन्यस्य वर्गस्य छात्रा अप्यग्रे पिपठिषन्ति।

सोमवार, 4 मई 2020

सप्ताहान्ते कार्यालयस्य कार्ये

सामान्यतोऽहं सप्ताहान्ते कार्यालयस्य कार्यन्न करोमि। परन्तु गतसप्ताहान्ते कार्यञ्चतुरवारमागतम्। दिष्ट्या समधिककार्यन्नासीत्। तथापि विघ्नवशात्, ह्यो व्यायामो न्यून एवाभवत्। तस्मात् खिन्नोऽस्मि। अद्यत्वे करोनाविषाणुवशाद्गृहे तिष्ठामि। अनेन शारीरिकक्रिया न्यूना जाता। तन्निवारणाय प्रतिदिनं व्यायामं महत्वपूर्णम्।

शनिवार, 2 मई 2020

प्रतिजैविकौषधम्

गतवर्षे दन्तवैद्ययोक्तं तव दन्तपाल्यां शाकाणुरोगसञ्चारः (बैक्टिरियल्-इन्फ़ेक्शन्) अस्ति। तन्निवारणाय तया प्रतिजैविकौषधम् (एन्टि-बायोटिक्) दत्तमासीत्। तस्मिन् कालेऽहङ्कामपि दन्तव्यथान्नानुभवामि स्म। अतोऽहं तदौषधन्नासेवे। परन्त्वहमौषधं सक्षेममौषधपिटके न्यस्यम्। कस्मिँश्चिद्दिने लाभकरि भवेदिति विचिन्त्य। गतत्रिभ्यो दिनेभ्यो मदीयां तस्यामेव दन्तपाल्यां वेदना जागृता। संहतिरपि जाता। ह्या रात्रावहं तदौषधमसेवे। तेन वेदना संहतिश्चोभे न्यूनेऽभवताम्। महान्तमुपशममनुभवामि। आधुनिकौषधविज्ञानस्य चमत्कारोऽयम्। इतोऽपि वेदनासंहती वर्तेते। प्रतिजैविकौषधसेवनात्ते व्यपगम्यास्ताम्।

बुधवार, 29 अप्रैल 2020

भार्यायाः कार्यावधिर्वर्धेत

पूर्वमहमवदङ्कार्यालयेन भार्यायाः कार्यावधिर्न्यूनीकृता। अतो न्यूनवेतनं प्राप्यते तया। ह्यस्तस्याः प्रबन्धिका तां दूरवाण्याहूयाप्रच्छद्यदि साधिकावधये कार्यङ्कर्तुं शक्ता। भार्यायाः किञ्चित्सङ्कोच आसीत्। अहं तामवदम् - सम्प्रति जनानाङ्कार्यच्युतिर्जायते। त्वमधिकङ्कार्यङ्कृत्वाधिकं वेतनं प्राप्तुं शक्नोषि चेद्वरम्। न जानीवः कदावयोः कार्यच्युतिर्भवेत्। तस्माद्वेतनार्जनाय सुवर्णावसरोऽयन्न परिहारणीयः।

रविवार, 26 अप्रैल 2020

वसन्तर्तोर्वर्गयोरवसानम्

अद्य प्रथमस्तरीये वर्गेऽभ्यासपुस्तकमवसितम्। छात्रैः सम्पूर्णपुस्तकं सम्यक्तया कृतमिति महान् सन्तोषः। द्वितीयस्तरे गीतासोपानस्य प्रथमभागः पाठय्यते। तत्कृते प्रायो द्वौ वर्षावश्यकौ। उभयोर्वर्गयोरागामिनः सप्ताहात् परं स्थगनं भविता। मयैतत्कृतं यतः षोडषसप्ताहेभ्योऽहं पाठयन्नस्मि। छात्राणामपि श्रान्तिर्जायमानास्ति। सर्वैः किञ्चिद्विश्रामः कर्तव्यः। सामान्यतः ग्रीष्मावकाशे वर्गा न चालय्यन्ते यतो जना भ्रमणाय प्रवासाय च गच्छन्ति परन्तु ग्रीष्मकालोऽयं तु न सामान्यः। कोऽपि कुत्रापि न गच्छेत्। तर्हि केभ्यश्चित् सप्ताहेभ्यो विरामं स्वीकृत्य वर्गौ कर्तुं शक्नुमः। द्रक्ष्यामः।

शनिवार, 25 अप्रैल 2020

शिक्षकनिर्माणम्

अद्य साँयकाले नगरस्यान्यैः संस्कृतशिक्षकैः सह समभाषिषि। गतसप्ताहान्ते यन्मेलनमभवत् तस्य विषयेऽचर्चिष्म। अस्मदीये केन्द्रे नूतनशिक्षकनिर्माणः करणीय इति महत्वपूर्णो विषयश्चर्चितः। अङ्गीकरोमि। यदि नूतनशिक्षका न निर्मीयेरँस्तर्हि केनद्रवर्धन्न भवेत्। अन्यच्च सर्वदा मयैव पाठनीयम्। पाठयित्वा विषयावगतिः सम्यग्वभवतीति स्पष्टम्। अतो ये छात्राः श्रद्धया पिपठिषन्ति, किञ्चिज्ज्ञानं प्राप्य तैः पाठनीयाः।

स्क्रेबल्-क्रीडा

अद्य साँयकाले पुत्रेण सह स्क्रेबल्-क्रीडामक्रीडिष्व। साँयकाले दूरदर्शनस्थाने काचन क्रीडा क्रीड्येत चेद्वरम्। दूरदर्शनं मस्तिष्कङ्क्षपयति, क्रीडास्तं वर्धयति। अनया क्रीडया तस्य शब्दज्ञानमपि वर्धेत। काले काले चतुरङ्गमपि क्रीडामः। प्रतिदिनं स गणितपुस्तकस्य चत्वारि पृष्ठान्यपि करोति। एतावत्पर्यन्तं तेन सार्धैकशतानि पृष्ठानि कृतानि। प्रतिदिनं स एतादृशङ्कार्यङ्कुर्याच्चेत् तस्य बुद्धिर्वधताम्।

द्वाभ्यां दिनाभ्यां परस्तात्

अहं प्रतिदिनं व्यायामङ्करोमि परन्तु गतद्वयोर्दिनयोर्व्यायामावकाशो न प्राप्तः। परह्यः कार्यालयस्य कार्ये व्यस्तोऽभवम्। ह्यः साँयकाले द्वे दूरवाणीसम्मेलनयास्ताम्। अद्य प्रातः काले व्यायामङ्कृत्वा सन्तुष्टोऽस्मि।

त्रयोदशहोरात्मकं दिनम्

परह्यः सामान्यरीत्या कार्यङ्कुर्वन्नासम्। सामान्यतश्चतुर्वादने कार्यं समाप्य कुटुम्बेन सह चायपेयं पिबामि। सङ्गणकस्य पिधानङ्कर्तुं सज्जोऽभवम्। तस्मिन्नेव काले कार्ये काचित् समस्यागता। अमुन्निवारणायाहमेवोचतिकार्यकर्ता यतस्तस्याः समस्याया विषये मयैव सर्वाधिकतया ज्ञातमासीत्। अन्यच्च तस्याः समस्याया निवारणाय यस्मिँस्तन्त्रांशे परिवर्तनमावश्यकमासीत् स तन्त्रांशो मम नियन्त्रणे नास्ति। अतोऽन्यान् गणानाहूय तस्याः समस्यायाः परिहारः कृतः। यावता कार्यं समाप्तं तावता रात्रौ सार्धनववादनमभूत्। तस्मिन् दिने त्रयोदशघण्टा यावत्कार्यमकरवम्। एतादृशो दिनो बहुभ्यो वर्षेभ्यः परमनुभूतो मया।

बुधवार, 22 अप्रैल 2020

भार्याया जन्मदिवसः २

अद्य भार्याया जन्मदिवसोऽचारिष्म। पुत्रस्तस्यै जन्मदिवसपत्रमररचत्। तत्प्राप्य सामोदिष्ट। करोनाविषाणुवशाद्बहिस्तो भोजनन्नाखादाम सार्धैकमासान् यावत्। अद्य बहिस्तो भोजनमक्रेष्महि। मदिरामप्यपाव। अपूपमखादिष्म। अनेन तस्या जन्मदिवसः कुत्रापि गमनेन विनाचरितः।

मंगलवार, 21 अप्रैल 2020

भार्याया जन्मदिवसः

श्वो भार्याया जन्मदिवसः। कुत्रापि गन्तुं तु न शक्यते। बहिस्तो भोजनङक्रीत्वा गृहयेव रन्तास्महे।

भार्या कारयान्नयेत्

यतः कार्यालयन्न गच्छामि, अतः कारयानमेकस्मिन् स्थानयेव तिष्ठति। सप्ताहे न्यूनातिन्यूनमेकवारमहं तच्चालयामि। एवङ्गतमासात् प्राचलदस्ति। तथापि शिलातैलं तु न्यूनतयैव व्ययितम्। याने शिलातैलं द्वाभ्यां मासाभ्यां परं तिष्ठेच्चेत्, तदाक्सीजन्वायुना मिलित्वा प्रदुष्येत्। तेन कारयन्त्रं भग्नं भवितुं शक्नुयात्। तत्समीकरणाय बहुधनमपक्ष्येत। तादृशमहन्नेच्छामि। अतो भार्यामवदम् - सप्ताहं यावन्मम यानन्नय, सप्ताहं यावत्तव। अनेनोभे याने प्रयुज्येयाताम्। सा मम यानं बहुभ्यो मासेभ्यो नाचालयत्। अतोऽद्यानुभवग्रहणाय सा मम यानं मया सह चालयिष्यति। तेन श्वो यानमात्मविश्वासेन नयेत्।

सोमवार, 20 अप्रैल 2020

सार्धैकघण्टा यावदोपाविक्षत्

ह्या रात्रावमुकं भोजनं पक्तम्। अदो भोजनं पुत्रस्वादानुगुणं न भवेदिति मम चिन्तनमासीत्। परन्तु भोजनं पुत्रायारोचत। तद्दृष्ट्वा विस्मयमन्वभवम्। सोऽवदच्छ्वोऽपि खादितास्मि। तदनुसारमहं तस्मै तद्भोजनमद्यादाम्। केवलञ्जनैकस्मै भोजनमभूत्, इत्यतोऽहङ्किमप्यन्यदखादिषम्। परन्तु स नाभौक्षीत्। मह्यन्न रोचतयित्यवादीत्। अहं तमवादिषम् - त्वमेवावदत् तुभ्यं भोजनं रोचते, अनेन कारणेनादाम्। इदानीं भुङ्क्ष्व। सार्धैकघण्टा यावत् स भोजनेन सहोपाविक्षत्। कोऽप्न्यः पन्था नास्ति तदानीं तस्य भानञ्जातम्। अन्ते सोऽखादीत्।

विरामः

अद्य मया कार्यालयाद्विरामः स्वीकृतः। ह्यः परह्यश्चोभे दिने घण्टाचतुष्टयं यावत् संस्कृतसम्मेलनमभवत्। अतः सप्ताहान्ते व्यस्त आसम्। एतस्मादद्य कार्यालयादवकाशः स्वीकृतः। अन्यच्चाहत्य कार्यालयस्य केवलञ्चतुरः सप्ताहानेवावकाशदिनान्यर्जयितुं शक्यन्ते। तत्परमवकाशदिनानि व्ययं विनाधिकानि दिनानि न दीयन्ते कार्यालयेन। तेन हेतुनापि मया विरामः स्वीकृतः। प्रातः काले पुत्रेण सह भ्रमणायागमम्। वातावरणमुत्तममभूत्। मैलद्वयपरिमितः पन्था अटित आवाभ्याम्।

रविवार, 19 अप्रैल 2020

कर्तव्यानि कार्याणि

अद्य साँयकाले संस्कृतसम्मेलनमभूत्। तस्मादिमानि कर्तव्यानि कार्याणि जातानि -

स्थानीय मेलनम् आयोजनीयम्।
नामाङ्कितकार्याणां कृते सम्पर्कः कर्तव्यः।
केन्द्रे शिक्षकाणां प्रशिक्षणं भवतु।
पठनं कथं प्रचलति, छात्रा अग्रिमे गच्छन्ति वा न, नूतनशिक्षकाः कथं निर्मातव्याः? एनद्विषये चिन्तयतु।

स समयः

सम्प्रति स समय आगतो यस्मिन् सर्वकारो नागरिकाँल्लुण्ठति। ह्यः सम्पत्तिकरपत्रमागतम्। सर्वकारमतेन गतवर्षस्यापेक्षया मम गृहमूल्यं सप्तचत्वारिंशत्सहस्राणि रुप्यकाणि गुरुतरम्। अतः वर्षेऽस्मिन् दशप्रतिशतोऽधिकः सम्पत्तिकरो देयः। सर्वकारेण विरोधपत्रमनुमन्यते। अतो विरोधपत्रङ्गमयिष्यामि। परन्तु करो न्यूनीकरिष्यतयित्याशान्न धरामि।

शनिवार, 18 अप्रैल 2020

व्यवसायाः पुनरारप्स्यन्ते

करोनाविषाणुः कुत्रापि न गच्छेत्, तेन सहास्माभिरुषितव्यमिति ममाभिप्रायः। मम प्रदेशस्याध्यक्षको व्यवसायानुद्घाटयितुं सज्जः। अहं तेन सह सम्मतः। अवधानतया व्यवसाया उद्घाटयितव्या नास्त्यत्र सन्देहः। परन्तु दीर्घकालं यावत्तु व्यवसायाः पिधातुन्न शक्यन्ते। बहवो जनास्तेभ्यो व्यवसायेभ्यो जाविका अर्जयन्ति। ये नेतारः पिधानोद्घाटनयोर्निर्णयङ्कुर्वन्ति ते धनाढ्याः। कीदृश्यः समस्याः समान्यजनैरनुभूयन्ते तैरवगम्यन्ते, परन्तु तैर्नानुभूयन्ते। अतो व्यवसायाः पिधातव्या इति वदनं सरलं तेभ्यः। यो जनस्तस्यापत्येभ्यो भोजनमर्जयितुन्न शक्नुयात् तेन पिधानं स्वीक्रियेत वा? तादृशा जनाः करोनापायं स्वीकर्तुं सज्जाः। तर्हि केनाधिकारेण ते बोध्येरन् - कार्यालयं मा गच्छ, तवापत्यानि मा पोष।

कियान् समयः क्षिप्यते

बाल्यकाले मम कुटुम्बो बान्धवाश्च सर्व एकस्मिन् परिसरयुवास। ह्य एकेन कुटुम्बसदस्येनास्माकं सर्वेषां व्हाट्सैपगणा रचितः। एतत्तु मोदकः। परन्तु ह्यः साँयकालादारभ्याद्य प्रातःकालं पर्यन्तं तस्मिन् गणे त्रिंशत्सन्देशा आगताः। तेष्वेकोऽपि न लाभकरी। सर्वे सन्देशा विनोदिकाः, प्रहेलिकाः, चलनचत्राणि वा। न दृश्येरँश्चेदपि तान् सन्देशान् परिशीलनाय किञ्चित्समयस्त्वाश्यक एव किल? मद्दृष्ट्या तादृशः समयो व्यर्थीस्यात्। केन कारणेन जना एतादृशं समयं व्यर्थतया यापयन्ति न जाने।

शुक्रवार, 17 अप्रैल 2020

वेतनमूनीकृतम्

यस्यै संस्थायै सम्प्रति कार्यङ्करोमि तस्यां संस्थायाम् आ चतुर्भ्यो वर्षेभ्यो नियुक्तोहम्। उद्योगप्रापणकाले चतुर्भ्यो वर्षेभ्यो मत्संस्थाभ्यां वेतनं निश्चीकृतम्। इदानीं तानि चत्वारि वर्षाणि समाप्तप्रायाणि। ह्यो मम प्रबन्धको मामसूचयत् - पञ्चमवर्षादारभ्य तव वेतनं न्यूनीकरिष्यते संस्थया। मदीयेन कार्येण संस्था न सन्तुष्टा वा? - इत्यहमपृच्छम्। सोऽवदत् - तादृशङ्किमपि नास्ति। अहं संस्था च युष्मदीयेन कार्येण सन्तुष्टौ प्रसन्नौ च। परन्तु गतचतुर्षु वर्षेषु त्वयाधिकं वेतनं प्राप्तम्। तत्तोलनाय जून्मासादारभ्य तुभ्यं न्यूनं वेतनं देयं संस्थया। एतच्छ्रुत्वा किञ्चिद्विस्मयमन्वभवम्। वेतनवृद्धिर्न करिष्यतयित्यवगच्छामि परन्तु न्यूनीकरिष्यते? ममात्मसम्मानं तुदतीदम्। नूतनोद्योगो लब्धव्य एतस्मिन् सन्देहो नास्ति। परन्तु सम्प्रति करोनाविषाणुकालयुद्योगपरिवर्तनं नोचितं यतो नूतनोद्योगा विरलाः।

बुधवार, 15 अप्रैल 2020

गृहात् पठनम्

सम्प्रति पुत्रो गृहादधीते। यादृश्यौपचारिकता विद्यालयेऽस्ति तादृशी स गृहे नानुभवति। यद्यप्यावामौपचारिकतां दर्शयावस्तथापि स रोदिति कार्यकरणसमये। आवां तं वदावः - त्वं विद्यालये तु न रोदिषि, गृहे किमर्थं निमेषाभ्यान्तरेऽश्रूणि स्रावयसि? यदाकदापि सोऽध्ययनमारभते क्षणाभ्यान्तरे स विजृम्भते। अहं तमवदम् - बहुभ्यो दिनेभ्यस्त्वं विद्यालयन्न गच्छेः, गृहमेव पाठशालायते, अतो गृहे सम्यक्तयाधीष्व।

रविवार, 12 अप्रैल 2020

ईस्टर्-पर्व

अद्य 'ईस्टर्' पर्वास्ति। सामान्यतो वयं ईस्टर्-अण्डानि पृष्ठोद्याने स्थापयामः, परन्तु प्रातःकाले वर्षाभवत्। अत उद्यानमार्द्रमस्ति। तस्मादण्डानि पृष्ठस्थे छन्नकुट्टिमे स्थापितानि। पुत्रेण तत्राण्डान्यन्विष्टानि। अण्डेषु चाकलेहधनादीनि प्राप्य स मुदितः।

करोनाविषाणुकाले

अस्मिन्नापदग्रस्ते करोनाविषाणुकाले संस्कृतवर्गा यावतोत्साहेन प्रचलन्ति तं दृष्ट्वा मोदेऽहम्। अन्येषां वर्गाणां विषये त्वहन्न जानामि परन्तु मम वर्गे सर्वे छात्रा आगच्छन्ति, सोत्साहं भागं वहन्ति। दीयमानङ्गृहकार्यं तैः क्रियमाणमस्ति।

दुर्वातावरणम् - २

सामान्यतो यदा कदापि दुर्वातावरणमगच्छति तदाहं निद्राया जागर्मि। ह्या रात्रौ नाजागरम्। प्रायो वायुवेगो वृष्टिश्चात्यधिक्यौ नास्ताम्। भवतु नाम। अपेक्षिते दुर्वातावरणे दुर्वातावरणन्नागच्छेदिति वरमनपेक्षितागमनात्।

शनिवार, 11 अप्रैल 2020

दुर्वातावरणम्

रात्रौ दुर्वातावरणमपेक्षितम्। वेगवायुं वृष्टिञ्चातिरिच्य बृहद्धिमखण्डानि च पतेयुः। द्यव्यशनिर्दीव्येत्। विस्फूर्जथुः शृणुयात्। अहं विभिन्नानि यन्त्राणि विद्युतो वियुक्तवान्। पुत्रमवदं रात्रौ यदि बिभियात्तर्हि मम प्रकोष्ठमागच्छेत्। स गाढनिद्राङ्करोति, अतः प्रायः स न जागृयात्।

व्यायामनिद्रे क्षयतः

यतोऽद्यत्वे कार्यालयन्न गच्छामीत्यतो व्यायामङ्क्षयति। सामान्यतः कार्यालयेऽहमाधिक्येनाटामि। प्रतिघण्टा न्यूनातिन्यूनमेकवारमुत्थाय भ्रमामि। सम्प्रति तद्व्यपगतम्। गृहे चलनयन्त्रे द्विचक्रिकायां वा चलामि परन्तु कार्यालय इव तत्प्रतिघण्टा तु न भवति। तस्माच्छ्रान्तिरपि न्यूनीभूता। अतो निद्रापि क्षयति।

निर्माता भव

संस्कृतछात्रा सर्वदा वदन्ति ते रूपाणि विस्मरन्ति। बहूनि रूपाणि सन्ति, तेषु बहवो भेदाः सन्ति, कथं स्मर्येरन्? तस्मैहं वदामि सर्वाणि रूपाणि न स्मर्तव्यानि। यानि दैनन्दिनजीवने बाहुल्येनोपयुज्यन्ते तानि स्मरत। तदुपरि तेषां प्रयोगङ्कुरुत। केवलं पुस्तकेषु दत्ता अभ्यासाः क्रियेरँश्चेद्व्याकरणनियमा मनसि न तिष्ठेयुः। निर्मातारो भवत, न केवलं भोक्तारः।  केवलं पठनन्न पर्याप्तम्। प्रतिदिनं त्रीणि व्याक्यानि लिखत। यत्किमपि जीवने प्रचलति तद्विषये लिखत। आदौ कठिनानि वाक्यानि न लेखनीयानि, केवलं सरलवाक्यानि लेखनीयानि। अनेन के के शब्दाः प्रयोक्तव्याः, कानि रूपाणि लेखनीयानि, एतस्य विषये चिन्तनमुत्पद्येत। तस्माद्यानि पदानि रूपाणि च प्रयुक्तानि तानि मनसि शाश्वतं तिष्ठेयुः। अन्यच्च सम्प्रति समयाभावो नास्ति। अतः संस्कृतकौशलं वर्धनाय सुवर्णावसरोऽयम्।

परीक्षाः उद्दिश्य

ये जनाः परिश्रमन्न चिकीर्षन्ति मम संस्कृतवर्गस्तेभ्यो नास्ति। मम वर्गे प्रतिसप्ताहं गृहकार्यमस्ति, परीक्षास्ति च। मद्विरचिताः परीक्षाः सर्वेषां लाभायेति मन्ये। समग्रदेशे शतशः संस्कृतवर्गाः प्रचलन्ति। प्रायः सर्वे वर्गाः प्राथमिकस्तरीयाः। तदर्थं मया गूगल्-डोक्स् उपयुज्य परीक्षा रचिताः। ह्य एकेन शिक्षकेन सम्पर्कीकृतम्। स परीक्षाः प्रयोक्तुमिच्छति। तदर्थमहं तस्मायनुमतिमददाम्। यद्यमूः परीक्षाः तेन प्रयुज्येरँस्तर्हि सन्तोषः। 

शुक्रवार, 10 अप्रैल 2020

उद्योगावधिर्न्यूनीकृता

ह्यो मम भार्यां तस्याः प्रबन्धिकयोक्तङ्करोनाविषाणुवशात् कार्यं न्यूनीभवदस्ति। अतो मदीयया भार्यया केवलमर्धदिनं यावत् कार्यङ्कर्तव्यमिति। अनेन वेतनहानिर्भविष्यति। परन्तु तस्या उद्योगच्युतिस्तु न जाता, एतस्मै कृतज्ञौ स्वः।

क्षणाभ्यान्तरे परिवर्तनम्

क्षणाभ्यान्तरे जीवनपरिवर्तनं भवितुं शक्यतयति सर्वैर्ज्ञायते। परन्तु करोनाविषाणुनेदं प्रमाणीकृतम्। द्वाभ्यां मासाभ्यां पूर्वं सर्वं सम्यगासीत्। सम्प्रति कोटिशो जनानामद्योगच्युतिर्जाता। जना गृहर्णं प्रतिदातुन्न शक्नुयुः। अंशापणमपतत्। तेन जनानां निवृतिनिधिरह्रसत। यदि करोनाविषाणुः प्राप्येत तर्हि किं भवेदिति चिन्तयित्वा चिन्ताग्रस्तो भवामि। क्षणाभ्यान्तरे जीवनस्थितिः पूर्णतया परिवर्तेत।

अङ्गुलीषु वेदना

प्रतिदिनं वाद्ययन्त्राभ्यासङ्करोमि। केषुचिद्दिनेषु केवलं पञ्चदशनिमेषानन्तरमङ्गुलीषु वेदना जायते, अन्येषु दिनेषु तिस्रो घण्टा यावदभ्यासङ्कृत्वैव वेदना न जायते। आश्चर्यचकितोऽहम्।

मंगलवार, 7 अप्रैल 2020

द्वे छात्रे

मम वर्गाद्द्वे छात्रे मामवदतां ते सम्भाषणञ्चिकीर्षू। गृहकार्याय मया कथापठनं दत्तमासीत्। ते अपठताम्। अग्रिमे वर्गे कथाविषये चर्चापि जाता। तथापि तयोर्व्याकरणदृष्ट्या प्रश्ना आसन्। तेषां चर्चां ते ऐच्छताम्। अतस्ताभ्यां सह समभाषिषि। तयोरेतादृशमध्ययनप्रवृतिं दृष्ट्वा मोदेऽहम्।

रविवार, 5 अप्रैल 2020

सम्मेलनं स्थगतिम्?

अप्रैलमासमध्ये संस्कृतसम्मेलनं भविता। तस्य विषये सूचना जनवरीमासयेवागतासीत्। अमुष्मै सम्मुखसम्मेलनाय शीघ्रातिशीघ्रं विमानचिटिकाः क्रेतव्या इति निर्देशोऽप्यागच्छत्। करोनाविषाणुवशादभिमुखसम्मेलनमायोजकैर्निराकृतम्। तत्स्थाने सम्मेलनमन्तर्जालेन भविता। असौ सूचना मासात्पूर्वमागच्छत्। तदनन्तरङ्कापि सूचना नागता। मेलनं भविता न भविता वेति चिन्तयामि। अत्र न कोऽपि विशेषक्लेशः। सम्मेलनं भविता चेद्गृहादेवोपस्थातव्यं मया। मेलने केन्द्रे प्रचलन्ति कार्याणि वक्तव्यानि, तस्मै किञ्चित् सूचना सङ्गृहणीया। अस्यातिरिक्तन्न किमपि कार्यमिति मन्ये। शीघ्रं मेलनस्य विषये सूचनागम्यात्।

शनिवार, 4 अप्रैल 2020

भारतदेशस्य न्यूना करोनाविषाणुरोगिणः सङ्ख्या

जगति सर्वेषु देशेषु करोनाविषाणुरोगिणः सङ्ख्या वर्धमाना सत्यां भारतदेश्य सङ्ख्या न्यूनैव तिष्ठति। तत्कथं शक्यते? सर्वकारस्योपक्रमेणैतत्सिद्धमिति सर्वकारस्य केशाञ्चिच्च मतः। मितप्रमाणेन करोनापरीक्षाः क्रियमाणा इत्यपराणां मतः। सर्वकारेण शीघ्राणि महत्वपूर्णानि पदानि स्थापितानीति सत्यम्। परन्तु यावती शीघ्रतावश्यकी तावती कृता न कृतेति सम्प्रति वक्तुन्न शक्यते। गच्छता कालेन तस्य प्रमाणमाविर्भविष्यति। भारतसर्वकारो लघुप्रमाणेन परीक्षाः कुर्वन्नस्ति। अमुनापि सङ्ख्या न्यूना भवितुमर्हति। एतत्सत्यञ्चेदागामिनि काले भारतस्य दशेटल्यमेरिकाभ्यामपि कष्टकरिणी भवेत्। तादृशी दशा मा भूयादिति प्रार्थये। परन्तु शीघ्रपदैः करोनारोगो वशीकृत इत्याडम्बरो न समीचीनः। सम्प्रति सा घोषणातिशीघ्रा।

शुक्रवार, 3 अप्रैल 2020

वादयामि

प्रतिदिनं वाद्ययन्त्रकौशलं वर्धमानमस्ति। इदं दृष्ट्वा मोदेऽहम्। गते वर्षेऽत्यधिकपरिश्रममकरवम्। तस्य फलमिदानीं प्राप्यमानमस्ति। परन्तु किञ्चिदेव। इदीनीमपि कस्यचित्प्रत्यक्षं वादयितुन्न शक्नोमि। यतो यद्यपि श्रोतारः सङ्गीतकारा न भवेयुस्तथापि ते विस्वरं तालमभिज्ञातुं शक्नुयुः। तादृशं मानवस्य सङ्गीतशीलम्।

गुरुवार, 2 अप्रैल 2020

प्रतिदिनं भ्रमणम्

यतः पुत्रो विद्यालयन्न गच्छति, मित्रैः सह न क्रीडति, अतः सर्व इव स गृहयेव तिष्ठति। परन्तु व्यायामं त्वावश्यकम्। तदर्थं यावच्छक्यमहं मम पुत्रञ्च प्रतिदिनं भ्रमणाय गच्छावः। अद्य वातावरणं सम्यगस्ति। दीर्घभ्रमणङ्कुर्यावेति ममेच्छाभूत्। परन्तु तस्य रुचिर्दूरदर्शनेऽस्ति। भ्रमणाय सोऽगमत् परन्तु तस्य मनस्तु दूरदर्शने स्थितम्। तस्माल्लघुभ्रमणङ्कृत्वागमाव।

वर्गा अन्तर्जालेन

करोनाविषाणुवशादद्यत्वे वर्गा अन्तर्जालेन पाठयामि। तस्मात्किञ्चित्सौकर्यमस्ति। वर्गात्पूर्वं वर्गस्थलन्न गन्तव्यम्। ततो गृहन्नागन्तव्यम्। तस्मादेव रविवासरे मह्यमेका घण्टाधिका लभ्यते। यानतैलमपि न्यूनं व्ययितव्यम्। एकश्छात्रः परदेशङ्गतः। तेन सोऽभिमुखसम्मेलनयागन्तुन्नाशक्नोत्। परन्त्विदानीं स परदेशादेव भागं वहति। अन्यश्छात्रोस्ति यस्याध्यापिका गता। तत्कारणात् स वर्गः स्थगितः। सम्प्रति स छात्रोऽपि मम वर्गे पठति। स दूरे वसत्यतोऽभिमुखसम्मेलने नागच्छति स्म। परन्त्विदानीं स मम वर्गयन्तर्जालेन भागं वहति। यतो मया छात्रान् प्रत्यक्षन्न स्थातव्यमित्यतः कीदृशानि वस्त्राणि धारणीयानीति न चिन्तितव्यम्।

बुधवार, 1 अप्रैल 2020

कार्यालयादवकाशः

साम्प्रतिकापदि ये गृहात्कार्यङ्कर्तुं शक्नुवन्ति ते कुर्युः। अहं मम पुत्रञ्च गृहे स्वः। परन्तु मम भार्या वैद्यपरीक्षासंस्थायै कार्यङ्करोति। तस्याः संस्था करोनाविषाणुपरीक्षामपि करोति। तस्याः कार्यालये प्रायः सर्वे जना आगच्छन्ति कार्याय। तस्याः कार्यालये करोनाविषाणुसम्बद्धकार्यं वर्धमानमस्ति परन्त्वन्यानि कार्याणि न्यूनायन्ते। सा करोनाविषाणुसम्बद्धकार्ये प्रत्यक्षन्नान्तर्भाविता। तस्मादहं तां वदामि, कार्यालयादवकाशं स्वीकुरु। यदि त्वं बहिर्गच्छेस्तर्हि त्वं तवैव न परन्तु कुटुम्बस्य स्वास्थ्यमपायीकुर्याः। अद्य विषयेऽस्मिन् प्रबन्धिकया सह चर्चयिष्यामीति सावदत्। अहं तामवदं यावत्त्वङ्कार्यालयङ्गच्छेस्तावत्पर्यन्तं पृथकप्रकोष्ठे शयीथाः। एतत्तस्यै नारोचत परन्तु किङ्कर्तुं शक्नुवः। यदि सा रोगग्रस्ता भवेत्तर्हि सम्पूर्णकुटुम्बा रोगग्रस्तो भवेत्। आपदयुक्तकाले सम्प्रति चिकित्साभावः। यदि वयञ्चिकित्सालयङ्गच्छेम तर्हि कीदृशी चिकित्सा प्राप्स्यतयति वक्तुन्न शक्यते। करोनाविषाणुग्रस्तेन रोगिणा बहूनि दिनानि चिकित्सालये यापनीयानि। तदर्थं महद्धनमावश्यकम्। सम्प्रत्यार्थिकस्थितिरपि सन्दिग्धा। तर्हि यावच्छक्यमापन्निवारणीया।

रविवार, 29 मार्च 2020

नवमासेभ्यः परस्तात्

आ नवमासेभ्यः प्रतिदिनं वाद्ययन्त्राभ्यासङ्कुर्वन्नस्मि। नवसु मासेषु षण्मासान् यावत् वादनपाठा अपि पठिता कस्माच्चिद्गुरोः। वादनकौशलं वर्धतयित्येतावत्पर्यन्तङ्कदापि नानुभूतम्। परन्तु गतयोः सप्ताहयोः कौशलवर्धनस्य भानञ्जातम्। यानि गीतानि मया बहुभ्यो मासेभ्यो न वादितानि तानि वादयामि चेत्, तेषु साकूता प्रगतिर्दृश्यते। एतावत्पर्यन्तङ्केवलं परिश्रमोऽनुभूतः, आनन्दो नानुभूतः। इदानीं यन्त्रवादने रमे। अनेन प्रगतिरितोऽपि वर्धेतेति मन्ये।

शनिवार, 28 मार्च 2020

पृष्ठस्थयुद्याने

अद्य प्रातःकाले गृहस्य पृष्ठस्थयुद्याने प्रातराशमभौक्ष्म। वातावरणमत्युत्तममभूत्। शीतलवायुरवाक्षीत्, पक्षिणः कलरवः श्रोतुमशक्यत। घण्टां यावदुपविश्य भोजनङ्खादन्तः समभाषिष्महि।

बुधवार, 25 मार्च 2020

वाद्ययन्त्राभ्यासोऽधिकायते

यतः करोनाविषाणुवशादद्यत्वे गृहेऽस्मि तस्मादधिकः समयो वर्तते। अनेनाद्यत्वे वाद्ययन्त्राभ्यासमाधिक्येन करोमि। अन्यच्च यत इदानीङ्गुरुर्नास्ति तस्मात् कोऽपि निर्बन्धोऽपि नास्ति। यानि गीतानि मह्यं रोचन्ते तेषामभ्यासङ्करोमि। पूर्वं यद्गीतं स ददाति स्म तदेवाभ्यासङ्करोमि स्म। सम्प्रति विषयेऽस्मिन् स्वतन्त्रतामनुभवामि। एतद्वादनकौशललाभायेत्याशासे।

मंगलवार, 24 मार्च 2020

सम्भाषावहे

आ चतुर्भ्यः सप्ताहेभ्योऽन्यस्मान्नगरात् कयाचित् सह संस्कृतेन सम्भाषे। सा संस्कृतसम्भाषणङ्कौशलञ्चिकीर्षति परन्तु तस्याः कुटुम्बस्तया सह संस्कृतेन न सम्भाषते। अतः सा मम साहाय्यमयाचत। अहमुत्साहेनाङ्गीकारमददाम्। अनेनावयोरुभयोः सम्भाषणकौशलं वर्धते। प्राय आवां साम्प्रतिकविषयान् कुटुम्बविषयांश्च चर्चयावः।

रविवार, 22 मार्च 2020

बिभेमि

करोनाविषाणुवशादद्यत्वे सर्वे भीताः। द्वे भये - रोगार्थिकस्थितिभ्याम्। अहमपि बिभेमि। मस्तिष्के बहूनि नाकारत्मकानि चिन्तनान्यागच्छन्ति विशेषता रात्रौ। बहूनामोद्योगच्युतिर्जाता। ममोद्योग एतावत्पर्यन्तमस्ति। यदि ममोद्योगच्युतिरपि भवेत्तर्हि गृहर्णङ्कथं दद्याम्? कानिचन मासानि यावद्दानाय धनमस्ति परन्तु यदि दीर्घकालं यावदुद्योगो न प्राप्येत तर्हि किं भविष्यति? जानाम्यहञ्चिन्तनमेतत्केवलं मदीयन्न परन्तु सर्वेषाम्। तथापि चिन्ता निवारयितुन्न शक्यते।

कारयानमचालिषम्

अद्य षड्दिनेभ्यः परङ्कारयानमचालिषम्। अद्यत्वे गृहादेव कार्यङ्करोमि, यावच्छक्यमन्तर्जालेन भोजनङ्क्रीडामि, पुत्रो विद्यालयन्न गच्छति, सर्वे भोजनालयाः काफ्यापणाश्च पिहिताः, इत्यतः कारयानस्योपयोगं न्यूनमभवत्। यदि कारयानं बहुदिनानि यावदेकस्मिन् स्थाने तिष्ठेत्तर्हि विद्युतकोशः क्षपितो भवेत्। अन्यच्च यानस्य चक्राण्यपि हानिं प्राप्तुं शक्नुयुः। तेषां परिभ्रमणमावश्यकम्। अतः साँयकाले कारयानं दशमैलमितायै यात्रायै मया नीतम् । किमपि विशिष्टस्थान्न गतम्, केवलं भ्रमयित्वा प्रत्यागमम्।

शनिवार, 21 मार्च 2020

खाद्यानाङ्क्रयणम्

करोनाविषाणुवशात् सर्वे गृहे स्थिताः। जनसमूहे न गन्तव्यमित्यादेशः। परन्तु भोजनन्तु क्रेतव्यमेव। यदि भोजनापणङ्गम्येत तर्हि तत्रत्यजनसम्मर्दवशाद्विषाणोः प्रापणस्य सम्भावना। अतोऽन्तर्जालेन खाद्यानि क्रेतव्यानीति वरम्। परन्त्वावामेव नैवञ्चिन्तयावः। सर्वेषां तादृशञ्चिन्तनम्। इत्यतोऽन्तर्जालेन क्रयणमपि दुष्करम्। ह्यो बहुयत्नात् परं द्वे क्रयणादेशावदद्व। एकमद्यागच्छेत्। अन्यच्छ्वः। आदिष्टेषु कति वस्तून्यागच्छेयुरिति द्रष्टव्यं यतो बहूनाङ्क्रयणादेशवशाद्वाहकजनानां वस्तूनाञ्चाभावः।

गुरुवार, 19 मार्च 2020

ऐतिहासिकसमयः

करोनाविषाणुकारणात् सर्वमस्तव्यस्तम्। आपणाः पिहिताः, मार्गेषु जनवाहनसञ्चारो न्यूनः। प्रदूषणं न्यूनम्। अंशापणः प्रतिदनमधस्तादधो गच्छति। जागतिकव्यापारः स्थगितः। सम्प्रत्येकैविधकालः। आधुनिककालयेतादृशङ्कदापि नाभवत्। दीर्घकालं यावदस्य समयस्य विषये जनाः सम्भाषेरन्। अस्य कालस्य विषये वयमस्माकं प्रपौत्राञ्छ्रावयिष्यामः।

बुधवार, 18 मार्च 2020

वाद्ययन्त्रपाठाः समाप्ताः

आ षण्मासेभ्योऽहं वाद्ययन्त्रपठनाय गच्छन्नासम्। गतगुरुवासरे पाठाः समाप्ताः। मम गुरुः पाठाननुवर्तनाय मामवदत्। अहमनुविवर्तिषे परन्तु प्रगतिः शनैः शनैः प्रचलति। अनेन वेगेन बहुवर्षाणि यावत् पाठा मया पठनीयाः। तदर्थं बहुधनमपेक्ष्यते। तावद्धनमहन्न विव्ययिषामि। अन्यच्च यानि गीतानि मयैतावत् पर्यन्तं पठितानि तानि पूर्णतया वादयितुन्न शक्नोमि। प्रायो द्वाभ्यां मासयाभ्यामहं तेषामभ्यासञ्चिकीर्षामि। न्यूनातिन्यूनं पञ्च गीतानि भवन्ति। तान्यहं सम्यक्तया वादयितुं शक्नोमीति ममेच्छा। तान्यहङ्कस्यचित् पुरतो वादयेयम्, स रमेत, इतीच्छामि।

२०२०-वसन्तर्तुवर्गः-४

करोनाविषाणुवशाद्गतसप्ताहमारभ्य संस्कृतवर्गा मयान्तर्जालेन पाठ्यन्ते। उभौ वर्गौ बहुसम्यक्तया प्राचलताम्। जना उत्साहेन भागमवहन्। वस्तुतो द्वौ जनौ यौ सामान्यतो नागच्छतस्तावप्यागतौ। एको विदेशयासीदन्योऽन्यस्मिन्नगरे। यस्मिन्प्रकोष्ठेऽहं सामान्यतः पाठयामि स प्रकोष्ठोऽतिलघुरस्ति। तस्मिन्बहूनि वस्तून्यपि सन्ति। श्वेतफलकमपि हीनमस्ति। प्रकोष्ठस्वामिना स प्रकोष्ठः सम्भाररूपेण प्रयुज्यतयिति मन्ये। अन्तर्जालेन पाठनेन प्रकोष्ठे तस्मिन्नस्माभिर्न स्थातव्यमिति मोदावहो विषयः।

मंगलवार, 10 मार्च 2020

करोनाविषाणुरंशापणश्च-२

गतसप्ताहयोरंशापणो विंशतिप्रतिशतं न्यपतत्। अंशापणे पतत्यहं बहून्यंशपत्राण्यक्रीणाम्। यदा सर्वैरंशपत्राणि विक्रीयमाणानि तदा मया तानि क्रीयमाणानि आसन्। यद्यप्यहं मम पित्रा सह न समभाषे तथापि जानाम्यहं स एतादृशीं योजनान्नाङ्गीकरोति। तन्मतावंशापणे यत्सर्वैः क्रियते तदेवास्माभिः करणीयम्। अहं तु विपरीततया व्यवाहरम्। केन तर्केणाहमक्रीणाम्? सरलतर्कः। अंशापणे पतत्यंशपत्राणां मूल्यानि न्यूनायन्ते। तर्हि किमर्थन्न क्रेतव्यानि - विशेषतो भगवत्कृपयैतद्धनस्य मह्यं समनन्तरमावश्यकता नास्ति। वृधावस्थायामवशकता भविदिति मन्ये। अतोऽंशपत्राणि क्रीत्वासौ निधिर्वर्धनीयाः। अहं मूर्ख उत मेधावी समय एव बोधयिष्यति। प्रायः पञ्चविंशतिवर्षेभ्यः पश्चाज्ज्ञास्यते।

रविवार, 8 मार्च 2020

दीर्घजीवनम्

साम्प्रतिककाले मानवजीवनं दीर्घम्। सम्पूर्णभूतकाले मानवः कदापि तावन्ति वर्षाणि नाजीवद्यावन्ति सोऽद्य जीवति। कदाचिदहन्नैरस्यमनुभवामि। इतोऽपि बहूनि वर्षाणि यावज्जीवनीयम्। मम मरणेच्छा नास्ति। सर्वङ्कुशलमस्ति मम जीवने। अपितु पूर्वापेक्षया सर्वमुत्तममस्ति। स्यान्नामाहं ‘मिड्-लाइफ़्-क्रैसिस्’ अनुभवामि। कार्यालये पदोन्नतिर्मह्यन्न रोचते। जनाः प्रायशस्तन्निमितमेव जीवनं यापयन्ति - धनमर्जनीयम्, पदोन्नतिः प्रापनीया प्रभृतयः। जीवनयुत्साहं ह्रसते। तन्निमित्तमेव वाद्ययन्त्राभ्यास आरब्धो मया परन्तु स त्वतिकठनिमस्ति। तत्र कोऽपि विशेषहर्षसन्तोषौ मया न प्राप्येते। तर्हि किङ्करणीयमिति चिन्तयामि।

श्रान्तोऽस्मि

अद्याहङ्केनचित्कारणेन श्रान्तोऽस्मि। ह्या रात्रौ प्रायशः सम्यङ्निद्रां प्राप्तवान् तथापि श्रान्तिमनुभवामि। प्रतिदिनं व्यायामङ्करोमि तस्मादपि श्रान्तिर्जायते। अन्यच्च घण्टां यावद्वाद्ययन्त्राभ्यासङ्करोमि। सोऽप्यैकाग्र्यमपेक्षते। इतोऽपि उद्योगसन्दर्शनायाभ्यासो नारब्धो मया। आगामिनि सप्ताहे वाद्ययन्त्रस्यान्तिमपाठो भविता। तदाराभ्य वाद्ययन्त्राभ्यासे न्यौनङ्करिष्यामि। तेन सन्दर्शनाभ्यासायाधिकसमयो भवेत्।

सोमवार, 2 मार्च 2020

करोना-वायरस् अंशापणश्च

करोना-वायरस् कारणाद्गतसप्ताहेऽंशापणे बहुकोलाहलमभवत्। अंशपत्राणां मूल्यं न्यूनमभवत्। अहं तमवकाशङ्गृहीत्वा बहून्यंशपत्राण्यक्रीणाम्। अद्यांशापणः पुनरुपर्यगमत्। अतो सोऽवसरो लाभदायकः प्रतीयते।

सम्भाषणाभ्यासः

अद्यैकया महिलया सह समाभाषिषि। सा केभ्यश्चिद्दिनेभ्यः पूर्वं मां दूरवाण्या सन्देशं प्रेषितवती सा सम्भाषणाभ्यासञ्चिकीर्षतीति। अहं तामवदं मया सह सम्भाषस्वेति। वस्तुतो गतसोमवासरे सम्भाषणायावाभ्यां समयो निश्चितः परन्त्वहं व्यस्मरम्। अस्मिन् सप्ताहे मया स्मृतम्। चत्वारिंशन्निमेषान् यावदावां समभाषिष्वहि। सा कृतज्ञतां दर्शितवती यतस्तस्यै सम्भाषणाभ्यासाय कोऽपि नास्ति। अहमपि कयाचित् सह सम्भाषित्वामोदिषि। प्रतिसप्ताहं सम्भाषणङ्करणीयमिति निर्णयमावाभ्याङ्कृतम्। अनेन केवलं तस्या न ममापि सम्भाषणकौशलं वर्धेत। आवां सम्भाषिषीवहि।

रविवार, 1 मार्च 2020

आयकरपत्रं प्रेषितम्

ह्य आयकरपत्रं प्रेषितं मया। आयकरपत्रं रचनायै पञ्चघण्टा यावत्सङ्गणके कार्यमकरवम्। तदनन्तरञ्चलनयन्त्रे मैलचतुष्टयं यावदगच्छम्। तेन विंशत्यधिकसप्तशतम् ‘केलोरी’ दाहितवान्।

रविवार, 23 फ़रवरी 2020

२०२०-वसन्तर्तुवर्गः-३

आ सप्ताहद्वयाद्द्वितीयस्तरीये वर्गे केवलं द्वित्राश्छात्रा आसन्। बहवो जना प्रवासाय जग्मुरिति मन्ये। अद्यतने वर्गेऽधिका जना आगच्छेयुरिति प्रत्ययेमि। अन्यथा मम समयङ्किमर्थं व्यर्थीकुर्यामिति चिन्तनं मनस्यागच्छति।

मतदानम्

गतसप्ताहे मतदानङ्कृतवान्। भार्यापि मया सहागच्छत्। प्रायशो बहुषु देशेषु मतदानाय दिनविशेषं निरूप्यते परन्तु यत्राहं वसामि तत्र मतदानाय बहूनि दिनानि दीयन्ते। द्वयोः सप्ताहयोः कदापि गत्वा मतं दातुं शक्यते। प्रातःकाले सप्तवादनादारभ्य साँयकाले सप्तवादनं पर्यन्तं मतं स्वीक्रियते - इति सौकर्याय। एतस्मादहं प्रतिनिर्वाचनं मतदानङ्कर्तुं शक्नोमि।

बुधवार, 19 फ़रवरी 2020

नवघण्टा यावदशयि

परह्यो नवघण्टा यावदशयि। परह्योऽहङ्किञ्चिदाधिक्येन व्यायाममकरवम्, अतः श्रान्त आसम्। तस्मात् सार्धनववादनयेव निद्राधीनोऽभवम्। प्रातःकाले सप्तवादनेऽजागरम्।

रविवार, 16 फ़रवरी 2020

दिनद्वयात्मको विरामः

सोममङ्गलवासरयोर्दिनद्वयात्मको विरामोऽस्ति - मम न, पुत्रस्य। तस्य विद्यालयस्यावकाशः। तस्य मात्रा कार्यालयादवकाशः स्वीकृतः। अत आगामिनोर्दिनयोस्तौ गृहे स्थातारौ। मङ्गलवासरे मम भार्या पुत्रं निकटवर्तिनीं गुहां दर्शनाय नेतेति योजनास्ति।

शनिवार, 8 फ़रवरी 2020

भ्रात्रा सह समभाषे

ह्योऽहं बहुमासेभ्यः परं मम भ्रात्रा सह समभाषे। अहं तं दूरवाण्यामाहूतवान्। तत्र तु रात्रेर्दशवादनमासीत् परन्तु तदापि तस्य पुत्रीपुत्रौ गृहाद्बहिरक्रीडताम्। अतः स निश्चिततया सम्भाषितुमशक्नोत्। घण्टां यावदावां समभाषावहि। स तस्य स्थिरोद्योगं विहाय तन्त्रांशमपि रचयति। द्वौ क्रेतारावपि स्तः। एतच्छ्रुत्वाहममोदे।

पुत्रो व्यायामङ्करोति

मम मामका भार्या चोभावपि व्यायामङ्कुर्वः। यथा मातापितरौ कुुरुतस्तथापत्यान्यपि कुर्वन्ति। अतः पुत्रोऽपि व्यायामङ्करोति। स तस्य मात्रा सह व्यायामप्रकोष्ठङ्गत्वा चलनयन्त्रे द्विचिक्रिकायां वा व्यायामङ्करोति। भारमपि वहति। उत्तमं सात्म्यम्।

संस्कृतसम्मेलनाय गन्तव्यम्

एप्रिलमासे मया संस्कृतसम्मेलनाय गन्तव्यम्। अस्माकङ्केन्द्रात्त्रयो जना गन्तारः। यदि साकङ्गच्छेम तर्हि वरम्। दिनद्वयस्य मेलनम्। द्वाभ्यां दिनाभ्याङ्केवलं संस्कृतेन सम्भाषिताहे - इति चिन्तयित्वा मोदेऽहम्।

मंगलवार, 4 फ़रवरी 2020

अल्पमूल्यवदौषधमन्विष्टम्

यतोऽहं ‘ट्रिप्टोफेन्’ औषधङ्क्रीणामि स्म तत्रौषधस्य मूल्यमवर्धत। अतोऽहमन्यत्रान्वेषणङ्कुर्वन्नासम्। ह्य एकः स्रोतः प्राप्तो यत्र मूल्यन्न्यूनमस्ति। तत औषधङ्क्रीतम्। औषधं श्व आगन्ता।

प्रबन्धको गतः

अमुष्मिन् सप्ताहे कार्यालये मम प्रबन्धकः कार्यान्तरेणान्यस्मिन्नगरे गतः। अनेन कार्यभारः किञ्चिन्न्यूनः। विलम्बेनागत्य शीघ्रङ्गन्तुं शक्नोमि।

रविवार, 2 फ़रवरी 2020

शिलातैलस्य मूल्यम्

शिलातैलस्य मूल्यं ह्रसते। इदं मह्यन्न रोचते। अद्यत्वे जागतिकोष्णता भयङ्करी समस्या। तान्निवारणाय शिलातैलो न्यूनतया दहनीयः। परन्तु यदि तस्य मूल्यमल्पं भवेत्तर्हि जनाः स्वच्छन्दतया तं दहेयुः। तद्वातावरणस्य हानये। यदि मूल्यमधिकं भवेत्तर्हि जनाः कार्यालस्य समीपे गृहाणि क्रीणीयुः। विंशतित्रिंशन्मैलमितां यात्राङ्कार्यालयाय न कुर्युः। जनसञ्चारशटकेषु यात्राङ्कुर्युः। यदि शिलातैलस्योत्पत्तिरधिकास्ति तर्हि सर्वकारेण विक्रयणकरो वर्धनीयः। तेन जनाः शिलातैलङ्किञ्चिन्न्यूनतया क्रीणीयुः। तद्वातावरणस्य लाभाय। शिलातैलेऽधिकं विक्रयणकर इति भूयिष्ठो लाभकरो निर्णयो भवेत्।

शनिवार, 1 फ़रवरी 2020

सन्दर्शनाय सन्नाहः - पुनः

अस्मिन् वर्षे मया नूतनोद्योगः प्राप्तव्यः। तदर्थं सन्दर्शनाय सन्नाहः करणीयः। स सन्नाहो न सरलः। परिश्रमोऽपेक्षितः। वाद्ययन्त्राभ्यासमपि करोमि। तस्मायपि समय आवश्यकः। वाद्ययन्त्रन्न तित्यक्षामि। उभे करणीये।

प्राचीरो जीर्यते

अस्माकङ्गृहं प्रायश्चतुर्दशवर्षपुरातनम्। तस्य प्राचीरः काष्ठमयः। बहुभ्यो वर्षेभ्यः सूर्यवर्षाभ्यां स प्राचीरो जीर्णोऽभवत्। प्राचीरे द्वे द्वारे। अभे ग्लपिते। ते स्वाभ्यामुत्थातुमपि न शक्नुवन्ति। वायुना ते भूमौ पततः। ते समीकरणीये। अग्रिमे सप्ताहे कञ्चित्तक्षकमाहूय दर्शयितास्मि, समीकरणाय कियन्मूल्यमिति प्रष्टास्मि। गृहाय तु सर्वदा व्ययो भवति। मासात्पूर्वमेव चतुरो वृक्षान् कर्तनाय त्रिशताधिकसहस्ररुप्यकाणि व्ययितानि। सम्प्रत्यमुष्मै पुनर्धनव्ययो भविष्यति।

प्यानोवादनप्रदर्शनम्

षण्मासेभ्यः पुत्रः प्यानोयन्त्रेऽभ्यासङ्कुर्वन्नस्ति। आगामिनि मङ्गलवासरे क्रैस्तालये सोऽन्यबालकैः सह सङ्गीतप्रदर्शयिता। स प्यानोयन्त्रे द्वे लघुगीते वादयिता। इदानीमपि प्यानोवादने तस्य रुचिर्वर्ततयिति मोदावहो विषयः।

सोमवार, 27 जनवरी 2020

औषधमूल्यं वर्धितम्

मम निद्रायाः क्लेशो वर्ततयत्यहं पूर्वं बहुवारमवदम्। ‘एल्-ट्रिप्टोफेन्’ नाम्नौषधमस्ति येनाहं षड्-सप्तघण्टा यावच्शयितुं शक्नोमि। तदौषधस्य मूल्यं त्रयस्त्रिंशत् प्रतिशतं वर्धतिम्। निद्रायाः कृतयौषधसेवनं मह्यन्न रोचते तथापि निद्रा तु प्राप्तव्यैव। दिने कार्यालङ्गन्तव्यं, पुत्रं विद्यालयं प्रापयितव्यम्, व्यायामङ्कर्तव्यम् - अन्यानि कार्याण्यपि सन्ति। मूल्यस्य वर्धनाच्चिन्तयामि केभ्यश्चिद्दिनेभ्य औषधं विना शये। यद्यौषधन्न क्रीयेत तर्हि वरम्। परन्तु यदि निद्रा पुनरपि चतुर्पञ्चघण्टा यावद्ध्रसेत, अगितकगत्यौषधङ्क्रीणीयाम्।

रविवार, 26 जनवरी 2020

बीजपूरम्

ह्यो बहुभ्यवर्षेभ्यः परं बीजपूरमखादम्। इतः पूर्वङ्खाद्यानि केवलं भार्यया क्रीयन्ते स्म। परन्तु केभ्यश्चित्सप्ताहेभ्योऽहमपि तया सह क्रयणाय गच्छामि। सा सर्वथा सामानानि खाद्यानि क्रीणाति। मह्यं वैवध्यं रोचते। तेन खाद्यानि रुचिकरीण्यपि भवन्ति। अतोऽहं सर्वदा नूतनखाद्यान्यन्विष्यामि। बहुभ्यवर्षेभ्यः परं बीजपूरञ्जग्ध्वामोदे।

बुधवार, 22 जनवरी 2020

पुत्रं घर्मो बाधते

केनचिदज्ञात्कारणेन मामकङ्गृहं बहुशीतलं वर्तते। ग्रीष्मकालयेतल्लाभकरम्। शीतकालेऽहङ्गृहेऽत्यधिकशैत्यमनुभवामि। परन्तु पुत्रस्य स्थितिस्तु विपरीतैव। यदाहं स्वेदकं धृत्वा तिष्ठामि स युतकेन विना गृहे भ्रमति। यदाहङ्कम्बलेनाच्छाद्य शये स व्यजनञ्चालयित्वा शेते। रात्रावूष्णयन्त्रं पिधाय वयं शेमहे। तस्मात् प्रातःकालं पर्यन्तङ्गृहे तापमानन्निपतति। कल्यमुत्थायाहं झटिति द्वित्रिवस्त्राणि धरामि परन्तु पुत्र उत्थाय केवलमेकं युतकं धृत्वा प्रातःकालीनानि कार्याणि करोति। यद्यहं हठेन तस्मिन् स्वेदकं धारयामि तर्हि केषाञ्चिन्निमेषानामनन्तरं स तत्स्वेदकञ्जहाति। मम पुत्रस्य शीतसहनशीलतां दृष्ट्वोक्तिविकलोऽस्मि। अहं तं विनोदेन वदामि - त्वया ‘एस्किमो’ कुटुम्बे जन्म लब्धव्यमासीदिति।