पोकेमोन्-पत्रेषु पुत्रस्य रुचिर्वरीवृध्यते। ह्यो नगरे पोकेमोन्-आपण आयोजितः। तत्र पुत्रेण सहागच्छाव। पुत्रो द्विशतकाधिकरुप्यकाणि व्ययीकृत्य पत्राणि क्रीतवान्। यावत्तस्य वयोर्वधते तावत् पोकेमोन्-पत्रेषु तस्य रुचिरपि वर्धते।
रविवार, 14 जून 2026
गुरुवार, 28 मई 2026
ग्रीष्मविराम आरभते
पुत्रस्य विद्यालयस्य ग्रीष्मविराम आरभते। अहं गृहात्कार्यं करोमीत्यतः पुत्रो गृहे स्थातुं शक्नोति। अहं तं पुस्तकपठनाय प्रेरयामि परन्तु स निर्मनसा पुस्तकं पठति। अधिकतया दूरदर्शनादिषु समयो यापयति। सम्प्रति सर्वेषामेवैषा कथा।
शुक्रवार, 15 मई 2026
पुत्रो गतः
प्रथमवारं पुत्र आवाभ्यां विना गतः। स विद्यालयस्य सङ्गीतसङ्गठने वाद्ययन्त्रं वादयति। काचित्सङ्गीतस्पर्धान्ये नगरेऽस्ति। तेन कारणेन स विद्यालयस्यान्यैश्छात्रैः सह गतः। रविवासरे आगमिष्यति। इदानीं तत्समीपे जङ्गमदूरवाण्यस्ति। अतो यात्रा कथं प्रचलति स आवां सूचयितुं शक्नोति। तस्य मित्रैः सहावाभ्यां विना स गत एतेन कारणेन सो हर्षितः।
रविवार, 3 मई 2026
दिने बहिरगमाम
अद्य पुत्रस्य मित्रस्य जन्मदिवसोत्सवोऽभूत्। पुत्रमुत्सवस्थलं प्रापय्य भार्याहं च भोजनालयमापणानि चागमाव। तस्माद्दिनं शीघ्रेणागमत्। श्वः सोमवासरः। पुनः कार्यालयस्य कार्यं करणीयम्।
शनिवार, 2 मई 2026
पोकेमोन्-पत्राणि
अद्य पुत्रमापणमनैषम्। तस्य पोकेमोन्-पत्रेषु बृहद्रुचिरस्ति। तस्य जन्मदिवसोऽप्यागच्छति। अहं तमवादिषं त्वया यत्क्रीयते तत्त्वज्जन्मदिवसोपायनम्। स पत्राणां पिटकं क्रीत्वाहर्षीत्।
मंगलवार, 28 अप्रैल 2026
रविवार, 26 अप्रैल 2026
मिष्ठान्नं प्रतिदिनम्
भार्यापुत्राभ्यां रात्रिभोजनस्य परस्तान्मिष्ठान्नं रोचेते। मह्यमपि रोचे नासत्यं वदानि परन्तु जानामि प्रतिदिनं मिष्ठान्नभोजनं न समीचीनम्। कथञ्चिन्मिष्ठान्नस्य भोजनं न्यूनीकरणीयम्।
गुरुवार, 16 अप्रैल 2026
भार्याया जन्मदिनम्
भार्याया जन्मदिनमागच्छति। सा कार्यालयाद्विरामं ग्रहीतवती। अहं तु गृहादेव कार्यं करोमि। तस्मिन् दिने किं कुर्यावेति चिन्तयामि। उपायनेषु मम रुचिर्नास्ति तर्हि तस्यै पुष्पानि दास्यामीति चिन्तयामि। रात्रौ सकुटुम्बं भोजनालयं गच्छेमेत्यपि चिन्तयामि।
मंगलवार, 14 अप्रैल 2026
कठिनपुस्तकम्
भौतिकविज्ञानं पठामि। सम्प्रति यत्पुस्तकं पठामि तत् कठिनम्। आरम्भे तु किमपि नावगतम्। पुस्तकस्य दोशो न। विषय एव कठिनः। पुस्तकं तूत्तमम्। ए-आय सहातया शनैःशनै पुस्तकपाठा द्रवीभूयन्ते। द्वाभ्यां मासाभ्यां परस्तादिदानीमगन्तुं शक्यन्ते। कुठारेण पर्वतं भनज्मीति भासते। परन्तु शनैःशनैः पर्वतो निश्चयेन भज्यते।
शनिवार, 21 मार्च 2026
वसन्तर्तुरवकाशः
वसन्तर्तुरवकाशाय निकटस्थं नगरमगच्छाम। तत्र निवासालयं विहाय वयं मनोरञ्जनयानेऽनिवसाम। याने सर्वसुविधान्यासन्। नूतनानुभवमासीत्। रात्रौ घोरन्धकार आसीत्। हस्ते लण्ठनदीपं धृत्वा गन्तव्यम्। दिने तीव्रवायुरासीत्। तेन पर्यटनं किञ्चित्क्लेशकरं जातम्। अन्यथा प्रवासः सम्यगासीत्।
मंगलवार, 30 दिसंबर 2025
विदेशयात्रा-२
विदेशयात्रा सम्यक् समाप्ता। किञ्चिच्छैत्यमासीत् परन्तु वयं स्वेदकानि नीतवन्तः। यात्रा तु सम्यगासीत् परन्तु महती श्रान्तिरभवत्। प्रतिदिनं दूरं चलतव्यम्। वर्षैकवारमेव कर्तुं शक्यते। मह्यं तु गृहमेव रोचते यत्र सर्वसुविधानि सन्ति। गृहे धनव्ययोऽपि न्यूनो भवति।
मंगलवार, 18 नवंबर 2025
विदेशयात्रा
शीघ्रं सकुटुम्बं विदेशं गन्तास्मि। भार्या तु विशेषत उत्सुका। मह्यं तु विमानयात्रा कलेशकरी। परन्तु कुटुम्बाय करोमि। प्रत्यागम्य यात्राविवरणं दास्यामि।
गुरुवार, 21 अगस्त 2025
अन्तरिक्षविज्ञानम्
अद्यत्वेऽन्तरिक्षविज्ञानं पठन्नस्मि। सप्ताहे त्रयदिनेभ्यः कार्यं करोमि। अन्येषु दिनेषु विज्ञानं पठामि। अर्धसमयं यावदेव कार्यं करोमि तस्माद्वेतनं तु न्यूनमेवास्ति। परन्तु विज्ञानं पठनस्य मम बालवस्थाया इच्छासीत्। इदानीं वयो वर्धते। अग्रिमेषु वर्षेषु स्वास्थ्यं कथं भवेत्तको जानीयात्? तेन कारणेनैव यावन्तीच्छाः सन्ति तासु याः का अपि पूरयितुं शक्यन्ते ताः पूरयामि।
गुरुवार, 7 अगस्त 2025
पोकेमोन्-मेलनम्
पोकेमोनेषु पुत्रस्य विशेषरुचिरस्ति। गतसप्ताहान्तेऽस्माकं नगरे पोकेमोन्-मेलनमभवत्। कुटुम्बस्तत्र नीतः। पुत्रो हर्षितोऽभवत्।
बुधवार, 23 जुलाई 2025
ग्रीष्मविरामः
विद्यालयस्य ग्रीष्मविरामः प्रचलन्नस्ति। आदिनं पुत्रो दूरदर्शनमेव पश्यति। अनिच्छयैव किञ्चित्कदाचित्पुस्तकं पठति। अहो साम्प्रतिका बालकाः!
मंगलवार, 29 अप्रैल 2025
वातानुकूलयन्त्रम्
आ त्रिभ्यो वर्षेभ्यो गृहस्य वातानुकूलयन्त्रं सम्यक् कार्यन्न करोति। प्रायः पञ्चदशवर्षात्मकं पुरातनं यन्त्रम्। अस्मिन् सप्ताहे नूतनयन्त्रं कार्यकर्तृणा स्थाप्यते। बृहद्धनमावश्यकम्। एतावद्धनं व्ययित्वा सम्यक् कार्यं भूयात्।
किं कुर्वन्नस्मि?
गतवर्षान्त उद्योगमत्यजमिति सूचितवानासम्। तदनन्तरं त्रिभ्यो मासेभ्यो विरमामगृह्णाम्। तस्मिन् काले स्वदेशं गत्वा मातृपितरावमिलम्। ताभ्यां सह सप्ताहद्वयमतिष्ठम्। तदनन्तरं भ्रातुर्गृहमगच्छम्। तस्य कुटुम्बेन सह चत्वारि दिनान्यापयम्। अन्यान् जनानप्यमिलम्। सर्वजना हर्षिताः। पुनः परदेशमागत्य कार्यमारभम्। मित्रस्य काचित्संस्थास्ति। तस्यै संस्थायै कार्यं कुर्वन्नस्मि। वेतनं तु न्यूनमेवास्ति परन्तु कार्यं सम्यगस्ति। अन्यच्च गृहादेव कार्यं कर्तुं शक्नोमीति सन्तोषः। कतिभ्यो दिनेभ्यो न्यूनं वेतनं स्वीकर्तुं शक्नोमीति द्रष्टव्यम्।
सोमवार, 24 मार्च 2025
बहुभ्यो दिनेभ्यः परस्तात्
आ बहुभ्यो दिनेभ्यो मयात्र कापि सूचना न दत्ता। उद्योगमत्यजम्। तदनन्तरं किं प्रचलतीत्यत्र शीघ्रमेव प्रसारयिष्यामि।
शनिवार, 3 अगस्त 2024
भौतिकविज्ञानम्
आ बाल्यकालाद्भौतिकविज्ञानं पिपठिषामि। सम्प्रति वर्षद्वयात्पठन्नस्मि। तेन कारणेनैव अत्र लेखा विरला जाताः। गतवर्षे क्वाण्टम्-मकेनिक्स्-शास्त्रमपठम्। अधुना जेनेरल्-रिलेटिविटिशास्त्रं पठामि।