सोमवार, 31 मई 2021

अशनेर्यन्त्रं विकृतम्

परह्यः साशनिं वृष्टिरपतत्। अशनेर्वशाद्वातानुकूलयन्त्रस्य नियन्त्रकं विकृतमभवत्। यद्यन्त्रं सप्ताहपूर्वं स्थापितं तस्य नियन्त्रकम्! अतः सम्प्रति पञ्चसहस्राणि रुप्यकाणि व्ययित्वापि तद्यन्त्रं प्रयोक्तुन्न शक्नुमः। अद्य नूतननियन्त्रकमागच्छेत्। तदारोप्य प्रायः नूतनयन्त्रं चालयितुं शक्येत।

शुक्रवार, 28 मई 2021

नूतनसङ्गणकम्

कार्यालयान्नूतनसङ्गणकं प्राप्तम्। पूर्वतनसङ्गणकं पञ्चवर्षीयमासीत्। तस्य पालने क्लेशो वर्धमान आसीत्। अतो नूतनसङ्गणकमयाचे। तल्लब्ध्वा मोदे।

जानुवेदनया पीड्ये

बहुभ्यो वर्षेभ्यो मया ज्ञातमासीन्मम दक्षिणस्थे जानुनि सर्वं सम्यङ्नास्ति। कदाचित्कदाचित्पीडानुभूयते तस्मिन्। गतेषु मासेषु पीडा वर्धमाना जाता। पूर्वमहं द्विचक्रिकाचलन्यन्त्रे व्यायामङ्करोमि स्म। परन्तु ते जानुनोर्निपीडयतः। अस्मात्तयोः प्रयोगस्त्यक्तः। अद्य प्रातःकाले किमप्यकुर्वत्यपि जानुवेदना बाधते। आगामिषु मासेषु जानु चिकित्सकं दर्शयानि।

पुत्रस्य ग्रीष्मावकाश आरभते

अद्य पुत्रस्य ग्रीष्मावकाश आरभते। स हर्षितः। ह्यस्तस्य विद्यालयङ्गत्वाध्यापिकायाः कानिचन वस्तून्यगृह्णीवहि। वर्षे प्रथमवारं स तस्याध्यापिकामभिमुखमपश्यत्। अन्यथा तु सर्वदा सङ्गणकेनैव सा दृष्टासीत्।

मंगलवार, 25 मई 2021

संस्कृतवर्गोऽवसितः

वसन्तर्तुसंस्कृतवर्गोऽवसितः। सामान्यतो ग्रीष्मकाले वर्गो न भवति। परन्तु छात्रा निवेदनमकुर्वत कृदन्तरूपाणि विषये वर्गः पाठ्यताम्। भवतु नाम। मम रुचिः सम्भाषणे पाठने च सर्वदा वर्तते। वर्गङ्करिष्यामि।

मल्लयुद्धाय गन्तास्वः

मल्लयुद्धं पुत्राय रोचतेतमाम्। वर्षं यावत्करोनावशात्सर्वं पिहितमासीत्। सम्प्रति मल्लयोद्धारो नगरन्नगरङ्गत्वा युद्धानि प्रदर्शयन्ति। तेऽस्माकन्नगरे तु न परन्तु निकषागमिष्यन्ति। चिटिके क्रीत्वा पुत्रं नेतास्मीति चिन्तयामि। चिटिकाः श्वः प्रातःकाले लब्धुं शक्यन्ते। क्रेताहे।

रविवार, 23 मई 2021

हेम्स्टरः क्रीतः

ह्यः पुत्रस्य जन्मदिवस आसीत्। तस्मै हेम्स्टर इति मूषकविशेषा रोचतेतमाम्। तस्मै हेम्स्टरः क्रापितः। केवलं पुत्रो नावामपि हर्षितौ। कुटुम्बे नूतनसदस्य आगतः। अस्माकं दायित्वमस्ति तस्य लघुजीवनं हर्षेण परिपूर्णं भवेत्। तदर्थं स जन्तुः किङ्करोति, किङ्खादतीति पठामि। स सुखीजीवनं लप्सीष्ट।

शनिवार, 22 मई 2021

वातानुकूलयन्त्रं स्थापितम्

वातानुकूलयन्त्रं स्थापितम्। अद्यत्वे बहुघर्मो नास्ति। आगामिषु दिनेषु समधिकघर्मो भविष्यति। द्रक्ष्यामि यन्त्रङ्कियच्छैत्यं दास्यति।

शुक्रवार, 21 मई 2021

वातानुकूलयन्त्रं स्थाप्यते

अद्य वातानुकूलयन्त्रं स्थाप्यते। बहुभ्यो वर्षेभ्य उपरिस्तरस्य वातानुकूलयन्त्रं सम्यक्तया न कार्यङ्करोति। उपरिस्तरं वयङ्केवलं व्यायामायोपयुञ्ज्महे। ग्रीष्मकालयुपरिभागे महदातपो वर्तते। अतो नूतनयन्त्रं स्थाप्यतेऽस्माभिर्येनातापे व्यायामन्न करणीयम्।

गुरुवार, 20 मई 2021

भार्या क्षुब्धा

पुत्रजन्मदिवसे भार्या तस्या मातृपितरावकुणयत्। तौ कमपि व्याजङ्कृत्वा नागन्तारौ। अमुना सा क्षुब्धा। अहं तया सहानुभवामि। लघुकुटुम्बोऽस्माकम्। यदि वयं परस्परन्न मिलेम तर्हि जीवने सन्तोषो हीयते। अन्यच्च तयोर्व्याजो व्याज एव। न किमपि विशेषकारणम्। यदि तावगच्छेतां तर्हि पुत्रस्यापि हर्षाय। तस्य सन्तोषविषये तु चिन्तनीयं ताभ्यां ननु?

भार्याया अवकाशः

शनिवासरे पुत्रस्य जन्मदिवसः। गुरुशुक्रवासरयोर्भार्या कार्यालयाद्वकाशङ्गृह्णीते। सा गृहे स्थित्वा जन्मदिवसाय पक्वानि पक्ष्यति।

बुधवार, 19 मई 2021

अर्धदिनावकाशः

ह्योऽर्धदिनावकाशमगृह्णि। गतसप्ताहे समधिककार्यमासीत्। तदवसितम्। तस्मात्।

मंगलवार, 18 मई 2021

नूतनप्रबन्धक आगन्ता

सप्तजूनदिनाङ्के नूतनप्रबन्धक आगन्ता। अस्माकं संस्थायां स नूतनकार्यकर्ता। तन्मयि चिन्ताञ्जनयति। यतः स नूतनोऽतः स गृहात्कार्यङ्करणाय उत्सुको न भवेदिति चिन्तयामि। नूतनकार्यकर्तृभिस्तेषाङ्कौशलं प्रमाणीयम्। दलसदस्याः कथङ्कार्यङ्कुर्वन्तीति नूतनप्रबधन्केन निरीक्षणीयम्। तस्मै स सर्वान्दलसदस्यान्कार्यालयमाह्वातेति मम मतिः। गृहात्कार्यं मह्यं रोचते। समयस्य सदुपयोगः शक्यते।

सोमवार, 17 मई 2021

मातापितरौ चिन्ताग्रस्तौ तिष्ठतः

मातुः करोनास्थितिः स्थिरा जाता। इयमुत्तमां वार्तां ज्ञात्वापि मातापितरौ चिन्ताग्रस्तौ तिष्ठतः। तयोर्मानसिकप्रवृत्तिरेव चिन्तामामन्त्रयति। यङ्किमपि विषयमधीकृत्य तौ चिन्तयतः। विशेषतो मम पिता। यदा कदापि ताभ्यां सह सम्भाषे तौ वदतोऽहङ्कृषो भवन्नस्मि। पदोन्नतेर्विषये तौ पृच्छतः। किमर्थमेतावद्भ्यो वर्षेभ्यः परस्तात्पदोन्नतिर्न प्राप्यतयति तौ चिन्तां प्रकटयतः। निवृत्तेः परं तौ किमपि कार्यन्न कुरुतः। गृहे स्थित्वा केवलं दूरदर्शनं पश्यतः। एकाकितानुभवतः। किमपि नूतनकौशलं साधयितुन्नेच्छतः। पुस्तकन्न पठतः। कुत्रापि न गच्छतः। गच्छेताङ्कथम्? कारयानञ्चालयितुन्न शक्नुतः। आजीवनं मम पिता न केवलङ्कारयानं परन्तु द्विचक्रिकामपि चालयितुन्नाशक्नोत्। तौ मम मद्भ्रातुश्च विषये चिन्तामनुभवतः। अहं तावसूचयमावयोर्विषये चिन्ता न करणीया। स्वयमेव विषये चिन्ताङ्कुरुतम्। जगति प्रत्येकमानवेन स्वस्य जीवनसार्थका स्वयमेवान्वेषणीया साधनीया च। यो मानवः स्वयस्य सन्तोषोऽन्येष्वाधारीकुर्यात्स सन्तोषेण जीवनं यापयितुं न शक्नुयात्।

वृष्टिरपतत्

ह्यो वृष्टिरपतत्। बहुभ्यो घण्टाभ्यो वयं पृष्ठोद्यानयुपविश्यानन्दमन्वभवाम भोजनञ्चाकुर्महि।

रविवार, 16 मई 2021

पृष्ठोद्याने तृणबीजानि

पृष्ठोद्याने केषुचित्स्थानेषु तृणानि पूर्णतयापगतानि। तस्मान्न केवलं मृत्तिका दृश्यते परन्तु तस्या ह्रासोऽपि भवति। कतिपयदिनेभ्यः पूर्वं भार्या तेषु स्थानेषु तृणबीजान्यारोपितवती। इदानीं नूतनतृणान्युद्भवन्ति। तस्मात्सौन्दर्यं वर्धेत मृत्तिकाया ह्रासो विरमेदित्याशास्वहे।

मातृपितृभ्यां सह समभाषामहि

ह्यो मातृपितृभ्यां सह समभाषामहि। तौ स्वस्थौ। मोदावहो विषयोऽयम्। तयोर्देशे करोनायाः प्रचण्डपीडा वर्तते। तौ करोनौषधमलभतामित्यस्माच्चिन्ता किञ्चिन्न्यूना जाता।

बुधवार, 12 मई 2021

अन्तिमवर्गः

त्रयस्त्रिंशन्मई दिनाङ्केऽन्तिमसंस्कृतवर्गो भविता। ग्रीष्मकाले बहवो जनाः प्रवासेभ्यो गच्छन्त्यतो यद्यप्यहं पिपाठयिषामि तथापि जना नागच्छेयुरिति मत्यावकाशं ददामि। मह्यं तु संस्कृतं रोचतेतमाम्। वर्गे संस्कृतसम्भाषणायावसरः प्राप्यते। अतोऽहं सर्वदा संस्कृतं पिपाठयिषामि।

द्वितीयौषधमलभे

ह्यः करोनाया द्वितीयौषधमलभे। मया न ज्ञातमासीद्यद्वितीयौषधं लब्ध्वा ज्वरपीडानुभूयते। इदानीं त्वहं स्वस्थोऽस्मि। परन्तु बहवो जना द्वित्रिदेनभ्यो ज्वरपीडामनुभवन्ति। द्रक्ष्यामि यद्यहमप्यनुभवामि।

सोमवार, 10 मई 2021

पत्रिकामपठिषम्

अद्य प्रातःकाले बहिः शीतवायुरवाक्षीत्। पृष्ठोद्यानयुपविश्य काफीपेयं पिबन्पत्रिकामपठिषम्। पुत्रो गृहस्यान्तर्विद्यालयवर्गं पर्युपासिष्ट।

रविवार, 9 मई 2021

श्वोऽवकाशः

कार्यालयाच्छ्वोऽवकाशङ्गृह्णामि। नूतनप्रकल्प आरभे। तस्मिन्निदानीङ्कश्चन विलम्बः। गच्छता कालेन वेग आगच्छेत्। इदानीमवकाशावसरोऽस्ति चेद्ग्रहणीयः। कालान्तरं पुनर्लभ्यते वा न वक्तुं न शक्यते।

मातृदिवसे बहिस्तः प्रातराशः

मातृदिवसे प्रास्तमामुत्थाय प्रातराशमानैषम्। भार्यापुत्रावहर्षिष्टाम्। पुत्रो मात्रेऽभिनन्दनपत्रं रचयित्वादात्।

शनिवार, 8 मई 2021

मम पर्यवेक्षको गन्ता

आगामी सप्ताहो मम पर्यवेक्षकस्य मदीये दलेऽन्तिमसप्ताहो भविता। सोऽन्यस्मिन्दले गच्छति।

मातुः स्वास्थ्यं स्थिरम्

करोनापीडिताया मातुः स्वास्थ्यं स्थिरं वर्तते। आरोग्यङ्किञ्चित्समीचीनमभवत्। उत्तमा वार्तास्ति तस्या रोगो न वर्धते। स्थिरोऽस्ति। सा चिकित्सकेन दत्तमौषधं सेवते। अपि च सा प्रतिरोगौषधं ग्रहीतवती। तस्मादपि रोगो नियन्त्रणे वर्तते।

रविवार, 2 मई 2021

माता करोनाग्रस्ता

ह्यो वार्ता प्राप्ता मम माता करोनाग्रस्तेति। दुःखकरिणी वार्तेयम्। अत्रोपविश्य किङ्कर्तुं शक्नुयाम्? सावधानतया जीवनीयं धैर्यमाचरणीयमित्येव वक्तुं शक्नोमि। मातापितरौ करोनाविषाणोः प्रथमौषधमलभताम्। अतस्तस्याः स्वास्थ्यं शीघ्रं सम्यग्भवेदिति भावयाम्याशासे च। तौ विंशतिदिनेभ्यः परं द्वितीयमौषधं लब्धारौ। सा शीघ्रं स्वस्था भूयात्।

सम्पत्तिकरो वरीवर्धते

सम्पत्तिकरो वरीवर्धते। अस्माकं परिसरे गृहाणां मूल्यमूर्ध्वमूर्ध्वङ्गच्छति। सर्वकारेण गृहाणामापणमूल्यं दृष्ट्वा सम्पत्तिकरो निश्चीयते। अनेन प्रतिवर्षं करो वर्धते। बहवो जना अन्यान्प्रदेशानस्माकं प्रदेशयायान्ति। गृहाणि क्रीत्वा क्रीत्वा तैर्गृहमूल्या वर्धिताः। किङ्कर्तुं शक्यते। करस्तु दातव्य एव। न कोऽपि विकल्पः। केषुचिद्वर्षेषु प्रायो वयं करं दातुन्न शक्नुयुः। तदा कुत्राप्यन्द्नगन्तव्यम्।

जलसेचकयन्त्रं परिष्कृतम्

अद्य प्रातःकाले भार्या जलसेचकयन्त्रं पर्यकार्षीत्। यन्त्रे केचन सेचका उपरि नागच्छन्ति स्म। कार्यकर्तारमाहूय कारयितुं शक्नुवः परन्तु प्रथमतः स्वयमेव चेष्टायिति धिया सायतिष्ट। षट्सेचका नवीकृताः। अनेन जलं वीथ्यान्न क्षेप्स्यते। इतोऽपि बहवः सेचकाः परिवर्तनीयाः।