मंगलवार, 31 दिसंबर 2019

कार्यालयेऽस्मि कार्यन्नास्ति

इदानीङ्कार्यालयेऽस्मि। न्यूना जना एव सन्ति। यत्कार्यमासीत्तत्कृतम्। शीघ्रङ्गृहङ्गमिष्यामि। प्रबन्धकस्तु पूर्वमेव गतवान्।

"द रिङ्ग्"

दिनद्वयात्पूर्वं “द रिङ्ग्” नाम्ना चलचित्रमपश्यम्। प्रायो दशवर्षेभ्यः पूर्वञ्चलचित्रमन्दिरे चलचित्रमिदं मया दृष्टमासीत्। तदानीं मित्राणि चलचित्रं दर्शनाय गच्छन्त्यासन्। तानि मामपृच्छन् यद्यहं दिदृक्षुरिति। अस्य चलचित्रस्य विषयेऽहङ्किमपि न जानामि स्म। अविचिन्त्य सम्मतिमददाम्। पश्यति ज्ञातं यदिदञ्चलचित्रं भयङ्करम्। तन्मां भायितवत्। गतसप्ताहे ‘एमेज़ोन्-प्रैम्’ वाहिन्याञ्चलचित्रस्य चिह्नचित्रं दृष्ट्वा मनसि पुनर्दर्शनायेच्छा जागृता। परन्तु भयवशाद्दर्शनसाहसः न कृतः। अपि च पुत्रो यदि भयङ्कराणि चलचित्राणि पश्येत्तर्हि न समीचीनम्। स बालकः। बाल्यकालेऽनुभूता भयङ्कर्यः स्मृतय आजीवनं तिष्ठेयुः। यतः स गतः, अतश्चलचित्रदर्शनस्योत्तमावसरः। रविवासरेऽपश्यम्। भयन्नानुभूतम्। स्यान्नाम लघुफलके दृष्टमनेन कारणेन। अपि च सम्प्रति वयोऽप्यधिकतरम्। सोऽपि कारणं भवितुमर्हेत्। उत्तमचलचित्रमदः। न दृष्टञ्चेत्, द्रष्टव्यम्।

सोमवार, 30 दिसंबर 2019

“इट् इज़् द मोस्ट् वन्डर्फ़ुल् टैम् ओफ़ द यर्”

यतोऽस्मिन्नवसरे क्रिस्तमसनूतनवर्षदिवसौ बुधवासरे स्तः, अतः कार्यालयेऽधिकजना न सन्ति। बहवैर्जनैर्विरामः स्वीकृतः। कार्यमपि मन्दगत्या प्रचलति। प्रातःकाले विलम्बेन गच्छामि, साँयकाले शीघ्रमागच्छामि। अनेनाधिकसमयो वर्तते। मार्गेषु वाहनसम्मर्दोऽपि नास्ति। आङ्ग्लभाषायामाभाणकोऽस्ति - “इट् इज़् द मोस्ट् वन्डर्फ़ुल् टैम् ओफ़ द यर्”। सत्यमेव। मह्यमापि कालोऽयं रोरुच्यते। न्यूनङ्कार्यम्, स्वादिष्टानि भोजनानि, कुटुम्बेन सहाधिकः समयः, शीतकालेऽग्नेः प्रत्यक्षमुपविश्य ऊष्णपेयानां पानं मां मोदयन्ति।

गुरुवार, 26 दिसंबर 2019

क्रिस्तमसपर्व आचरितः

ह्यो मम श्वशुरः श्वश्रू चागच्छताम्। पुत्रायोपायनान्यप्यानयताम्। आहत्य पुत्रेण बहून्युपायनानि प्राप्तानि। मया तु गणनैव विस्मृता। स भाग्यशाली। जगति बहवो बालकाः सन्ति येषां मातापितरौ ताँस्ताडयतः, केषाञ्चिद्बालकानां तु मातापितरावेव न स्तः। कतिपयवर्षेभ्यः समाजसेवा करणीयेति भावना मयि जागर्ति।

बुधवार, 25 दिसंबर 2019

सेन्टा-क्लाज़्

सर्वेभ्यः क्रिस्तमसपर्वस्य शुभाशयाः। बालकेभ्यः सेन्टा-क्लाज़्-महाशया रोरुच्यते। बालका मन्यन्ते सेन्टा-क्लाज़्-महाशयो वास्तविको जन इति। एतन्मह्यन्न रोचते। किमर्थं बालकानसत्यं वदाम? बालका दूरदर्शनेऽनुप्राणितजीवानपि पश्यन्ति। ते जानन्त्यिमे जीवा न वास्तविकाः। तर्हि सेन्टा-क्लाज़्-महाशयः केन कारणेन जवनिकायाः पृष्ठतो निलीनः? बहुवर्षान् यावद्बालकानसत्यमश्रावयित्वा, अनन्तरङ्कथं तान् ज्ञापयेम यदेतावत्पर्यन्तं वयमसत्यं वदन्त आस्म? ते किमनुभवेयुः? मम मातापितरौ सर्वलोकश्चैतेभ्यो वर्षेभ्यो मामसत्यं वदन्त आसन्? भार्यया सह विमृश्य प्रायोऽस्मिन् वर्षे तं सत्यं ज्ञापयेव।

मंगलवार, 24 दिसंबर 2019

श्वः पुत्रो गन्ता

श्व आरभ्य सप्ताहं यावत् पुत्रस्तस्य मातामह्या गृहङ्गन्ता। इतः पूर्वं स कदाप्येतावते कालाय न गतः। परन्तु स उत्साहितः। तत्र स यत्किमपि खादितुमच्छति तद्दीयते। बहूनि शर्करयुक्तानि खाद्यान्यपि प्राप्नोति। अतः स मुदितः।

रविवार, 22 दिसंबर 2019

पादकन्दुकमद्राक्ष्व

अद्याहं मम पुत्रञ्च दूरदर्शने पादकन्दुकस्पर्धामद्राक्ष्व। स्पर्धासु मम रुचिर्नास्ति। परन्तु सम्प्रति स्पर्धानां समाजसंस्कृत्यां बहुमहत्वमस्ति। बहवो जनाः स्पर्धाविषयेषु चर्चाः कुर्वन्ति, मिलित्वा स्पर्धाः पश्यत्सु खादन्ति हसन्ति च। यदि पुत्रस्य पादकन्दुकस्पर्धायां रुचिर्वर्धेत तर्हि वरम्। अहमिदं प्राधान्येन भावयामि। स्मराम्यहं स्पर्धास्वरुचिवशात् कतिवारञ्जनानां मुखानि पश्यन् स्थितवानहं बहुषु जनसम्मेलनेषु। यदा स प्रौढ भवेदिदं तेन सह न भवेदित्यतस्तेन सहोपविश्य क्रीडामद्राक्षमहम्। क्रीडानियमाँस्तमबूबुधं येन तस्य रुचिर्वर्धेत।

ऊर्जांशस्य लाभाः

पूर्वं मया भणितं यद्भोजनयूर्जांशो न्यूनतया भक्षणीयः। गतमासेऽहमाधिक्येन व्यायामङ्करोमि। भारमपि वहामि। तद्वशाद्भोजनयाधिक्येनोर्जांशः खादनीयः, अन्यथा शरीरे दौर्बल्यमनुभवामि। अनेन कारणेन मयोर्जांश आधिक्येन भक्षणमारब्धम्। अस्यान्ये लाभापि सन्तीत्यनुभवामि। गतमासयाधिक्येनोर्जांशं भक्षणादेते लाभा मया अनुभूताः -

१. मम भोजनपाचनं समीचीनतरम्
२. निद्रापि समीचीनतरा
३. व्यायामेऽधिकभारं वोढुं शक्नोमि
४. सामान्यतोऽहं बहुशैत्यमनुभवामि। सम्प्रति तस्मिन्नपि किञ्चित्समीचीनतरो भेदो दृश्यते। रात्रौ पूर्ववच्छैत्यन्नानुभवामि।

जीवने यन्मया पूर्वं मतम्, नूतनसूचनां प्राप्य्य, आवश्यकतानुसारम्, तस्मिन् परिवर्तनङ्करणीयमिति ममैको सिद्धान्तः। स एव सिद्धान्तोऽत्र कार्यरतः।

बहिरगच्छाव

ह्यो भार्या तस्याः सखीभिः सह भोजनाय बहिरगच्छत्। आवाभ्यामपि भोजनाय बहिर्गन्तव्यमिति पुत्रेण हठः प्रकटितः। अतोऽहं तं तस्य प्रियतमं भोजनालयमगमयम्। स तस्य प्रियततमंं भोजनं भुक्त्वामोदत।

शनिवार, 21 दिसंबर 2019

जन्मदिवसोत्सवः

ह्यो मम जन्मदिवसोत्सव आसीत्। भार्या पिष्टकमपचत्। स्वादु भोजनञ्जग्ध्वा वयमोदामहि। केवलं वयं त्रयमेवास्म।

सोमवार, 16 दिसंबर 2019

विलम्बेन गमनम्

गतदिनेषु बहुवारं प्रातःकाले विलम्बेन कार्यालयमगच्छम्। विलम्बेन गमने लाभा हानयश्च। सूर्यः प्रत्यक्षं नास्त्येतेन यानचालनं सुकरम्। स तु महत्तमो लाभः। प्रातःकाले त्वरया सर्वन्न करणीयमित्यन्यो लाभः। हानयोऽपि सन्ति। बहूनि कार्याणि द्विवारङ्करणीयानि। वस्त्रपरिवर्तनम्, यानचालनम्। यदि व्यायामङ्कुर्यां तर्हि प्रातराशमपि द्विवारं भक्षणीयम् (व्यायामात्पूर्वं परञ्च)। अपि च व्यायामङ्कृत्वा स्वेदः स्रवेत्। तं निवारणाय स्नानङ्करणीयम्। तत्र क्लेशोऽयम् - अहं सामान्यतः कार्यालये बहुवारं सोपानमारोहामि। भोजनात्परं न्यूनातिन्यूनं मैलमितं भ्रमामि। अतः स्वेदः पुनर्जायते। यदि प्रातःकाले स्नानङ्कुर्याम्, तर्हि साँयकाले पुनः स्नानङ्करणीयम्। तेन जलमाधिक्येनोपयुज्यते। इदं मह्यन्न रोचते यतः साम्प्रतिककाले जलं मूल्यवत्। यदि पुत्रं विद्यालयं प्रापय्य गृहमागच्छेम्, किञ्चित्कालानन्तरं पुनर्गच्छेम्, तर्हि यानतैलमप्याधिक्येनोपयुज्येत। तदपि मह्यं न रोचते। प्रत्यागत्य पुनरगमने समयोऽप्याधिक्येनावश्यकः। अपि च प्रातःकालस्यापेक्षया साँयकाले वाहनसम्मर्दोऽधिकतरः। अतो गृहङ्गमनेऽधिकसमयोऽपेक्षितः साँयकाले। प्रातःकाले पुत्रेण सहैव कार्यालयङ्गन्तव्यमिति वरम्। परन्तु यदि सूर्यः प्रत्यक्षं देदीप्येत तर्हि विलम्बेन गच्छानि यतो वाहनघट्टनं तु सर्वथा निवारणीयम्। उदाहरणतोऽद्य कूहा प्रसृता, अनेन भानुर्न दृश्यते। अद्य पुत्रेण सहैव प्रस्थानमकार्षम्।

रविवार, 15 दिसंबर 2019

विद्यालयविरामः

आगामिनः शुक्रवासरादारभ्य विद्यालयस्य नवविंशतिदिनानां विरामो भविता। कानिचन दिनानि यावदहङ्गृहात्कार्यङ्कर्तास्मि। केभ्यश्चिद्दिनेभ्यः स तस्य मातामह्या गृहङ्गन्ता। अन्येषु दिनेषु तस्य माता तेन सह गृहे स्थाता।

विवाहदिवसः

गतदिनेषु मातापित्रोर्विवाहदिवस आसीत्। पितुर्जन्मदिवसोऽप्यासीत्। दूरवाण्याहूय शुभाशयानददाम्। तौ मुदितावभूताम्।

सत्रं समाप्तम्

अद्य सत्रं समाप्तम्। अहं त्वागमिनि सप्ताहे वर्गमिच्छामि परन्तु नवविंशतिदिनाङ्कादारभ्य विद्यालयावकाश आरब्धा। अतो जना नागन्तार इति जानाम्यहम्। जनवरीमासस्य द्वितीयसप्ताहे वर्गः पुनरारब्धा। ये जना अस्मिन् सत्रयासंस्ते पुनरागच्छेयुरित्याशासे।

सोमवार, 9 दिसंबर 2019

भारङ्गुरे

सप्ताहे न्यूनातिन्यूनं त्रिषु दिनेषु भारङ्गुरे। कस्मिंश्चिद्दिने भारस्य गुरुत्वमधिकायते कस्मिंश्चिद्दिने न्यूनायते। भारस्तु एक एव। अद्य भारमुन्नयने क्लेशोऽनुभूतः। यदि भार उह्येत तर्हि पर्याप्तमात्रायां भोजनं भक्षणीयम्। नोचेद्भारवहनं दुष्करम्।

रविवार, 8 दिसंबर 2019

द्योवीक्षणयन्त्रम्

आ केभ्यश्चिद्मासेभ्यः पुत्रो द्योवीक्षणयन्त्रञ्चिक्रीषति। स्मरामि बाल्यकाले ममापि तादृशीच्छासीत् परन्तु कदापि यन्त्रन्न प्राप्तम्। स नक्षत्राणि दिदृक्षति। तस्य जिज्ञासा वर्धेतेति हेतोः क्रिस्तमसोपायनरूपेण तस्मै द्योवीक्षणयन्त्रं दातास्वः। अद्यत्वे प्रकाशप्रदूषणवशान्नक्षत्राणि दर्शने क्लेशोऽनुभूयते। रात्रौ कुत्राप्यन्धकारमयं स्थानङ्गत्वा नक्षत्राणि द्रष्टव्यानि। एतस्मै शीतकाले रात्रौ गृहाद्बहिर्गन्तव्यम्। तन्मह्यं न रोचते। तथापि तस्य तीव्रेच्छासीदित्यत एनमुपायनं दद्वः। स निश्चयेन मोदिष्यते परन्तु कतिवारं यन्त्रेण द्रक्ष्यतीति द्रष्टव्यम्।

शनिवार, 7 दिसंबर 2019

पुत्रो न सुषुप्सति

बालकेभ्यो मध्याह्नतनी निद्रावश्यकी। सप्ताहस्य कार्यदिनेषु तु बालकाश्शेतुन्न शक्नुवन्ति यतस्तैर्विद्यालयङ्गन्तव्यम्। परन्तु सप्ताहान्ते समयोऽस्ति। यदि ते मध्याह्ने स्वप्युस्तर्हि वरम्। परन्तु मम पुत्रः कदापि मध्याह्ने न सुषुप्सति। अद्याहं तस्य माता च सुषुप्सू, प्रायतिष्वह्यपि परन्तु पुत्रः क्रीडनकैः क्रीडन्नासीत्। तस्मात् रव जायमान आसीत्। अतः स्वपितुन्नाशकाव।

नदीतीरे

प्रातःकाले नगरकेन्द्रे स्थितां नदीमगमाम। भार्यैषीत् कुत्रापि बहिर्गन्तव्यम्। अद्यतनो वातावरण उत्तमः। विशद्दिनम्। भानुर्देदीप्यते, तापमानः सम्यक्, अतो नदीमगमाम। नदीतीरे सुन्दरमार्गः। तस्मिन्नचालिष्म। पुत्रः कच्छपकादम्बरीर्दृष्ट्वामोदिष्ट। नद्याः समीपे भोजनङ्कृत्वा गृहमागमाम।

मंगलवार, 3 दिसंबर 2019

भानुरन्धयति

प्रतिदिनं प्रातःकाले सप्तवादने पुत्रं विद्यालयं नयामि। तं विद्यालयं प्रापय्य कार्यालयङ्गच्छामि। कार्यालयः पूर्वदिशि वर्तते। अतो यानचालनसमये भानुः प्रत्यक्षं चाकाश्यते। अनेन मार्गमन्यानि वाहनानि च दर्शने बहुकष्टोऽनुभूयते। अतिजागरुकतया यानञ्चालयितव्यमन्यथा वाहनघट्टनं सम्भवेत्। तमपायं निवारणाय विलम्बेन गन्तव्यमिति चिन्तयामि। पुत्रं विद्यालयं प्रापय्य पुनर्गृहमागत्य, व्यायामस्नाने कृत्वा प्रायो नववादने गन्तव्यम्। तत्समये सूर्यः प्रत्यक्षन्न भवेत्, आकाशे किञ्चिदुपरि भवेत्। परन्तु यदि विलम्बेन गच्छेयं तर्हि कार्यालयाच्चतुर्वादने गन्तुन्न शक्नुयाम्। प्रायः सार्धपञ्चवादने गच्छानि। परन्तु तत्काले महान् वाहनसम्मर्दो भवेत्। तेन मार्गे समयो व्यर्थो भवेत्। श्वः कृत्वा द्रष्टास्मि। यदि रोचते तर्हि प्रतिदिनं करिष्यामि।

रविवार, 1 दिसंबर 2019

सी-एफ़्-एल् उत एल्-ई-डी

गतकेभ्यश्चिद्वर्षेभ्यः सी-एफ़्-एल् विद्युद्दीपाः प्रयुज्यन्ते। ते मह्यङ्कदापि नारोचन्त। शीतकाले ज्वालनसमये तेषां प्रकाशः स्वल्पः। प्रायो निमेषद्वयात्परं तेषां प्रकाशः देदीप्यते। तेषां विग्रहोऽपि वक्रः। ते चिरस्थायिनोऽपि कदापि न बभूवुः। पुरातनदीपा बहुभ्यो वर्षेभ्यो जाज्वल्यन्ते स्म। एते वर्षं यावन्न ज्वलन्ति। ते कथं प्रसिद्धा बभूवुरहन्न जाने। इदानीम् एल्-ई-डी विद्युद्दीपाः क्रेतुं शक्यन्ते। ते मह्यं रोचन्ते। तेषां विग्रहः पुरातनविद्युद्दीपा इव वक्रो नास्ति, प्रकाशोऽपि सम्यक्। एतस्मादद्यत्वे गृहे सी-एफ़्-एल् अपसार्य एल्-ई-डी विद्युद्दीपान् स्थापयामि। रसवत्यामेको लघुप्रकोष्ठोऽस्ति यस्मिन् पाचनसामग्री वर्तते। तस्मिन् प्रकोष्ठे दिने बहुवारं प्रायः केवलं निमेषं यावत्कार्यमस्ति। यावत् सी-एफ़्-एल् विद्युद्दीपश्चकास्ति तावत् कार्यमेव पर्यवस्यति। एल्-ई-डी स्थापयित्वा सा समस्या परिहृता।

शनिवार, 30 नवंबर 2019

क्रिस्तमसग्रामं सज्जीकृतम्

क्रिस्तमसपर्व आगमिष्यन्नस्ति। प्रतिवर्षङ्गृहे क्रिस्तमसवृक्षङ्ग्रामञ्च सज्जीकुर्मः। अद्य प्रातःकाले पुत्रस्तस्य माता च गृहे क्रिस्तमसवृक्षमस्थाताम्। लघुक्रीडनकानि पाञ्चालिकाः कार्पासञ्चोपयुज्य लघुक्रिस्तमसग्राममपि सज्ज्यकृषाताम्। ग्रामो भोजनप्रकोष्ठे सज्जीकृतः। ग्रामे बहवो विद्युद्दीपा अपि प्रज्वलन्ति। सुन्दरं दृश्यम्।

'टर्मिनेटर्-डार्क्-फ़ेट्'

आजीवनं ‘टर्मिनेटर्-२’ मम प्रियतमञ्चलचित्रमतिष्ठत्। इदानीमपि तिष्ठति। तस्मिन् न किमपि परिवर्तनम्। सामान्यतश्चलचित्रेषु मम विशेषरुचिर्नास्ति। चलचित्रमन्दिरङ्गत्वामुकचलचित्रं द्रष्टव्यमिति विरलतया चिन्तयामि। परन्तु ‘टर्मिनेटर्’ तादृशानि चलचित्राणि यानि मया द्रष्टव्यान्येव। अतो यदा ‘टर्मिनेटर्’ आवल्यां नूतनशृङ्खलागता तदा मया द्रष्टव्येत्यचिन्तयम्। गतसप्ताहान्ते ‘टर्मिनेटर्-डार्क्-फ़ेट्’ चलचित्रमपश्यम्। चलचित्रं समीचीनमासीत्। कदापि नैरस्यन्नान्वभवम्। चलचित्रस्य कथायाङ्किमपि नूतन्नासीदित्याशाभङ्गो जातः। पुरातनानि कथा एव पुनर्दर्शिता। ‘टर्मिनेटर्-साल्वेशन्’ चलचित्रं मह्यं रोचते यतस्तस्य कथान्येषां ‘टर्मिनेटर्’ चलचित्राणामपेक्षया भिन्ना। अपि च ‘डार्क्-फ़ेट्’ चलचित्रे, द्वासप्ततिवर्षीय आर्नोलड्महाशयः, द्वाषष्टिवर्षीया लिन्डाहैमिल्टन्महोदयाभिनयतः। तौ दृष्ट्वा मोदे परन्तु तौ वृद्धौ। यतस्तौ मह्यं रोचेतेतमां तथापि तयोः समयो गत इति मम मतिः। भुषुण्डीवहन्तौ वृद्धौ युयुत्सू मह्यं मनोरञ्जनन्न दद्याताम्। ‘टर्मिनेटर्’ आवल्या एतदन्तिमचलचित्रमिति मन्ये। आर्थिकदृष्ट्या चलचित्रमेतल्लाभो न लभ्येतेति भाति। गतसप्ताहे ‘डार्क्-फ़ेट्’ दृष्ट्वा मम मनसि प्रथमद्वितीयाभ्याम् ‘टर्मिनेटर्’ चलचित्राभ्यां प्रीतिः पुनर्जागृता। अत उभे चलचित्रे पुनर्दूरदर्शनेऽपश्यम्। अत्युत्तमे चलचित्रे ते। सम्प्रति प्रथमं ‘टर्मिनेटर्’ चलचित्रं मया रोरुच्यते।

शुक्रवार, 29 नवंबर 2019

प्रातराशायागमाव

प्रातःकालेऽहं पुत्रश्च प्रातराशाय बहिरगमाव। स सर्वदैकस्मिन् स्थाने चिखादिषति। अन्यत्र गन्तव्यमिति मयोक्तम्। स निर्मनस्क्तयाङ्ग्यकृत। यत्राहं तमनैषं तत्र सः बहुभ्यो वर्षेभ्यो न गतः। प्रायः पूर्वतनगृहात्तत्र गच्छावः स्म। अतः स तत्सथानं व्यस्मरत्। गत्वा तस्य स्मृतिः पुनरागता। सोऽमोदिष्ट।

गुरुवार, 28 नवंबर 2019

वाद्ययन्त्रशिक्षणमनुवर्तिष्ये

आगामिसप्ताहे वाद्ययन्त्रशिक्षणस्यान्तिमदिनमस्ति। गुरुणोक्तं शिक्षणमनुर्वतनीयं परन्त्वधिकधनं देयम्। वाद्ययन्त्रशिक्षाधिकधनमपेक्षते। अतोऽहमवदमहमिदानीं नानुर्वते। प्रायोऽग्रिमे वर्षेऽनुवर्ते। गुरुरवददधिकधनं नावश्यकम्। यत्पूर्वं दत्तं तदेव देहि। एतत्छ्रुत्वाहं मुदितः। शिक्षणमनुवर्तिष्ययिति मया निर्णीतम्। अतो द्वादशदिसम्बरदिनाङ्कादारभ्य पुनर्द्वादशवर्गा भवितारः। तदर्थं सप्तत्यधिकद्विशतं रुप्यकाणि दातास्मि गुरवे।

गृहे स्थातास्वः

श्वः पुत्रस्य विद्यालयस्यावकाशः। आवयोरवकाशस्तु नास्ति। भार्यया तु कार्यालयङ्गन्तवयमेव यतः सा गृहात्कार्यङ्कर्तुन्न शक्नोति। तस्याः कार्यमेतादृशं यत्करणाय कार्यालयङ्गन्तव्यम्। अहं भाग्यशाली। गृहात्कार्यङ्कर्तुं शक्नोमि। अतः श्वो गृहात्कार्यङ्कर्तास्मि। आवाङ्गृहे स्थातास्वः। प्रातःकाले पुत्रं प्रातराशाय बहिर्गमयिष्यामि। तदनन्तरङ्कार्यङ्कर्तास्मि। स्वल्पकार्यमेव वर्तते। आदिनङ्कार्यकरणस्यावश्यकता नास्ति। अतः श्वस्तनं दिनं सम्यग्भवितेति मन्ये।

श्वशुरावगमताम्

अद्य श्वशुरौ पुत्रेण सहागमताम्। मध्याह्नभोजनङ्कृत्वा प्रत्यगमताम्। सर्वे सम्भाषणमकार्षुः। पुत्रो गृहमागम्य हर्षितः। आवामपि। गतचतुर्भ्यो दिनेभ्यो गृहे शान्तिरासीत्। इदानीं पुनः रवः श्रोतुं शक्यते।

बुधवार, 27 नवंबर 2019

पञ्चतन्त्रम् (अध्यायः ९)

दमनकः पिङ्गलकं कथितवान्…

एकदा मन्दविसर्पिणी नाम्ना काचित् यूका आसीत्। सा राज्ञः शय्यायां निवसति स्म। यदा राजा शयनं करोति स्म सा तस्य रक्तं पिबति स्म। सा यूका अवधानयुक्ता आसीत्। यदा राजा घोरनिद्राधीनः जातः तदा एव सा बहिः आगच्छति स्म। सा अधिकलोभं न करोति स्म। एवं राजशय्यायां सा तस्याः गृहं रचितवती। भोजनाय राजरक्तं पिबति स्म। जीवनं उत्तमम् आसीत्।

एकदा वायुवेगेन काचित् मक्षिका शय्यायाम् आपतिता। एतत् यूकायै न अरोचत। "इतः गच्छतु।" इति यूका आदेशं दत्तवती। मक्षिका उक्तवती - “अहम् अतिथिनी। भवत्या मम आदरः कर्तव्यः। बहूनां जनानां पशूनां च रक्तं अहं पीतवती परन्तु कदापि राजरक्तं न आस्वादितम्। अहं राजरक्तं पातुम् इच्छामि। कृपया माम् अद्य रात्रौ राजरक्तं पातुम् आज्ञां ददातु।"

मन्दविसर्पिणी निर्मनस्कतया अङ्गीकृतवती उक्तवती च - “अस्तु। परन्तु राज्ञः शयनस्य प्रतीक्षां करोतु। यदा सः घोरनिद्राधीनः भविष्यति तर्हि तस्य रक्तं पास्यावः अन्यथा सः जागरणं प्राप्स्यति।” मक्षिका सहर्षम् अङ्गीकारं दर्शितवती। अनन्तरं यदा राजा सुप्तः अभवत् मक्षिकायाः धैर्यं गतम्। पूर्वकृतं निर्णयम् उपेक्ष्य सा उत्साहेन राजानं दंशितवती। राज्ञः निद्रा भग्ना जाता। सः झटिति शय्यातः उत्थाय तस्य सेवकान् आहूतवान् - “झटिति अत्र आगच्छन्तु। मम शय्यायां कश्चन कीटः मां दशति। तम् अपसारयन्तु।” राजसेवकाः कीटस्य अन्वेषणं कृतवन्तः। मन्दविसर्पिणी जीवनरक्षणाय धावितवती परन्तु क्षणाभ्यान्तरे सा दृष्टा मारिता च।

दमनकः कथां समाप्तवान् - “यूका मन्दविसर्पिणी स्वयमेव स्वस्याः मृत्योः कारणभूता। तादृशी दशा भवतः न भवतु। सञ्जीवकः भवन्तं मारयिष्यति, तस्मात् पूर्वमेव भवान् तं मारयतु। यः स्वजनानाम् अपेक्षया परजनेषु विश्वासं करोति सः विनाशं प्राप्नोति - यथा शृगालः नीलः अभवत्।”

"सा का कथा?” पिङ्गलकः पृष्टवान्।

तदानीं दमनकः पिङ्गलकं नीलशृगालस्य कथां श्रावितवान्।

रविवार, 24 नवंबर 2019

पुनश्चक्रीकरणम्

यतः पुत्रो गतोऽतः समयोऽस्ति। आ प्रातःकालाद्गृहे पुरातनानि वस्तूनि निरीक्षावहे। यानि पुनश्चक्रीकरणयोग्यानि तानि पुनश्चक्रीकरणकुण्डे स्थापयावः। यानि दानयोग्यानि तानि निश्शुल्कं दद्वः। अवशिष्टान्यवस्करे स्थापयावः। सम्यक्तया स्मरामि विंशतिवर्षेभ्यः पूर्वङ्गृहे केवलमावश्यकानि वस्तूनि भवन्ति स्म। अद्यत्वे तु बहूनि वस्तूनि भवन्ति। बहूनि त्वावाभ्यान्न क्रीतानि, कुतश्चित् प्राप्तानि। तानि दृष्ट्वा मनश्चेखिद्यते - कियान् व्यर्थः - समयस्य, धनस्य, वातावरणस्य! अहं तु विरलतयैव वस्तूनि क्रीणामि परन्तु भार्या किञ्चिदाधिक्येन वस्तूनि क्रीणाति। तां बहुवारमवदम् - यदावश्यकं तदेव क्रीणीहि। तस्याः क्रयणस्वभावे किञ्चित्परिवर्तनस्तु निश्चयेन दृश्यते। परन्त्वितोऽपि परिवर्तनमावश्यकम्।

पुत्रो गतः

पुत्रस्तस्य मातामह्या गृहे गतः - पञ्चदिनेभ्यः। अतो गृहे शान्तिरस्ति। केभ्यश्चिद्दिनेभ्यः पूर्वङ्गृहे पञ्चजना आसन्। इदानीं द्वयमेव।

पञ्चतनत्रम् (अध्यायः ८)

दमनकः करटकं कथितवान्…

कस्मिँश्चित् वने भसुरकः नाम्ना सिंहः निवसति स्म। सः न केवलं भोजनाय, मनोरञ्जनाय अपि अन्यान् पशून् मारयति स्म। पशवः भीताः। यदि भसुरकः एतेन वेगेन पशून् मारयेत् तर्हि वने पशवः न अवशिष्येयुः। ते एकत्रीभूय सिंहस्य समीपे गतवन्तः। सः विना कारणेन पशून् न मारयेत् इति प्रार्थनां कृतवन्तः। भसुरकस्य अङ्गीकारं प्रापणाय, ते प्रतिदिनम् एकं पशुं तस्य भोजनाय प्रेषयिष्यन्ति इति वचनं दत्तवन्तः। भसुरकः पशून् न मारयेत् इति अभियाचनां कृतवन्तः। भसुरकः अङ्गीकारं दत्तवान् उक्तवान् च - “यदि एकस्मिन् दिनेऽपि भवन्तः पशुं न प्रेषयेयुः तर्हि अहं वने सर्वान् मारयिष्यामि।”।

तदा आरभ्य प्रतिदिनम् एकः पशुः भसुरकस्य भोजनाय स्वस्य आहुतिं दत्तवान्। पशुजातेः आधारेण पर्यायः निर्णीतः। वने पुनः शान्तिः जाता।

एकदा भसुरकस्य भोजनाय शशस्य पर्यायः। सः मृत्युं न इच्छति स्म परन्तु सः कर्तव्यपालनं निराकर्तुं न शक्तवान्। स्वजीवनरक्षणाय भसुरकस्य हननम् आवश्यकम् इति सः चिन्तितवान्। परन्तु शशः सिंहं कथं मारयेत्? सिंहः कथं हन्तव्यः इति चिन्तनं कुर्वन् शशः शनैःशनैः मार्गे अचलत्। अन्ततः सः सिंहस्य गृहं प्राप्तवान्।

भसुरकः कुपितः। तस्य भोजनं विलम्बेन आगतम्। शशं दृष्टवा सः गर्जितवान् - “प्रथमतः त्वं विलम्बेन आगतः। अन्यच्च त्वं शशः! शशः! एकेन लघुशशेन मम बुभुक्षा कथम् उपशम्येत? सर्वादौ अहं त्वां खादिष्यामि। तत्पश्चात् वने सर्वान् पशून् मारयिष्यामि।”

शशः भसुरकं प्रणम्य उक्तवान् - “हे राजन्! विलम्बेन आगतः एषः मम दोषः नास्ति। अन्येषां पशूनां दोषः अपि नास्ति। एकः शशः भवतः भोजनाय न पर्याप्तः इति वयं जानीमः। अतः पञ्चशशाः प्रेषिताः। मार्गे कश्चन सिंहः अस्माकं मार्गम् अवरुध्य पृष्टवान् वयं कुत्र गच्छामः इति। शक्तिशालिसिंहभसुरकस्य भोजनाय गच्छामः इति वयम् उक्तवन्तः। परन्तु सः भवतः उपहासं कृतवान्। सः भवन्तं 'वञ्चकः' उद्दिष्टवान्। सः मां भवन्तं द्वन्द्वयुद्धनिमन्त्रणदानाय प्रेषितवान्। भवन्तं पराजेष्यति इति सः उक्तवान्।"

भसुरकः क्रोधितः। "कः एषः अहङ्कारी सिंहः?” सः पृष्टवान। "मां दर्शयतु। अहं तं मारयित्वा, अनन्तरं मम भोजनं खादिष्यामि।”

शशः सिंहम् एकस्य कूपस्य समीपे नीतवान्। "अन्तः पश्यतु। सः सिंहः अत्रैव वसति।”

भसुरकः अन्तः दृष्टवान्। स्वस्य प्रतिछायां दृष्टवान्। स्वस्य एव प्रतिछाया अस्ति इति अनवगच्छन् सः गर्जितवान्। प्रतिध्वनिः आगतः। प्रतिध्वनिः तस्य गर्जनात् अपि उच्चतरः। प्रतिध्वनिः अन्यसिंहस्य गर्जनम् अस्ति इति चिन्तयित्वा सः प्रतिछायाम् आक्रमणाय कूपे कूर्दितवान्। सः मृतः।

शशः हर्षितः। सः प्रतिगतवान्। कथं बुद्ध्या सिंहं मारितवान् इति अन्यान् पशून् सः श्रावितवान्। सर्वे पशवः शशस्य प्रशंसां कृतवन्तः, सुखेन जीवनं च यापितवन्तः।

दमनकः कथां समाप्तवान् - “तीक्ष्णदन्ताः न आवश्यकाः। अहं मम बुद्धिम् उपयुज्य पिङ्गलकं सञ्जीवकं च पृथक् करिष्यामि।”

'शुभं भवतु!' इति करटकः दमनकं उक्तवान्। दमनकः पिङ्गलकं मेलनाय गतवान्।

सिंहः एकाकी आसीत्।

पिङ्गलकः शृगालस्य स्वागतं कृतवान्। दमनकः उक्तवान् - “हे राजन्। महत्सङ्कोचेन वदामि। अहं जानामि सञ्जीवकः भवतः मित्रम्। परन्तु अहं भवतः विश्वसनीयः मन्त्री। अतः सत्यकथनं मम दायित्वम्। सञ्जीवकः भवन्तं मारयित्वा भवतः राजसिंहासनं निग्रहीतुम् इच्छति।"

“एवं वा?” पिङ्गलकः आश्चर्यं दर्शितवान्, “एतत् कथं शक्यम्? सः विश्वसनीयमित्रम्। सः किमर्थं मां मारयितुम् इच्छति?”

दमनकः उत्तरं दत्तवान् - “न कोऽपि अस्ति विश्वसनीयः सेवकः। सर्वे राजपदम् इच्छन्ति। अतः सर्वं दायित्वं राज्ञा एकस्मै सेवकाय कदापि न दातव्यम्। अपि च हे राजन्! भवान् किमर्थं तस्मिन् इयन्तं विश्वासं करोति? भवते तस्य किं प्रयोजनम्? सः शाकाहारी। सः भवतः शत्रून् मारयितुं न शक्नोति।”

चिन्तामग्नः पिङ्गलकः उपविष्टवान्। दमनकः जानाति स्म, सिंहस्य मनसि तेन विषं स्थापितम्। सः अनुवर्तितवान् "हे राजन्! सः भवन्तं मारयिष्यति। तस्मात् पूर्वमेव भवान् तं मारयतु। अन्यथा यथा मक्षिका कीटे विश्वासं कृत्वा मृता तथा भवतः अपि सा दशा भविष्यति।”

“सा का कथा?” पिङ्गलकः पृष्टवान्।

तदानीं दमनकः पिङ्गलकं मक्षिका-कीटयोः कथां श्रावितवान्।

रविवार, 17 नवंबर 2019

वाद्ययन्त्राभ्यासः-९

आगामिनि सप्ताहे वाद्ययन्त्राभ्यासस्य द्वादशमः पाठो भविता। इदानीमहमेकादशसप्ताहेभ्यो गुरोः पाठं स्वीकुर्वन्नस्मि। आगामिसप्ताहं पर्यन्तमेव गुरवे धनं दत्तं मया। वाद्ययन्त्राभ्यासाय बहुकालोऽपेक्ष्यते। अन्तिमपाठात्परं वर्षान्तपर्यन्तं स्वेनाभ्यासङ्कुर्याम्। नूतनवर्षमारभ्य पुनर्गुरोः पाठं स्वीकर्तास्मीति चिन्तयामि। यदि सम्यक्तया यन्त्रवादनञ्चिकीर्षामि तर्हि प्रायरितोऽपि न्यूनातिन्यूनं षण्मासेभ्यो गुरोः पाठः स्वीकरणीयोऽन्यथा पुनः प्रगतिर्ह्रसेत्।

नूतनोपशिक्षिका-२

आ सप्ताहद्वयान्नूतनोपशिक्षिका पाठयन्नस्ति। सा सम्यक् पाठयति। तस्या आत्मविश्वाससम्भाषणकौशलञ्च वर्धेते। सा नियतरूपेण पाठ्यात्, येनास्माकं संस्कृतकेन्द्रं वर्धेत।

मंगलवार, 12 नवंबर 2019

विद्यालयसमारोहः

ह्यः पुत्रस्य विद्यालयसमारोहः समपद्यत। प्रथमवर्गीयैः पूर्वप्रथमवर्गीयैश्च छात्रैर्गीतानि गीतानि। अहङ्कार्यालयात् सामान्यसमयस्यापेक्षया किञ्चित्पूर्वङ्गृहमागच्छम्। अनन्तरं पुत्रस्य प्यानोकक्षां पुत्रमगमयम्। तस्य माताप्यावाभ्यां सहासीत्। प्यानोकक्षायाः परं विद्यालयसमाहोरायागच्छाम। स स्थलोऽनतिदूरयासीत्। ह्यः समधिकशैत्यमासीत्। किञ्चिद्वर्षाप्यपतत्। तथापि सर्वं सम्यक्तया प्राचलत्। समाहोरस्यानन्तरं वयं भोजनालयङ्गत्वा भोजनमखादम। पुत्रः सर्वदा बहिर्भोजनङ्खादनायोत्सहते। अतः स हर्षितोऽभवत्।

रविवार, 10 नवंबर 2019

भारं वहानि

प्रतिदिनं व्यायामङ्करोमि। तच्चर्यायां भारं वहामि। परन्तु कियन्तं भारं वहामीति महत्वपूर्णम्। यथा यथा प्रतिदिनममुकमात्रायां भार उह्यते तथा तथा स भारः सरलो भासते। केन कारणेन? मासपेश्यः स्थूलायन्ते। ता बलवत्यो भवन्ति। अतो नियततया भारो वर्धनीयः। न वर्ध्येत चेद्मासपेशीनां स्थूलत्वङ्क्षीयेत। अहं स्मरामि गतवर्षे चत्वारिंशत्पौण्डपरिमितो भार एव मह्यङ्कष्टकर्यासीत्। अद्यत्वे द्विगुणं भारं वहामि। अतो व्यायामाल्लाभमर्जनायाहमधिकं भारं वावह्ये।

२०१९-शरदृतुवर्गः-५

अद्य नूतनोपशिक्षिकागमत्। सा सम्यक्तयापीपठत्। सा पूर्वसिद्धताङ्कृत्वागमदेतेन सर्वं सरलमभूत्। तस्याः सम्भाषणपाठनकौशलौ न स्तः, तथापि यतः साभ्यासङ्कृत्वागमदतस्तस्या आत्मविश्वासो दृढोऽभूत्। साप्यानन्दमन्वभूदिति मन्ये। आगामिसप्ताहेऽपि सा पाठनायागन्तेति तयोक्तम्। यदि सा नियततया पाठयेत् तर्हि प्रतिसप्ताहमहमेकघण्टा यावदेव पाठयेयम्। इदानीमहं द्वे घण्टे यावत् पाठयामि। पाठने मम कोऽपि क्लेशो नास्ति। मह्यं रोचते। परन्तु यदि संस्कृतकेन्द्रो वर्धनीयस्तर्हि नूतनशिक्षकछात्राणां निर्माण आवश्यकः। तद्धेतोरेव नूतनशिक्षिका वर्गे योजिता।

शनिवार, 9 नवंबर 2019

मातापित्रोः स्वास्थचर्या

मातापितरौ षण्मासेभ्योऽस्माभिः सहानिवसताम्। एतस्मिन् काले मया तयोः स्वास्थचर्या दृष्टा। तौ तयोः स्वास्थ्यमवधानेन न रक्षतः। प्रायः शर्करायुक्तं भोजनं खादतः। व्यायामन्न कुरुतः। इमौ विषयाववधेयाविति मयोक्तम्। आवां सप्ततिवर्षीयौ। अवधानचिकीर्षू नावामिति तावदताम्। अस्तु - युवयोर्जीवनं। यथेच्छा यापयतम्।

मातापित्रोर्गमनात्परम्

मातापितरौ स्वेदशं प्राप्तवन्तौ। तौ षण्मासेभ्योऽस्माभिः सहानिवसताम्। तयोर्गमनात् परं हर्षोऽपि दुःखोऽप्यनुभूयते। तयोर्जीनवनचर्यास्माकमपेक्षया भिन्ना। तावाधिक्येन दूरदर्शनं पश्यतः, वयं न्यूनतया। तौ स्वदेशीयं दूरदर्शनं पश्यतः। तस्मिन् मम लेशमात्रं रुचिर्नास्ति। वयमस्मद्देशीयं दूरदर्शनं पश्यामः। तस्मिँस्तयोः रुचिर्नास्ति। तौ प्राय ऊर्जांशयुक्तं भोजनं भुङ्क्तः, वयं तादृशं भोजनं परिहरामः। भोजनेऽस्मभ्यं मीना रोचन्ते, परन्तु तौ मीनमासस्य दुर्गन्धं न सहेते। अतः षण्मासेभ्योऽस्माभिर्मीना न भुक्ताः। तयोरपि मनसोरेतादृशा विचारा भवेयुरिति मन्ये। तावपि स्वगृहङ्गत्वा सुखं दुःखञ्चानुभवेतामस्मिन् कोऽपि न सन्देहो मम।

प्रतिवेशिनः पुत्र्या जन्मदिवसोत्सवः

अद्य प्रतिवेशिनः पुत्र्या जन्मदिवसोत्सवः। तज्जन्मदिवसोत्सवे केवलं बालिका निमन्त्रिताः। बालका न। अद्य यदा जन्मदिवसोत्सवाय ते गच्छन्त आसँस्ते मम पुत्रमप्राक्षुर्यदि स जिगमिषुः। स सोत्साहमङ्गीकारोदीदृशत्। तेऽवादिषुस्तेषाङ्कारयानयेव स गन्तुं शक्नोतीति। मम पुत्रस्यावधानाय तेषां दायित्वं न भवेदनेन कारणेनाहमपि तेन सहागमम्। तत्र गत्वाद्राक्षं यत् कस्या अपि मातापितरौ नाभूताम्। स यो जन्मदिवसोत्सवो यस्मिन् सर्वे बालिकास्तेषां मातापितृभ्यां प्रतिवेशिनो गृहे स्थापिताः। ततः प्रतिवेशिनैव सर्वा बालिका नीताः। अतिथिषु तत्राहमेकोऽपि पिताभूम्। मम प्रतिवेश्यवादीत् ते सर्वा बालिका मम पुत्रञ्च गृहमानेष्यति। अहं तदङ्गीकृत्वा पुत्रं तेन सह संस्थाप्य स्वगृहमागमम्।

बुधवार, 6 नवंबर 2019

पञ्चतन्त्रम् (अध्यायः ७)

दमनकः करटकं कथितवान्…

एकदा कश्चन काकः तस्य भार्या च वटवृक्षे निर्मिते नीडे निवसतः स्म। यदाकदापि तयोः शिशवः जायन्ते स्म, तेषां उड्डयनात् पूर्वमेव, कश्चन सर्पः तान् खादति स्म। काकौ दुःखिनौ आस्ताम्। तौ शृगालेन सह मन्त्रणां कृतवन्तौ। शृगालः उक्तवान् - “चिन्ता मास्तु। भवद्भ्यां सर्पः मारयितुं तु न शक्यते परन्तु यदि साहसेन बुद्ध्या च व्यवहरेम तर्हि यथा कर्कटः बकं मारितवान् तथैव वयं किमपि साधयितुं शक्नुमः।”

“सा का कथा?” काकः पृष्टवान्।

तदानीं शृगालः धूर्तकर्कट-बकयोः कथां श्रावितवान्।

धूर्तकर्कटः बकः च
कस्यचित् तडागस्य समीपे कश्चन बकः निवसति स्म। सः तडागे विद्यमानान् मीनान् अन्यानि जीवानि च खादित्वा जीवति स्म। यावत् तस्य वयः अधिकायते तावत् भोजनप्रापणं कठिनायते, तस्य शारीरिकप्रक्रिया न पूर्वसदृशी - इति बकः अनुभूतवान्। उपायः करणीयः अन्यथा विनाशः निश्चितः। सः योजनां रचितवान्।

एकदा बकः शोचनीयं मुखं अभिनयन् तडागतीरे स्थितवान्। सः मीनान् लब्धुं प्रयत्नं न कृतवान्। यद्यपि तडागे भोजनम् आसीत् तथापि सः ध्रुवं स्थितवान्। एतत् दृष्ट्वा एकः कर्कटः पृष्टवान् - “हे बक! अद्य मीनान् लब्धुं न प्रयत्नं करोति भवान्? केन कारणेन?”

बकः उत्तरं दत्तवान् - “प्रिय कर्कट! तडागस्य विनाशः आगच्छन्नस्ति! सम्भाषणं कुर्वन्तं कञ्चन धीवरसमूहम् अहं श्रुतवान्। श्वः ते वागुरया सर्वान् मीनान् निग्रहीष्यन्ति। भवन्तः सर्वे मृत्युं प्राप्स्यन्ति, मम भोजनमपि अपगमिष्यति। अतः अहम् शोकाविष्टः।”

एषा वार्ता शीघ्रं प्रसृता। तडागे सर्वे मीनाः भीताः। ते बकम् उपसर्प्य विनाशस्य परिहाराय उपायं पृष्टवन्तः। बकः गभीरतया उक्तवान् - “धीवरान् निवारणाय अहं किमपि कर्तुं न शक्नोमि। परन्तु प्रायः एकैकशः भवतः अन्यस्मिन् तडागे स्थापयितुं शक्नोमि। एतेन भवतां जीवनरक्षा भवेत्।”

भयाविष्टाः मीनाः अन्ये अम्बुजाः च झटिति अङ्गीकृतवन्तः, बकं याचितवन्तः च - “मां नयतु! प्रथमं मां नयतु, बक!”

बकः एकं मीनं तस्य दीर्घचञ्चौ स्थापयित्वा अन्यत्र नीतवान्, अनन्तरं शिलायां प्रक्षिप्य, तं मारयित्वा खादितवान्। एकैकशः बकेन बहवः मीनाः एवं खादिताः। कर्कटः अपि तस्य जीवनरक्षणाय बकं याचितवान्। भिन्नभोजनस्य लालसावशात् बकः अङ्गीकृतवान्। कर्कटः बकं आरूढवान्, तस्य कण्ठम् अवलम्ब्य उत्साहेन नूतनगृहाय यात्राम् अरब्धावान्।

किञ्चिद्दूरे बकः तां शिलां प्राप्तवान् यत्र तेन बहवः मीनाः मारिताः। मीनानाम् अस्थिपञ्जराणां राशिं दृष्ट्वा कर्कटः बकस्य धूर्तव्यवहारम् अवगतवान्। तयोः एकः एव जीवेत् इति तत्क्षणे तेन अवगतम्। कर्कटः बकस्य कण्ठं बलेन निपीडितवान्। बकः मोचनाय प्रयत्नं कृतवान् परन्तु कर्कटः विजयी अभवत्। बकः मृतः।

कर्कटः तडागं प्रत्यागत्य अन्यान् सर्वं श्रावितवान्। तेषां जीवनं सुरक्षितम् इति सान्तवनाम् अपि दत्तवान्।

शृगालः कथां समाप्तवान्, काकम् उक्तवान् च - “आवयोः बुद्धिम् उपयुज्य भवतः शिशून् खादन्तं सर्पं मारयिष्यावः।”

“तत् कथं कुर्याव?” काकः पृष्टवान्। शृगालः उत्तरं दत्तवान् - “नगरं गत्वा, कानिचन आभरणानि चोरयित्वा सर्पस्य गृहे पातयतु।”

यथा उक्तं तथा काकेन कृतम्। नगरान्वेष्णाय सः उड्डयितवान्। सः एकं तडागं दृष्टवान् यत्र काश्चन राजकुमार्यः राजसभायाः अन्याः नार्यः च स्नानं कुर्वत्यः आसन्। तासां कण्ठमालाः, कर्णकुण्डलानि, अन्यानि आभरणानि च ताभिः तडागतीरे स्थापितानि आसन्। काकः एकां लसन्तीं सुवर्णकण्ठमालां चोरयित्वा उड्डयितवान्। एतत् पश्यन्तः राजसेवकाः काकस्य दिशि धावितवन्तः।

काकः सर्पस्य गृहे कण्ठमालां पातयित्वा अन्यत्र गतवान्। यदा राजसेवकाः तत्र आगतवन्तः, लसन्तीं मालां ते सर्पगृहे दृष्टवन्तः। ते तेषां गदाभिः सर्पं ताडयित्वा तं मारितवन्तः। सुवर्णमालां लब्ध्वा प्रतिगतवन्तः।

काकः तस्य भार्या च शृगालस्य साहाय्याय धन्यवादं दत्तवन्तौ, अनन्तरं सुखेन जीवनं यापितवन्तौ।

दमनकः कथां समाप्तवान् - “यथा काकः सर्पं विजितवान् तथा बुद्धिमते किमपि न असम्भवम्। यथा शशः सिंहं जितवान्।"

“भोः!” करटकः उक्तवान् "शशस्य कथा का? भवान् न कथितवान्।”

तदानीं दमनकः करटकं चतुरशशस्य मूर्खसिंहस्य च कथां श्रावितवान्।

मंगलवार, 5 नवंबर 2019

अगमताम्

अद्य मातापितरौ स्वदेशमगमताम्। तौ विमानपतनं प्राप्य्य गृहमागमम्। आहत्य सप्तघण्टा यावत्तैलशकटमचीचलम्। श्रान्तिमनुभवामि। ह्या रात्रौ पर्याप्तनिद्रापि न प्राप्ता। कथं सप्तघण्टा यावद्वाहनञ्चालयेयमिति चिन्तासीत्। परन्तु यात्रा क्लेशरहिताभूत्। अद्य रात्रौ गहननिद्रायास्यति।

सोमवार, 4 नवंबर 2019

समयो निकटायते

मातापित्रोः प्रयाणसमयो निकटायते। भोजनालयङ्गत्वा भोजनङ्खादेमेति प्रस्तावः प्रस्तुतो मया ह्यः। पितरौ नाङ्गीकृतवन्तौ परन्तु पुत्रस्य तीव्रा जिगमिषा चिखादिषा चास्ताम्। गृहे भोजनञ्जग्ध्वा पयोहिमाय बहिर्गच्छेमेति मयोक्तम्। सर्वेषामङ्गीकारः प्राप्तः। तदेवाकरवाम। पयोहिमञ्जग्ध्वा सर्वे मुदिताः।

रविवार, 3 नवंबर 2019

अन्दिकां समया

मातापितरोरिच्छासीदन्दिकां समयोपवेष्टुम्। एतावत्पर्यन्तं तु ग्रीष्मकाल आसीदतोऽन्दिका न ज्वालिता। परन्तु गतसप्ताहे शैत्यमभवत्। बहुवारमन्दिकाज्वालनावसरः प्राप्तः। तेन तावमोदताम्। तयोरिच्छा पूरिता। तावग्नेः समीपयुपविष्यानन्दमन्वभवताम्।

शुक्रवार, 1 नवंबर 2019

हेलोईन्पर्व

ह्यो हेलोईन्पर्वासीत्। आदिनं पुत्र उत्सहते स्म। साँयकाले कदा बहिर्गच्छेदिति पृच्छति स्म। सामान्यतो हेलोईन्दिनेऽत्याधिकशैत्यन्न भवति परन्तु ह्यः समधिकशैत्यमासीत्। अतो मातापुत्रौ द्वित्रप्रावारकान् धृत्वा बहिरगच्छताम्। सर्वे बालकाश्चाकलेहेत्यादीनि समपद्यन्त। पुत्रेणात्याधिकशर्करा न खाद्येतेति हेतोः किमपि करणीयम् - कानिचन चाकलेहानि तस्मै दत्त्वान्यानि क्षेपत्व्यानि।

गुरुवार, 31 अक्तूबर 2019

मातापितरौ गन्तारौ

आगामिमङ्गलवासरे मातापितरौ स्वदेशङ्गन्तारौ। तत्कृते सन्नाहाः करणीयाः। प्रायस्ताभ्यामेव। परन्तु यत्किमपि ताभ्यामावश्यकं तदर्थं तौ मया नेतव्यौ। अस्मिन् सप्ताहान्ते निश्चयेन वयं भोजनालयङ्गन्तास्मः। अयं सप्ताहान्तस्तयोरस्मिन् देशेऽन्तिमसप्ताहान्तः।

शिरोवेदना

अद्य शिरोवेदनामनुभवामि। प्रातस्तरामुदस्थाम्। अस्मिन्न किमपि नूतनम्। तथापि शिरोवदेनानुभूयते।

सोमवार, 28 अक्तूबर 2019

दीपावलि:-२

ह्यो दीपावल्योत्सवः प्रवृत्तः। सर्वे गृहसदस्याः पूजामकुर्वन्, दीपाँश्चाज्वालयन्। पुत्रः प्रतिवेशिभिः सह मिलित्वा स्फोतकान्यज्वालयत्। मातापितरौ पुत्राय तस्य मात्रे च धनं सुवर्णाभरणानि चादत्ताम्। सर्वे स्वादुभोजनञ्जग्ध्वामोदन्त।

रविवार, 27 अक्तूबर 2019

२०१९-शरदृतुवर्गः-४

सामान्यतः प्रतिरविवासरं संस्कृतवर्गो भवति परन्त्वद्य नास्ति यतो दीपावलिवशाज्जना नागमिष्यन्ति। अहं पिपाठयिषामि परन्त्वहञ्जानामि जना नागच्छेयुः। अतोऽद्यतनो वर्गो निरसीकृतः।

दीपावलिः

अद्य प्रातःकाले मातापितरौ सर्वान् दीपावलिपर्वणः शुभकामना वितरतः। अहं तावप्राक्षम् - ‘दीपावलिः’ अर्थः क इति युवाभ्यां ज्ञायते वा? ताववादिष्टाम् - ‘दीपानां पङ्कतिः’ इति। साधूक्तमिति मया श्लाघितम्। परन्तु ‘दीपावलिः’ शब्दस्य का व्युत्पत्तिः? एतत्ताभ्यान्न ज्ञातम्। तौ तदाहमबूबुधम् ‘आवलि’ इति संस्कृतशब्दो यस्यार्थः ‘पङ्कति’ इति। अद्यत्वे स्थितिरेषैव - जनास्तेषां संस्कृतिरेव न जानन्ति। अविचिन्त्य सर्वं निर्वहन्ति। किमकरोमि, केन हेतुना करोमि, इति न चिन्तयन्ति।

शनिवार, 26 अक्तूबर 2019

धनपूजा

अस्मिन् दीपावलिपर्वणि मातापितरौ गृहे स्तः। अतः सर्वं यथारीति प्रचलति। धनपूजा काचिद्विलक्षणा रीतिः। अतो वित्तकोषङ्गत्वा प्रातःकालेऽहं मम पिता च रौप्यसुवर्णनाणकदेवमूर्तीत्यादिन्यानैष्व। माता तानि सर्वाणि संस्थापयिष्यति। श्वस्तानि पूजयितास्मः!

पर्वाण्यायान्ति

वर्षान्ते बहूनि पर्वाण्यायान्ति। एतस्मान्मिष्टान्नानि खाद्यन्ते। मया सावधानतया तानि खादनीयानि यतस्तेषु समधिकशर्करा वर्तते।

नूतनोपशिक्षिका

यस्या विषये मया पूर्वमुक्तं तया सह समभाषे। सा पिपाठयिषति। अहं तामबोधयं लघुविषयं स्वीकृत्य पाठयेति। तस्यामुत्साहो दरीदृश्यते। आगामिभानुवासरे वर्गो न भविता। ततः परं भानुवासरे भविता। सा कथं पाठयेदिति दृष्टास्मि। यदि सा नियततया पाठयेत्तर्ह्यहमन्येषु संस्कृतकार्येषूद्यतो भवेयम्।

गुरुवार, 24 अक्तूबर 2019

तन्त्रांशस्पर्धा

कार्यालये तन्त्रांशस्पर्धा प्रचलति। द्वयोर्दिनयोः कञ्चन प्रयोजनकारितन्त्रांशं सज्जीकृत्य सर्वेभ्यो दर्शनीयम्। अहं सामान्यतो भागं न वहामि यतो दिनद्वयं न पर्याप्तम्। एनयोर्दिनयोर्जनाः प्रतिदिनं द्वादशघण्टा यावत् कार्यङ्कुर्वन्ति। ह्यः पित्रा सह विषयेऽस्मिन् समभाषे। “किमर्थं भागं न वहसि त्वम्? प्रबन्धकान् प्रभवनायोत्तमावसरः। यदि तेभ्यस्तव प्रयासाः रोचन्ते तर्हि पदोन्नतिः सम्भवेत्।” इति सोऽवदत्। स सर्वदा धनपदोन्नत्योर्विषययेव चिन्तयति।

संस्कृतकेन्द्रं वर्ध्यात्

अद्यत्वेऽस्माकन्नगरे नियततया संस्कृतवर्गाः प्रचलन्ति। प्रौढानहं पाठयामि। बालकानन्यः। जना उत्साहेन पठन्ति सम्भाषणे भागं वहन्ति च। परन्तु मम दायित्वं न केवलं पाठनं प्रत्युत संस्कृतकेन्द्रस्य वर्धनमपि। काचन महिलास्ति। तस्या रुचिः पाठनेऽस्ति। अहं तां पूर्वन्नामिलम्। अस्माकं सञ्चालकेन तस्या विषये मां सूचितम्। निश्चयेन मया तया सह सम्भाषणीयम्। यदि सापि पाठयितुं शक्नुयात्तर्हि वरम्। तस्याः स्तोकं सङ्कोच इति श्रूयते। प्रायः सम्भाषणाभ्यासाभावादिति मन्ये। तादृशः सङ्कोचो ममाप्यासीत्। गच्छता कालेनाभ्यासेन च स व्यपजगाम।

शनिवार, 19 अक्तूबर 2019

मित्रस्य कार्यच्युतिः

कतिपयदिनेभ्यः पूर्वं मामकेन मित्रेण मां सूचितं तस्य कार्यच्युतिर्जातेति। स तु कार्यालये समधिककार्यङ्करोति। दिने दशघण्टा यावत् कार्यकरणं तस्य साधारणकार्यचर्यासीत्। तथापि तस्य कार्यच्युतिर्जाता। तस्य संस्था तस्य विभागस्य पिधानमकरोत्। अतः कः कियत् कार्यङ्करोत्येतस्य किमपि महत्वं नासीत्। तस्य विभागस्य सर्वेषाङ्कार्यकर्तॄणाङ्कार्यञ्च्यावितं संस्थया। गतरविवासरे सोऽवदत् तस्यैकं सन्दर्शनमुत्तममभवत्। अतः शीघ्रमेव नूतनोद्योगं प्राप्नुयादिति सोऽशास्ते। अहमपि तदेव प्रार्थये।

बहिरगमाम

अद्य साँयकाले सर्वे बहिरगमाम। नगगकेन्द्रङ्गमनाय प्रस्तावं मया प्रस्तुतं यतः पित्रा पूर्वमिच्छाभिव्यक्तासीत्। परन्तु योजनापरिवर्तनमभूत्। गृहं समयापणकेन्द्रमस्ति। तत्र वयमगमाम भोजनमघसाम च। पुत्रङ्क्रीडनकं दापितमावाभ्याम्। सोऽमोदिष्ट। सर्वे पयोहिममखादिषुः। मासात्पूर्वन्नगराद्बहिः प्रवासाय वयं सर्वेऽगच्छाम। ततः परमद्य मातापितरौ बहिरगमताम्। तयोः स्वेदशगमनस्य समयो निकटायते। कानिचन दिनान्येवावशिष्यन्ते।

शुक्रवार, 18 अक्तूबर 2019

गृहाभिरक्षायोजनामूल्यं वर्धते

प्रतिवर्षङ्गृहाभिरक्षायोजना नवीकरणीया। प्रतिवर्षं तस्य मूल्यं वर्धते। ह्योऽहं योजनविक्रेतृणा सह समभाषे। सोऽवदद्गृहनिर्माणवस्तूनां मूल्यंं वर्धमानमस्तीत्यतोऽभिरक्षायोजनामूल्यमपि वर्धते। कस्याश्चिदन्यस्याः संस्थाया विक्रेतृणा सह सम्भाषनीयम्। स कियन्मूल्यं वदतीति द्रक्ष्यामि।

प्यानोवाद्ययन्त्रङ्क्रीतम्

गतसप्ताहे प्यानोवाद्ययन्त्रङ्क्रीतम्। पुत्रस्तस्य माता चोभौ नियततया प्योनोशिक्षां प्राप्नुतः। तौ प्रतिसप्ताहङ्गच्छतोऽभ्यासञ्च कुरुतः। गृहे लघुप्यानोयन्त्रमासीत् परन्तु यदि तौ गभीरतया दत्तचिततया चाभ्यासञ्चिकीर्षतस्तर्हि यथावत् प्यानोयन्त्रमावश्यकम्। अहं पुत्रञ्च वाद्ययन्त्रवादनञ्जानीयातामिति ममाकाङ्क्षा। भार्याया अपि रुचिरस्ति। प्यानोयन्त्रं वादनीयमिति बाल्यतस्तस्या इच्छासीदिति सावदत्। अतोऽद्यत्वे वयं सर्वे वाद्ययन्त्राभ्यासयुद्युक्ताः। तदर्थं वयं प्रयतामहे। अहमपि गिटारवाद्ययन्त्रशिक्षणङ्गृह्णामि।

रविवार, 13 अक्तूबर 2019

समधिककार्यम्

ह्यः शनिवासर आसीत्। तथापि प्रातःकाले पञ्चवादनादारभ्य द्वादशवादनं पर्यन्तङ्गृहात्कार्यमकरवम्। अद्यत्वे कार्यालये समधिककार्यमस्ति। अस्य मासस्याष्टादशतमं दिनाङ्कं पर्यन्तमहं मम सहकरी च कार्यं समापयिष्याव इति प्रबन्धकमावाभ्यामुक्तम्। मम सत्यसान्धता भग्ना न भवेत्तदर्थमहं प्रयते।

शुक्रवार, 11 अक्तूबर 2019

पुनः मल्लयुद्धम्

ह्यः पुत्रं मल्लयुद्धाय पुनरनयम्। गुरुरग्रिमाभ्यः कक्ष्याभ्यः शुल्कदानाय निर्बध्नाति स्म। पुत्रः पूर्वमेव वाद्ययन्त्रवादनं तरणञ्च पठनाय सप्ताहे दिनद्वये गच्छति। अहं तस्मायधिककार्यन्न दित्सामि। अतो मल्लयुद्धपाठा न क्रीताः। यदा तरणपाठाः समापयेरँस्तदा प्रायो मल्लयुद्धपाठाः क्रीयेरन्।

गुरुवार, 10 अक्तूबर 2019

कालः क्षिप्येत

अद्य कार्यालयेऽन्यस्मान्नगरात् केचन कार्यकर्तार आगच्छेयुः। ते घण्टात्रयँय्यावद्भाषणङ्कुर्युरस्माकं समयं व्यर्थङ्कुर्युश्च। कार्यालये बहुकार्यमस्ति तथापि तिसृभ्यो घण्टाभ्य उपविश्य तेषां भाषणं शृणवानि कार्यन्न करवाणि। अग्रिमेषु दिनेषु प्रबन्धकः पृच्छेत्कार्यङ्किमर्थन्न कृतम्? एषैवाद्यतनी कार्यचर्या।

सहकरी अलसायते?

कार्यालये कस्मिँश्चित्प्रकल्पेऽहमतीवव्यस्तोऽस्मि। मया सह एकोऽन्यः सहकरी कार्यङ्कुर्वन्नस्ति। सामान्यतः सः सहकरी कर्मठः परन्तु गतकेभ्यश्चिद्दिनेभ्यः सोऽलसेन कार्यङ्करोति। तेन कार्यस्य प्राथम्यन्न दर्श्यते। केन कारणेन न जाने। प्रायः स दलस्याथवा संस्थायाः परिवर्तनञ्चिकीर्षति। अनेन मम कार्यमधिकायते।

रविवार, 6 अक्तूबर 2019

अयोग्यकार्याय कालक्षेपः

अद्य प्रातःकाले मया क्रियमाणं संस्कृतकार्यं पितरं वर्णयन् आसम्। किमर्थमेतावन्तं समयं क्षिपसि त्वमिति सोप्राक्षीत्। यस्य कार्यस्य किमपि प्रयोजनं नास्ति, किमपि फलमपि नास्ति तत्कार्यङ्किमर्थङ्क्रियते त्वया? यावत्पूर्वं मयोत्तरं दीयेत तावत्पूर्वं तत्र तिष्ठन् पुत्रा रोदनमकार्षीत् - यत आवयोः सम्भाषणवशात् स दूरदर्शनं श्रोतुं नाशकत्। अतस्तदैव सम्भाषणं भग्नमभूत्। पितुरभिप्राये यत्कार्येण धनं न प्राप्यते तत्कार्यङ्करणायोग्यम्।

शनिवार, 28 सितंबर 2019

मल्लयुद्धम्

प्रातःकाले पुत्रं मल्लयुद्धायानैषम्। निश्शुल्कवर्ग आसीत्। पुत्रस्य प्रसक्तिरप्यस्ति। मल्लयुद्धे कुर्वति सोऽरंस्त। अग्रिमे सप्ताहेऽपि निश्शुल्कङ्कर्तुं शक्नुव इति शिक्षकोऽवादीत्। अतो गुरुवासरे पुनः पुत्रं मल्लयुद्धाय नेतास्मि।

प्रवासः

गतसप्ताहान्ते प्रवासायागच्छाम। कुत्रापि नगराद्बहिर्गन्तव्यमिति पित्रोरिच्छासीत्। पञ्जजना विमानेन कुत्रापि गच्छेयुश्चेदत्यधिकधनमावश्यकम्। तथापि कुटुम्बाय आनन्दायेतादृशं व्ययमावश्यकम्। प्रवासो योजनानुसारमभवत्। पित्रोः सन्तुष्टिर्जाता।

शनिवार, 14 सितंबर 2019

पञ्चतन्त्रम् (अध्यायः ६)

दमनकः करटकं कथितवान्…

दूरे देवशर्मः नाम्ना मुनिः वसति स्म। तस्य आशीर्वादं स्वीकरणाय बहवः जनाः आगच्छन्ति स्म। तस्मै मूल्यवन्ति उपायनानि दत्त्वा आदरं दर्शयन्ति स्म। गच्छता कालेन देवशर्मः प्रभूतधनम् अर्जितवान्। रात्रिन्दिवं सः तत् धनम् अनुरक्षति स्म। धनं कदापि तस्य दृष्टितः न अपगच्छति स्म। सः तत् धनं भजते स्म। धनरक्षा मुनेः चिन्ताविषयः जातः। सः कस्मिन् अपि विश्वासं न करोति स्म।

एकदा आषाढभूतिः नाम्ना चोरः देवशर्मस्य हस्ते धनं दृष्टवान्। सः तत् धनं चोरयितुम् इष्टवान्। एतत् कार्यं न सरलं सः जानाति स्म। मुनिः तस्य गृहं सम्यक् रक्षति स्म। धनं कदापि तस्य दृष्टितः न अपगच्छति स्म। चोरः एकं धूर्तोपायं चिन्तितवान्। मुनेः समीपं गत्वा, तं प्रणम्य, सः उक्तवान् - “हे मुने! जीवनं माया अस्ति। प्रपञ्चे अस्माकं जीवनं केवलं कणमात्रः। विश्वस्य सुखसुविधानि मोहः एव। सत्यं मया ज्ञातम्। कृपया जीवनस्य उद्देश्यं मां पाठयतु।”

युवकात् एतादृशान् आध्यात्मिकप्रश्नान् श्रुत्वा देवशर्मः मुदितः अभवत्। सः तं छात्ररूपेण स्वीकृतवान्। आषाढभूतिना रात्रौ तस्य गृहे प्रवेशः न करणीयः, गृहात् बहिः शालायाम् एव वासः करणीयः इति प्रतिबन्धं मुनिः प्रस्तुतवान्। चोरः झटिति स्वीकृतवान्।

आगामिषु दिनेषु आषाढभूतिः यत् देवशर्मेण आदिष्टं तत् सर्वं कृतवान्। विश्वसनीयः सेवकः इव सः सर्वाणि गृहकार्याणि कृतवान्। ये पाठाः देवशर्मेण पाठिताः, सः तेषाम् अध्ययनस्य अभिनयम् अपि कृतवान्। परन्तु देवशर्मः धनं कदापि स्वस्य दृष्टितः न अपसारितवान्। आषाढभूतेः धैर्यं गतवत् आसीत्। अवसादः अपि जायमानः आसीत्। मुनेः हननविषये अपि सः चिन्तितवान्।

एकदा देवशर्माय ग्रामात् निमन्त्रणम् आगतम्। तस्य कस्यचित् शिष्यस्य पुत्रस्य उपनयनम् आसीत्। निमन्त्रणं स्वीकृत्य देवशर्मः ग्रामं गतवान्। आषाढभूतिः अपि तेन सह गतवान्।

मार्गे नदी दृष्टा। देवशर्मः स्नानम् इष्टवान्। सः तस्य धनं वस्त्रेण आवृत्य आषाढभूतये दत्तवान् उक्तवान् च - “एतत् अतिजागरुकतया रक्षतु। अहं शीघ्रम् आगच्छामि।”

यावत् शीघ्रम् देवशर्मः गतः तावत् चोरः सहर्षं धनेन सह पलायनं कृतवान्।

देवशर्मः दीर्घकालं यावत् स्नानं कृतवान्। स्नानं कृत्वा सः नदीतीरे विश्रामं कृतवान्। सः आषाढभूतौ विश्वासं करोति स्म। तस्य धनं चोरितम् इति तेन न ज्ञातम्। विश्रामे कुर्वति सः कञ्चित् अजसमूहं दृष्टवान्। तेषु द्वौ युद्धं कुर्वन्तौ आस्ताम्। तत् दृश्यं द्रष्टुं सः उपविष्टवान्। यदा युद्धं प्रचलत् आसीत् कश्चन शृगालः तत्र आगतवान्। यदि कोऽपि अजः म्रियेत, मासं तस्य लाभाय इति शृगालस्य चिन्तनम् आसीत्।

देवशर्मः चिन्तितवान् - “यदि एषः मूर्खशृगालः अजयोः शृङ्गघट्टनस्य मध्ये आगच्छेत् तर्हि निश्चयेन सः मरणं प्राप्स्यति।” यथा तेन चिन्तितं, शृगालः युद्धमध्ये आगतवान्। सः मृतः।

देवशर्मः मूर्खशृगालाय शोकं कृतवान्। यस्मिन् स्थाने आषाढभूतिः तस्य धनेन सह आसीत्, तत्र प्रत्यागतवान्। तत्र स्थानं गत्वा, रिक्तवस्त्रं दृष्ट्वा, सः आश्चर्यचकितः अभवत्। आषाढभूतिः धनं च उभौ अपि गतौ। देवशर्मः उच्चस्वरेण आहूतवान् - “हे आषाढभूते! भवान् कुत्र?” परन्तु किमपि उत्तरं न आगतम्। किं जातं मुनिना अवगतम् - सः वञ्चितः, तस्य धनं चोरितम्।

देवशर्मः रोदनं कृतवान्। सः चोरस्य अन्वेषणं कृतवान् परन्तु न कोऽपि लाभः। अनन्तरं सः तस्य यात्रां पुनः अनुवर्तितवान्। दीर्घकालं यावत् रक्षितं धनं तस्य मूर्खत्वेन गतम्।

शृगालः मुनिः च स्वयमेव हानेः कारणभूतौ।

दमनकः कथां समाप्तवान् - “मम बुद्धिम् उपयुज्य अहं पिङ्गलकसञ्जीवकयोः मध्ये भेदं रचयिष्यामि। सिंहः केनचित् दुर्व्यसनेन ग्रस्तः। तस्य रक्षणम् आवयोः दायित्वम्।”

“राजा केन दुर्व्यसनेन पीडितः?” - करटकः पृष्टवान्।

दमनकः उत्तरं दत्तवान् - “नाशस्य पञ्च मूलकारणानि सन्ति। १. राज्ञः परितः सज्जनानाम् अभावः। २. शत्रुभिः आक्रमणम्। ३. कामम् ४. सृष्टेः प्रकोपः - प्रचण्डाग्निः, परिप्लवनम्, सङ्क्रामकरोगाः इत्यादयः। ५. असाधुः नीतिः - यदा शान्तिः उचिता तदा युद्धम् उत तद्विपरीतम्।

राजा कष्टे अस्ति। सः सञ्जीवकेन सह समधिकं समयं यापयति। तस्य मन्त्रिगणं न शृणोति। तस्य मोचनाय अहं योजनां रचयिष्यामि।”

करटकः उक्तवान् - “भवान् एतत् कथं करिष्यति?”

दमनकः धूर्तमन्दहासेन उक्तवान् - “यथा काकः सर्पं मारितवान्।”

“सा का कथा?” - करटकः पृष्टवान्।

तदानीं दमनकः करटकं काकसर्पयोः कथां श्रावितवान्।

रविवार, 8 सितंबर 2019

शरणागतः

गतगुरुवासरे वाद्ययन्त्रशिक्षकमगच्छम्। सोऽभ्यासङ्कारितवान्। गृहे द्वयोर्गीतयोरभ्यासाय सूचनामपि दत्तवान्। अहमभ्यासङ्कुर्वन्नस्मि। तेन हस्तयोरङ्गुलीषु च पीडा बाधते। व्रणभयादद्य न्यूनतयाभ्यासङ्करिष्यामि।

सोमवार, 2 सितंबर 2019

गुरोः शरणङ्गच्छामि

श्वो वाद्ययन्त्रगुरुङ्गन्तास्मि। स्यान्नाम तस्य साहातया वाद्ययन्त्रवादने प्रगतिर्भवेत्। उत्सहेऽहम्।

नेतॄञ्छुश्रूषा

अस्मिन् मासे प्रधानमन्त्र्यागन्ता। जना गुच्छशस्तं श्रोतुं गन्तारः। क आकर्षणः? नेतारस्तु सर्वदा जना यच्छ्रोतुमिच्छन्ति तदेव वदन्ति। तच्छ्रुत्वा जनाः करताडनङ्कुर्वन्ति। एतत्करिष्यामि तत्करिष्यामीत्युक्त्वा मिथ्यावादिनो नेतारो जनान् प्रतारयन्ति। तथापि जनाः सहस्रशस्ताञ्छुश्रूषन्ति। मह्यं तर्कातीतम्।

रविवार, 1 सितंबर 2019

शर्कराप्रसक्तिः

मानवेषु शर्करायाः कीदृशी प्रसक्तिरस्तीति दृष्ट्वा विस्मितोऽहम्। वयमाधिक्येन शर्करां न भुञ्ज्महे। तथापि तनयस्य शर्कराया लिप्सा समधिका। प्रतिदिनं स मिष्टान्नम्, पिष्टकम्, हिमपियूषमित्यादीनि चिखादिषति। आवां तु मितप्रमाणेन तादृशानि मधुराणि भुञ्ज्वहे, तस्मै दद्वश्च परन्तु स यत्किमपीच्छति तस्य पितामहस्तस्मै ददाति, बहुशोऽधिकप्रमाणेन। मम मातापितरौ भोजनस्य गुणागुणान् केवलं स्वादेन विभावयतः। भोजनस्य पौष्टिकांशानां विषये तयोर्ज्ञानं शून्यप्रायम्। अधिकप्रमाणेन रोटिकोदनञ्जग्ध्वा, उत्तमं भोजनं भुक्तमिति तौ चिन्तयतः। मातापित्रोर्गमनात्परं पुनः पुत्रस्य रोटिकामिष्टान्नसेवनं न्यूनीकर्तास्वः।

२०१९-शरदृतुवर्गः-३

अद्य दीर्घसप्ताहान्तवशाद्वर्गो न भविष्यति। अहं पिपाठयिषामि परन्तु दीर्घसप्ताहान्तेषु जनाः प्रवासाय गच्छेयुः। अतो न्यूना जना एवागच्छेयुः। एतत्कारणतो दीर्घसप्ताहान्तेषु वर्गा न क्रियन्ते।

कर्कटः, चिङ्गटः, अभिचिङ्गटश्च

ह्यो पुत्रस्तस्य माता च कर्कटम्, चिङ्गटम्, अभिचिङ्गटञ्चाखादताम्। सः प्रहृष्टोऽभवत्। प्रथमवारं तेन कर्कटचिङ्गटादयः खादितः। अहं मातापितरौ दक्षिणभारतीयभोजनं भक्षणायानयम्। तावपि मुदितावभवताम्।

शनिवार, 31 अगस्त 2019

वाद्ययन्त्रगुरुः

आ वर्षद्वयाद्वाद्ययन्त्रं वादनाय प्रयते। किञ्चित् प्रगतिर्जाता परन्तु प्रश्नशङ्के कं प्रष्टव्ये? विध्यनुसारं वादयामि तथापि ध्वनिः सम्यङ्न भासते। कं प्रष्टव्यम्? अतश्चिन्तयामि यद्धनं व्ययीकृत्य कस्यचन सङ्गीतगुरोः शरणङ्गनतव्यम्। सङ्गीतपाठेभ्यो बहुधनमपेक्ष्यते। योऽत्यधिकधनं नापेक्षते तादृशस्य गुरोरन्वेषणङ्कुर्वन्नस्मि।

कर्कटबुभुक्षुः

आ बहुभ्यो दिनेभ्य आत्मजः कर्कटं बुभुक्षति। मातापितरौ जलजीवानि न खादतः। जलजीवगन्धोऽपि ताभ्याङ्कष्टकरी। अतः पुत्रस्तस्य माता च जलजीवभोजनालयङ्गमयेयमिति चिन्तयामि। अहं मम मातापितरावन्यस्मिन् भोजनालयं नेष्यामीति चिन्तनम्। तावङ्गीकुर्यातामुत नेति द्रष्टव्यम्।

कार्यालये व्यस्तता

गतसप्ताहे कार्यालये व्यस्त आसम्। सामान्यतोऽहमेतावान् व्यस्तो नास्मि परङ्गतसप्ताहो भिन्नः। सम्प्रति बहवैर्जनैरस्माकं तन्त्रांशः प्रयुज्यन्ते। अतः कार्यमधिकायते।

सोमवार, 26 अगस्त 2019

मन्दिरमगच्छाम

शनिवासरे वयं सर्वे जन्माष्टमीमहोत्सवाय मन्दिरमगच्छाम। स्वदेशे पितरौ शुश्रुवतुरस्माकं नगरस्थं मन्दिरं सुन्दरम्। अतस्तयोरिच्छासीन्मन्दिरङ्गन्तव्यमिति। अहं पञ्चदशवर्षेभ्यः पूर्वमगच्छम्। किमपि विशेषमिति मया न स्मृतं मन्दिरविषये। तथापि तौ जिगमिषू। जन्माष्टमीमहोत्सवः समीचीनोऽवसरो यतो तन्मन्दिरं राधाकृष्णमन्दिरम्। अगच्छाम। महत्वृष्टिरपतत्। तेन किञ्चित्क्लेशोऽनुभूतः। तथापि मन्दिरङ्गत्वा तयोः सन्तुष्टिर्जाता।

प्रवासः

यस्मात्कालात् पितरावागतौ तस्मात्कालादेव चिन्तयन्नस्मि तौ प्रवासाय कुत्रापि नेतव्यौ। तावपीच्छतः। ग्रीष्मकाले बहुघर्म आसीत्। कार्येऽपि व्यस्त आसम्। अतो ग्रीष्मकालविरामे नागच्छाम। ह्यः प्रवासाय प्रबन्धाः कृताः। पञ्चजनाः कुत्रापि विमानेन गच्छेयुर्निवासलये च निवसयेयुश्चेद्बहुधनमपेक्ष्यते। परन्तु कुटुम्बस्य सन्तोषायैतदावश्यकम्। अपि च वयं बहुशः प्रवासाय न गच्छामः। प्रायः सर्वे जना ग्रीष्मकाले कुत्रापि गच्छन्ति। पुत्रो वर्धते। तस्य प्रवासाय उत्साहोऽधिकायते। पित्रोर्वयोऽपि वर्धमानम्। तावपि जिगमीषू परन्तु स्वाभ्याङ्गन्तुं साहसङ्कर्तुन्न शक्नुतः। कुटुम्बसूत्रधारस्य ममैव दायित्वं तेषां प्रवासोपक्रमणम्।

रविवार, 25 अगस्त 2019

२०१९-शरदृतुवर्गः-२

अद्य वर्गौ सम्यक्तयाचलिष्टाम्। प्रथमस्तरीयवर्गे दशजना आगमन्। अहं तु केवलं पञ्जजना अपेक्षमान आसम्। दशसु जनेषु चतुर्भिर्जनैर्न पञ्जीकृतम्। ते ‘आडिट्’ कुर्वन्तोऽभूवन्। यद्यपि मम समीपे पुस्तकान्यवर्तिषत तथापि तेभ्यः पुस्तकानि नादां यतः पुस्तकानि न निश्शुल्कानि। यैः पञ्जीकृतं तेभ्य एवादाम्। द्वितीयस्तरीये वर्गे षड्जनैः पञ्जीकृतम्। पञ्जजना आगमन्। सम्भाषणकौशलं वर्धेतेति तेषामिच्छा। तदधिकृत्य तं वर्गं चालयिष्यामि। सामान्यतो गच्छता कालेन छात्रसङ्ख्या न्यूना भवति। केषुचित्सप्ताहेषु कति छात्रा वर्गयोरवशिष्यन्तयिति द्रष्टव्यम्।

शुक्रवार, 23 अगस्त 2019

पित्रन्वेषणम्

साँयकाले सामान्यतः पिता भ्रमणाय गच्छति। पूर्वमेकवारं स मार्गविमूढोऽभवत्। परन्तु कञ्चन सज्जनं दिशं पृष्ट्वा गृहमागच्छत्। अद्यापि साँयकाले सोऽगमत्। सामान्यतः सोऽर्धघण्टाया अधिकं भ्रमणन्न करोति। अद्य स घण्टायाः परमपि न गृहमागमत्। अतोऽहं मम माता च चिन्ताग्रस्तोऽभूव। अस्तमनात्परमन्धकारोऽप्यभूत्। तथापि स गृहन्नागमत्। अहङ्कारयाने तस्यान्वेषणायागमम्। कारयाने चालयति तमावृतमार्गेषु तस्यान्वेषणङ्कष्टकरी। दिष्ट्या तस्य दूरवाण्यागता स गृहेऽस्तीति। प्रतिवेशिना सह मिलित्वा स उद्यानमगमत्। तत्रैवासीत्। मार्गविमूढो नाभूत्।

२०१९-शरदृतुवर्गः-१

भानुवासरे नूतनवर्गावारप्स्येते। अस्मिन् वारं द्वौ वर्गौ पाठयिष्यामि। तन्महते सन्तोषाय यदि छात्रा आगच्छेयुः। एतावत्पर्न्तं प्रथमस्तरीये वर्गे केवलं द्वाभ्यां छात्राभ्यां पञ्जीकृतम्, द्वितीयस्तरीयवर्गे केवलं त्रिभिः। प्रायशो जना अन्तिमक्षणे पञ्जीकुर्वन्ति। तस्मादितोऽप्याशास्ति यतः श्वोऽप्यवशिष्यते। श्वः कति छात्राः पञ्जीकुर्युरिति कुतूहलमस्ति।

गृहयुत कार्यालये

अद्य शुक्रवासरः। कार्यालये यत्राहमुपविशामि तत्र त्रयः पर्यवेक्षका उपविशन्ति (आम्, त्रयः!)। अद्य त्रयोरपि कार्यालये न भवेयुः। तर्हि प्रातस्तरां प्रश्न उदगात्, कार्यालये गन्तव्यमुत गृहादेव कार्यङ्कर्तव्यमिति। गृहात्कार्यङ्करणे लाभा हानयश्च। वाहनसम्मर्दे समयो न क्षेपणीयः, यानेन्धनस्य प्रयोगोऽपि न्यूनो भवति। तेन वायुप्रदूषणो न्यूनायते। इमे तु लाभाः। गृहात्कार्ये कुर्वत्यहं न्यूनतयाहिण्डे यतः कार्यालयस्यापेक्षया गृहं त्वतिलघु। गृहे प्रसाधनगृहं रसवती च निकटवर्ती। कार्यालययेने दूरम्। तेनाटाट्याधिका भवेत्। अतः कार्यालययाधिक्येन व्यायामो लभ्यते। अद्यत्वे गृहे मातापितरावपि वर्तेते। ग्रीष्मकाले पुत्रो गृहयासीत्। तेन तौ दूरदर्शने तयोः कार्यक्रमान्न द्रष्टुमशक्नुतां यतः स आदिनङ्कोलाहलङ्करोति स्म। यद्यहङ्गृहे तिष्ठामि कार्यङ्करोमि च तर्हि तयोर्दूरदर्शनदर्शनेऽहं बाधां भवितुं शक्नुयाम्। ताभ्यां बाधान्न भवेयमपि च व्यायामोऽपि लभ्येतेति विचिन्त्य कार्यालयमागमम्।

बुधवार, 21 अगस्त 2019

द्विचक्रिकासन्दावरणम्

द्विचक्रिकायां विद्यमान आसन्दो नातीवसौख्यकारी। पञ्चदशनिमेषभ्यः परं नितम्बौ पीडितौ भवतः। अतो भार्यया कश्चनावरणः क्रीतः। तदावरणं द्विचक्रिकासन्दे संस्थाप्याद्य घण्टाँय्यावदचालयम्। तेनावरणेन नितम्बपीडा न्यूनीभूता।

द्विचक्रिकायामूष्माङ्कसूचकः प्रामादिकः

द्विचक्रिकायामूष्माङ्कसूचकः प्रामादिको भासते। रोधनशक्तिं वर्धयित्वापि तस्य वेगः सर्वदा समानो वर्तते। यदि रोधनशक्तिरधिका तर्हि निश्चयेनाधिकोष्माङ्का दह्येरन् परन्तु सूचक एतन्न दर्शयति।

मंगलवार, 20 अगस्त 2019

पितापि

ह्यः पितापि द्विचक्रिकामचालयत्। जीवने प्रप्रथमतया स व्यायाममकुरुतेति मन्ये। व्यायामस्त्वेतादृशी क्रिया यदारब्धा तदापि समीचीना। सः केवलं दशनिमेशान् यावद्द्विचक्रिकामचालयत् परन्तु तस्मायेतदप्यधिकं लाभकरञ्च।

अहं द्विचक्रिकायाम्

ह्योऽहं द्विचक्रिकायां सप्ततिनिमेषान् यावदासम्। अविरतं तामचालयम्। तथापि केवलं विंशत्यधिकत्रिशतोष्माङ्का दग्धाः। चलनयन्त्रे घण्टाँय्यावच्चलित्वा पञ्चशताधिकोष्माङ्कान् यापयामि स्म (चलनपट्टिका दशडिग्रिमिता प्रतिकूलं सत्याम्)। द्विचक्रिकायां रोधनशक्तेः समञ्जनङ्कर्तुं शक्यते। रोधनशक्तिरधिका भवेच्चेदधिकायास आवश्यकः। तेनाधिकोष्माङ्का दह्यन्ते। स्यान्नाम मया रोधनशक्तिर्वर्धनीया। अन्यथा दीर्घकालँय्यावद्द्विचक्रिकाञ्चालयित्वापि लाभो न लभ्येत।

सोमवार, 19 अगस्त 2019

पिता द्विचक्रिकायाम्

क्रीताया द्विचक्रिकाया अहमपि प्रयोगङ्करिष्यामीति पित्रोक्तम्। जीवने तेन कदापि द्विचक्रिका नारूढा। सप्ततिवर्षदेशीयः स इति करिष्यतीति ज्ञात्वाश्चर्यमन्वभवम्। करिष्यत्युत नेति द्रष्टव्यम्। न विस्मर्तव्यं सा स्थिरद्विचक्रिका (व्यायामायैव)। तथापि विस्मितोऽहम्। स व्रणितो न भवेदितीश्वरं प्रार्थये।

रविवार, 18 अगस्त 2019

भग्नचलनयन्त्रं वियोजितम्

अस्माकङ्गृहं द्विस्तरीयः। व्यायामालयो द्वितीयस्तरीयेऽस्ति। अतश्चलनयन्त्रमपि द्वितीयस्तरे। तच्चलनयन्त्रं भग्नञ्जातम्। तस्य भारो न्ययूनातिन्यूनं शतकिलोमितः। तत्कथमुपरिष्टादध आनेतव्यमिति समस्या। मातापितरौ तु वृद्धौ। तौ साहाय्यङ्कर्तुन्न शक्नुतः। अहं मम भार्या चाप्येतावान् भारो निच्चैरानेतुन्न शक्नुवः। आवामुपायमेकमकुर्व। चलनयन्त्रं वियोजितम्। वियोज्य तस्योपदशांशा भूताः। तानंशानेकैकशो निच्चैरानैष्व। आ बहुभ्यो दिनेभ्यः कार्यमेतन्मनसि डयदासीत्। अद्य कृत्वोपशमोऽन्वभूव।

द्विचक्रिका क्रीता

व्यायामायावाञ्चलनयन्त्रं प्रयुञ्ज्वहे स्म। मासद्वयात्पूर्वं तच्चलनयन्त्रं भग्नञ्जातम्। तच्चलनयनत्रं दशवर्षदेशीयमासीदतस्तस्य भग्ने न कोऽप्याश्चर्यो न किमपि दुःखम्। नूतनचलनयन्त्रं बहुमूल्यमपेक्षते। अत आवां तत्स्थाने व्यायामाय द्विचक्रिकामक्रीणीव। स्थिरद्विचक्रिका सा। एतावत्पर्यन्तं तु सा सम्यग्भासते। कतिभ्यो दिनेभ्यः सोपयोगिनी भवेदिति द्रक्ष्यावः।

शनिवार, 10 अगस्त 2019

पितुर्हठः

ममेव पितुरपि निद्रासमस्यास्ति। सोऽप्यारात्रि शयितुन्न शक्नोति। अहं तं बोधितवान् यन्मदीयापीयं समस्या। इयं समस्या मया ‘मेग्नीशीयम्-विटामिन्-डी’ जग्ध्वा परिह्रियते। तेनापीमे सेवितव्ये। सोऽवदद्यावच्छक्यमहं निद्रौषधेन विनैव जिजीविषामीति। अहमवदमिमे न निद्रौषधे, इमेऽनिवार्यौ भोजनांशौ, शरीरेऽनयोरभाववशान्निद्रा व्यपयातीति। तथापि स तौ न सेवते।

कश्चत्वारिंशद्वर्षदेशीयः कः सप्ततिवर्षदेशीयः

ह्यः पुत्रस्तस्य मात्रा पितामह्या सह प्रतिवेशिनो गृहङ्गतवानासीत्। गृहेऽहं मम पिता चैवास्व। मदिरापाने क्रियमाणे जीवनविषये सम्भाषणञ्जातम्। जीवने साफल्यमेव लक्ष्यम्, तस्यैव पारम्यमिति पिताभणत्। साफल्यं नाम धनम्, सम्मानः, पदोन्नतिः, विशालगृहम्, दीर्घकारयानम्। इमानि सर्वाणि प्राप्य किं भविष्यतीत्यहमपृच्छम्। मम प्रश्नञ्छ्रुत्वा स विचारविमूढोऽभवत्। कीदृशः प्रश्नोऽयम् - सर्वे जना इमानि वस्तूनीच्छन्ति। एतैः सुखं प्राप्येतेति तस्य विचारसरणिः। अहमवदम् - “अहं मम सुखं भविष्यत्काले प्राप्यमाणेषु वस्तुषु नाधारीकरोमि। यन्मत्सकाशे सम्प्रत्यस्ति तदाधारीकृत्याहं सुखमनुभवामि।” यद्येवं न क्रियेत तर्हि कदापि सुखसन्तोष नानुभूयेते यतो मानवेच्छा अनन्ताः। सोऽवदत् - “एतादृशी विचारसरणिरद्यत्वे न शोभते। साफल्यस्य प्राधान्यमस्ति सुखसन्तोषस्याङ्गता।”। यद्यपि तस्य गृहधनमानादीनां स्थितिः क्लेशरहिता तथापि तेन सुखसन्तोषो नानुभूयेतेऽस्मिन् क आश्चर्यः? अवागोऽहं तस्य मुखमैक्षे। आवयोः कश्चत्वारिंशद्वर्षदेशीयः कः सप्ततिवर्षदेशीय इत्यस्मिंश्चिन्तामग्नोऽभवमहम्।

गुरुवार, 8 अगस्त 2019

द्वैधीभावः

अद्यत्वे कस्मिंश्चिद्द्वैधीभावे निमग्नोऽहम्। जीवने समयो मितप्रमाणेन लभ्यते। तस्य सदुपयोगः करणीय इत्यस्मिन्न कापि विप्रतिपत्तिः। सदुपयोगः क इति प्रश्नः। धनार्जनं सन्तोषार्जनमेतयोः कस्य प्राधान्यम्? यदि प्रथमस्य प्राधान्यं तर्हि मया कार्यमुद्दिश्य प्रयत्नीयं। तदर्थङ्कार्यालये पदोन्नतेः कृते परिश्रमः करणीयः, अधिकवेतनं दददुद्योगं लम्भनीयम्। सन्दर्शनसन्नाहस्य कृते बहूनि पुस्तकानि पठनीयानि, समधिकाभ्यासः करणीयः। यदि द्वितीयस्य प्राधान्यं तर्हि ममाभिरुची उद्दिश्य प्रयत्नीयम्। साँयकाले वाद्ययन्त्राभ्यासः करणीयः, संस्कृतक्षेत्रे कार्यङ्करणीयम्। धनार्जनायाभिरुचिभ्य उभाभ्यां समयो नास्ति। कठिननिर्णयोऽयम्।

रविवार, 4 अगस्त 2019

प्रातराशायागमाम

प्रातस्तरां मम मम पितुश्च भ्रमणाय योजनासीत् परन्तु वृष्टिरभूत्। अतो भ्रमणाय नागमाव। अनन्तरं प्रातराशाय मातापितृभ्यां सह बहिरगमाम। ‘टाकोस्’ अखादिषम्। ताभ्यामरोचन्त। पुत्रोऽपि मुदितः।

शुक्रवार, 2 अगस्त 2019

'अभियुक्त' 'अपराधिन्' शब्दयोर्भेदः

जुलैमासस्य सम्भाषणसन्देशसञ्चिकायामेकं लेखमपठम्। तस्मिँल्लेखे लेखिकयाभियुक्तः ‘अपराधी’ शब्देनाभिहितः। लेखिकयानयोः शब्दयोर्भेदो न ज्ञायतयिति स्पष्टम्। यस्य उपर्यापराधस्याभियोगमस्ति सोऽभियुक्तः। अभियुक्तेन कृतस्यापराधस्य प्रमाणो यदा प्राप्यते तदाभियुक्तोऽपराधी भवति। यदि प्रमाणो न प्राप्यते तर्ह्यभियुक्तेनापराधः कृत उत न कृत इति न ज्ञायते। अतस्तमपराधी वक्तुं न शक्यते।

मासभक्षी बुभुक्षुः

आ दिन्द्वयात् पुत्रः कुक्कुटबर्गरस्य कृतेऽनुरुन्धान आसीत्। भोजनाय बहिर्गन्तव्यमिति सर्वैर्निश्चतिम्। परन्तु मातापितरौ शाकाहारिणौ। यत्र पुत्रो नेतव्यस्तत्र ताभ्याङ्किमपि न प्राप्यते। युष्माभिस्त्रीभिरेव गन्तव्यमिति ताववदताम्। ताभ्यां विना गमनस्य ममेच्छा नासीद्यतस्तौ स्वयमेव कुत्रापि न गच्छतः। केवलमस्माभिः सहैव गच्छतः। निर्मनस्कतया वयमगच्छाम। पुत्रेण कुक्कुटबर्गरङ्खादितम्। सोऽमोदत। मातापितरौ गृहयेवातिष्ठताम्।

शुक्रवार, 26 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ५)

दमनकः सञ्जीवकं कथितवान्…

वर्धमाननगरे दन्तिलः नाम्ना कश्चन धनिकः वणिक् आसीत्। सः समृधः वणिक् राज्ञः विश्वासपात्रेषु अन्यतमः। सः स्वच्छन्दं राजसभां गच्छति स्म। सः राजसभायै मन्त्रणां ददाति स्म। सर्वे तं बुद्धिमान् ज्ञानी च विभावयन्ति स्म।

एकदा दन्तिलेन तस्य पुत्र्याः विवाहः आडम्बरेण आयोजितः। बहवः प्रसिद्धाः जनाः आगतवन्तः। राजसेवकः गोरम्भः अपि आगतवान्। अविदिततया सः सेवकः उन्नतवंशीये आसन्दे उपविष्टवान्। एतत् दन्तिलाय न अरोचत। सः चिन्तितवान् - “एषः सेवकः कथम् उन्नतवंशीये आसन्दे उपवेष्टुं साहसं करोति।” सः गोरम्भं भवनात् निष्कासितवान्।

गोरम्भः निष्कासितः। सः अपमानितः। “एषः वणिक् मम अपमानं कृतवान्। मया प्रतिकारः करणीयः।”

गोरम्भः योजनां रचितवान्। अग्रिमे दिने सः राज्ञः शयनप्रकोष्ठं गतवान्। तत्र सः राजशय्यायाः अधः मार्जानम् आरब्धवान्। यदा राजा निद्रातः जाग्रत् आसीत् तदा सः मन्दस्वरेण उक्तवान् “अहो! दन्तिलस्य धृष्टता! सः राज्ञीम् आलिङ्गितवान्!”

राजा झटिति उत्थाय पृष्टवान् - “अयि! भवान् किम् उक्तवान्? दन्तिलः मम राज्ञीम् आलिङ्गितवान् - एतत् सत्यं वा?”

गोरम्भः क्षमां याचितवान् - “हे राजन्। ह्यः आरात्रि अहं द्यूतक्रीडां क्रीडितवान्। अतः निद्रा न प्राप्ता। अहं निद्रालुः। किम् उक्तवान्, अहं न स्मरामि।”

यत् श्रुतं राजा विस्मर्तुं न शक्तवान्। ईर्षा तस्य मनसि आगता “एतत् शक्यं वा? किं दन्तिलः मम राज्ञ्याः आलिङ्गनं कुर्यात्? सः वणिक् मम प्रासादे कुत्रापि गन्तुं शक्नोति अतः एतत् शक्यम्। स्यात् नाम गोरम्भेण तयोः आलिङ्गनं दृष्टम्। दिने यत् कृतं दृष्टं च तत्विषये बहवः जनाः निद्रायां वदन्ति। सेवकस्य शब्दाः न उपेक्षणीयाः। मया सावधानं भवितव्यम्।”

राज्ञः एतत् चिन्तनं दृढं जातम्। प्रासादे दन्तिलस्य आगमनं निषिद्धं कारितम्। दन्तिलस्य सर्वे राजाधिकाराः अपगताः। सद्यः परिवर्तनेन दन्तिलः आश्चर्यम् अनुभूतवान्। सः चिन्तितवान् “यद्यपि मया किमपि अनुचितं न कृतं तथापि राजा किमर्थं एतादृशं व्यवहारं करोति?”

एकदा दन्तिलः प्रासादे प्रवेष्टुं प्रयत्नं कृतवान्। द्वारपालकः तं रुद्धवान्। एतत् दृष्ट्वा गोरम्भः उक्तवान् - “रे द्वारपालकाः! भवन्तः मूर्खाः। भवन्तः न जानन्ति कीदृशः महाभागः एषः वणिक्? एकदा अहम् उत्सवात् एतेन निष्कासितः यतः अहम् एतस्य सम्मानं न कृतवान्। यदि भवन्तः एतस्मै अन्तः गमनाय अनुमतिं न ददति तर्हि सः भवतः अपि दण्डयिष्यति।”

किं प्रवृत्तं तदा दन्तिलेन अवगतम् “एतत् सर्वं मार्जकेन कृतम्।” दन्तिलः चिन्तितवान्, “एतेन राज्ञः दृष्ट्यां मम मानः न्यूनीकृतः। यदि सः मां निष्कासयितुं शक्नोति तर्हि सः मम पुनः प्रवेशम् अपि कारयितुं शक्नोति। एतेन सह मया मैत्री करणीया।”

एकदा दन्तिलः गोरम्भं स्वगृहे आहूतवान्। तस्मै उपहाराणि दत्तवान्। विवाहोत्सवे तेन कृताय व्यवहाराय क्षमाम् अपि याचितवान्।

गोरम्भस्य सन्तुष्टिः जाता। दन्तिलस्य मानः राज्ञः दृष्ट्यां पुनः वर्धेत तन्निमित्तं सः दन्तिलस्य साहाय्यं कर्तुं निश्चितवान्। अग्रिमे दिने यदि राजा शयानः आसीत्, मार्जकः पुनः अभिनयं कृतवान्। यदा राजा निद्रातः उत्तिष्ठन् आसीत् तदा सः उक्तवान् - “राजा शौचालये कर्कटीं खादति।”

राजा आश्चर्येण उत्थाय पृष्टवान् “अयि रे! कदा अहं शौचालये कर्कटीं खादितवान्? अपि च भवान् कथं द्रष्टुं शक्नुयात्?”

मार्जकः उत्तरं दत्तवान् - “क्षम्यतां राजन्! किम् उक्तवान् अहं न स्मरामि। आरात्रि द्यूतक्रीडावशात् इदानीमपि अहं निद्रालुः।”

राजा चिन्तितवान् - “यदि एषः मूर्खः मम विषये किमपति वदति तर्हि दन्तिलस्य विषये अपि एतेन यत् उक्तं तत् असत्यं भवितुम् अर्हति। अन्यच्च दन्तिलस्य अनुपस्थितिवशात् राजकार्येषु क्लेशः अनुभूयते।

समनन्तरं राजा राजसभायां दन्तिलाय पुनः पदं दत्तवान्। पुनः सर्वं कुशलम् अभवत्।

दमनकः कथां समाप्तवान् - “अतः यः राज्ञः समीपे अस्ति तस्मै सर्वदा आदरः दर्शनीयः।

सञ्जीवकेन अवगतम्। सः दमनकेन सह राजानं मेलनार्थं गतवान्।

पिङ्गलकः सञ्जीवकं मिलित्वा तस्य परिचयं पृष्टवान्। वणिजा सह यात्रा, पङ्के पादनिमज्जनवशात् चलने असामर्थ्यम्, सर्वं वृषभेण श्रावितम्। पिङ्गलकः समन्दहासम् उक्तवान् - “चिन्ता मास्तु मित्र! इदानीं भवान् मम वने अस्ति। निर्भयेन कुत्रापि गच्छतु। भवतः रक्षा मम दायित्वम्।”

तदा आरभ्य सिंहवृषभयोः मैत्री जाता। सिंहः केवलं वनविषये जानाति स्म, वृषभः केवलं नगरविषये। परस्परं तौ ज्ञानसंविभागं कृतवन्तौ रहस्यानि च कथितवन्तौ। अन्ये पशवः दूरीभूताः। गच्छता कालेन राजक्रीडासु, हनने, अन्यासु मासाहारिचर्यासु च पिङ्गलकस्य रुचिः क्षीणा जाता। सः वृषभेण, तस्य जीवनचर्यया च प्रभावितः। सः केवलं स्वस्य भोजनाय हननं करोति स्म। इदानीं तस्य परितः स्थिताः शृगालाः अन्ये पशवः च अवशिष्टं मासं न प्राप्नुवन्ति स्म।

शृगालौ खिन्नौ अभवताम्। दमनकः करटकम् उक्तवान् - “एतत् मया किं कृतम्! इदानीम् आवयोः स्थितिः पूर्वापेक्षया कष्टकरी। न केवलं सर्वे अधिकाराः अपगताः, इदानीम् आवाभ्यां भोजनम् अपि न प्राप्यते। मया परिष्कारः करणीयः। मुनिः लोभिशृगालः च इव मम एव दोषः।”

करटकः पृष्टवान् - “सा का कथा?”

तदानीं दमनकः करटकं मुनेः लोभिशृगालस्य च कथां श्रावितवान्।

बुधवार, 24 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ४)

दमनकः पिङ्गलकं कथितवान्…

वने कश्चन बुभुक्षितः शृगालः आसीत्। भोजनस्य अन्वेषणं कुर्वन् सः किञ्चित् युद्धक्षेत्रं दृष्टवान्। दूरात् सः उच्चनादं श्रुतवान्। विलक्षणः नादः सः। तादृशः नादः तेन पूर्वं कदापि न श्रुतः। सः भीतः। यः तं मारयिष्यति तादृशस्य कस्यचित् भयङ्करजीवस्य नादः अस्ति इति सः चिन्तितवान्। सः घोरभयम् अनुभूतवान्। भीत्या सः अग्रे गतवान्। एकस्य वृक्षस्य अधः मृदङ्गं दृष्टवान्। वायुवेगेन वृक्षस्य शाखाः मृदङ्गं ताडयन्ति स्म। तेन ताडनेन नादः उत्पन्नः।

शृगालेन पूर्वं कदापि मृदङ्गः न दृष्टः। सः अवधानेन मृदङ्गस्य समीपे गतवान् मृदङ्गं नुत्तवान् च। सः मृदङ्गः निश्चलः। यः एतादृशं नादं करोति निश्चयेन सः केनचित् वस्तुना परिपूर्णः, प्रायः भोजनेन, इति सः चिन्तितवान्। सः मृदङ्गस्य चर्म विदीर्णवान्। अन्तः किमपि नासीत्। सः समन्दहासं चिन्तितवान् - “अहं नादात् भीतः आसं परन्तु एतस्य अन्तः वायोः अतिरिक्तं किमपि नास्ति।”

शृगालः भोजनस्य अन्वेषणं अनुवृत्तवान्, इदानीं किञ्चित् निर्भयेन।

दमनकः कथां समाप्तवान् - “हे राजन्। केवलं नादः खलु। तथापि यदि भवान् इच्छति अहं गत्वा अनुसन्धानं करिष्यामि।”

पिङ्गलकः अनुमतिं दत्तवान्। दमनकः अनुसन्धानाय गतवान्।

दमनकस्य गमनस्य पश्चात् दमनकः किम् इच्छति इति पिङ्गलकः ससन्देहं चिन्तितवान् - “स्यात् नाम मया दमनके विश्वासः न करणीयः। मम मन्त्रिगणे अहं तस्मै पदं न दत्तवान् एतेन कारणेन तस्य मनसि द्वेशभावना भवेत्। प्रायः सः मम अहिताय व्यवहारं कुर्यात्। यः बलवान् अस्ति परन्तु सर्वेषु विश्वासं करोति, तस्य अपेक्षया दुर्बलं परन्तु बुद्धिमन्तं नरं वञ्चयितुं दुष्करम् - इति उच्यते। न, अहं शृगाले विश्वासं न करिष्यामि। सावधानं भविष्यामि।”

यत्र सञ्जीवकः तृणानि खादति स्म तत्र दमनकः आगतवान्। सः केवलं शाकाहारी पशुः इति दृष्ट्वा दमनकः त्वरया राज्ञः समीपे गत्वा यत् दृष्टं तत् राजानं सूचितवान्।

पिङ्गलकः तस्मिन् विश्वासं न कृतवान् - “भयङ्करगर्जनं कुर्वन्तं एतं जीवं भवान् दृष्टवान् - एतत् सत्यं वा?” शृगालः अङ्गीकारं दर्शितवान्। सिंहः उक्तवान् - “भवान् सत्यं वदति इति मन्ये। यतः भवान् जीवितः आगतः अतः भवान् तं दृष्टवान् इति चिन्तयामि। शक्तिमन्तः जीवाः भवादृशान् तुच्छजन्तून् न मारयन्ति। चण्डावातः तृणं न उत्पाटयति, वृक्षान् उत्पाटयति। भवान् न तत्तुल्यः इति तेन जीवेन चिन्तितम्। सः निश्चयेन शक्तिमान् अस्ति।”

पिङ्गलकः घोरभयम् अनुभवन् आसीत्।

दमनकः विनम्रतया परन्तु दृढतया उक्तवान् - “हे राजन्। तं जीवम् अनुरोधं करिष्यामि यत् सः भवता सह मिलतु इति।” पिङ्गलकः अङ्गीकारं दत्तवान्।

दमनकः वृषभस्य समीपे गत्वा आदिष्टवान् “हे वृषभ। सर्वाणि कार्याणि त्यजतु। मम राजानं मिलतु।”

कः राजा इति यदा सञ्जीवकेन पृष्टं तदा दमनकः उच्चतरेण स्वरेण उक्तवान् “भवान् शक्तिशालिसिंहं पिङ्गलकं न जानाति? अकारणं निरन्तरं गर्जनकारणात् सः भवन्तं निश्चयेन दण्डयिष्यति।”

सञ्जीवकः भीतः। निश्चयेन मरणदण्डं प्राप्स्यति इति सः चिन्तितवान्। सः दमनकम् अनुरोधं कृतवान् “कृपया मम साहाय्यं करोतु। भवान् बुद्धिमान् अस्ति। राजानम् उक्त्वा मम जीवनं रक्षयतु। अहं भवता सह आगमिष्यामि।”

अत्रैव तिष्ठतु इति वृषभम् उक्त्वा दमनकः पिङ्गलकस्य समीपे गतवान् उक्तवान् च - “हे राजन्। एषः न साधारणजीवः। सः शिवदेवस्य वाहनम्। तेन सह मैत्री करणीया।”

पिङ्गलकः उक्तवान् - “पूर्वमेव मया चिन्तितं खलु, एषः न साधारणः जीवः। तं महन्तं वृषभम् अत्र आनयतु। तं मेलिष्यामि।

दमनकः सञ्जीवकं गत्वा तं सूचितवान् - “अस्तु। मम अनुरोधेन राजा भवन्तं न मारयिष्यति। परन्तु आवयोः सम्मतिः भवतु। राजा भवन्तम् आदरं दर्शयिष्यति इति व्यवस्थाम् अहं करिष्यामि। परन्तु भवान् सर्वदा मम समीपे तिष्ठतु, मम निर्देशं शृणोतु। राज्ञः प्रीतेः दुरोपयोगं मा करोतु अन्यथा भवतः दशा अपि दन्तिलवणिक् इव भवेत्।”

“दन्तिलेन सह किं प्रवृत्तम्?” सकुतूहलं पृष्टवान् सञ्जीवकः।

तदानीं दमनकः सञ्जीवकं दन्तिलवणिजः कथां श्रावितवान्।

सोमवार, 1 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ३)

करटकः दमनकं कथितवान्…

कस्मिंश्चित् नगरे कश्चन वणिक् मन्दिरनिर्माणं कारयति स्म। तदर्थं बहवः लेपकाः, तक्षकाः, रचनाकाराः च कार्यरताः आसन्। ते बृहद् वृक्षकाष्ठं लघुखण्डेषु कर्तयन्तः आसन्। एकदा कार्यकर्तारः प्रातःकालीनं कार्यं समाप्य मध्यदिने भोजनाय गतवन्तः।

यत्र काष्ठखण्डानि उपकरणानि च आसन् तत्र कश्चन वानरसमूहः आगतवान्। वानरसमूहः काष्ठखणडैः उपकरणैः च क्रीडितुम् आरब्धवान्। एकं वृक्षकाष्ठम् अपूर्णतया भागद्वये विभक्तम् आसीत्। एतत् एकेन वानरेन दृष्टम्। कार्यकर्तृणा भागद्वयस्य मध्ये लघुकाष्ठखण्डं स्थापितं येन भागद्वयं पुनः संयुक्तं न भवेत्। लघुकाष्ठखण्डं किमर्थं तत्र स्थापितम् इति वानरः चिन्तितवान्। भागद्वयस्य मध्ये कूर्दित्वा वानरः बलेन लघुकाष्ठखण्डं कर्षितवान्। अचिरात् लघुकाष्ठखण्डं बहिः आगतम्। क्षणाभ्यान्तरे भागद्वयं पुनः संयुक्तम् अभवत्। मध्ये स्थितः वानरः विमर्दितः मृतः च!

करटकः अनुवृत्तवान् - “यत्र किमपि कार्यं न आसीत् वानरः तत्र हस्तक्षेपं कृतवान्। पश्यतु, तस्य दशा! अतः आवाभ्यां राज्ञः कार्येषु हस्तक्षेपः न कर्तव्यः। राज्ञः भक्षणस्य अनन्तरं यत् आवश्यकं तत् भोजनम् आवाभ्यां प्राप्यते। अतः हस्तक्षेपः किमर्थं कर्तव्यः?”

दमनकः उत्तरं दत्तवान् - “केवलं भोजनविषये भवान् चिन्तयति वा? राजसेवां कृत्वा आवाभ्यां प्रज्ञा, धनं सम्मानः च प्राप्तव्याः। कुक्कुराः काकाः च अवशिष्टं भोजनं खादन्ति। आवाभ्यां तेभ्यः समीचीनतरं भवितव्यम्।”

करटकः - “राजमन्त्रालये आवयोः किमपि पदं नास्ति। राजा भवता सह किमर्थं सम्भाषणं करिष्यति?”
दमनकः - “राजा भीतः। एतस्मिन् काले एव सः मन्त्रणाम् अपेक्षते। तस्य परितः सर्वे मूर्खाः। एतस्य अवसरस्य सदुपयोगं करिष्यामि।”
करटकः - “भवान् कथं जानाति राजा भीतः?”
दमनकः - “तस्य शारीरिकभाषां पश्यतु। तस्य अन्यपशूनां च मध्ये तेन दूरत्वं निर्मितम्। सः कमपि अभिमुखं न पश्यति। सः निरुत्साहेन चलति। तेन सह सम्भाषणं कृत्वा, मम बुद्धिम् उपयुज्य अहं तं वशीकरिष्यामि।”

“भवान् एतत् कथं साधयति?” करटकः सकुतूहलं पृष्टवान्।

दमनकः स्कन्धौ उत्क्षिप्य उक्तवान् “केनचित् वाक्येन आरम्भं करिष्यामि। तस्मात् सम्भाषणं भविष्यति। कदा वक्तव्यं कदा तूष्णीं स्थातव्यं केवलम् इति अवधानं कर्तव्यं मया। तस्य मनोदशायाः यथावत् वदिष्यामि।”

“अस्तु। शुभं भवतु।” करटकेन सम्भाषणं समापितम्।

दमनकः राज्ञः समीपे गतवान्।

दमनकः तस्य भूतपूर्वमन्त्रिणः पुत्रः इति अभिज्ञाय, पिङ्गलकः तस्य सेवकान् दमनकम् अन्तः आनेतुम् आदिष्टवान्।

दमनकः राजानं नमस्कृत्य आसन्दे उपविष्टवान्।

पिङ्गलकः पृष्टवान् - “भवान् कथम् अस्ति? चिरात् भवन्तं न दृष्टवान्।”
दमनकः उत्तरं दत्तवान् - “हे राजन्! भवन्तं मम आवश्यकता नास्ति अतः इतःपूर्वं न आगतवान्। मम पूर्वजैः प्राचीनकालात् राजसेवा कृता परन्तु इदानीम् अहं भवतः विश्वासपात्रेषु न अस्मि। किन्तु आवश्यकता अस्ति चेत् राज्ञे तृणमात्रम् अपि लाभकरम्।”

पिङ्गलकः दमनकं सन्देहेन दृष्टवान् - “भवान् मम भूतपूर्वमन्त्रिणः पुत्रः खलु। अहं भवन्तं शृणोमि। वदतु, भवान् किं वक्तुम् इच्छति?”

दमनकः पृष्टवान् - “हे राजन्। भवान् किमर्थं जलपानेन विना नदीतः आगतवान्?”
राजा उक्तवान् - “किं भवता दूरात् आगतं गर्जनम् न श्रुतम्? यस्य गर्जनम् एतादृशं सः निश्चयेन भयङ्करः। वनात् निर्गमनस्य मम समयः आगतः इति चिन्तयामि।”

दमनकः मन्दहासेन उक्तवान् - “हे महिमन्! गर्जनात् भयं मा अनुभवतु। यथा शृगालेन मृदङ्गं दृष्ट्वा अवगतम् - नादः वञ्चयितुं शक्नोति।”

“सा का कथा?” - पिङ्गलकेन पृष्टम्।

तदानीं दमनकः पिङ्गलकं शृगालमृदङ्गयोः कथां श्रावितवान्। तां कथां वयम् अग्रिमे अध्याये पठिष्यामः।

गुरुवार, 20 जून 2019

पञ्चतन्त्रम् (अध्यायः २)

विष्णुशर्मामहाशयः पुत्रत्रयं छात्ररूपेण स्वीकृतवान्। सः तान् उक्तवान् - “वने मित्रद्वयं - वृषभः सिंहः च निवसतः स्म। परन्तु तयोः मैत्री एकेन धूर्तशृगालेन नष्टीकृता।”

“कथम्?” इति यदा पुत्रैः पृष्टं तदा विष्णुशर्मामहाशयः एतां कथां श्रावितवान्।

महिलारोप्यनगरे वर्धमानकः नाम्ना कश्चन समृद्धः वणिक् आसीत्। एकदा धनविषये तस्य मनसि एषा सूक्तिः आगता -

नास्ति चेत्, अर्जनाय प्रयत्नं क्रियताम्!
यदा आगच्छति, तस्य संरक्षणं क्रियताम्!
रक्षणे कुर्वति, तस्य अभिवृद्धिः क्रियताम्!
यदा वृद्धिः जाता, दानं क्रियताम्!

वर्धमानकः समृद्धः वणिक्। सः तस्य व्यापारं वर्धयितुम् इष्टवान्। अतः व्यापाराय सः मथुरायै प्रस्थानं कृतवान्। विक्रेतव्यानि वस्तूनि सः शकटे स्थापितवान्। शकटः वृषभद्वयं नन्दकः सञ्जीवकः च चालयतः स्म।

मार्गे घोरवनम्। वने अविदिततया सञ्जीवकः पङ्के पादं स्थापितवान्। झटिति तस्य पादः पङ्के न्यमज्जत्। सञ्जीवकः व्रणितः अभवत्। सः अग्रे गन्तुं न शक्तवान्।

वर्धमानकः वृषभस्य पादं परिष्कर्तुं प्रयत्तवान् परन्तु तेन साफल्यं न प्राप्तम्। शकटे मूल्यवन्ति वस्तूनि आसन्। वने बहवः अपायाः आसन्। यद्यपि तस्य वृषभं प्रति प्रीतिः आसीत् तथापि सः तेन सह तत्रैव स्थातुं न शक्तवान्। वृषभेन सह तिष्ठन्तु इति वर्धमानकः तस्य सेवकान् उक्त्वा अग्रे गतवान्। केषाञ्चित् दिनानाम् अनन्तरं वनभयात् सेवकाः वृषभं त्यक्त्वा तेषां स्वामिनम् उपगतवन्तः। वृषभः मृतः इति असत्यं तैः वर्धमानकं सूचितम्।

वस्तुतः सञ्जीवकः न मृतः। गच्छता कालेन सः स्वस्थः अभवत्। हरितं तृणं खादित्वा, यमुनानद्याः जलं पीत्वा सः आरोग्यं प्राप्तवान्।

तस्मिन् वने एव पिङ्गलकः नाम्ना सिंहः निवसति स्म। सिंहः वनस्य राजा। सः कस्मात् अपि न बिभेति। एकदा यदा सिंहः वृषभस्य रम्भणं श्रुतवान् सः विस्मितः अभवत्। सर्वदा वने स्थितेन सिंहेन पूर्वं कदापि वृषभस्य रम्भणं न श्रुतम्। सः भीतः। वनस्य घनभागं गत्वा सः वटवृक्षस्य अधः उपविष्टवान् चिन्तितवान् च। तत्र तस्य मन्त्रिगणः अन्ये पशवः चापि आसन्।

तत्र शृगालद्वयम् अपि उपस्थितम्। तौ करटकः (अवधानयुक्तः) दमनकः (निर्भयः) च। तौ भूतपूर्वमन्त्रिणः पुत्रौ। इदानीं तौ कार्यहीनौ आस्ताम्।

चिन्ताग्रस्तं सिंहं दृष्ट्वा दमनकः करटकम् उक्तवान् - “आवयोः राजा व्याकुलः। केन कारणेन?”

करटकः उत्तरं दत्तवान् - “तेन आवयोः कः सम्बन्धः? यः अन्येषां कार्येषु चञ्चूप्रवेशं करोति सः ‘काष्ठखण्ड-कर्षन्-वानरः’ इव निश्चयेन विनाशं प्राप्नोति।”

“काष्ठखण्ड-कर्षन्-वानरः किं कृतवान्?” - दमनकः सकुतूहलं पृष्टवान्।

करटकः काष्ठखण्ड-कर्षन्-वानरस्य कथां श्रावितवान्।

रविवार, 16 जून 2019

पठामि संस्कृतं नित्यम्

पठामि संस्कृतं नित्यम्
वदामि संस्कृतं सदा
ध्यायामि संस्कृतं सम्यक्
वन्दे संस्कृतमातरम्

संस्कृतस्य प्रसाराय
नैजं सर्वं ददाम्यहम्
संस्कृतस्य सदा भक्तो
वन्दे संस्कृतमातरम्

संस्कृतस्य कृते जीवन्
संस्कृतस्य कृते यजन्
आत्मानम् आहुतं मन्ये
वन्दे संस्कृतमातरम्

हिन्दुधर्मं समाजञ्च
पवित्रां संस्कृतिं तथा
संरक्ष्य ननु कुर्याम
विश्वं शान्तिसमन्वितम्

पञ्चतन्त्रपरिचयः (अध्यायः १)

‘पञ्चतन्त्रम्’ जीवजन्तूनां कश्चन प्राचीनः कथासङ्ग्रहः। ३०० बी.सी.ई. वर्षे विष्णुशर्मामहाशयः एताः कथाः सम्पादितवान्। पशुकथानां माध्यमेन एषः कथासङ्ग्रहः अस्मान् जीवनपाठान् पाठयति।

‘पञ्चतन्त्रम्’ नीतिशास्त्रस्य विषये ग्रन्थः। ‘नीतिः’ नाम जीवनविषये विवेकः अथवा सहजबुद्धिः। जीवने वयं विज्ञानम्, कलां, सङ्गणकशास्त्रम्, वैद्यशास्त्रम् इत्यादीनि पठामः। अस्माकं सहजबुद्धिः गच्छेत् चेत् एतेषु किमपि शास्त्रं न लाभाय। दौर्भाग्यवशात् विद्यालयेषु सहजबुद्धिः न पाठ्यते यतः सा सहजा खलु! सुदैवात् पञ्चतन्त्रम् अस्ति!

नीतिशास्त्रस्य एते सिद्धान्ताः - ‘मम सुरक्षा आवश्यकी, धनम् आवश्यकम्, कर्मयोगे अहं समर्थः भवेयम्, उत्तमानि मित्राणि आवश्यकानि, मम बुद्धिम् उपयुज्य जीवनं जीवनीयम्’ इति। आश्चर्यं नाम एकः शब्दः ‘नीतिः’ बहून् अर्थान् वेष्टयति।

पञ्चतन्त्रम् कथं जातम् इति पश्यामः।

अमरशक्तिः नाम्ना कश्चन राजा आसीत्। सः महिलारोप्यस्य राजा। यद्यपि सः राजा शूरवीरः बुद्धिमान् च आसीत् तथापि तस्य त्रयः पुत्राः वासुशक्तिः, उग्रशक्तिः, अनेकशक्तिः च मूर्खाः आसन्। चिन्ताग्रस्तः राजा चिन्तितवान् - "भविष्यत्काले मम पश्चात् एते त्रयः शासनं कुर्युः। राजनीेतेः शासनस्य जीवनस्य च विषये तेषां ज्ञानं शून्यम् अस्ति। तेषां ज्ञानवर्धनाय मया किं कर्तव्यम्? हा हन्त! एते मूर्खाः किमपि ज्ञानं स्वीकर्तुं न शक्नुवन्ति।"

राजा तस्य मन्त्रिगणेन सह विमर्शं कृतवान्।

मन्त्रिगणः उक्तवान् - “हे राजन्! व्याकरणं पठनाय न्यूनातिन्यूनं द्वादशवर्षाणि आवश्यकानि। अपि च भवतः पुत्रैः अर्थशास्त्रम्, कामशास्त्रम्, मनुशास्त्रं च पठनीयानि। तदर्थं बहूनि वर्षाणि आवश्यकानि।”

राजा खिन्नः अभवत्। तस्य पुत्राः विद्वांसः भवेयुः इति तस्य आशाभङ्गः अभवत्।

मन्त्रिगणः अनुवर्तितवान् - “हे राजन्। परन्तु विष्णुशर्मामहाशयः कश्चन विद्वान् अस्ति। सः नीतिशास्त्रेषु निपुणः। भवतः पुत्रान् पाठयितुं तम् अनुरोधं कुर्याम।”

विष्णुशर्मामहाशयः आहूतः। तस्य त्रयः पुत्राः विद्वांसः भवेयुः इति इच्छा राजा तं बोधितवान्। तदर्थम् अत्याधिकधनं सः तस्मै दास्यति इति अपि उक्तवान् राजा।

विष्णुशर्मामहाशयः आसन्दात् उत्थाय उक्तवान् - ‘हे राजन्। अहं भवतः पुत्रान् पाठयिष्यामि परन्तु किमपि धनं न स्वीकरिष्यामि। अहम् अशीतिवर्षीयः। धने इत्यादिषु मम रुचिः नास्ति। केवलं भवतः योगक्षेमाय अहम् एतत् करिष्यामि। षट् मासानाम् अनन्तरं यदि भवतः पुत्राः नीतिशास्त्रेषु निपुणाः न भवेयुः तर्हि भवान् मह्यं दण्डं ददातु।’

एतादृशं प्रगल्भकथनं श्रुत्वा राजा विस्मितः अभवत्। तथापि तस्य पुत्राः विद्वांसः भविष्यन्ति इति ज्ञात्वा सः मुदितः अभवत्। सः विष्णुशर्मामहाशयं पुत्राणां शिक्षकः नियुक्तवान्।

विष्णुशर्मामहाशयः पुत्रान् ‘पञ्चतन्त्रम्’ कथाः पाठयितुम् आरब्धवान्। पञ्चतन्त्रे पञ्च तन्त्राणि (ग्रन्थाः) सन्ति।

प्रथमतन्त्रं मित्रभेदः अस्ति। मित्रभेदः नाम ‘मित्राणां च्युतिः’। शत्रूणां कारणेन कथम् उत्तमानि मित्राणि अपगच्छन्ति इति एतत् तन्त्रम् पाठयति।

द्वितीयतन्त्रम् अस्ति मित्रसम्प्राप्तिः। मित्रसम्प्राप्तिः नाम ‘मित्राणां प्राप्तिः’। मित्राणि कथं प्राप्तुं शक्नुमः, यानि मित्राणि गतानि तानि पुनः कथम् आनेतुं शक्नुमः इति एतत् तन्त्रं बोधयति। परस्परं लाभाय मैत्री कथं विकसितुं शक्नुमः इति अपि पाठयति।

तृतीयतन्त्रं काकोलुकीयम् अस्ति। काकोलुकीयम् नाम ‘काकानाम् उल्लूकानां च सन्दर्भे’। शत्रूणां मध्ये भ्रमं संशयं च जनयित्वा कथं तान् शक्तिहीनाः कर्तुं शक्नुमः इति एतत् तन्त्रं पाठयति। काकानाम् उल्लूकानां शत्रुत्वम् आधारीकृत्य विवरणं ददाति तन्त्रम् एतत्।

चतुर्थतन्त्रस्य नाम लब्धप्रणाशम्। लब्धप्रणाशम् नाम ‘लाभस्य हानिः’। यत् पूर्वं प्राप्तं यदि तस्य विषये अवधानं न कुर्मः तर्हि कथं तस्य च्युतिः भवेत् इति एतत् तन्त्रं पाठयति।

पञ्चमम् अन्तिमं च तन्त्रम् अस्ति अपरीक्षितकारकम्। अपरीक्षितकारकम् नाम ‘बुद्ध्या विना कर्माणि’। सम्यक्तया चिन्तनेन विना कृतानां कार्याणां दुष्परिणामाः द्योतयति एतत् तन्त्रम्।

रविवार, 9 जून 2019

औस्ट्रेलियाभारतयोः क्रिकेटस्पर्धा

अद्यौस्ट्रेलियाभारतयोः क्रिकेटस्पर्धामद्राक्षम्। स्पर्धाष्टघण्टा यावत्प्राचालीत्। एतावत्यो घण्टा यावत् सामान्यतोऽहं दूरदर्शनङ्कदापि न पश्यामि। परन्तु बहुदिनेभ्यः परस्ताद्भारतस्य क्रिकेटक्रीडादर्शनायावसरः प्राप्तः। एतस्मादहं मम पिता च काफीं पिबन्तौ स्पर्धामद्राक्ष्व महान्तं सन्तोषञ्चान्वभूव।

शनिवार, 8 जून 2019

पुत्रभार्येऽगमताम्

पुत्रभार्येऽद्य नगराद्बहिरगमताम्। भार्या सखीं मेलितुं गता। तया सह पुत्रोऽप्यगमत्। सख्याः पुत्रीद्वयं पुत्रञ्च। तैः सह क्रीडनं पुत्राय रोचतेऽतः सोऽप्यगमत्। एतस्माद्मातापितरौ विश्रान्तिं प्राप्नुयाताम्।

बुधवार, 5 जून 2019

क्रिकेटस्पर्धामद्राक्षम्

अद्य बहुभ्यो दिनेभ्यः परस्तात् क्रिकेटक्रीडामद्राक्षम्। सामान्यतोऽहं तां स्पर्धान्न पश्यामि परन्त्वद्यत्वे मातापितरावागतावित्यतः क्रीकेटक्रीडादूरदर्शनवाहिनी योजिता। बहुभ्यो वर्षेभ्यः परं पित्रा सह क्रीकेटक्रीडां दृष्ट्वा मम बाल्यकालमस्मारिषम्।

मन्दिरजिगमिषू

नगरोपकण्ठे साईमन्दिरमस्ति। मम मातापितरौ जिगमिषू। श्वस्तौ नेतास्मि। श्वः पुत्रभार्याभ्याङ्कस्याश्चिज्जन्मदिवसोत्सवाय गन्तव्यम्। अतो मन्दिरं वयं त्रय एव गन्तास्मः।

मंगलवार, 4 जून 2019

ग्रीष्मकालवर्गः-२०१९-२

नूतनवर्गो जून्-नवता रिरप्सामि। परन्तु न्यूना जना एवागच्छेयुरिति भासते। वर्गः करणीय उत नेति द्वैधीभावो मनसि वर्तते यतो वर्गप्रकोष्ठाय धनव्यय आवश्यकः। यदि न्यूना जना एवागच्छेयुस्तर्हि धनहानिर्भवेत्।

सोमवार, 3 जून 2019

द्विदिवसीयावासिसंस्कृतशिबिरम्

द्विदिवसीयावासिसंस्कृतशिबिरं समपद्यत। प्रायः सार्धशतजना भागमवहन्। अहं शनिवासरे भानुवासरे च बहुभ्यो घण्टाभ्यो यावदपाठयम्। अहमस्माकं सञ्चालकेन सह शिबिरायागच्छम्। तेन सहैवागच्छम्। सर्वं सम्यक्तया प्राचलत्। जना उत्साहेन भागमूढवन्तः।

सोमवार, 27 मई 2019

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः॥

सन्धिना विना रूपम् -
काकः कृष्णः पिकः कृष्णः कः भेदः पिककाकयोः।
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः॥

काकस्य वर्णः कृष्णः पिकस्य अपि वर्णः कृष्णः। दर्शनमात्रेण अनयोः भेदः ज्ञातुं क्लेशः जायते। परन्तु यदा वसन्तर्तुः आगच्छति तर्हि तौ कूजतः। वयं जानीमः काकस्य कूजनं कथम् अस्ति पिकस्य कूजनम् अस्ति। अतः वसन्तर्तौ तयोः भेदः स्पष्टः भवति। तयोः भेदः दर्शनमात्रेण ज्ञातुं न शक्नुमः परन्तु तौ किं कुरुतः तस्मात् भेदं ज्ञातुं शक्नुमः।

चिन्तनीया हि विपदामादावेव प्रतिक्रिया

चिन्तनीया हि विपदामादावेव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥

सन्धिना विना रूपम् -
चिन्तनीया हि विपदाम् आदौ एव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥॥

विपदा का? समस्या। यदा समस्या आगच्छति तस्मिन् काले तस्याः परिहारः न अन्वेषणीयः। विपदाम् आदौ एव अन्वेषणीयम्। विपदायाः पूर्वमेव परिहारः अन्वेषणीयः। उदाहरणतः - यस्मिन् काले गृहं अग्निना प्रज्वलन्न अस्ति तस्मिन् काले जलस्य अन्वेषणाय कूपखननं न आरम्भनीयम्। तावता तु अतीवविलम्बः अभवत्। अग्नेः निर्वापणाय पूर्वमेव जलं सज्जीकरणीयम्। अतः विपदायाः आगमनात् पूर्वं तस्याः परिहारः सज्जीकरणीयम् इति अस्य सुभाषितस्य सन्देशः।

गौरवं लभ्यते दानान्न तु वित्तस्य सञ्चयात्

गौरवं लभ्यते दानान्न तु वित्तस्य सञ्चयात्।
स्थितिरुच्चैः पयोदानां पयोधीनामधः स्थितिः॥

सन्धिना विना रूपम् -
गौरवं लभ्यते दानात् न तु वित्तस्य सञ्चयात्।
स्थितिः उच्चैः पयोदानां पयोधीनाम् अधः स्थितिः॥

गौरवं कथं लभ्यते - इति एषत् सुभाषितम् अस्मान् बोधयति। गौरवं लभ्यते दानेन न तु धनसङ्ग्रहेणेन। स्थितिः उच्चैः पयोदानां - पयोदः कः? मेघः। मेघः कुत्र अस्ति? उपरि अस्ति। तस्य स्थितिः उच्चैः - आकाशे अस्ति। पयोधीनाम् अधः स्थितिः - पयोधिः कः? समुद्रः / सागरः। समुद्रः कुत्र अस्ति। पृथ्वयां, निच्चैः अधः। तर्हि यतः मेघस्य स्थितिः उपरि अस्ति, समुद्रस्य स्थितिः निच्चैः अस्ति तथैव दानस्य स्थितिः उपरि अस्ति, दानेन गौरवं लभ्यते न तु धनसञ्चयनेन। धनसञ्चयस्य स्थितिः अधः अस्ति।

आ नो भद्राः क्रतवो यन्तु विश्वतः

आ नो भद्राः क्रतवो यन्तु विश्वतः।

(सन्धिना विना रूपम् - आ नो भद्राः क्रतवः यन्तु विश्वतः।)

एषः श्लोकः ऋग्वेदतः उद्धृतः। एतस्य श्लोकस्य अर्थः अयम्। उन्नतविचाराः, साधुविचाराः, समग्रात् विश्वात् अस्मभ्यम् आगच्छन्तु इति अस्माकं प्रार्थना।

न निश्चितार्थाद्विरमन्ति धीराः

न निश्चितार्थाद्विरमन्ति धीराः।

(सन्धिना विना रूपम् - न निश्चितार्थात् विरमन्ति धीराः।)

एषा सूक्तिः भर्तृहरेः नीतिशतकात् उद्धृता। एतस्याः सूक्तेः अर्थः अयम्। धीरपुरूषाः यदा किमपि निश्चयं कुर्वन्ति अनन्तरं ते तत् निश्चयं न त्यजन्ति। ते दृढसङ्कल्पाः सन्ति।

शनिवार, 25 मई 2019

आत्मजस्य जन्मदिवसोत्सवः-२

मध्याह्ने पुत्रस्य जन्मदिवसोत्सव प्राचालीत्। दशजना आगमन्। तेषु त्रयो बालका द्वे बालिके चासन्। सर्वे स्वादुभोजनमखादिषुः। पुत्राय बहून्युपायनानि जना आनैषुः। स प्रहृष्टोऽभूत्।

शुक्रवार, 24 मई 2019

आत्मजस्य जन्मदिवसोत्सवः

श्वस्तनयस्य जन्मदिवसोत्सव आचरिष्यते। सामान्यतो विंशत्यधिकजना आगच्छेयुः परं सोमवासरे कार्यालयेष्वकाशो भविता। इत्यतोऽयं सप्ताहान्तो दीर्घः। अतो बहवो जनाः प्रावासाय गच्छेयुः। एतस्माज्जन्मदिवसोत्सवाय किञ्चिन्नयूना जना आगन्तारः। तथापि द्वादशजना आगन्तार इत्यावयोरूहा।

गुरुवार, 23 मई 2019

षड्वर्षीयः पुत्रः

ह्यः पुत्रः षड्वर्षीयोऽभवत्। तस्य जन्मदिवसोत्सवस्त्वागामिशनिवासरे भविता परन्तु ह्यः प्रतिवेशिनो गृहमागच्छन्। मधुरपिष्टकञ्चानयन्। यस्मिन् काले तयागच्छँस्तदाहङ्कार्यालयान्नागत आसम्। पुत्रस्य माता गृहस्योपरितने स्तरे व्यायामङ्कुर्वन्नासीत्। मदीयाभ्यां पितृभ्यां प्रतिवेशिनः स्वागतीकृताः। मधुरपिष्टकं स्वादुरासीत्। दिष्ट्या तत्पिष्टकँल्लघ्वासीत्।

ग्रीष्मकालः-२०१९ वर्गः

अहं संस्कृतानुरागी। सामान्यतो ग्रीष्मकाले वर्गा न प्रचल्यन्ते। वसन्तर्तोश्छात्राणामोत्साहो ह्रसेदिति भयाद्ग्रीष्मकालेऽपि पिपाठयिषामि। इदानीमस्माकं सञ्चालक आवासिशिबिरायोजनाय व्यस्तः। तदनन्तरं तस्य साहाय्येन ग्रीष्मकालवर्ग आरप्स्ये। जून्-८ आरभ्य वर्गः प्रचलेदित्याशा। वर्गाय षड्जना आगच्छेयुरिति प्रश्नपत्रेण ज्ञातम्। प्रायः सर्वे छात्राः सम्भाषणाभ्यासायोत्सुकाः।

रविवार, 19 मई 2019

वसन्तर्तोरन्तिमवर्गः

अद्य वसन्तर्तोरन्तिमवर्गोऽभूत्। सर्वैश्छात्रैः सोत्साहं भाग ऊढः। बालकैस्त्रीणि नाटकानि कृतानि। प्रौढा अपि पञ्चतन्त्रकथाया नाटकमकार्षुः। नाटकानामनन्तरं सर्वे भोजनमघसन्। शिक्षकाः काँश्चन शब्दानभाणिषुः। प्रौढछात्राः शिक्षकेभ्य उपायनमदुः। एका छात्रा नगरं त्यक्ष्यति। सा भावनात्मकतयाभाषीद्यत् तयाहं स्मरिष्ये। अद्यतनवर्गो बहुसम्यक्तया प्राचालीत्।

शनिवार, 18 मई 2019

षड्रुप्यकाणि

गतमासे दूरवाणीदेयकस्य शुल्कदानयेकस्य दिनस्य विलम्बोऽभवत्। अस्मिन् मासे तैः षड्रुप्यकाणि बिलम्बशुल्करुपेणास्य मासस्य देयकेऽन्तर्भूतानि। अहं तैः सह दूरवाण्या समभाषे। तद्विलम्बशुल्कं लुप्यतामिति मया याचितम्। केवलमेकवारमेव विलम्बोऽभवदित्यतः प्रमादः क्षन्तव्य इति प्रार्थनामकार्षम्। तैर्विलम्बशुल्कमलुप्तम्।

पितरावागतौ

बुधवासरे स्वदेशात्पितरावगतौ। तयोर्विमानमन्यस्मिन्नगरेऽवातरत्। तन्नगरं सप्तत्यधिकशतमैलदूरमासीत्। अहं तत्र गत्वा तावानयम्। एकस्मिन् दिनयेव चत्वारिंशदधिकत्रिशतमैलविदूरतातिक्रम्य श्रान्तिमन्वभवम्। यात्रा सम्यगासीत्। गृहमागत्यास्माकङ्गृहं दृष्ट्वा तयोः किञ्चिदाशाभङ्गोऽभवद्यत एतद्गृहं पूर्वस्माद्गृहादपेक्षया बहिरङ्गतो लघुतरमस्ति। परन्त्वन्तरङ्गतस्तु गृहं बृहत्तरम्। तयोः स्वास्थ्यं सम्यगस्तीति दृष्ट्वाहमपगतचिन्तोऽभवम्। तौ षण्मासान् यावत् स्थातारौ। तयोर्निवासः काठिन्यहीनो भवेत्तदर्थं प्रयतिष्यावहे।

रविवार, 12 मई 2019

नाटकाभ्यासः

वसन्तर्तोः संस्कृतवर्गस्यान्तं निकटायते। बालकैर्नाटकङ्करिष्यते। प्रौढैरपि। अद्य मया छात्रैर्नाटकाभ्यासः कारयिष्यते। जनाः सम्यक्तयाभ्यासङ्कुर्युरित्याशासेऽहम्।

बुधवार, 8 मई 2019

उल्लाघविरामः

शस्त्रचिकित्सायाः परस्तादितोऽपि पत्न्योदरे वेदनानुभूयते। वैद्येनोक्तं सा कार्यालयङ्गन्तुं शक्नोतीति परन्तु वेदनाकारणात्तया कार्यालयादुल्लाघविरामः स्वीकृतः। तस्याः परिवेक्षिकया तस्मायवकाशायानुज्ञा दत्ता। अतः सप्ताहेऽस्मिन् सा गृहयेव तिष्ठति।

मंगलवार, 7 मई 2019

मूषिकाया विवाहः

सूत्रधारी - सर्वेषां स्वागतम्। एकां कथां श्रावयितुम् इच्छामि। एकदा कश्चन ऋषिः तपः कुर्वन् आसीत्। तदा कश्चन गरूडः तस्य हस्ते एकां मूषिकां पातितवान्। सः ऋषिः अपत्यहीनः आसीत्। तस्य एकान्तम् अपसारयितुं सः ऋषिः मूषिकायाः रूपपरिवर्तनं बालिकारूपे कृतवान्। कालान्तरे सा बालिका युवती अभवत्। अग्रे किं जातं कृपया पश्यन्तु।

ऋषिः - हे पुत्रि! अहं भवत्याः विवाहं कारयितुं इच्छामि। तदर्थं, अहं भवत्याः वरान्वेषणं करोमि।
कन्या - हे पितः! अहं बलवत्तमं वरं इच्छामि। मम विवाहः बलवत्तमवरेण सह एव कर्तव्यः।
ऋषिः - तथास्तु पुत्रि! सूर्यः बलवत्तमः। तम् आह्वयामि। सूर्यदेव! कृपया दर्शनं ददातु।

(सूर्यः आविर्भवति)
ऋषिः - भोः सूर्य! भवान् बलवत्तमः खलु? अहं मम पुत्र्यै बलिष्ठवरस्य अन्वेषणं कुर्वन् अस्मि। भवान् मम पुत्रीं परिणयतु।
सूर्यः - हे तपस्विन्। अहं सर्वेभ्यः जीवेभ्यः ऊष्णं ददामि, सर्वासु दिक्षु प्रकाशं प्रसारयामि परन्तु मेघः मम आवरणं कृत्वा मम प्रकाशम् अवरोद्धुम् शक्नोति। अतः मेघः मत्तः वलवत्तरः। भवतः कन्यायै सः उचितवरः।

ऋषिः - हे मेघ! कृपया दर्शनं ददातु।

(मेघः आविर्भवति)
ऋषिः - भोः मेघ! भवान् बलवत्तमः ननु? कृपया मम पुत्रीं परिणयतु।
मेघः - हे मुनिवर! अहं मेघः परन्तु अहं न बलवत्तमः। यतः वायुः माम् अपसारयितुं शक्नोति अतः सः मदपि बलवत्तरः। तस्मै भवतः कन्या ददातु।

ऋषिः - हे वायो! कृपया दर्शनं ददातु।

(वायुः आविर्भवति)
ऋषिः - हे वायो! भवान् बलवत्तमः खलु? कृपया मम पुत्रीं परिणयतु।
वायुः - नमस्कारः ऋषिवर्य। अहं वायुः परन्तु अहं न बलवत्तमः। यतः पर्वतः मम मार्गम् अवरोद्धुम् शक्नोति, अतः पर्वतः मदपि बलवत्तरः। भवतः कन्यया सः परिणेतव्यः।

ऋषिः - हे गिरिराज! कृपया दर्शनं ददातु।

(पर्वतः आविर्भवति)
ऋषिः - हे पर्वत, भवान् बलवत्तमः। मम पुत्रीं परिणयतु।
पर्वतः - हे मुने! अहं पर्वतः। भवान् मम विषये चिन्तितवान् अतः अहं मुदितः। परन्तु अहं न बलवत्तमः। मूषकः बलवत्तमः। सः मयि छिद्राणि कृत्वा मां दुर्बलं करोति। भवतः पुत्र्याः विवाहः मूषकेन सह भवतु।

कन्या - हे पितः! अहं मूषकम् एव परिणेतुं इच्छामि। कृपया मम रूपं पुनः मूषिकारूपे परिवर्तयतु।
ऋषिः - तथास्तु पुत्रि। इदानीम् अहं भवत्याः रूपं मूषिकारूपे परिवर्ते। भवत्याः विवाहः मूषकेन सह एव भविष्यति।
कन्या - धन्यवादः पितः।

ऋषिः (प्रेक्षकान् उद्दिश्य) - मया प्रमादः कृतः। मम पुत्री मूषिका आसीत्। तया मूषिका एव स्थातव्यम्। मूषकेन एव परिणेतव्या। प्रकृतिनियमाः न उल्लङ्घनीयाः।

रविवार, 5 मई 2019

आन्त्रपुच्छम्

गतशुक्रवासरे साँयकालयुदरे वेदनामनुभवामीति भार्यावदत्। सामान्या वेदना भवेदित्यावामचिन्तयाव। रात्रौ वेदना समधिका जाता। आपच्चिकित्सालयङ्गन्तव्यमावाभ्यामिति चिन्तनमावयोर्मनसो उद्भूतम्। वृष्टिः पतन्नासीत्। यतः पुत्रो गृहयेकलः स्थातुन्न शक्नोतीत्यतः पुत्रेण सहापच्चिकित्सालयमगच्छाव। तत्र ते ‘सीटीस्केन्’ कृत्वावामज्ञापयन् भवत्या आन्त्रपुच्छे संहतिर्दृश्यते। शस्त्रचिकित्सा कृत्वान्त्रपुच्छं बहिरानयनीयम्। नो चेत्तस्य विदारणं भविष्यति। विदारणं भवेच्चेदुल्बणा समस्या भवेत्। अद्य रात्रौ तया चिकित्सालययेव स्थातव्यमिति तेऽवदन्। तदेवावामकरवाव। शनिवासरे वैद्येन शस्त्रचिकित्सा कृता। साँयकाले गृहमागच्छाम। इदानीं तस्याः स्वास्थयं सम्यगस्ति।

रविवार, 28 अप्रैल 2019

संस्कृतस्य कृते समयो न्यूनायते

आगामिषु मासेषु मया नूतनोद्योगं प्रापनीयम्। सन्दर्शनसन्नाहस्य कृते महत्परिश्रम आवश्यकः। तदर्थं समय आवश्यकः। अद्यारभ्योद्यागप्रापनं पर्यन्तं संस्कृतस्य कृते समयं न्यूनतया यापयितुं शक्नोमि।

चत्वारो जनाः

अद्यतने वर्गे केवलञ्चत्वारो जना आगमन्। गतेषु केषुचित्सप्ताहेषु छात्रसङ्ख्या न्यूनाभवत्। किमर्थन्न जाने। सम्प्रति त्रयो वर्गा अवशिष्टाः। तदनन्तरङ्ग्रीष्मविरामो भविता।

सोमवार, 22 अप्रैल 2019

अनिरीक्षितजन्मदिवसोत्सवः

ह्यः साँयकाले द्वाराकारिकाध्वनयत्। प्रतिवेशिन्यावदृश्येताम्। तयोर्हस्तेषु खाद्यानि मधुरपिष्टकमप्यदृश्यन्त। मया त्वन्तर्वस्त्राणि परिधृतान्यासन्। प्रसाधनगृहं धावित्वा वस्त्रपरिवर्तनमकरवम्। समनन्तरमन्या महिलास्तासामपत्यानि चागच्छन्। सर्वा मम भार्यायायागता यतोऽद्य तस्या जन्मदिवसः। आश्चर्यान्वितजन्मदिवसोत्सवायोजनमस्माकं प्रतिवेशिन्यै रोचते। सा अन्या महिला आहूयोत्सवमायोजितवती। आहत्य विंशत्याधिकजना आगच्छन्। सर्वाः खाद्यानि चानयन्। सार्धैकघण्टा यावत् गृहे महानाडम्बरोऽवर्तत। मम भार्यातिप्रसन्नाभवत्। एतासां महिलानाङ्कृते धन्यवादाः।

रविवार, 21 अप्रैल 2019

जन्मदिवसः

श्वो भार्याया जन्मदिवसः। प्रयत्नेन स्मर्तव्यं मया! कार्यालयादागमनसमये मधुरपिष्टकङ्क्रीत्वानेष्यामीति चिन्तयामि। यतः सा सर्वदा सर्वेभ्यो मधुरपिष्टकं पचत्यतस्तस्यै वर्षे न्यूनातिन्यूनमेकवारं मधुरपिष्टकमानेतव्यम्।

वात्या

वात्यागमिष्यतीति दूरदर्शने सूचितङ्गतबुधवासरे। हिमशिलावृष्टिर्भवेद्वेगवायुश्चवहेदित्युनामानितम्। हिमाशिलापतनाद्गेहस्य छदः क्षतग्रस्तो भवितुं शक्यते। वेगवायुना वृक्षा उत्खातुं शक्यन्ते। ते गृहस्योपरि पतित्वा क्षतिञ्जनयितुं शक्नुवन्ति। दिष्ट्यैतत्किमपि नाभवत्। वात्या भीषणा नासीत्। वायुवेगोऽपि न समाधिकः। कापि हानिर्नाभवत्।

वर्गप्रकोष्ठस्य मार्जनम्

यस्मिन् प्रकोष्ठेऽहं संस्कृतं पाठयामि तस्मिन् प्रकोष्ठे बहूनि निष्प्रयोजकानि वस्तूनि वर्तन्तयिति मया प्रागोक्तम्। गतसप्ताहेऽहं मम मित्रमुक्तवान् यावत्तानि वस्तूनि न निष्कास्यन्ते तावदहन्न पाठयिष्यामि। स प्रकोष्ठस्वामिनन्निवेदितवान्। ह्यो मम मित्रं दूरवाण्यया मां सूचितवान् यत्प्रकोष्ठो मार्जितः। अद्य गत्वा द्रक्ष्यामि कियन्मार्जनङ्कृतम्। इदानीमपि बहूनि वस्तूनि भविष्यन्तीति मन्ये।

गुरुवार, 18 अप्रैल 2019

पञ्चमस्य वर्षस्य वेतनम्

प्रतिवर्षयागामिकालस्य वेतनं मदीयेन कार्यालयेन मां ज्ञाप्यते। सम्प्रत्यस्यां संस्थायामहम् आ त्रिभ्यो वर्षेभ्यः कार्यङ्कुर्वन्नस्मि। ह्यो मम पर्यवेक्षकः पञ्चमे वर्षे मम वेतनङ्कियद्भवेदिति मां सूचितवान्। आश्चर्यं नाम मम पञ्चमवर्षस्य वेतनं प्रथमवर्षस्य वेतनादपि न्यूनम्। अहं विरोधं दर्शितवान्। सोऽनुसन्धानङ्कृत्वा मां सूचयिष्यतीति मदीयेन पर्यवेक्षकेनोक्तम्। यदि संस्था मम वेतनं न्यूनङ्कुर्यात्तर्हि पञ्चमे वर्षेऽहमस्यां संस्थायाङ्कार्यं निश्चयेन न कर्तास्मि। नूतनोद्योगोऽनवेषणीयः। एतस्मै कार्याय वर्षेकोऽस्ति।

कम्पनप्रचूषका नवीकारिताः

तैलशकटस्य पृष्ठवर्तिनः कम्पनप्रचूषका नवीकारिता। तस्माद्याने कम्पनं न्यूनमभवत्। यानेन यात्रा सुस्थतरा जाता। पृष्ठवर्तिरोधकयन्त्रमपि नवीकारितम्। मया सह द्वे पूर्वप्रापणपत्रयास्ताम्। ताभ्यां देयं धनं दशाधिकशतडौलरमितं न्यूनमभवत्।

सोमवार, 15 अप्रैल 2019

कम्पनप्रचूषकाः

गते मासेऽहं तैलनवीकरणाय मम तैलशकटं शकटापणेऽनयम्। तत्र ते मां सूचितवन्तस्तव शकटयानस्य कम्पनप्रचूषकाः क्षीणा जाता इति। तेषां नवीकरणाय त्रिंशतडोलराण्यावश्यकानि। तत्कालेऽहं नवीकरणायानुज्ञा न दत्तवान्। कतिपयेभ्यो दिनेभ्यो याने कम्पनमाधिक्येनानुभूयते। श्वः कम्पनप्रचूषकान्नवीकारयामीति चिन्तयित्वा शकटापणे समयो निर्धारितः कृतो मया। श्वो गत्वा कम्पनप्रचूषकान्नवीकारयामि।

शुक्रवार, 12 अप्रैल 2019

विद्यालयेषु वर्गाः

वर्षस्योत्तरभागे प्रचलिष्यमाना वर्गा विद्यालयेषु भवेयुरित्यस्माकमिच्छा। सम्प्रति यस्मिन् स्थले वर्गा आयोज्यन्ते तस्य स्थलस्य स्वामी निष्प्रयोजकानि वस्तूनि न गमयति। अतो नूतनस्थलोऽन्वेष्यताम्। इदानीं सर्वकारिविद्यालयेष्वकाशाय प्रयते।

सोमवार, 8 अप्रैल 2019

वेलाभूमिं यात्रा

ह्यो वेलाभूमिङ्गत्वा प्रत्यागच्छाम। पुत्रेण प्रथमवारं समुद्रो दृष्टः। समुद्रतटे वालुकाभिर्हर्म्यानि निर्मीय सोऽरमत। समुद्रतटे बृहद्युद्धनौकाप्यस्माभिर्दृष्टा। रविवासरे प्रातःकाले महती वृष्टिरपतत्। तत्काले वयं निवासालययेवातिष्ठाम। अनन्तरं मीनपालिनीं द्रष्टुमगच्छाम। तत्र विविधा जलपशुमीनाश्चासन्। ता दृष्ट्वा स प्रसन्नचिदभवत्।

रविवार, 31 मार्च 2019

समुद्रदर्शनम्

आगामिषु दिनेषु वेलाभूमिङ्गन्तास्मः। पुत्रेण कदापि समुद्रो न दृष्टः। तेन बहुकृत्व उक्तम् - समुद्रो दिदृक्षामीति। सम्प्रति स षड्वर्षदेशीयः। इदानीं यत्रापि गच्छेम तत्रत्याः स्मृतयस्तेन सह सर्वदा वर्तिष्यन्ते। प्रवासाय स बहूत्सुकः। यत्र गन्तास्मस्तत्र मीनपालिन्यस्ति। एका बृहद्युद्धनौकाप्यस्ति। ते सन्दृश्य स रन्तास्मिन् संशयो नास्ति।

सोमवार, 25 मार्च 2019

ऊर्जस्वत्पुत्रः

ह्यो मध्याह्ने निद्रायै प्रयासरत आसम्। पुत्रेणापि स्वपितव्यमिति तमबोधयम्। सोऽनिच्छाभावेन तस्य प्रकोष्ठमगच्छत्। तत्र घण्टाँय्यावत् पर्यङ्केऽतिष्ठत्परन्निद्राधीनो नाभवत्। कालान्तरे स जागरणाय ममानुज्ञामयाचत। अहमङ्ग्यकरवम्। तूष्णीङ्क्रीडनकैस्तेन क्रीडितव्यमिति तमादिशमहम्। तथापि स कोलाहलेनाक्रीडत्। तस्मादहन्नाशयि। तस्य कोलाहलेन तस्य मातुर्निद्रापि व्यपगच्छत्। साँयकाले स घण्टाद्वयँय्यावद्गृहाद्बहिर्मित्राभ्यां सहारमत। रात्रावपि तस्मिन्नूर्जोत्साहावदरीदृश्येताम्। दिने स नाशेत तं प्रेक्ष्य वक्तुं नाशक्यत।

रविवार, 24 मार्च 2019

सुतः प्रत्यागच्छत्

ह्यः पुत्रस्तस्य मातामह्या गृहात् प्रत्यागच्छत्। तेन साकं बहूनि मिष्टान्नान्यप्यानयत्। मातामह्या सह तान्यपचत्। श्वस्तेन विद्यालयङ्गन्तव्यम्।

मंगलवार, 19 मार्च 2019

वाहनसञ्चारो न्यूनायते

अस्मिन् सप्ताहे विद्यालयवसन्तर्तुविरामवशाद्वाहनसञ्चारो न्यूनः। विद्यालयेषु विरामेषु सत्सु जनास्तेषाङ्कार्यालयेभ्यो विरामं स्वीकृत्य कुटुम्बेन सह प्रावासाय गच्छन्ति। अतो न केवलं विद्यालयगमनस्य वाहनसञ्चारो न्यूनायतेऽपि तु कार्यालयगमनस्यापि। सर्वदैतादृशो वाहनसञ्चारो भवेत्तर्हि सुकरं भवेत्। परन्तु तत्तु व्यर्था समुत्कण्ठा। वस्तुस्थितिस्त्वन्यैव।

रविवार, 17 मार्च 2019

वसन्तर्तुविरामः

श्व आरभ्य सुतस्य वसन्तर्तुविरामो भविता। आगामिनि सप्ताहे स विद्यालयन्न गन्ता। श्वोऽहङ्गृहादेव कार्यङ्कर्तास्मि। मङ्गलवासरे तस्य माता तं तस्य मातामह्या गृहङ्गमयिता। बुधवासरादारभ्य शनिवासरं पर्यन्तमावां तेन विना स्थातास्वः। तस्य मातामही तया सह तं वासयितुं शक्नोतीति सुकरमन्यथावाभ्यामावयोः कार्यालयाभ्यां पञ्चदिनानि यावदवकाशो लभ्यताम्।

आयकरप्रतिपत्रम्

ह्य आयकरप्रतिपत्रं सम्पूर्य प्रेषितवान्। प्रतिपत्रं पूरणाय द्वित्रघण्टा आवश्यका इति मयोहितं परन्तु तस्मिँश्चतस्रो घण्टा यापितवान्। सङ्गणकसत्तायाः पूर्वञ्जना हस्तेनायकरप्रतिपत्रस्य रचनायै कियत्कालं यापयन्ति स्मेति चिन्तयित्वा विस्मयमनुभवामि। तत्कृत्वा श्रान्तिमन्वभवम्। तदनन्तरङ्किमपि कर्तुन्नैच्छम्। किञ्चिद्बृहत्कार्यङ्कृत्वा कृतकृत्योऽभूवमित्यचिन्तयम्। अद्यापि संस्कृतवर्गात्परं बहुकार्यन्नाकार्षम्।

बुधवार, 13 मार्च 2019

पुरातनः सहोद्योगी

अद्य पुरातनं सहोद्योगिनममेलिषम्। दशभ्यो वर्षेभ्यः प्रागावामेकस्मिन् कार्यालये कार्यमकरवाव। तत्कालेऽस्माकीनया संस्थया तस्योद्योगश्च्यावितः। अनन्तरमावां बहुवारममिलाव परमद्य बहुभ्यो वर्षेभ्योऽनन्तरं सम्मेलनमभूत्। सोऽवादीत् तस्य कार्यच्युतिः पुनः सम्भविष्यमाना। अतः स मम संस्थाया विषये जिज्ञासुः। यत्तेन पृष्टं तन्मया तं ज्ञापितम्।

रविवार, 10 मार्च 2019

नैशाहाराय भोजनालयमगच्छाम

उपाहारगृहे नैशाहारङ्कुर्यामेति ह्यः साँयकाले पुत्रोऽवदत्। आ बहुभ्यो दिनेभ्योऽस्माभिरुपाहारगृहे भोजनन्न खादितमिति चिन्तित्वा वयमगच्छाम। भोजनं स्वादुरासीत्। भोजनात्परं हिमदधि खादितुमन्यमापणमगच्छाम। पुत्रः तज्जग्ध्वारमत।

बालकावक्रीडताम्

ह्यो जायायाः सखी तस्याः पुत्रञ्चागच्छताम्। आगमनात्पूर्वं तयोक्तं यत्तौ केवलङ्घण्टाद्वयँय्यावदतिष्ठेतां परन्तु तौ घण्टाचतुष्टयँय्यावदतिष्ठताम्। आह्लादकं वृत्तम्। मध्याह्नतनं भोजनमप्यस्माभिः सहाकुरुताम्। उभौ बालकावरमेताम्। उभे नार्यावजल्पताम्। अहमुपरितने स्तरे गत्वा सङ्गणके किञ्चित्कार्यमकरवम्। घण्टायाः परं दूरवाण्या मित्रमाह्वयत्। तेन सः सार्धद्विहोरा यावत् समभाषे।

छात्रा न्यूनायन्ते

गतवर्गयोरूनदशछात्रा अवर्तन्त। तस्मात्पूर्वं द्वित्रयोदश छात्रा वर्तन्ते स्म। संयोगवशाद्रुच्यभावादित्यहन्न जाने। परन्तु या याश्छात्रा आगच्छन्ति ताः सम्यक्तया पठन्ति गृहकार्यङ्कुर्वते च।

शनिवार, 9 मार्च 2019

जायायाः सखी सपुत्रमागमिष्यमाना

अद्य प्रातःकाले जायायाः सखी सपुत्रमागमिष्यमाना। तस्याः सुत आवयोः सुतः समवयस्कौ। तयोर्मिथः क्रीडतोरुभे महिले जल्पिष्यतः। तस्मिन् कालेऽहं मम कार्याणि करिष्ये। सर्वेषाँल्लाभाय।

पित्रोर्यात्रापत्रे क्रीते

पित्रोरागमनतिथिर्निर्णीता। तयोर्यात्रापत्रेऽपि क्रीते मया। तौ षण्मासान् यावदस्माभिः सह स्थातारौ। ग्रीष्मविरामादारभ्य दीपावलिपर्वपर्यन्तम्। अस्मिन् सन्निवेशे प्रतिवेशिभिः सह तयोः सम्मेलनं व्यवहारञ्च निस्सन्देहं भवितारौ।

रविवार, 3 मार्च 2019

दक्षिणात्य आगमत्

येषां दक्षिणात्यानां विषयेऽहं पूर्वमभाषे तेष्वेको मदीयेऽद्यतने वर्गयागमत्। सोऽवादीद्दक्षिणनगरस्य वर्गस्य स्तरोऽवरः। तस्मिन् वर्गे यत् पाठ्यते तेन सर्वञ्ज्ञातपूर्वम्। एतछ्रुत्वाहमाश्चर्यन्नान्वभूवम्। यद्यपि मम वर्गस्तस्य गृहाद्दूरेऽस्ति तथापि वर्गस्य स्तरस्य कारणात्तेनागन्तव्यमिति ममाभिप्रायः। केवलङ्किञ्चिद्विदूरता कारणात् स किन्निमित्तं पुनः प्रथमस्तरीयँव्वर्गं पिपठिषतीति मामकीना विप्रतिपत्तिरासीत्। कस्मिन् वर्गे गन्तव्यं तेनायं तस्य निर्णयः। स ममाभिप्रायञ्ज्ञातुन्नेच्छत्तर्ह्यहङ्किँव्वदेयम्?

पितरावागन्तारौ

ह्यः पितृभ्यां सह समभाषे। तावत्रागन्तारौ। अधुना तिथिर्न निर्णीता। तौ ग्रीष्मविरामयागत्य दीपावलिपर्वं पर्यन्तमस्माभिः सह वसितारौ। गतावसरे तौ स्वीयेन धनेन तयोर्यात्रापत्रेऽक्रीणीताम्। अस्मिन् वारमहङ्क्रेतास्मि यतस्तेषान्निवृत्तिनिधिं ह्रासयितुन्नेच्छामि। ग्रीष्मकाले तनयस्य विद्यालयविरामो भविता। स ताभ्यां सह समयं यापयितेति सन्तोषाय। आवयोः कार्यालयङ्गतयोस्तौ नैरस्यन्ननुभवितारौ।

शनिवार, 2 मार्च 2019

दक्षिणात्याश्छात्राः

पूर्वतने वर्षे मम संस्कृतवर्गे त्रयश्छात्रा दक्षिणनगरादागच्छन्ति स्म। पञ्चविंशतिमैलमितान् यावद्वाहनञ्चालयित्वा तयागच्छन्ति स्म। नगरस्य दक्षिणभागेऽप्येको वर्गो भवेदिति तेष्वेकस्याभियाचना। अस्माकं शिक्षणगणस्य काचिन्महिला याम्यायां वसति। इदानीं तया नगरस्य दक्षिणभागे वर्गो निरूह्यते। ते छात्रा मम वर्गं त्यक्तवा तस्या वर्गे भागं वहन्ति। तेषाङ्गृहं निकषा वर्गो भवतीति तेभ्यः सुकरम्। यद्यपि ते मम वर्गे नागच्छन्ति तथापि तेऽस्मिन् सप्ताहे मम वर्गस्य गृहकार्यङ्कृतवन्तः। एतद्दृष्टवा महान्तं सन्तोषमनुभवामि। तेषामुत्साहो ज्ञानञ्च वर्धेयातामिति सन्तोषदायिनी वार्ता।

बुधवार, 27 फ़रवरी 2019

कूहा

अद्य वातावरणे कूहा प्रसृता। दूरदर्शने सर्वदा आडम्बरेण निगद्यते। भारतस्यापेक्षयेयङ्कूहा स्वल्पा। किञ्चिदवधेयं परङ्किमपि द्रष्टुन्न शक्यते स्थितिर्नैतादृशी।

मंगलवार, 26 फ़रवरी 2019

कार्यालये साहाय्यम्

अद्यत्वे कार्यालये केनचिन्नूतनकौशलेन कार्यं साधयितुं प्रयतेऽहम्। कार्यमपि साधनीयङ्कौशलमप्यधिगन्तव्यम्। तदर्थञ्चिरकालोऽपेक्ष्यते। ह्य एकः सहकरी मम साहाय्यमकरोत्। तस्य साहाय्येन कार्यं शीघ्रतया कर्तुमशक्नवम्। कार्यस्य केचनांशा अवगत्या विनाकरवम्। अद्य तानंशानवगमिष्यामि येन भाविनि काले तादृशङ्कार्यं साहाय्येन विना कर्तुं शक्ष्यामि। मम सहकरी स्वीयस्य कार्यं व्याक्षिप्य मम साहाय्यमकरोदनेन तस्मै कार्तज्ञ्यमनुभवामि।

रविवार, 24 फ़रवरी 2019

शीतसहनशीलता

शीतकालेऽहं सुतरां शैत्यमनुभवामि। द्वे युतके तयोरुपरि स्वेदकं, पादयोः पादकोषौ। इयं स्थितिस्तु गृहयेव यत्रोष्णयन्त्रङ्गृहमूष्णीकरोति। मम पुत्रः विपर्यस्तः। स सर्वदात्यूष्णमनुभवति। गृहेऽपदार्थयुतकं परिधीय सर्वत्राटति। अनावृताभ्यां पादाभ्यां गेहस्य कुट्टिमे सञ्चरति। अद्य कल्यं सार्धचतुर्वादने स मामाह्वत्। अत्यूष्णतानुभवामीत्यवादीत्। अहं तस्य युतकं पर्यवर्तिषि। यद्यपि स मम पुत्रस्तथाप्यावयोः शीतसहनशीलते भिन्ने।

शनिवार, 23 फ़रवरी 2019

छात्रेभ्यः परीक्षाः

प्रतिसप्ताहं मया छात्रेभ्यः परीक्षा आयोज्यन्ते। सर्वे विद्यार्थिन उत्साहेन परीक्षासु भागं वहन्तीति सन्तोषकरिणी वार्ता। परिक्षाभिरहं तेषां ज्ञानस्तरं द्रष्टुं शक्नोमि। प्रायः सर्वे जना गभीरतया पठन्तीति स्पष्टम्।

काफ्यापणे चतुरङ्गम्

पुत्रो गृहे चतुरङ्गन्न क्रीडति। स चतुरङ्गङ्क्रीडेदिति मम वाञ्छा। स काफ्यापणञ्जिगमिषति। तत्र किमपि चिखादिषति। अहं तं बोधयामि तत्र गन्तुमिष्येत चेच्चतुरङ्गन्नेतव्यम्। यदि तत्र चतुरङ्गङ्क्रीडेत्तर्हि खाद्यं प्राप्येत। एतस्माल्लोभादेव स चतुरङ्गङ्क्रीडति। तस्याचरणे सुपरिवर्तनं दृश्यते। सम्प्रति मन्त्रिणि हन्यमाने स न क्रन्दति यतो हि स जानाति मन्त्रिणि हनने सत्यपि स विजेता भवितुं शक्नोति।

वसन्तर्तुवर्गः-२०१९-१-६

श्वस्तने वर्गे पाठनीयानि सर्वनामानि -

तद्, एतद्, किम् (सर्वेषु लिङ्गेषु सर्वासु विभक्तिषु)
अस्मद्, भवत्, भवती

रविवार, 17 फ़रवरी 2019

महत्तमङ्कौशलम्

जीवने महत्तमङ्कौशलङ्किम्? धनार्जनम्? अपरलिङ्गमानवं वषीकरणम्? सर्वेषां प्रीतिपात्रं भवनम्? सर्वेषु मनस्वितमं भवनम्? नैव। एकेन कौशलेनैव सर्वाणि कौशलानि लब्धुं शक्यन्ते। एतत्कौशलमस्ति स्वाध्ययनम्। कस्मैचिदपि नूतनकौशलाय कथं यतेय किङ्किङ्कुर्याम्, किं पठनीयम्, कियत्पठनीयम्, कथमभ्यासः करणीयो यदि एतत्सर्वमवगम्येत तर्हि किमपि कर्तुं शक्यते यतोऽद्यत्वे स्वाध्ययनायान्तर्जालेऽनन्ताः पाठा वर्तन्ते। जीवने यदि सर्वदा स्वाध्ययनङ्कुर्याम तर्हि किमपि नूतनकौशलं साधयितुं शक्नुमः। नूतनकौशलमिष्यते चेत्कस्यचिच्छिक्षकस्य प्रतीक्षा न करणीया। स्वाध्ययनङ्करणीयम्। प्रश्नाः संशया भवेयुश्चेत् कञ्चित्पारङ्गतमभ्युपगत्य संशया निवारणीयाः।

शनिवार, 16 फ़रवरी 2019

पुरातन्यः स्मृतयः

‘एमेज़ोन’ इति दूरदर्शनवाहिन्यां बहूनि हिन्दीचलनचित्राणि वर्तन्ते। प्रायः सर्वाणि पुरातनानि चलनचित्राणि। षष्टीदशकान्नवतिदशकपर्यन्तम्। बहूनि चलनचित्राणि बाल्यकाले भारतेऽपश्यम्। आ बहुभ्यो वर्षेभ्य एनानि चलनचित्राणि न दृष्टवान्। अद्यत्वे तानि दृष्ट्वा पुरातन्यः स्मृतयो मनसि पुनरागच्छन्ति। महान् सन्तोषोऽनुभवामि बाल्यकालं स्मरामि च।

मंगलवार, 12 फ़रवरी 2019

चषकपरिमितजलेन मेग्नीशीयम्

सुषुप्तिः प्रापनाय मम सङ्घर्षस्तु भवद्भिः पूर्वज्ञात एव (विषयेऽस्मिन्नहं बहुवारं पूर्वमलिखम्)। सामान्यता रात्रावहमधिकात्यधिकं पञ्चघण्टामात्रं निद्रां प्राप्नोमि। मेग्नीशीयम्-विटामिन्डी च सेवनीययित्यस्य विषयेऽपि पूर्वमलिखम्। परन्तु तयोः सेवनस्यनन्तरमपि मम निद्रासङ्घर्षोऽनुवर्तते। गतद्वयोर्दिनयोरहमेकं परिवर्तनङ्कृतवान्। निद्रायाः पूर्वं यदा मेग्नीशीयमं सेवे तर्हि चषकपरिमितेन जलेन सह सेवे। पूर्वमहङ्केवलं लवमितेन जलेन सेवे स्म। गात्रे मेग्नीशीयमस्य विलीनाय पर्याप्तजलमावश्यकम्। चषकपरिमितेन जलेन मेग्नीशीयमे सेवति निद्रा दीर्घा जाता। अधिकजलपानाद्मध्यरात्रौ प्रसाधनगृहङ्गन्तव्यं परन्त्वनन्तरं पुनः स्वपितुं शक्नोमि। अद्यारभ्य निद्रायाः पूर्वञ्चषकमितेन जलेनैव मेग्नीशीयमं सेविष्ये न तु लेशमात्रञ्जलेन।

सोमवार, 11 फ़रवरी 2019

वर्गे नूतनविषयौ

गतद्वयोः सप्ताहयोर्वर्गे नूतनविषयावपाठयम् - शतृप्रत्यय आत्मनेपदिधातवश्च। केषाञ्चिच्छात्राणां वर्तमानो ज्ञानस्तरः समीचीनः। ता नैरस्यन्नानुभवेयुरिति कारणेन नूतनविषयान् पिपाठयिषामि। सर्वदा प्रथमस्तरीयान् विषयान् पाठयति सत्यहमपि नैरस्यमनुभवामि। एतस्माच्छात्रेषूत्साहो दृश्यते। तेषां स्तरोऽपि वर्धते।

रविवार, 10 फ़रवरी 2019

प्रतिवेशिनो जन्मदिवसोत्सवः

ह्यः प्रतिवेशिनः पुत्रस्य जन्मदिवसोत्सवमगच्छाम। पुत्रस्तस्य माता च चतस्रो घण्टा यावत्तत्रातिष्ठताम्। अहङ्घण्टाद्वयं पश्चात् प्रत्यागच्छम्। स कुटुम्ब इथ्योपियादेशीयः। तत्रत्यं भोजनमखादाम। स्वादु भोजनम्। अत्युत्तमोत्सव आसीत्। पुत्रस्तु विशेषतोऽरमत।

शनिवार, 9 फ़रवरी 2019

नूतनकौशलम्

कार्यालये मदीये दले चत्वारोऽन्ये जनाः सन्ति। एतावत्पर्यन्तं तेषां मम च प्रकल्पौ भिन्नौ। मम प्रकल्पः पर्यवसितः। इतःपरमहं तेषां प्रकल्पे साहाय्यङ्करिष्यामि। ये तन्त्रांशास्तैः प्रयुज्यमानास्तानहं पूर्वङ्कदापि नोपयुक्तवान्। अतो नूतनकौशलं सम्पादनीयम्। नूतनकौशलमर्जनाय महदायासोऽपेक्ष्यते परमेतत्तु ममैव हिताय यतः साम्प्रतिककाले यो नूतनकौशलन्नर्जयति स निष्प्रयोजकं भवेत्। मम दलो मामुपयोगिसदस्यरूपेण पश्येदेतदर्थं प्रयतेऽहम्।

बुधवार, 6 फ़रवरी 2019

घण्टाँय्यावद्वाहनसम्मर्दः

सामान्यतो गृहात्कार्यालयपर्यन्तँय्यात्रा वाहनेन विंशतिर्निमेषपरिमिता। अद्य सैव यात्रा घण्टापरिमिता जाता। मार्गे वाहनघट्टनमभूदिति प्रत्येमि। किमपि न दृष्टं परँय्यदाकदाप्येतादृशो विलम्बो दृश्यते तदेव कारणम्। अपघाते कोऽपि न व्रणितो मृतो वेत्याशासे। अस्मासु वाहनसम्मर्दे सत्सु कीदृशौ सँय्यमो धैर्यञ्च स्त इति द्रष्टुं शक्यते। एतस्यामवस्थायाङ्कोपावसादादयो जायन्ते। एतन्न भवेदित्यहं प्रयते यतः कस्यापि न दोषः। एतादृशा लघुघटनास्तु भवन्त्येव।

सोमवार, 4 फ़रवरी 2019

शतृप्रत्ययः

गतवर्गे छात्राञ्छतृप्रत्ययमपाठयम्। छात्रैरुत्साहेन पठितः स विषयः। छात्राणाङ्कृते परीक्षामपि रचितवान्। यदि ते तां यथार्थङ्कुर्युस्तर्हि सन्तुष्टं भवेयम्।

रविवार, 27 जनवरी 2019

प्रकोष्ठे निष्प्रयोजकानि वस्तूनि

यस्मिन् प्रकोष्ठेऽहं संस्कृतं पाठयामि तस्मिन् प्रकोष्ठे बहूनि निष्प्रयोजकानि वस्तूनि सन्ति। वस्तुतः स प्रकोष्ठो जीर्णवस्तूनां सम्भारः। छिन्ना आसन्दाः, पुरातनानि पुस्तकानि प्रभृति वस्तूनि सन्ति। प्रतिवर्गेऽवकाशायैतानि वस्तूनि मया छात्रैश्चापाकर्तव्यानि। सर्वाणि वस्तूनि यथार्थस्थाने भवन्त्विति प्रकोष्ठस्वामिनोऽपेक्षा। वर्गात्पूर्वं प्रकोष्ठेऽवकाशः कल्पनीयः, वर्गस्यानन्तरं स एवावकाशः पुनरपाकरणीय इति मया न स्वीक्रियते। अहं तमुक्तवानेतानि निष्प्रयोजकानि वस्तूनि पुनर्यथार्थन्न स्थापयिष्यामि। त्वमेतानि वस्तूनीतो नय।

अन्येभ्यः परीक्षाः

संस्कृतवर्गेऽहं नियतरूपेण परीक्षामायोजयामि। परीक्षानिमित्तमेव जना गभीरतया पठन्ति। परीक्षा अतिलाभकरिण्य इति छात्रैर्मां पूर्वमुक्तम्। देशेऽन्यैः केन्द्रैः सहापि तासां परीक्षाणां संविभागङ्कृतवान्। यद्यन्येभ्यः केन्द्रेभ्योऽपि परीक्षा लाभकरिण्यो भवेयुस्तर्हि महान्तं सन्तोषं प्राप्स्यामि।

सोमवार, 21 जनवरी 2019

वसन्तर्तुवर्गः-२०१९-१-१

ह्योऽस्य वर्षस्य प्रथमसंस्कृतवर्गः प्राचलत्। वर्गे सर्वैश्छात्रैस्त्रीणि वाक्यानि वक्तव्यानीति मया प्रागेव निवेदितं सर्वेभ्यः। ममापेक्षा महती नासीत्। परन्तु जना ममापेक्षामत्यक्रमन्। न केवलञ्छात्रैस्त्रीणि वाक्यान्युक्तान्यपि च तेषु वाक्येषु स्वल्पदोषा एव परिलक्षिताः। प्रायः सर्वैश्छात्रैरुत्साहेन भाग ऊढः। शीतविरामे जनाः सम्यक्तया पठितवन्त इत्यस्मिन्न कोऽपि संशयः। अमोदेऽहम्। अग्रेऽपि यदि जना एतादृशाः प्रयत्नाः कुर्युस्तर्हि ते निश्चयेन संस्कृतज्ञा भवन्तु।

रविवार, 20 जनवरी 2019

अङ्कनलेखन्यः

गेहे पुत्रं श्वेतफलकेन गणितमक्षरविन्यासञ्च पाठयामि। तदर्थमङ्कनलेखनीरुपयुञ्जवहे। चतस्रोऽङ्कनलेखनीरासन् परं ताः शुष्का जाताः। अद्यारभ्य नूतनसंस्कृतवर्गोऽप्यारप्स्यते। तदर्थमपि लेखन्य आवश्यक्यः। अतश्चतस्रो नूतनाङ्कनलेखनीः क्रीतवान्। अस्मिन्वारमपरया संस्थया निर्मिता लेखनीः क्रीतवान् यतो पूर्वतन्यो लेखन्योऽल्पकालात्परमेव शुष्का अभवन्। एता नूतनाङ्कनलेखन्यः कथं भविष्यन्तीति द्रष्टव्यम्।

शनिवार, 19 जनवरी 2019

वसन्तर्तुवर्गः-२०१९-१

पाठनीयांशाः -

१. सर्वैस्त्रीणि वाक्यानि वक्तव्यानि
२. 'चतुरः काकः' इति कथा
३. भवान्, भवती, भवतः, भवत्या, मम
४. अकारान्त, ईकारान्त शब्दानां मूलरुपम्

मंगलवार, 15 जनवरी 2019

सोपानारोहणेन दाहिता ऊष्माङ्काः

एकस्मिन् दिने कार्यालये सोपानारोहणेन मया कत्यूष्माङ्का दह्यन्तेऽत्राकल्यते -

सोपानस्य प्रतिपदमारोहणेन दाहिता ऊष्माङ्काः = ०.१७ (अयमङ्कोऽन्तर्जालादुद्धृतः)
प्रत्यट्टे पदानि = २०
अट्टाः = ८
कतिवारमारोहणम् = ४ (न्यूनातिन्यूनम्)
दिनयारोहणे दाहिता ऊष्माङ्काः = ०.१७ * २० * ८ * ४ = १०८.८ ऊष्माङ्काः

सोमवार, 14 जनवरी 2019

सोपानमारोहामि

प्रतिदिनमष्टमे स्तरेऽवस्थितं मदीयङ्कार्यालयं सोपानेन प्राप्नोमि। उन्नयनी मया त्यक्ता। तैलशकटस्थगनस्थलं द्वितीयेऽट्टे स्थितः। तत्र तैलशकटं स्थगयित्वा सोपानेनाष्टमं स्तरङ्गच्छामि। अनेन षट् स्तरा आरोढव्या। यद्यपि प्रसाधनगृहं मामकेऽट्टे स्थितं तथापि पञ्चमाट्टस्य प्रसाधनगृहमुपयुनज्मि। एतेन त्रिस्तरा आरोढव्या (अवारोढव्याश्च)। अतो दिने बहुवारं मया सोपानमारोढव्यमवारोढव्यञ्च। अनेन व्यायामं प्राप्नोमि। स्वल्पकालाय हृदयस्पन्दवेगोऽपि वर्धते। दिने नानामुहुर्तेषु स्वल्पकालाय हृदयस्पन्दे वृद्धिर्निरामयाय। दिने न्यूनातिन्यूनं त्रिंशदट्टानारोहामीत्यहमूहे। न्यूनातिन्यूनं प्रतिदिनं मया पञ्चाशदट्टा आरोढव्या इति मम लक्ष्यम्। एतद्रुधिरनिपीडायै लाभकरमिति ममाशा।

रविवार, 13 जनवरी 2019

करत करत अभ्यास के...

अभ्यासस्य महत्वमहं सम्यक्तया जानामि। परं वाद्ययन्त्राभ्यासे क्रियमाणे बाल्यकाले पठितः कविवृन्देन रचित एषः ‘दोहा’ स्मरामि -

करत करत अभ्यास के जड़मति होत सुजान।
रसरी आवत-जात ते सिल पर परत निसान॥

यथा रज्जोः पौनःपुन्येन गमनमागमनेन प्रस्तरः कलङ्क्यते तथैवाभ्यासेन नवकेन पारङ्गम्यते।

शनिवार, 12 जनवरी 2019

वाद्ययन्त्राभ्यासः-८

जीवने कृतेषु कार्येषु वाद्ययन्त्रवादनं निश्शङ्कङ्कठिनतमं मह्यं प्रतीयते। अहं स्वयमेव संस्कृताध्ययनङ्कृतवान्, स्वयमेव ‘रिलेटिविटि’ सिद्धान्तमपठम्। तावपि नैतादृशौ कठिनौ। वाद्ययन्त्रवादनं तु किञ्चिदनन्यत्कौशलम्। असाध्यप्रायो भासते। भूयो भूयोऽभ्यासे कृतेऽपि मन्दगत्या प्रगतिरग्रे सरति। अमुष्मिन् कौशले धैर्यमत्यावश्यकम्।

नेत्रपरीक्षा

ह्यो नेत्रपरीक्षायायगच्छम्। प्रायः परीक्षा त्वनुवैद्यया कृता। अनन्तरञ्चक्षुवैद्यागत्य मम नेत्रेऽपरीक्षत। मम नेत्रस्थितिः पूर्वमिवेति सोक्तवती। तच्छ्रुत्वाहममोदे यतः पूर्वं यदाकदापि नेत्रवैद्ययया नेत्रेऽपरीक्ष्यतां प्रत्यवसरं मम नेत्रशक्तिः क्षायन्नस्तीति ज्ञापितोऽहम्। नेत्रपरीक्षार्थं नेत्रयोः कनीनिके विस्फारिते क्रियेतयित्यहं व्यस्मरम्। अतः नेत्रपरीक्षानन्तरं होराँय्यावत्तैलशकटञ्चालयितुन्नाशक्नवम्। चिकित्सालयस्थे भोजनालये कालक्षेपङ्कृत्वा, तदनन्तरङ्कार्यालयमगच्छम्।

बुधवार, 9 जनवरी 2019

वाद्ययन्त्राभ्यासः-७

ह्यः प्रदोषमहँव्वाद्ययन्त्राभ्यासयुद्यत आसम्। पुत्र आगच्छत्। अहमपि वाद्ययन्त्राभ्यासङ्करोमीति सोऽवदत्। अहं तं प्रोत्साहनमददम्। अहं तं सन्तन्त्रनिर्दशनान्यदर्शयम्। तानि निर्दशनानि पठित्वा सन्तन्त्राणि कथं वादयितुं शक्यन्तयिति तं बोधितवान्। आश्चर्यं नामार्धघण्टाभ्यान्तरयेव स तानि निर्दर्शनानि पठितुमशक्नोत्। अनन्तरं स कानिचन सन्तन्त्राण्यवादयत्। तन्महते सन्तोषाय।

मंगलवार, 8 जनवरी 2019

घण्टाचतुष्टयँय्यावदेव

ह्या रात्रौ केवलङ्घण्टाचतुष्टयँय्यावन्निद्रा लब्धा! घटीनिनादस्तु सपादषड्वादनाय निधत्तं मया। तस्यावशयकता नापतिता। त्रिवादनयेवाजागरिषम्। ततः सार्धपञ्चवादनं पर्यन्तं पर्यङ्के शयानोऽहम्। अनन्तरमुत्थाय प्रातस्तनानि कार्याणि निरवाक्षम्। पुत्रं विद्यालयं प्रापय्य दत्तावधानोऽहं (निद्राभावादतिजागरुकता सोढव्या मया) वाहनञ्चालयित्वा कार्यालयमागमम्।

सोमवार, 7 जनवरी 2019

घटीनिनादः

श्वः पुत्रो विद्यालयङ्गन्ता। गतकतिपयेषु दिनेषु प्रातःकालेऽहं विलम्बेनाजगरम्। तं विद्यालयं प्रापने विलम्बो न भवेदित्यतो घटीनिनादो नैयत्येन परिकल्पनीयो मया।

शीतविरामस्यान्तिमदिनम्

आत्मजस्य विद्यालयस्य शीतविरामस्यान्तिमदिनमद्य। अयं शीतविरामो न केवलं तस्य हितायावयोर्लाभायापि। प्रातःकाले तं विद्यायलयन्न प्रापितव्यं मया, तदीयया मात्रा विद्यालयान्नानेतव्यः सः। एतस्माद्दिनानि दीर्घान्यभासन्त। विरामकालेऽस्माभिः सुषुप्तिः प्राप्ता। गतत्रिषु दिनेष्वहं सप्तवादनात्परमजागरम्। अदोऽपूर्वम्। दिनान्युत्साहयुतान्यासन्। श्व आरभ्य पुनः सामान्यजीवनचक्रं वरीवर्त्स्यते।

रविवार, 6 जनवरी 2019

मित्राभ्यां सह भोजनम्

अद्य मध्याह्नभोजनाय भार्यायाः सखीं तस्या भर्तारञ्चामेलिष्म। तावन्यस्मान्नगरादागमताम्। ताभ्यामस्माकं भोजनदेयकं दत्तम्। भोजनानन्तरं शीतलदधिभक्षणाय क्वचिदगमिष्म। तत्र मया सर्वेषां शुल्कं दत्तम्। ताभ्यां सह मेलनं हर्षजनकम्।

ह्यस्तनो जन्मदिवसोत्सवः

ह्यस्तनो जन्मदिवसोत्सवो यथापेक्षा सम्यगासीत्। तनयोऽन्यैर्बालकैः क्रीडनकैः सहाक्रीडत्। बहूनि स्वादूनि खाद्यान्यासन्। तेषाङ्गृहे पृष्ठोद्याने किञ्चित्समयँय्यापितवान्। रात्रौ तस्य परिणामन्वभवम्। प्रत्यूर्जतायाः कारणादारात्रि क्षौमि स्म।

शनिवार, 5 जनवरी 2019

कालङ्कथं विव्ययिषामि?

जीवने यः कालो जीविकायै न व्यापृतः सः काल एतेषु कार्येषु विव्ययिषामि -

१. संस्कृतपठने पाठने च
२. वाद्ययन्त्राभ्यासे
३. पुत्रेण सह क्रीडने
४. व्यायामङ्करणे
५. पुस्तकानि पठने
६. अस्मिञ्जालपुटे मामकान् विचारानारोपणे

अन्दिकायायासन्दः

शैत्यकालेऽन्दिकायाः पुरतरुपविशति सति चिन्तनं पठनमित्यादीनि मह्यं रोरुच्यन्ते। भित्तावन्दिका भूमिं निकषास्ति। यत आसन्दान्दिकयोस्तरौ भिन्नावित्यतः सामान्य आसन्दयुपविशति यथार्थघर्मो नानुभूयते। कुथयास्तरणं प्रसार्यान्दिकां समयोपविशामि परङ्किञ्चिदनन्तरङ्कलेवरस्य पृष्ठभागः श्रान्तो भवति। गात्रस्य पृष्ठभाग आधर्तव्य इत्यवगतिः प्राप्ता मया। अतो नूतनासन्दोऽक्रीणाम्। स आसन्दः पादरहितः। भूमावेवावतिष्ठते। इत्यस्मात्तस्मिन्नुपविशति सत्यन्दिकायाः सान्निद्ध्यमाधिक्येन प्राप्यते। सन्निद्धेः कारणादन्दिकाधिक्येनोष्णं ददाति।

जन्मदिवसोत्सवाय गच्छाम

अद्यात्मजस्य मित्रस्य जन्मोत्सवाय गच्छाम। उत्सवो मध्याह्ने प्रचलिष्यति। तेन पुत्रेणापराह्णकालीननिद्रा न लप्स्यते। स तु कदापि मध्याह्नतनीं निद्रान्न चिकीर्षति। अतः स प्रहृष्टः। अद्य तेन निद्रा न करणीयेति स आप्रातर्निजागदीति। एकवादनेऽस्माभिर्गन्तव्यम्। त्रिचतुर्वादने प्रत्यागन्तव्यम्।

शुक्रवार, 4 जनवरी 2019

उद्गच्छन्ती रुधिरनिपीडा

मम रुधिरनिपीडा शनैः शनैरुर्ध्वङ्गच्छति। निपीडायारुभयोः परिमाणयोरुच्चस्थं परिमाणं तु सम्यगस्ति (प्रायः शत मि.मि. पारदः)। निम्नस्थं परिमाणमधिकायते। इदानीं तद्द्वयशीतिः मि.मि. पारदोऽस्ति। दशवर्षेभ्यः पूर्वं सा सङ्ख्यैवाधिकनवत्यासीत्। तेन जनितेन साध्वसप्राप्तोऽहं प्रतिदिनं दशसहस्रपदन्यासङ्करोमि स्म। फलता रुधिरनिपीडा पुनः सामान्या जाता (सप्तसप्ति मि.मि. पारदः)। अद्यत्वे प्रतिदिनं तु दशसहस्रपदन्यासन्न करोमि परन्तु न्यूनातिन्यूनं मैलद्वयँय्यावच्चलामि (दशडिगरीपरिमितमुत्कूलम्)। व्यायाममपि करोमि। मम भारोऽप्यति सामान्यः प्रकृतिस्थश्च। तर्हि किमर्थं रुधिरनिपीडा वर्धते? प्रतिदिनङ्कथमपि किञ्चित्कालाय हृदयस्पन्देऽभिवृद्धिः करणीयम्। प्रतिदिनं स्वल्पकालायापि द्रुतहृदयस्पन्द उपकारकः। स्यान्नाम तस्माद्रुधिरनिपीडा खर्वीभवेत्।

नैशाहाराय गता

भार्या नैशाहाराय सखीभिः सह गता। बहोर्दिनेभ्यः परस्तादेतादृशायावसराय सा गता। सामान्यतः सुतं रात्रौ सैव स्नापयति। अद्य मया स स्नापनीयः।

कार्यालयमागमम्

अद्य सप्ताहद्वयस्यानन्तरङ्कार्यालयमागमम्। गतकतिपयेभ्यो दिनेभ्यो गृहादेव कार्यमकरवम्। अद्य पुत्रेण सह तस्य माता गृहेवस्थिता। प्रातःकाले सर्वे विलम्बेनाजागरिषुः (प्रायः सपादसप्तवादने)। अहं तु कदापि एतावता विलम्बेन न जागर्मि। तनयस्य विद्यालयविरामकारणात् प्रातःकाले प्राचुर्येण समयोवर्तिष्ट। अतो निरुद्विग्नतया कार्यालयाय प्रयाणसन्नद्धोऽभूवम्। अद्य शुक्रवासरः। इति हेतोर्वाहनसञ्चारोऽपि न्यूनोऽभूत्। अथ पुनर्दिनद्वयस्य विरामः। इमं विरामकालमुपभुञ्ज्य मुदितोऽहम्।

बुधवार, 2 जनवरी 2019

कार्यालयाद्विरामः

द्वाभ्यां दिनाभ्याङ्कार्यालयाद्विरामः स्वीकृतो मया। पुत्रस्य विद्यालयः शीतविरामस्य निमित्तं पिहितः। अत आवयोरेकेन तेन सह गृहे स्थातव्यम्। बुधवासरे गुरुवासरे चाहं स्थातास्मि। शुक्रवासरे मङ्गलवासरे च तस्य माता स्थाता। केवलं सप्ताहचतुष्टयँय्यावद्विरामदिनानि सम्पादयितुं शक्यन्तयिति ममोद्योगदात्र्याः संस्थाया नियमः। ततःपरं विरामदिनानि न परिचीयन्ते। मम विरामदिनानाङ्गणना चतुस्सप्ताहावधिमुपैतीत्यतो मया शीघ्रं विरामस्तु स्वीकरणीय एव। तदर्थमयमवसरो सम्यगस्ति।

दन्तचक्षूनां निरीक्षणे

अद्य दन्तचक्षूनां निरीक्षयोः समयो निर्धारितो मया। आ केभ्यश्चिद्वर्षेभ्यस्तेषां वैद्येन निरीक्षणे न कारिते। यथा यथा वयो वर्धते तथा तथा दृष्टिः क्षयति। तयोरानारोग्यस्य विषये चिन्ता मां बाधते। अतश्चक्षुषोर्निरीक्षणमत्यावश्यकम्। अनुवैद्यया दन्तानां प्रक्षालनमप्युपकारकम्। एते निरीक्षणे कारयित्वेषन्मानसिकशान्तिं प्राप्नुयाम्।

मंगलवार, 1 जनवरी 2019

वसन्तर्तुवर्गः-२०१९-०

जनवरीमासस्य विंशतिदिनाङ्कादारभ्य द्वितीयस्तरीयः संस्कृतवर्ग आयोक्ष्यते। यद्यपि नूतनपुस्तकं स्वीकृत्य पठिष्यामस्तथापि तस्मिन् पुस्तके सर्वे विषयाः पूर्वपठिताः। छात्रैर्नैरस्यन्नानुभूयेत तदर्थङ्केचन नूतनविषया नैयत्येन पाठनीयाः। तादृशा विषया अत्र सङ्गृह्यन्ते -

१. ‘अकारान्त’, ‘ईकारान्त’ शब्दानां बहुवचनम्
२. भवान्, भवती शब्दयोर्बहुवचनम्
३. विविधानि क्रियापदानि
४. गृहस्थानाँव्वस्तूनां नामानि
५. निशचयेन, मन्दगत्या, सहर्षम् एतादृशानामव्ययानां निर्माणविधिः
६. चित् / चन
७. ‘इकारान्त’, ‘उकारान्त’, ‘ऋकारान्त’ शब्दाः
८. ‘नकारान्त’, ‘तकारान्त’ शब्दाः
९. सर्वनामानां बहुवचनम् (अस्मद्, युष्मद्, तद्, यद्, एतद्, किम्, सर्व)
१०. विशेषणविशेष्यभावः
११. उपसर्गाः
१२. कति / कियत्
१३. आत्मनेपदिनो धातवः
१४. सङ्ख्या (एकः, एका, एकम् इत्यादयः)
१५. मूलशब्दानामभिज्ञानम्