वृत्तान्तः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
वृत्तान्तः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

शनिवार, 25 अप्रैल 2026

पर्सिस् खम्बाटा

गतरात्रौ मम मस्तिष्के 'पर्सिस् खम्बाटा' इति नामाकस्मिकतयागच्छत्। सा काचित्प्रसिद्धमहिला बभूवेति मया ज्ञातमासीत्परन्तु तस्याश्चित्रं तस्या विवरणं मम मस्तिष्के न प्राकटयत्। बाल्यकालेऽन्तर्जालं नासीत्। तस्मात् सूचना विरलतया मिलति स्म। सम्प्रति तु कदापि किमप्यन्वेष्टुं शक्यते। तस्या नामान्तर्जालेऽस्थापयम्। तेन ज्ञातं सा मिस्-इण्डिया-१९६५ आसीत्। सा चलचित्रविज्ञापनादिषु कार्यं चकार। धूम्रपानदुर्व्यसनात्केवलमेकोनपञ्चाशद्वयसि तस्याः स्वर्गवासं बभूव। तस्या आत्मा शान्तिं प्राप्यात्।

रविवार, 18 दिसंबर 2022

दि-एलिफेन्ट्-व्हिस्परर्स्

दि-एलिफेन्ट्-व्हिस्परर्स् इति वृतान्तमपश्यम्। भारते तमिलनाडुराज्ये वनवासिभ्यां दम्पतिभ्यां द्वौ गजौ प्रेम्णा कथं पालिताविति दर्शितम्। गजा बुद्धिमन्तो भावात्मकाश्च सन्ति। तौ गजौ भाग्यवन्तौ। अन्ये गजा न ताविव भाग्यवन्तः। अन्येषाङ्गजानां दुस्स्थितिं दृष्ट्वा खिद्ये।

रविवार, 24 जुलाई 2022

एडेक्-द्वीपः

दूरदर्शने वृत्तान्त एको दृष्टः। अलास्काराज्ये 'एडेक्' इति कश्चन द्वीपः। नवदशशताब्द्या अन्ते कश्चित्समुद्रीयचोरस्तस्मिन्द्वीपे स्वर्णनाणकानां बृहद्राशिर्गोपायाञ्चकार। सम्प्रति केचनजनास्तस्यान्वेषणङ्कुर्वन्ति। बृहत्कार्यम्। बहुभ्यो मासेभ्यः परस्तात् तैस्द्वे स्वर्णनाणके लब्धे। तदनन्तरं शैत्यमागतम्। तस्माद्भूमिर्हिमीभूता। तयागामिनि ग्रीष्मकाले पुनरन्वेषणङ्कुर्युः।

मंगलवार, 14 सितंबर 2021

द-सर्पेन्ट्

द-सर्पेन्टिति वृतान्तमपश्यं दूरदर्शने। चार्ल्ससोभराजस्य विषये सत्या कथा दर्शितास्मिंश्चलचित्रे। बाल्यकाले चार्ल्समहाश्यस्य विषये श्रुतमासीद्मातृपितृभ्याम्। जानामि स्म स दुष्ट आसीत्। परन्तु कियता दौष्ट्येन तेन बहवो जना हता इति न जानामि स्म। विस्मितोऽस्मि कीदृशो जनः स आसीत्। द्रष्टव्यञ्चलचित्रम्।

शनिवार, 1 अगस्त 2020

मार्स्

'मार्स्' इति शृङ्खलां दूरदर्शने पश्यामि। यदा मानवो मङ्गलगृहङ्गमिष्यति तदा किं भवितुं शक्नोतीति दर्शितमस्यां शृङ्खलायाम्। मुख्यतो वैज्ञानिकवाणिज्यक्षेत्रयोर्मध्ये प्रचलन्सङ्घर्षो दर्षितः। मध्ये मध्ये साम्प्रतिकाले पृथ्व्यां प्रचलतस्तादृश्स्य सङ्घर्षस्य विषये विविधवैज्ञिनाकानां नेतॄणाञ्च सन्दर्शनानि दर्शितानि। यथा पृथ्व्यां वाणिज्यसंस्था वातावरणमुपेक्ष्य धनार्जनाय सर्वं नाशयन्ति तादृशी स्थितिरेव मङ्गलगृहे भवितुं शक्नोतीति सन्देशः। एकस्मिन् प्रकरणे मङ्गलगृहे वैज्ञानिकैर्विषाणुर्विनिज्ञायते। तेन बहवो जना रोगग्रस्ता भवन्ति। तादृशी स्थितिः सम्प्रति वास्तविकजीवने प्रवर्तते। तद्दृष्ट्वा विचित्रभावना मम मनस्यागता।

गुरुवार, 25 जून 2020

वैदिकजनाः

अद्य 'भारत एक खोज' इत्यस्य कार्यक्रमस्य वैदिकजनविषयकं प्रकरणमैक्षिषि। वैदिकजनानां विषये ऋग्वेदस्य विषये च बोधयिष्यतयिति चिन्तयित्वोत्साहेन दर्शनमारब्धम्। परन्त्वाशाभङ्गोऽभूत्। किमपि ज्ञानवर्धकन्न दर्शितम्। बहूनि गीतानि गीतानि। ऋग्वेदस्य रचना न दर्शिता। ऋग्वेदे किमस्तीत्यपि न बोधितम्। ऋग्वेदस्य मन्त्राण्यपि हिन्द्यामुच्चारितानि। वैदिकसभ्यताविषये पाठनस्य सुवर्णावसरो गमित इति मन्ये।

शनिवार, 13 जून 2020

ओट्टोमन्स्

'ओट्टोमन्स्' इति दूरदर्शने वृत्तान्तमपश्यम्। मेहमूद्-२ नामौट्टोमन्राजा कथङ्कोन्स्टान्टीनोपल्नगरञ्जिगाय तस्मिन्वृत्तान्ते दर्शितम्। तस्माद्राज्ञः पूर्वं त्रयस्त्रिंशत्सेना तन्नगरञ्जेतुं विफलतया प्रयेतिरे। मेहमूद्-२ राजापि महता कृच्छ्रेण विजयं लेभे। बहुवारं तस्य दृढसङ्कल्पश्चस्खाल। परन्तु स जेष्यतीति प्रतीतिः स कदापि न तत्याज। कोन्स्टान्टीनोपल्नगरस्य राजा वेटिकन्राज्यात्साहाय्यं ययाचे परन्तु समये साहायता नागता। वेटिकन्राज्यं साहाय्यङ्गमयाञ्चकार परन्तु तावता विलम्बो बभूव। सम्प्रति कोन्स्टान्टीनोपल्नगरम् 'इस्तान्बुल्' नाम्ना ज्ञायते। तन्नगरं टर्किदेशस्य राजधान्यस्ति।

रविवार, 23 दिसंबर 2018

रोमन्-एम्पैर्

दूरदर्शने ‘रोमन्-एम्पैर्’ इति नाम्ना वृत्तान्तं दृष्टवान्। द्विसहस्रवर्षेभ्यः पूर्वमिट्लीप्रदेशे राजनीत्याँय्यज्जातं तद्दर्शितम्। प्रमुखतः सेनापतिज्यूलियससीज़रमधारीकृत्य दर्शितं वृत्तान्तेऽमुष्मिन्। अमुष्य वृत्तान्तस्य दर्शनात्पूर्वं मया तत्सेनापत्युर्विषये ज्ञातं परं वृत्तान्ते बहुसमयक्तया सविशेषञ्च सर्वं ज्ञापितम्। असौ वृत्तान्तो न केवलं ज्ञानवर्धको मनोरञ्जकोऽप्यासीत्।

रविवार, 3 जून 2018

ऐन्स्टैनः

दूरदर्शने ‘ऐन्स्टैन्स्-मैन्ड्’ इति वृत्तान्तं दृष्टवान्। ऐन्स्टैनवर्येण प्रतिपादितस्य ‘रिलेटिविटि’ सिद्धान्तस्य विषये वृत्तान्तोऽयम्। ऐन्स्टैनवर्यः १९१५ तमे वर्षयिममं सिद्धान्तं ददौ। रिलेटिविटिसिन्द्धान्तं रोरुच्यते मह्यम्। आ बाल्यादहमस्मिन् विषये काले काले पठामि। अस्मिन्विषये बहूनि पुस्तकान्यपि मत्सकाशे वर्तन्ते। कस्मिँश्चिद्भविष्यत्दिवसेऽहमेष सिद्धान्तं सम्यकतया परिशीलयामीत्यहमभिलषामि। भौतिकशास्त्रपठनं बहुसमयँय्याचते। इदानीन्तु कुटुम्बजीविकयोर्दायित्वौ वर्तेते। स्यान्नाम सेवानिवृत्तेरनन्तरं पठितुं शक्तास्मि।

शनिवार, 2 जून 2018

अपव्ययितजीवनम्

दूरदर्शने ‘ईवल्-जीनियस्’ नाम्ना धनकोषलुण्ठनस्य विषये वृत्तान्तं दृष्टवान्। २००३ तमे वर्षे न केवलं धनकोषलुण्ठनं प्रववृते कस्माच्चिद्दुर्भाग्यवतः पुरुषादपराधिनो विस्फोटेन तज्जीवनमप्यपजह्रुः। प्रमुखापराधिनी ‘मार्जरी-आर्मस्ट्रोंग’ नाम्ना काचन स्त्री। यौवने सा सुन्दरी बुद्धीमती च। विश्विद्यालये सोत्तमा छात्रा। परन्तु मान्सिकासन्तुलनवशात् सा नैतिकमार्गं तत्याज। सा कूटयोजना रचयामास। तस्याञ्जीवने बहवो जना मृत्युं प्रापुः - तन्निमित्तम्। अन्ततः सर्वकारस्ताङ्कारागारे पातयामास। सा तस्या जीवनमपव्ययीकृतवती। यथा पूर्वोक्तं सा बुद्धिमती सुन्दरी च। नैतिकमार्गेणैव सा सर्वं प्राप्तुमशक्ष्यत्। अपव्ययितजीवनं तस्याः।

शुक्रवार, 1 जून 2018

शीलारजनीशौ

दूरदर्शने रजनीशो नाम्ना कश्चनाध्यात्मिकगुरुर्विषये वृत्तान्तं दृष्टवान्। ‘व्हैल्ड्-व्हैल्ड्-कन्ट्री’ इति १९८० तमे दशके सात्त्विकघटनास्वाधारितोऽद्भुतवृतान्तः। गुरोस्तस्य मुख्यकर्मकरिण्याः शीलायाश्च नेतृत्वे किङ्किं प्रवृत्तमिति दृष्ट्वा मम चिबुकं तु भूतले पतितवान्। लोकः कञ्चन मनुष्यङ्कथमीश्वरायतयिति दृष्ट्वा विस्मितोऽस्मि। जना गतानुगतिकतया किमपि कर्तुं सज्जाः। शीलारजनीशौ स्वच्छन्दतया बहूनि दुष्कर्माणि चक्रतुः। तावुछृङ्खलौ बभूवतुः। रजनीशस्य विश्वसितकर्मकरिण्याः शीलायाः कथने तस्य भक्ता अन्याञ्जनान् संहर्तुमपि सज्जिताः। ते कृत्स्नग्रामं विषं ददुः। शीला सम्पूर्णग्रामं संहरणमादिदेश, सर्वकारीणि कार्यालये विस्फोटङ्कारयञ्चकार, सर्वकार्यधिकारिणो हननकपटप्रबन्धं रचयामास तथापि सा केवलं सार्धत्रीणि वर्षाणि यावत्कारागारे समयँय्यापयञ्चकार! स गुरुरपि किमपि दण्डन्न प्राप! अहो, एनयोः सौभाग्यम्! विस्तरेभ्यो वृत्तान्तं वीक्षस्व, जीवने किङ्किन्न करणीयं तदवगतयेऽपि वीक्षस्व।

शनिवार, 24 मार्च 2018

शैकल्टनः

अर्नेस्टशैक्लटनः को यदि न जानासि, ज्ञायताम्। स नेतृश्रेष्ठः। वीरोत्तमः सः। अर्नेस्टशैकल्टनोऽसाधरणः पुरुष आसीत्। १९१४ वर्षस्यौक्टोबरमासयिङ्ग्लेण्डदेशादेन्टार्टिकमहाद्वीपं तरणार्थं ‘एन्ड्योरेन्स’ इति नाम्ना नवि स सप्तविंशत्या जनैः सह जगाम। सा यात्रात्यन्ता दुर्भाग्यवती सिद्धा। १९१५ वर्षस्य जनवरीमासे शैकल्टनस्य नौर्हिमशिलासु मध्ये परिलग्निता बभूव। बहुमासेभ्यः सा नौर्हिमशिलास्ववस्थिता। हिमकारणान्नौः कुत्रापि गन्तुन्न शशाक। अस्मिन् काले न्यूने तापमाने शैकल्टनस्य नेतृत्वे सप्तविंशतिर्जनाः कथमपि जिजीवुः। १९१५ तमे वर्षे नवम्बरमासे हिमस्तेषां नावं पिपेष। सर्वे जना नावं तत्यजुः। सा समुद्रे निममज्ज। शैकल्टनस्तस्य सप्तविंशतिर्जनाश्च बहुमासेभ्यो समुद्रे हिमशिलासूषुः। ते भूमौ न ववृतिरे। तत्रापि शैकल्टनस्योत्तमनेतृत्वात् कोऽपि जनो न मृतो न व्रणितो बभूव। एतत्सर्वमेन्टार्टिकमहाद्वीपे प्रवृतँय्यत्रातिशीतं सर्वत्र सर्वदा बबाधे। तदानीँय्यदा ग्रीष्मकाले हिमशिला दुद्रुवुस्तदा शैकल्टनस्तस्य जनाश्च तिसृषु जीवनरक्षानौषु ‘एलिफेन्ट’ इति द्वीपञ्जग्मुः। परन्तु स द्वीपो निर्जन आसीत्। तस्मिन्द्वीपेऽधिकभोजनञ्जलमपि न ववृताते। तदानीं शैकल्टनः पञ्चभिरन्यैः सह ‘जेम्सकेयर्ड’ इत्येकस्यां नावि ‘साउथज्यौर्जिया’ इति द्वीपस्य दिशि ययौ। पञ्चदशदिवसेषु विंशत्यधिकसप्तशतान्नाविकक्रोशकाँस्तीर्त्वा ते भूमिप्राप्ताः। तत्रापि चण्डवातात्तेषां नौरापदि पतयामास। कथमपि ते भूमाववतेरुः। तदानीं षट्त्रिंशद्घंटाभ्यो हिमपर्वतेषु चलित्वा ते तस्मिन् द्वीपे कञ्चन सर्वकारीयकार्यालयं प्रापुः। साहाय्यार्थं स कार्यालयस्तदानीमन्यजनानाङ्कृते काचन नौरेलिफेन्टद्वीपं प्रेषयाञ्चकार । तथापि हिमवशान्नौरेलिफेन्टद्वीपं गन्तुं न शशाक। तृतीयप्रयासयेव सैलिफेन्टद्वीपं प्राप। अन्ततः १९१६ वर्षस्यागस्तमासे सर्वे जना रक्षिताः। कोऽपि न मृतः। केवलमेकजनो हिमध्वस्तात्तस्य हस्तं तत्याज। शैकल्टनस्य साहसं धैर्यं श्रमो नेतृत्वञ्चाद्वितीयाः। तस्मादस्माभिः प्रेरणा लम्भनीया।