रविवार, 19 दिसंबर 2021

मित्राण्यमिलम्

ह्यः साँयकाले नगरकेन्द्रमगच्छम्। पूर्वतनानां सहोद्योगिनां मेलनमासीत्। परह्यस्तु शैत्यन्नासीत्परन्तु ह्यः शैत्यमभवत्। तस्मात्किञ्चिदसौकर्यमन्वभवम्। यतो मदिरापानमपेक्षितमासीदतोऽहङ्कारयानं नाचालयम्। मम भार्या मां रेलस्थानकं प्रापयत्। प्रत्यागमनेऽपि सा मां रेलस्थानकादानयत्। शैत्यवशात्करोनावशाच्च केवलं षड्जना आगच्छन्। निमन्त्रणं तु पञ्चविंशतिजनेभ्यः प्रेषितमासीत्। तथापि पुरातनान्सहोद्योगिनो दृष्ट्वा सन्तुष्टोऽभवम्।

मंगलवार, 14 दिसंबर 2021

पर्यवेक्षकोऽनुपस्थितः

अद्य कार्यालये मदीयेन पर्यवेक्षकेणावकाशो गृहीतः। सामान्यतस्तादृशेषु दिनेष्वहङ्किञ्चिन्न्यूनङ्कार्यङ्करोमि परन्त्वद्यत्वे बृहत्कार्यं रुचिकरकार्यञ्च वर्तते। अन्यच्च यतः पर्यवेक्षको गतोऽतः सम्मेलनानि न भविष्यन्ति। तस्मादविरततया कार्यङ्कर्तुं शक्नोमि। अतो बृहत्कार्यङ्करिष्यामि।

रविवार, 12 दिसंबर 2021

जर्मन्क्रिस्तमसापणमगच्छाम

ह्योऽन्यस्मिन्नगरे प्रचलत्क्रिस्तमसापणमगच्छाम। रात्रौ तस्मिन्नेव नगरे वसतिमन्दिरेऽतिष्ठाम। अद्य पुनर्गृहयागमाम। प्रायो वर्षद्वयात्परं वयं प्रवासायागच्छाम। उत्तमः प्रवासः परन्तु प्रत्यागमने कारयानस्य वायुकाचकवचं द्वौ शिलाखण्डावतौत्ताम्। तस्मात्कवचे पाटावागतौ। आगामिषु दिनेषु कारयानं यानसमीकरणगृहं नीत्वा तौ पाटौ समीकरणीयौ। अन्यच्च मया ज्ञातं भार्या तस्याः कारयानस्य यन्त्रतैलं सपादवर्षान्न नवीकारितवती। सामान्यतस्तैलं षण्णमासेषु परिवर्तनीयम्। न क्रियते चेत्कारयन्त्रस्य महान्हानिर्भवितुं शक्नोति। कारयानस्य स्वास्थविषयेऽनावधानवत्या भार्ययाहं विस्मितः। श्वस्तैलपरिवर्तनङ्कारयिष्यतीति सावादीत्। बहुभ्यो वर्षेभ्यः पूर्वमेकवारं मया ज्ञातं सा द्बाभ्यां मासाभ्यामभिरक्षायोजनया विना कारयानञ्चालयन्त्यासीत्। तस्मात्कालादहं स्वयमेवाभिरक्षायोजनां नवीकरोमि यस्मात्सा कदापि योजनया विना न भवतु। एतादृशाः प्रमादा महान्हानिः कारयितुं शक्नुयुः। अतोऽस्माभिरुचितसमययेतादृशानि कार्याणि कर्तव्यानि।

बुधवार, 8 दिसंबर 2021

एकस्मिन्दिने द्वे गीते

चतुर्मासेभ्यः पूर्वं काञ्चन शिक्षिकाममुकगीतस्य पाठमनिवेदयम्। सामान्यतः सा तादृशाननुरोधान्न गृह्णाति। परन्तु सा गीतपाठमकरोत्। ममान्यगुरुरप्यस्ति यस्य पाठैरहं नवमासेभ्योऽभ्यासङ्कुर्वन्नस्मि। तमप्यहं भिन्नगीतस्य पाठमनिवेदयम्। दैवादुभाभ्यां शिक्षकाभ्यामेकस्मिन्दिनयेव तयोः पाठौ स्थापितौ। अनेन सम्प्रति मह्यं द्वयोर्गीतयोः पाठौ लभ्येते। आगामिषु दिनेषु ताभ्यामभ्यासङ्करिष्ये।

रविवार, 5 दिसंबर 2021

पुत्रः करोणौषधमलब्ध

अद्य पुत्रः करोणाया द्वितीयौषधमलब्ध। अनेन पुत्रोऽप्यावामिव सम्पूर्णकरोणौषधमलभत।

कार्यालये प्रकल्पः

कार्यालये कश्चन प्रकल्पः सप्टेम्बरमासान्तेऽवसतिव्य आसीत्। अन्यदलवशात्स प्रकल्पो नावसितः। इदानीं स प्रकल्पो मार्चमासान्ते सम्पद्येतेति विचारः।

पीडा गता

गतदिनेषु सरलव्यायाममेवाकरवम्। तस्माद्वामभागे पीडा गता। पुनः पूर्ववद्वयायामङ्कुर्याञ्चेत्पीडा पुनरागच्छेद्वेति प्रश्नः।