वाद्ययन्त्रम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
वाद्ययन्त्रम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

मंगलवार, 21 जून 2022

आशाभङ्गः

आ द्वाभ्यां सप्ताहाभ्याङ्गिटारयन्त्रवादनमुद्रणाय प्रयत्नङ्कुर्वन्नस्मि। तदर्थं यानि यन्त्राण्यवश्यकानि तानि क्रीतानि। मुद्रणकर्तुं शक्नोमि परन्तु ध्वनेर्गुणवत्ता हीनाः। सर्वं परीक्षितम्। अन्तर्जाले बहूँल्लेखानपठं परन्तु ध्वनिगुणवत्ता न वर्धते। तस्मादाशाभङ्गमनुभवामि। कोऽपि परिचितो भवेद्य एतस्य विषये जानीयात्तर्हि तं प्रष्टुं शक्नुयां परन्तु मम मित्रेषु कस्याप्यस्मिन्विषये ज्ञानं नास्ति।

बुधवार, 8 दिसंबर 2021

एकस्मिन्दिने द्वे गीते

चतुर्मासेभ्यः पूर्वं काञ्चन शिक्षिकाममुकगीतस्य पाठमनिवेदयम्। सामान्यतः सा तादृशाननुरोधान्न गृह्णाति। परन्तु सा गीतपाठमकरोत्। ममान्यगुरुरप्यस्ति यस्य पाठैरहं नवमासेभ्योऽभ्यासङ्कुर्वन्नस्मि। तमप्यहं भिन्नगीतस्य पाठमनिवेदयम्। दैवादुभाभ्यां शिक्षकाभ्यामेकस्मिन्दिनयेव तयोः पाठौ स्थापितौ। अनेन सम्प्रति मह्यं द्वयोर्गीतयोः पाठौ लभ्येते। आगामिषु दिनेषु ताभ्यामभ्यासङ्करिष्ये।

रविवार, 28 नवंबर 2021

नैरस्यमनुभवामि

आ मासात्प्रियतमङ्गीतं वादयितुं प्रयते। प्रतिदिनमभ्यासङ्करोमि। न्यूनातिन्यूनं शतवारं गुरुणा दत्तेन पाठेनाभ्यासमकरवम्। तथापि गीतं सम्यक्तया वादयितुं शक्नोमि। गीतं मम प्रियतमं परन्तु कतिवारं श्रोतुं शक्नुयाम्? प्रतिदिनं न्यूनातिन्यूनं त्रिवारं तु शृणोम्येव।

बुधवार, 24 नवंबर 2021

गीतं तुदति

आ मार्चमासादमुकसङ्गीतसमूहस्य गीतानि वादयामि। एतावत्पर्यन्तं तत्समूहस्य सप्तगीतानि वादयितुं शक्नोमि। मदीयेन गुरुणा मम प्रियतमस्य गीतस्य पाठा रचितः। सत्पगीतानीव तद्गीतमपि वादयितुं शक्नुयामित्यहमचिन्तयम्। आ त्रिभ्यः सप्ताहेभ्यस्तद्गीतस्याभ्यासं प्रतिदिनङ्करोमि। तथापि तद्गीतं सम्यक्तया वादयितुन्न शक्नोमि। बहुषु मासेषु गीतमिदं प्रथममस्ति यन्मां तुदति। गीतमिदं मह्यं भृशं रोचते। तद्वादनायाहमभिलषामि। यायत्ये।

शुक्रवार, 5 नवंबर 2021

गीतवादनाभ्यासः

नूतनगीतवादनाभ्यासः सम्यक्तया प्रचलति। घोरपरिश्रम आवश्यकः। एतस्मात्पूर्वमपि मदीयं प्रियगीतमेकमभ्यस्तम्। तत्कृतेऽपि प्रायस्त्रयः सप्ताहा आवश्यका आसन्। परन्तु तस्माद्गीतान्मम कौशलमवर्धत। एतस्माद्गीतादपि स वर्धेतेति मन्ये।

रविवार, 31 अक्टूबर 2021

तस्मै ददाम्यहम्

अन्तर्जाले कश्चन सज्जनोऽस्ति यो मह्यं गीतपाठान्निर्माति। पाठान्निर्मीय सोऽन्तर्जाले स्थापयति येनान्ये जना अपि तेभ्यः पाठेभ्यो लाभं प्राप्नुयुः। एतान्पाठान्स निश्शुल्कं रचयति। तस्य पाठेभ्यो मम वाद्ययन्त्रकौशलं वर्धते। मम प्रियतमानि गीतान्यपि वादयितुं शक्नोमि। एतस्मात्सज्जनाद्मया प्रभूतानन्तदो लब्धः। अतो निश्शुल्कं पाठान्स्वीकर्तुन्न शक्नोमि। आ षड्भ्यो मासेभ्यस्तस्मै प्रतिमासं किञ्चिद्धनं प्रेषयामि। परन्तु गते मासे स मह्यं द्वयोर्गीतयोः पाठौ निर्मितवान्। इमे गीते मह्यं रोचतेतमाम्। अतो द्वाभ्यां मासाभ्यामहं तस्मै द्विगुणितं धनं प्रेषयिष्यामि। यो जनो मह्यं प्रभूतानन्दं ददाति तस्मायहमपि किञ्चित्कर्तुं शक्नोमीति चिन्तयित्वा सन्तोषमनुभवामि।

रविवार, 17 अक्टूबर 2021

नूतनसङ्गणकङ्क्रेतव्यम्

मया नूतनसङ्गणकङ्क्रेतव्यम्। आ चतुर्भ्यो वर्षेभ्यो वाद्ययन्त्रं वादयामि। अन्तर्जालेऽन्यैरारोपितानि वादनचलच्चित्राणि पश्यामि। काले मयापि स्वस्य वादनचलच्चित्राण्यारोपनीयानीति भावयामि। तत्कृते यत्कौशलमावश्यकं तन्मयि सम्प्रति नास्ति। अन्यच्च वादनस्य ध्वनिमुद्रणङ्करणीयमित्यन्यत्कौशलम्। तदपि साधनीयम्। वादनध्वनिमुद्रणाय नूतनसङ्गणकङ्क्रेतव्यम्। प्रायो वर्षान्तात्पूर्वङ्क्रेतास्मि।

गुरुवार, 2 सितंबर 2021

प्यानोपाठाः पुनरारभन्ते

ह्यः पुत्रः प्यानोवादनस्याग्रिमं स्तरं प्राविशत्। स्तरोऽयं परिश्रममपेक्षते। गतवर्षे पुत्रेण प्यानवभ्यासः कृतः परन्तु यावानावश्यकस्तावानेव। एतया नीत्या किञ्चिद्वादयितुं शक्यते परन्तु प्रचुरकौशलं तु न लभ्यते। तस्मै न्यूनतां विहायाधिकतयाभ्यासः करणीयः। स कुर्यादुत न वक्तुन्न शक्यते।

सोमवार, 30 अगस्त 2021

द्वे गीते

प्रपरह्योऽन्दर्जाले द्वे गीते लब्धे। विशेषतस्तयोर्वादनशैली। आ विंशतिवर्षेभ्य इमे गीते मह्यं रोचेते। कस्मिंश्चिद्दिनेऽमू वादयिष्यामीति चिन्तयामि स्म। अद्यत्वे तयोरभ्यासङ्करोमि। मासप्राये ते वादयितुं शक्ष्यामीत्यूहेऽहम्।

रविवार, 1 अगस्त 2021

पुत्रेण गीतङ्कारितम्

गीतवादनाभ्यासङ्करोमि। पुत्राय गीतमेकं रोचततेतमाम्। मह्यमाधिक्येन न रोचते स्म। पुत्रः पुनः पुनस्तद्गीतं श्रावयति स्म। गच्छता कालेन तद्गीतं मह्यमप्यरोचत। बहुभ्यो दिनेभ्यस्तद्गीतस्याभ्यासङ्कुर्वन्नस्मि। ह्यो गीतं पूर्णतया वादितम्। इदानीमदो गीतं श्रुत्वा वादयित्वा चाहं रमे। पुत्रवशादेव।

शनिवार, 31 जुलाई 2021

सप्ततन्त्रीं वादयामि

आ सप्ताहात्सप्ततन्त्रीं वादयामि। रमे। सप्ततन्न्रीं वादयित्वा षट्तन्त्री सरलं भासते।

शुक्रवार, 23 जुलाई 2021

सप्ततन्त्र्यागमिष्यति

अद्य सप्ततन्त्र्यागमिष्यति। यानि गीतान्यहं षट्तन्त्रिणि वादयितुन्न शक्नोमि तानि वादयितुं शक्ष्यामि। पुत्रोऽप्युत्सहते।

शनिवार, 26 जून 2021

गिटारापणमगच्छाव

सप्ततन्त्रिगिटारयन्त्रञ्चिक्रीषामीति पूर्वमसूचयम्। ह्योऽहं पुत्रश्च गिटारापणमगच्छाव। बहुषु गिटारयन्त्रेषु केवलमेकमेव सप्ततन्त्रियन्त्रमासीत्। अन्तर्जालापणेषु बहवो विकल्पा लभ्यन्ते। अन्तर्जालादेव क्रेष्यामि।

रविवार, 20 जून 2021

गिटारयन्त्रापणङ्गन्तव्यम्

एतावत्पर्यन्तमहं षट्तन्त्रीयुक्तगिटारयन्त्रं वादयन्नासम्। परन्तु येषु गीतेषु मम रुचिरस्ति तेषु बहूनि गीतानि सप्ततन्त्रीगिटारयन्त्रे वाद्यन्ते। मयापि सप्ततन्त्रीयन्त्रङ्क्रेतव्यमिति चिन्तयामि। तस्मै गिटारयन्त्रापणङ्गन्तव्यम्।

शनिवार, 3 अप्रैल 2021

गिटारयन्त्रं पुनः परिष्करणीयम्

अस्मिन्सप्ताहान्ते गिटारयन्त्रं पुनः परिष्क्रियताम्। यत्पूर्वं परिष्कृतमासीत्तदिदानीमपि सम्यगस्ति परन्तु केभ्यश्चिद्दिनेभ्यो यन्त्रादतिरिक्तध्वनिरागच्छति। तं परिष्करणाय प्रयतिष्ये।

मंगलवार, 30 मार्च 2021

गिटारयन्त्रं सम्यकरवम्

आ बहुभ्यो दिनेभ्यो गिटारयन्त्रं समीचिकीर्षामि। तस्य तन्त्र्यः समीकर्तव्या आसन्। गिटारयन्त्रापणे यन्त्रन्नीत्वा धनं दत्त्वा कार्यतामित्यचिन्तयम्। परन्तु स्वयमेव कार्यविधिर्ज्ञायते चेद्भविष्यत्काले स्वयमेव कर्तुं शक्येत धनं व्ययेन विना। अतोऽन्तर्जालात्कानिचन चलचित्राणि दृष्ट्वा स्वयमेवाकुर्वि। इदानीङ्गिटारयन्त्रं पूर्वापेक्षया वरं वाद्यते। अपि च भविष्यत्काले स्वयमेव कर्तुं शक्नुयाम्।

शनिवार, 13 मार्च 2021

किञ्चित्किञ्चित्साफल्यं प्राप्यते चेत्...

ह्यस्त्रिघण्टा यावद्वाद्ययन्त्राभ्यासमकुर्वि। अङ्गुलीषु वेदनाजायत परन्तु तथाप्यकुर्वि। यद्गीतं वादयन्नासं तस्मिन्नियततया साफल्यं लब्धम्। अतो न व्यरिरंसे।

रविवार, 7 मार्च 2021

त्रयोदशवर्षाणामनन्तरम्

त्रिभ्यो वर्षेभ्यः पूर्वं यदाहङ्गिटारवादनमारभे तदा बहुषु गीतेषु अमुकङ्गीतमेकमवादयम्। तस्य पाठो यू-ट्यूब्जालस्थाने प्राप्त आसीत्। तं पाठं कश्चन शिक्षको दशवर्षेभ्यः पूर्वमारोपयञ्चकार। पाठे प्रायः सर्वं सम्यगासीत्परन्तु द्वयोर्भागयोर्मम संशय आसीत्तौ सम्यङ्नास्तामिति। परन्तु कोऽप्यन्यो विकल्प नासीत्तस्मिन्काले। त्रिभ्यः सप्ताहेभ्यः पूर्वं तेन शिकक्षेणैव तस्य गीतस्यैव नूतनपाठ आरोपितः। शिक्षकेण तौ भागौ परिष्कृतौ। तद्दष्ट्वा मम संशयो यथार्थमासीदित्यजानि। इदानीं तौ भागौ सम्यक्तया वादयितुं शक्नोमि।

शनिवार, 21 नवंबर 2020

सरलेभ्यो गीतेभ्यः प्रयत्नः करणीयः

गिटारयन्त्राभ्यासं प्रतिदिनङ्करोमि। आ मासात्कठिनगीतमेकं वादनायाभ्यासङ्कुर्वन्नस्मि। मन्दप्रगतिः। तस्मादवसादो जायते। गतयोर्दिनयोः सरलमगीतमेकमवादयम्। तस्माद्धर्षितोऽभवम्। प्रोत्साहनमपि लब्धम्। तर्हि बहुकठिनगीतेभ्यः प्रयत्नो न करणीयः। अन्यथा यन्त्रवादनमेव त्यजेयम्।

गुरुवार, 10 सितंबर 2020

यू-ट्यूब्जालस्थाने पाठाः

वाद्ययन्त्राभ्यासं प्रतिदिनङ्करोमि। यू-ट्यूब्जालस्थाने बहवः पाठाः सन्ति। ह्य एकं पाठमपठम्। पाठयितारेण कीदृशः परिश्रमः कृतः पाठरचनायायिति दृष्ट्वा पाठोऽयं मयि विस्मयमजनयत्। द्वाविंशतिनिमेषमितः पाठस्तेन सप्ततिघण्टा यापयित्वा रचितः। परिणामः पाठे दृष्टुं शक्यते। अत्युत्तमपाठः। ईदृशः परिश्रमो यः करोति पाठश्च निश्शुल्कं पाठयति स तस्य फलं प्राप्तुमर्हः। अस्मिन्सप्ताहान्ते तस्मै धनदानङ्कर्तास्मि। गुरवे नमामि।