पञ्चतन्त्रम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
पञ्चतन्त्रम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

बुधवार, 27 नवंबर 2019

पञ्चतन्त्रम् (अध्यायः ९)

दमनकः पिङ्गलकं कथितवान्…

एकदा मन्दविसर्पिणी नाम्ना काचित् यूका आसीत्। सा राज्ञः शय्यायां निवसति स्म। यदा राजा शयनं करोति स्म सा तस्य रक्तं पिबति स्म। सा यूका अवधानयुक्ता आसीत्। यदा राजा घोरनिद्राधीनः जातः तदा एव सा बहिः आगच्छति स्म। सा अधिकलोभं न करोति स्म। एवं राजशय्यायां सा तस्याः गृहं रचितवती। भोजनाय राजरक्तं पिबति स्म। जीवनं उत्तमम् आसीत्।

एकदा वायुवेगेन काचित् मक्षिका शय्यायाम् आपतिता। एतत् यूकायै न अरोचत। "इतः गच्छतु।" इति यूका आदेशं दत्तवती। मक्षिका उक्तवती - “अहम् अतिथिनी। भवत्या मम आदरः कर्तव्यः। बहूनां जनानां पशूनां च रक्तं अहं पीतवती परन्तु कदापि राजरक्तं न आस्वादितम्। अहं राजरक्तं पातुम् इच्छामि। कृपया माम् अद्य रात्रौ राजरक्तं पातुम् आज्ञां ददातु।"

मन्दविसर्पिणी निर्मनस्कतया अङ्गीकृतवती उक्तवती च - “अस्तु। परन्तु राज्ञः शयनस्य प्रतीक्षां करोतु। यदा सः घोरनिद्राधीनः भविष्यति तर्हि तस्य रक्तं पास्यावः अन्यथा सः जागरणं प्राप्स्यति।” मक्षिका सहर्षम् अङ्गीकारं दर्शितवती। अनन्तरं यदा राजा सुप्तः अभवत् मक्षिकायाः धैर्यं गतम्। पूर्वकृतं निर्णयम् उपेक्ष्य सा उत्साहेन राजानं दंशितवती। राज्ञः निद्रा भग्ना जाता। सः झटिति शय्यातः उत्थाय तस्य सेवकान् आहूतवान् - “झटिति अत्र आगच्छन्तु। मम शय्यायां कश्चन कीटः मां दशति। तम् अपसारयन्तु।” राजसेवकाः कीटस्य अन्वेषणं कृतवन्तः। मन्दविसर्पिणी जीवनरक्षणाय धावितवती परन्तु क्षणाभ्यान्तरे सा दृष्टा मारिता च।

दमनकः कथां समाप्तवान् - “यूका मन्दविसर्पिणी स्वयमेव स्वस्याः मृत्योः कारणभूता। तादृशी दशा भवतः न भवतु। सञ्जीवकः भवन्तं मारयिष्यति, तस्मात् पूर्वमेव भवान् तं मारयतु। यः स्वजनानाम् अपेक्षया परजनेषु विश्वासं करोति सः विनाशं प्राप्नोति - यथा शृगालः नीलः अभवत्।”

"सा का कथा?” पिङ्गलकः पृष्टवान्।

तदानीं दमनकः पिङ्गलकं नीलशृगालस्य कथां श्रावितवान्।

रविवार, 24 नवंबर 2019

पञ्चतनत्रम् (अध्यायः ८)

दमनकः करटकं कथितवान्…

कस्मिँश्चित् वने भसुरकः नाम्ना सिंहः निवसति स्म। सः न केवलं भोजनाय, मनोरञ्जनाय अपि अन्यान् पशून् मारयति स्म। पशवः भीताः। यदि भसुरकः एतेन वेगेन पशून् मारयेत् तर्हि वने पशवः न अवशिष्येयुः। ते एकत्रीभूय सिंहस्य समीपे गतवन्तः। सः विना कारणेन पशून् न मारयेत् इति प्रार्थनां कृतवन्तः। भसुरकस्य अङ्गीकारं प्रापणाय, ते प्रतिदिनम् एकं पशुं तस्य भोजनाय प्रेषयिष्यन्ति इति वचनं दत्तवन्तः। भसुरकः पशून् न मारयेत् इति अभियाचनां कृतवन्तः। भसुरकः अङ्गीकारं दत्तवान् उक्तवान् च - “यदि एकस्मिन् दिनेऽपि भवन्तः पशुं न प्रेषयेयुः तर्हि अहं वने सर्वान् मारयिष्यामि।”।

तदा आरभ्य प्रतिदिनम् एकः पशुः भसुरकस्य भोजनाय स्वस्य आहुतिं दत्तवान्। पशुजातेः आधारेण पर्यायः निर्णीतः। वने पुनः शान्तिः जाता।

एकदा भसुरकस्य भोजनाय शशस्य पर्यायः। सः मृत्युं न इच्छति स्म परन्तु सः कर्तव्यपालनं निराकर्तुं न शक्तवान्। स्वजीवनरक्षणाय भसुरकस्य हननम् आवश्यकम् इति सः चिन्तितवान्। परन्तु शशः सिंहं कथं मारयेत्? सिंहः कथं हन्तव्यः इति चिन्तनं कुर्वन् शशः शनैःशनैः मार्गे अचलत्। अन्ततः सः सिंहस्य गृहं प्राप्तवान्।

भसुरकः कुपितः। तस्य भोजनं विलम्बेन आगतम्। शशं दृष्टवा सः गर्जितवान् - “प्रथमतः त्वं विलम्बेन आगतः। अन्यच्च त्वं शशः! शशः! एकेन लघुशशेन मम बुभुक्षा कथम् उपशम्येत? सर्वादौ अहं त्वां खादिष्यामि। तत्पश्चात् वने सर्वान् पशून् मारयिष्यामि।”

शशः भसुरकं प्रणम्य उक्तवान् - “हे राजन्! विलम्बेन आगतः एषः मम दोषः नास्ति। अन्येषां पशूनां दोषः अपि नास्ति। एकः शशः भवतः भोजनाय न पर्याप्तः इति वयं जानीमः। अतः पञ्चशशाः प्रेषिताः। मार्गे कश्चन सिंहः अस्माकं मार्गम् अवरुध्य पृष्टवान् वयं कुत्र गच्छामः इति। शक्तिशालिसिंहभसुरकस्य भोजनाय गच्छामः इति वयम् उक्तवन्तः। परन्तु सः भवतः उपहासं कृतवान्। सः भवन्तं 'वञ्चकः' उद्दिष्टवान्। सः मां भवन्तं द्वन्द्वयुद्धनिमन्त्रणदानाय प्रेषितवान्। भवन्तं पराजेष्यति इति सः उक्तवान्।"

भसुरकः क्रोधितः। "कः एषः अहङ्कारी सिंहः?” सः पृष्टवान। "मां दर्शयतु। अहं तं मारयित्वा, अनन्तरं मम भोजनं खादिष्यामि।”

शशः सिंहम् एकस्य कूपस्य समीपे नीतवान्। "अन्तः पश्यतु। सः सिंहः अत्रैव वसति।”

भसुरकः अन्तः दृष्टवान्। स्वस्य प्रतिछायां दृष्टवान्। स्वस्य एव प्रतिछाया अस्ति इति अनवगच्छन् सः गर्जितवान्। प्रतिध्वनिः आगतः। प्रतिध्वनिः तस्य गर्जनात् अपि उच्चतरः। प्रतिध्वनिः अन्यसिंहस्य गर्जनम् अस्ति इति चिन्तयित्वा सः प्रतिछायाम् आक्रमणाय कूपे कूर्दितवान्। सः मृतः।

शशः हर्षितः। सः प्रतिगतवान्। कथं बुद्ध्या सिंहं मारितवान् इति अन्यान् पशून् सः श्रावितवान्। सर्वे पशवः शशस्य प्रशंसां कृतवन्तः, सुखेन जीवनं च यापितवन्तः।

दमनकः कथां समाप्तवान् - “तीक्ष्णदन्ताः न आवश्यकाः। अहं मम बुद्धिम् उपयुज्य पिङ्गलकं सञ्जीवकं च पृथक् करिष्यामि।”

'शुभं भवतु!' इति करटकः दमनकं उक्तवान्। दमनकः पिङ्गलकं मेलनाय गतवान्।

सिंहः एकाकी आसीत्।

पिङ्गलकः शृगालस्य स्वागतं कृतवान्। दमनकः उक्तवान् - “हे राजन्। महत्सङ्कोचेन वदामि। अहं जानामि सञ्जीवकः भवतः मित्रम्। परन्तु अहं भवतः विश्वसनीयः मन्त्री। अतः सत्यकथनं मम दायित्वम्। सञ्जीवकः भवन्तं मारयित्वा भवतः राजसिंहासनं निग्रहीतुम् इच्छति।"

“एवं वा?” पिङ्गलकः आश्चर्यं दर्शितवान्, “एतत् कथं शक्यम्? सः विश्वसनीयमित्रम्। सः किमर्थं मां मारयितुम् इच्छति?”

दमनकः उत्तरं दत्तवान् - “न कोऽपि अस्ति विश्वसनीयः सेवकः। सर्वे राजपदम् इच्छन्ति। अतः सर्वं दायित्वं राज्ञा एकस्मै सेवकाय कदापि न दातव्यम्। अपि च हे राजन्! भवान् किमर्थं तस्मिन् इयन्तं विश्वासं करोति? भवते तस्य किं प्रयोजनम्? सः शाकाहारी। सः भवतः शत्रून् मारयितुं न शक्नोति।”

चिन्तामग्नः पिङ्गलकः उपविष्टवान्। दमनकः जानाति स्म, सिंहस्य मनसि तेन विषं स्थापितम्। सः अनुवर्तितवान् "हे राजन्! सः भवन्तं मारयिष्यति। तस्मात् पूर्वमेव भवान् तं मारयतु। अन्यथा यथा मक्षिका कीटे विश्वासं कृत्वा मृता तथा भवतः अपि सा दशा भविष्यति।”

“सा का कथा?” पिङ्गलकः पृष्टवान्।

तदानीं दमनकः पिङ्गलकं मक्षिका-कीटयोः कथां श्रावितवान्।

बुधवार, 6 नवंबर 2019

पञ्चतन्त्रम् (अध्यायः ७)

दमनकः करटकं कथितवान्…

एकदा कश्चन काकः तस्य भार्या च वटवृक्षे निर्मिते नीडे निवसतः स्म। यदाकदापि तयोः शिशवः जायन्ते स्म, तेषां उड्डयनात् पूर्वमेव, कश्चन सर्पः तान् खादति स्म। काकौ दुःखिनौ आस्ताम्। तौ शृगालेन सह मन्त्रणां कृतवन्तौ। शृगालः उक्तवान् - “चिन्ता मास्तु। भवद्भ्यां सर्पः मारयितुं तु न शक्यते परन्तु यदि साहसेन बुद्ध्या च व्यवहरेम तर्हि यथा कर्कटः बकं मारितवान् तथैव वयं किमपि साधयितुं शक्नुमः।”

“सा का कथा?” काकः पृष्टवान्।

तदानीं शृगालः धूर्तकर्कट-बकयोः कथां श्रावितवान्।

धूर्तकर्कटः बकः च
कस्यचित् तडागस्य समीपे कश्चन बकः निवसति स्म। सः तडागे विद्यमानान् मीनान् अन्यानि जीवानि च खादित्वा जीवति स्म। यावत् तस्य वयः अधिकायते तावत् भोजनप्रापणं कठिनायते, तस्य शारीरिकप्रक्रिया न पूर्वसदृशी - इति बकः अनुभूतवान्। उपायः करणीयः अन्यथा विनाशः निश्चितः। सः योजनां रचितवान्।

एकदा बकः शोचनीयं मुखं अभिनयन् तडागतीरे स्थितवान्। सः मीनान् लब्धुं प्रयत्नं न कृतवान्। यद्यपि तडागे भोजनम् आसीत् तथापि सः ध्रुवं स्थितवान्। एतत् दृष्ट्वा एकः कर्कटः पृष्टवान् - “हे बक! अद्य मीनान् लब्धुं न प्रयत्नं करोति भवान्? केन कारणेन?”

बकः उत्तरं दत्तवान् - “प्रिय कर्कट! तडागस्य विनाशः आगच्छन्नस्ति! सम्भाषणं कुर्वन्तं कञ्चन धीवरसमूहम् अहं श्रुतवान्। श्वः ते वागुरया सर्वान् मीनान् निग्रहीष्यन्ति। भवन्तः सर्वे मृत्युं प्राप्स्यन्ति, मम भोजनमपि अपगमिष्यति। अतः अहम् शोकाविष्टः।”

एषा वार्ता शीघ्रं प्रसृता। तडागे सर्वे मीनाः भीताः। ते बकम् उपसर्प्य विनाशस्य परिहाराय उपायं पृष्टवन्तः। बकः गभीरतया उक्तवान् - “धीवरान् निवारणाय अहं किमपि कर्तुं न शक्नोमि। परन्तु प्रायः एकैकशः भवतः अन्यस्मिन् तडागे स्थापयितुं शक्नोमि। एतेन भवतां जीवनरक्षा भवेत्।”

भयाविष्टाः मीनाः अन्ये अम्बुजाः च झटिति अङ्गीकृतवन्तः, बकं याचितवन्तः च - “मां नयतु! प्रथमं मां नयतु, बक!”

बकः एकं मीनं तस्य दीर्घचञ्चौ स्थापयित्वा अन्यत्र नीतवान्, अनन्तरं शिलायां प्रक्षिप्य, तं मारयित्वा खादितवान्। एकैकशः बकेन बहवः मीनाः एवं खादिताः। कर्कटः अपि तस्य जीवनरक्षणाय बकं याचितवान्। भिन्नभोजनस्य लालसावशात् बकः अङ्गीकृतवान्। कर्कटः बकं आरूढवान्, तस्य कण्ठम् अवलम्ब्य उत्साहेन नूतनगृहाय यात्राम् अरब्धावान्।

किञ्चिद्दूरे बकः तां शिलां प्राप्तवान् यत्र तेन बहवः मीनाः मारिताः। मीनानाम् अस्थिपञ्जराणां राशिं दृष्ट्वा कर्कटः बकस्य धूर्तव्यवहारम् अवगतवान्। तयोः एकः एव जीवेत् इति तत्क्षणे तेन अवगतम्। कर्कटः बकस्य कण्ठं बलेन निपीडितवान्। बकः मोचनाय प्रयत्नं कृतवान् परन्तु कर्कटः विजयी अभवत्। बकः मृतः।

कर्कटः तडागं प्रत्यागत्य अन्यान् सर्वं श्रावितवान्। तेषां जीवनं सुरक्षितम् इति सान्तवनाम् अपि दत्तवान्।

शृगालः कथां समाप्तवान्, काकम् उक्तवान् च - “आवयोः बुद्धिम् उपयुज्य भवतः शिशून् खादन्तं सर्पं मारयिष्यावः।”

“तत् कथं कुर्याव?” काकः पृष्टवान्। शृगालः उत्तरं दत्तवान् - “नगरं गत्वा, कानिचन आभरणानि चोरयित्वा सर्पस्य गृहे पातयतु।”

यथा उक्तं तथा काकेन कृतम्। नगरान्वेष्णाय सः उड्डयितवान्। सः एकं तडागं दृष्टवान् यत्र काश्चन राजकुमार्यः राजसभायाः अन्याः नार्यः च स्नानं कुर्वत्यः आसन्। तासां कण्ठमालाः, कर्णकुण्डलानि, अन्यानि आभरणानि च ताभिः तडागतीरे स्थापितानि आसन्। काकः एकां लसन्तीं सुवर्णकण्ठमालां चोरयित्वा उड्डयितवान्। एतत् पश्यन्तः राजसेवकाः काकस्य दिशि धावितवन्तः।

काकः सर्पस्य गृहे कण्ठमालां पातयित्वा अन्यत्र गतवान्। यदा राजसेवकाः तत्र आगतवन्तः, लसन्तीं मालां ते सर्पगृहे दृष्टवन्तः। ते तेषां गदाभिः सर्पं ताडयित्वा तं मारितवन्तः। सुवर्णमालां लब्ध्वा प्रतिगतवन्तः।

काकः तस्य भार्या च शृगालस्य साहाय्याय धन्यवादं दत्तवन्तौ, अनन्तरं सुखेन जीवनं यापितवन्तौ।

दमनकः कथां समाप्तवान् - “यथा काकः सर्पं विजितवान् तथा बुद्धिमते किमपि न असम्भवम्। यथा शशः सिंहं जितवान्।"

“भोः!” करटकः उक्तवान् "शशस्य कथा का? भवान् न कथितवान्।”

तदानीं दमनकः करटकं चतुरशशस्य मूर्खसिंहस्य च कथां श्रावितवान्।

शनिवार, 14 सितंबर 2019

पञ्चतन्त्रम् (अध्यायः ६)

दमनकः करटकं कथितवान्…

दूरे देवशर्मः नाम्ना मुनिः वसति स्म। तस्य आशीर्वादं स्वीकरणाय बहवः जनाः आगच्छन्ति स्म। तस्मै मूल्यवन्ति उपायनानि दत्त्वा आदरं दर्शयन्ति स्म। गच्छता कालेन देवशर्मः प्रभूतधनम् अर्जितवान्। रात्रिन्दिवं सः तत् धनम् अनुरक्षति स्म। धनं कदापि तस्य दृष्टितः न अपगच्छति स्म। सः तत् धनं भजते स्म। धनरक्षा मुनेः चिन्ताविषयः जातः। सः कस्मिन् अपि विश्वासं न करोति स्म।

एकदा आषाढभूतिः नाम्ना चोरः देवशर्मस्य हस्ते धनं दृष्टवान्। सः तत् धनं चोरयितुम् इष्टवान्। एतत् कार्यं न सरलं सः जानाति स्म। मुनिः तस्य गृहं सम्यक् रक्षति स्म। धनं कदापि तस्य दृष्टितः न अपगच्छति स्म। चोरः एकं धूर्तोपायं चिन्तितवान्। मुनेः समीपं गत्वा, तं प्रणम्य, सः उक्तवान् - “हे मुने! जीवनं माया अस्ति। प्रपञ्चे अस्माकं जीवनं केवलं कणमात्रः। विश्वस्य सुखसुविधानि मोहः एव। सत्यं मया ज्ञातम्। कृपया जीवनस्य उद्देश्यं मां पाठयतु।”

युवकात् एतादृशान् आध्यात्मिकप्रश्नान् श्रुत्वा देवशर्मः मुदितः अभवत्। सः तं छात्ररूपेण स्वीकृतवान्। आषाढभूतिना रात्रौ तस्य गृहे प्रवेशः न करणीयः, गृहात् बहिः शालायाम् एव वासः करणीयः इति प्रतिबन्धं मुनिः प्रस्तुतवान्। चोरः झटिति स्वीकृतवान्।

आगामिषु दिनेषु आषाढभूतिः यत् देवशर्मेण आदिष्टं तत् सर्वं कृतवान्। विश्वसनीयः सेवकः इव सः सर्वाणि गृहकार्याणि कृतवान्। ये पाठाः देवशर्मेण पाठिताः, सः तेषाम् अध्ययनस्य अभिनयम् अपि कृतवान्। परन्तु देवशर्मः धनं कदापि स्वस्य दृष्टितः न अपसारितवान्। आषाढभूतेः धैर्यं गतवत् आसीत्। अवसादः अपि जायमानः आसीत्। मुनेः हननविषये अपि सः चिन्तितवान्।

एकदा देवशर्माय ग्रामात् निमन्त्रणम् आगतम्। तस्य कस्यचित् शिष्यस्य पुत्रस्य उपनयनम् आसीत्। निमन्त्रणं स्वीकृत्य देवशर्मः ग्रामं गतवान्। आषाढभूतिः अपि तेन सह गतवान्।

मार्गे नदी दृष्टा। देवशर्मः स्नानम् इष्टवान्। सः तस्य धनं वस्त्रेण आवृत्य आषाढभूतये दत्तवान् उक्तवान् च - “एतत् अतिजागरुकतया रक्षतु। अहं शीघ्रम् आगच्छामि।”

यावत् शीघ्रम् देवशर्मः गतः तावत् चोरः सहर्षं धनेन सह पलायनं कृतवान्।

देवशर्मः दीर्घकालं यावत् स्नानं कृतवान्। स्नानं कृत्वा सः नदीतीरे विश्रामं कृतवान्। सः आषाढभूतौ विश्वासं करोति स्म। तस्य धनं चोरितम् इति तेन न ज्ञातम्। विश्रामे कुर्वति सः कञ्चित् अजसमूहं दृष्टवान्। तेषु द्वौ युद्धं कुर्वन्तौ आस्ताम्। तत् दृश्यं द्रष्टुं सः उपविष्टवान्। यदा युद्धं प्रचलत् आसीत् कश्चन शृगालः तत्र आगतवान्। यदि कोऽपि अजः म्रियेत, मासं तस्य लाभाय इति शृगालस्य चिन्तनम् आसीत्।

देवशर्मः चिन्तितवान् - “यदि एषः मूर्खशृगालः अजयोः शृङ्गघट्टनस्य मध्ये आगच्छेत् तर्हि निश्चयेन सः मरणं प्राप्स्यति।” यथा तेन चिन्तितं, शृगालः युद्धमध्ये आगतवान्। सः मृतः।

देवशर्मः मूर्खशृगालाय शोकं कृतवान्। यस्मिन् स्थाने आषाढभूतिः तस्य धनेन सह आसीत्, तत्र प्रत्यागतवान्। तत्र स्थानं गत्वा, रिक्तवस्त्रं दृष्ट्वा, सः आश्चर्यचकितः अभवत्। आषाढभूतिः धनं च उभौ अपि गतौ। देवशर्मः उच्चस्वरेण आहूतवान् - “हे आषाढभूते! भवान् कुत्र?” परन्तु किमपि उत्तरं न आगतम्। किं जातं मुनिना अवगतम् - सः वञ्चितः, तस्य धनं चोरितम्।

देवशर्मः रोदनं कृतवान्। सः चोरस्य अन्वेषणं कृतवान् परन्तु न कोऽपि लाभः। अनन्तरं सः तस्य यात्रां पुनः अनुवर्तितवान्। दीर्घकालं यावत् रक्षितं धनं तस्य मूर्खत्वेन गतम्।

शृगालः मुनिः च स्वयमेव हानेः कारणभूतौ।

दमनकः कथां समाप्तवान् - “मम बुद्धिम् उपयुज्य अहं पिङ्गलकसञ्जीवकयोः मध्ये भेदं रचयिष्यामि। सिंहः केनचित् दुर्व्यसनेन ग्रस्तः। तस्य रक्षणम् आवयोः दायित्वम्।”

“राजा केन दुर्व्यसनेन पीडितः?” - करटकः पृष्टवान्।

दमनकः उत्तरं दत्तवान् - “नाशस्य पञ्च मूलकारणानि सन्ति। १. राज्ञः परितः सज्जनानाम् अभावः। २. शत्रुभिः आक्रमणम्। ३. कामम् ४. सृष्टेः प्रकोपः - प्रचण्डाग्निः, परिप्लवनम्, सङ्क्रामकरोगाः इत्यादयः। ५. असाधुः नीतिः - यदा शान्तिः उचिता तदा युद्धम् उत तद्विपरीतम्।

राजा कष्टे अस्ति। सः सञ्जीवकेन सह समधिकं समयं यापयति। तस्य मन्त्रिगणं न शृणोति। तस्य मोचनाय अहं योजनां रचयिष्यामि।”

करटकः उक्तवान् - “भवान् एतत् कथं करिष्यति?”

दमनकः धूर्तमन्दहासेन उक्तवान् - “यथा काकः सर्पं मारितवान्।”

“सा का कथा?” - करटकः पृष्टवान्।

तदानीं दमनकः करटकं काकसर्पयोः कथां श्रावितवान्।

शुक्रवार, 26 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ५)

दमनकः सञ्जीवकं कथितवान्…

वर्धमाननगरे दन्तिलः नाम्ना कश्चन धनिकः वणिक् आसीत्। सः समृधः वणिक् राज्ञः विश्वासपात्रेषु अन्यतमः। सः स्वच्छन्दं राजसभां गच्छति स्म। सः राजसभायै मन्त्रणां ददाति स्म। सर्वे तं बुद्धिमान् ज्ञानी च विभावयन्ति स्म।

एकदा दन्तिलेन तस्य पुत्र्याः विवाहः आडम्बरेण आयोजितः। बहवः प्रसिद्धाः जनाः आगतवन्तः। राजसेवकः गोरम्भः अपि आगतवान्। अविदिततया सः सेवकः उन्नतवंशीये आसन्दे उपविष्टवान्। एतत् दन्तिलाय न अरोचत। सः चिन्तितवान् - “एषः सेवकः कथम् उन्नतवंशीये आसन्दे उपवेष्टुं साहसं करोति।” सः गोरम्भं भवनात् निष्कासितवान्।

गोरम्भः निष्कासितः। सः अपमानितः। “एषः वणिक् मम अपमानं कृतवान्। मया प्रतिकारः करणीयः।”

गोरम्भः योजनां रचितवान्। अग्रिमे दिने सः राज्ञः शयनप्रकोष्ठं गतवान्। तत्र सः राजशय्यायाः अधः मार्जानम् आरब्धवान्। यदा राजा निद्रातः जाग्रत् आसीत् तदा सः मन्दस्वरेण उक्तवान् “अहो! दन्तिलस्य धृष्टता! सः राज्ञीम् आलिङ्गितवान्!”

राजा झटिति उत्थाय पृष्टवान् - “अयि! भवान् किम् उक्तवान्? दन्तिलः मम राज्ञीम् आलिङ्गितवान् - एतत् सत्यं वा?”

गोरम्भः क्षमां याचितवान् - “हे राजन्। ह्यः आरात्रि अहं द्यूतक्रीडां क्रीडितवान्। अतः निद्रा न प्राप्ता। अहं निद्रालुः। किम् उक्तवान्, अहं न स्मरामि।”

यत् श्रुतं राजा विस्मर्तुं न शक्तवान्। ईर्षा तस्य मनसि आगता “एतत् शक्यं वा? किं दन्तिलः मम राज्ञ्याः आलिङ्गनं कुर्यात्? सः वणिक् मम प्रासादे कुत्रापि गन्तुं शक्नोति अतः एतत् शक्यम्। स्यात् नाम गोरम्भेण तयोः आलिङ्गनं दृष्टम्। दिने यत् कृतं दृष्टं च तत्विषये बहवः जनाः निद्रायां वदन्ति। सेवकस्य शब्दाः न उपेक्षणीयाः। मया सावधानं भवितव्यम्।”

राज्ञः एतत् चिन्तनं दृढं जातम्। प्रासादे दन्तिलस्य आगमनं निषिद्धं कारितम्। दन्तिलस्य सर्वे राजाधिकाराः अपगताः। सद्यः परिवर्तनेन दन्तिलः आश्चर्यम् अनुभूतवान्। सः चिन्तितवान् “यद्यपि मया किमपि अनुचितं न कृतं तथापि राजा किमर्थं एतादृशं व्यवहारं करोति?”

एकदा दन्तिलः प्रासादे प्रवेष्टुं प्रयत्नं कृतवान्। द्वारपालकः तं रुद्धवान्। एतत् दृष्ट्वा गोरम्भः उक्तवान् - “रे द्वारपालकाः! भवन्तः मूर्खाः। भवन्तः न जानन्ति कीदृशः महाभागः एषः वणिक्? एकदा अहम् उत्सवात् एतेन निष्कासितः यतः अहम् एतस्य सम्मानं न कृतवान्। यदि भवन्तः एतस्मै अन्तः गमनाय अनुमतिं न ददति तर्हि सः भवतः अपि दण्डयिष्यति।”

किं प्रवृत्तं तदा दन्तिलेन अवगतम् “एतत् सर्वं मार्जकेन कृतम्।” दन्तिलः चिन्तितवान्, “एतेन राज्ञः दृष्ट्यां मम मानः न्यूनीकृतः। यदि सः मां निष्कासयितुं शक्नोति तर्हि सः मम पुनः प्रवेशम् अपि कारयितुं शक्नोति। एतेन सह मया मैत्री करणीया।”

एकदा दन्तिलः गोरम्भं स्वगृहे आहूतवान्। तस्मै उपहाराणि दत्तवान्। विवाहोत्सवे तेन कृताय व्यवहाराय क्षमाम् अपि याचितवान्।

गोरम्भस्य सन्तुष्टिः जाता। दन्तिलस्य मानः राज्ञः दृष्ट्यां पुनः वर्धेत तन्निमित्तं सः दन्तिलस्य साहाय्यं कर्तुं निश्चितवान्। अग्रिमे दिने यदि राजा शयानः आसीत्, मार्जकः पुनः अभिनयं कृतवान्। यदा राजा निद्रातः उत्तिष्ठन् आसीत् तदा सः उक्तवान् - “राजा शौचालये कर्कटीं खादति।”

राजा आश्चर्येण उत्थाय पृष्टवान् “अयि रे! कदा अहं शौचालये कर्कटीं खादितवान्? अपि च भवान् कथं द्रष्टुं शक्नुयात्?”

मार्जकः उत्तरं दत्तवान् - “क्षम्यतां राजन्! किम् उक्तवान् अहं न स्मरामि। आरात्रि द्यूतक्रीडावशात् इदानीमपि अहं निद्रालुः।”

राजा चिन्तितवान् - “यदि एषः मूर्खः मम विषये किमपति वदति तर्हि दन्तिलस्य विषये अपि एतेन यत् उक्तं तत् असत्यं भवितुम् अर्हति। अन्यच्च दन्तिलस्य अनुपस्थितिवशात् राजकार्येषु क्लेशः अनुभूयते।

समनन्तरं राजा राजसभायां दन्तिलाय पुनः पदं दत्तवान्। पुनः सर्वं कुशलम् अभवत्।

दमनकः कथां समाप्तवान् - “अतः यः राज्ञः समीपे अस्ति तस्मै सर्वदा आदरः दर्शनीयः।

सञ्जीवकेन अवगतम्। सः दमनकेन सह राजानं मेलनार्थं गतवान्।

पिङ्गलकः सञ्जीवकं मिलित्वा तस्य परिचयं पृष्टवान्। वणिजा सह यात्रा, पङ्के पादनिमज्जनवशात् चलने असामर्थ्यम्, सर्वं वृषभेण श्रावितम्। पिङ्गलकः समन्दहासम् उक्तवान् - “चिन्ता मास्तु मित्र! इदानीं भवान् मम वने अस्ति। निर्भयेन कुत्रापि गच्छतु। भवतः रक्षा मम दायित्वम्।”

तदा आरभ्य सिंहवृषभयोः मैत्री जाता। सिंहः केवलं वनविषये जानाति स्म, वृषभः केवलं नगरविषये। परस्परं तौ ज्ञानसंविभागं कृतवन्तौ रहस्यानि च कथितवन्तौ। अन्ये पशवः दूरीभूताः। गच्छता कालेन राजक्रीडासु, हनने, अन्यासु मासाहारिचर्यासु च पिङ्गलकस्य रुचिः क्षीणा जाता। सः वृषभेण, तस्य जीवनचर्यया च प्रभावितः। सः केवलं स्वस्य भोजनाय हननं करोति स्म। इदानीं तस्य परितः स्थिताः शृगालाः अन्ये पशवः च अवशिष्टं मासं न प्राप्नुवन्ति स्म।

शृगालौ खिन्नौ अभवताम्। दमनकः करटकम् उक्तवान् - “एतत् मया किं कृतम्! इदानीम् आवयोः स्थितिः पूर्वापेक्षया कष्टकरी। न केवलं सर्वे अधिकाराः अपगताः, इदानीम् आवाभ्यां भोजनम् अपि न प्राप्यते। मया परिष्कारः करणीयः। मुनिः लोभिशृगालः च इव मम एव दोषः।”

करटकः पृष्टवान् - “सा का कथा?”

तदानीं दमनकः करटकं मुनेः लोभिशृगालस्य च कथां श्रावितवान्।

बुधवार, 24 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ४)

दमनकः पिङ्गलकं कथितवान्…

वने कश्चन बुभुक्षितः शृगालः आसीत्। भोजनस्य अन्वेषणं कुर्वन् सः किञ्चित् युद्धक्षेत्रं दृष्टवान्। दूरात् सः उच्चनादं श्रुतवान्। विलक्षणः नादः सः। तादृशः नादः तेन पूर्वं कदापि न श्रुतः। सः भीतः। यः तं मारयिष्यति तादृशस्य कस्यचित् भयङ्करजीवस्य नादः अस्ति इति सः चिन्तितवान्। सः घोरभयम् अनुभूतवान्। भीत्या सः अग्रे गतवान्। एकस्य वृक्षस्य अधः मृदङ्गं दृष्टवान्। वायुवेगेन वृक्षस्य शाखाः मृदङ्गं ताडयन्ति स्म। तेन ताडनेन नादः उत्पन्नः।

शृगालेन पूर्वं कदापि मृदङ्गः न दृष्टः। सः अवधानेन मृदङ्गस्य समीपे गतवान् मृदङ्गं नुत्तवान् च। सः मृदङ्गः निश्चलः। यः एतादृशं नादं करोति निश्चयेन सः केनचित् वस्तुना परिपूर्णः, प्रायः भोजनेन, इति सः चिन्तितवान्। सः मृदङ्गस्य चर्म विदीर्णवान्। अन्तः किमपि नासीत्। सः समन्दहासं चिन्तितवान् - “अहं नादात् भीतः आसं परन्तु एतस्य अन्तः वायोः अतिरिक्तं किमपि नास्ति।”

शृगालः भोजनस्य अन्वेषणं अनुवृत्तवान्, इदानीं किञ्चित् निर्भयेन।

दमनकः कथां समाप्तवान् - “हे राजन्। केवलं नादः खलु। तथापि यदि भवान् इच्छति अहं गत्वा अनुसन्धानं करिष्यामि।”

पिङ्गलकः अनुमतिं दत्तवान्। दमनकः अनुसन्धानाय गतवान्।

दमनकस्य गमनस्य पश्चात् दमनकः किम् इच्छति इति पिङ्गलकः ससन्देहं चिन्तितवान् - “स्यात् नाम मया दमनके विश्वासः न करणीयः। मम मन्त्रिगणे अहं तस्मै पदं न दत्तवान् एतेन कारणेन तस्य मनसि द्वेशभावना भवेत्। प्रायः सः मम अहिताय व्यवहारं कुर्यात्। यः बलवान् अस्ति परन्तु सर्वेषु विश्वासं करोति, तस्य अपेक्षया दुर्बलं परन्तु बुद्धिमन्तं नरं वञ्चयितुं दुष्करम् - इति उच्यते। न, अहं शृगाले विश्वासं न करिष्यामि। सावधानं भविष्यामि।”

यत्र सञ्जीवकः तृणानि खादति स्म तत्र दमनकः आगतवान्। सः केवलं शाकाहारी पशुः इति दृष्ट्वा दमनकः त्वरया राज्ञः समीपे गत्वा यत् दृष्टं तत् राजानं सूचितवान्।

पिङ्गलकः तस्मिन् विश्वासं न कृतवान् - “भयङ्करगर्जनं कुर्वन्तं एतं जीवं भवान् दृष्टवान् - एतत् सत्यं वा?” शृगालः अङ्गीकारं दर्शितवान्। सिंहः उक्तवान् - “भवान् सत्यं वदति इति मन्ये। यतः भवान् जीवितः आगतः अतः भवान् तं दृष्टवान् इति चिन्तयामि। शक्तिमन्तः जीवाः भवादृशान् तुच्छजन्तून् न मारयन्ति। चण्डावातः तृणं न उत्पाटयति, वृक्षान् उत्पाटयति। भवान् न तत्तुल्यः इति तेन जीवेन चिन्तितम्। सः निश्चयेन शक्तिमान् अस्ति।”

पिङ्गलकः घोरभयम् अनुभवन् आसीत्।

दमनकः विनम्रतया परन्तु दृढतया उक्तवान् - “हे राजन्। तं जीवम् अनुरोधं करिष्यामि यत् सः भवता सह मिलतु इति।” पिङ्गलकः अङ्गीकारं दत्तवान्।

दमनकः वृषभस्य समीपे गत्वा आदिष्टवान् “हे वृषभ। सर्वाणि कार्याणि त्यजतु। मम राजानं मिलतु।”

कः राजा इति यदा सञ्जीवकेन पृष्टं तदा दमनकः उच्चतरेण स्वरेण उक्तवान् “भवान् शक्तिशालिसिंहं पिङ्गलकं न जानाति? अकारणं निरन्तरं गर्जनकारणात् सः भवन्तं निश्चयेन दण्डयिष्यति।”

सञ्जीवकः भीतः। निश्चयेन मरणदण्डं प्राप्स्यति इति सः चिन्तितवान्। सः दमनकम् अनुरोधं कृतवान् “कृपया मम साहाय्यं करोतु। भवान् बुद्धिमान् अस्ति। राजानम् उक्त्वा मम जीवनं रक्षयतु। अहं भवता सह आगमिष्यामि।”

अत्रैव तिष्ठतु इति वृषभम् उक्त्वा दमनकः पिङ्गलकस्य समीपे गतवान् उक्तवान् च - “हे राजन्। एषः न साधारणजीवः। सः शिवदेवस्य वाहनम्। तेन सह मैत्री करणीया।”

पिङ्गलकः उक्तवान् - “पूर्वमेव मया चिन्तितं खलु, एषः न साधारणः जीवः। तं महन्तं वृषभम् अत्र आनयतु। तं मेलिष्यामि।

दमनकः सञ्जीवकं गत्वा तं सूचितवान् - “अस्तु। मम अनुरोधेन राजा भवन्तं न मारयिष्यति। परन्तु आवयोः सम्मतिः भवतु। राजा भवन्तम् आदरं दर्शयिष्यति इति व्यवस्थाम् अहं करिष्यामि। परन्तु भवान् सर्वदा मम समीपे तिष्ठतु, मम निर्देशं शृणोतु। राज्ञः प्रीतेः दुरोपयोगं मा करोतु अन्यथा भवतः दशा अपि दन्तिलवणिक् इव भवेत्।”

“दन्तिलेन सह किं प्रवृत्तम्?” सकुतूहलं पृष्टवान् सञ्जीवकः।

तदानीं दमनकः सञ्जीवकं दन्तिलवणिजः कथां श्रावितवान्।

सोमवार, 1 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ३)

करटकः दमनकं कथितवान्…

कस्मिंश्चित् नगरे कश्चन वणिक् मन्दिरनिर्माणं कारयति स्म। तदर्थं बहवः लेपकाः, तक्षकाः, रचनाकाराः च कार्यरताः आसन्। ते बृहद् वृक्षकाष्ठं लघुखण्डेषु कर्तयन्तः आसन्। एकदा कार्यकर्तारः प्रातःकालीनं कार्यं समाप्य मध्यदिने भोजनाय गतवन्तः।

यत्र काष्ठखण्डानि उपकरणानि च आसन् तत्र कश्चन वानरसमूहः आगतवान्। वानरसमूहः काष्ठखणडैः उपकरणैः च क्रीडितुम् आरब्धवान्। एकं वृक्षकाष्ठम् अपूर्णतया भागद्वये विभक्तम् आसीत्। एतत् एकेन वानरेन दृष्टम्। कार्यकर्तृणा भागद्वयस्य मध्ये लघुकाष्ठखण्डं स्थापितं येन भागद्वयं पुनः संयुक्तं न भवेत्। लघुकाष्ठखण्डं किमर्थं तत्र स्थापितम् इति वानरः चिन्तितवान्। भागद्वयस्य मध्ये कूर्दित्वा वानरः बलेन लघुकाष्ठखण्डं कर्षितवान्। अचिरात् लघुकाष्ठखण्डं बहिः आगतम्। क्षणाभ्यान्तरे भागद्वयं पुनः संयुक्तम् अभवत्। मध्ये स्थितः वानरः विमर्दितः मृतः च!

करटकः अनुवृत्तवान् - “यत्र किमपि कार्यं न आसीत् वानरः तत्र हस्तक्षेपं कृतवान्। पश्यतु, तस्य दशा! अतः आवाभ्यां राज्ञः कार्येषु हस्तक्षेपः न कर्तव्यः। राज्ञः भक्षणस्य अनन्तरं यत् आवश्यकं तत् भोजनम् आवाभ्यां प्राप्यते। अतः हस्तक्षेपः किमर्थं कर्तव्यः?”

दमनकः उत्तरं दत्तवान् - “केवलं भोजनविषये भवान् चिन्तयति वा? राजसेवां कृत्वा आवाभ्यां प्रज्ञा, धनं सम्मानः च प्राप्तव्याः। कुक्कुराः काकाः च अवशिष्टं भोजनं खादन्ति। आवाभ्यां तेभ्यः समीचीनतरं भवितव्यम्।”

करटकः - “राजमन्त्रालये आवयोः किमपि पदं नास्ति। राजा भवता सह किमर्थं सम्भाषणं करिष्यति?”
दमनकः - “राजा भीतः। एतस्मिन् काले एव सः मन्त्रणाम् अपेक्षते। तस्य परितः सर्वे मूर्खाः। एतस्य अवसरस्य सदुपयोगं करिष्यामि।”
करटकः - “भवान् कथं जानाति राजा भीतः?”
दमनकः - “तस्य शारीरिकभाषां पश्यतु। तस्य अन्यपशूनां च मध्ये तेन दूरत्वं निर्मितम्। सः कमपि अभिमुखं न पश्यति। सः निरुत्साहेन चलति। तेन सह सम्भाषणं कृत्वा, मम बुद्धिम् उपयुज्य अहं तं वशीकरिष्यामि।”

“भवान् एतत् कथं साधयति?” करटकः सकुतूहलं पृष्टवान्।

दमनकः स्कन्धौ उत्क्षिप्य उक्तवान् “केनचित् वाक्येन आरम्भं करिष्यामि। तस्मात् सम्भाषणं भविष्यति। कदा वक्तव्यं कदा तूष्णीं स्थातव्यं केवलम् इति अवधानं कर्तव्यं मया। तस्य मनोदशायाः यथावत् वदिष्यामि।”

“अस्तु। शुभं भवतु।” करटकेन सम्भाषणं समापितम्।

दमनकः राज्ञः समीपे गतवान्।

दमनकः तस्य भूतपूर्वमन्त्रिणः पुत्रः इति अभिज्ञाय, पिङ्गलकः तस्य सेवकान् दमनकम् अन्तः आनेतुम् आदिष्टवान्।

दमनकः राजानं नमस्कृत्य आसन्दे उपविष्टवान्।

पिङ्गलकः पृष्टवान् - “भवान् कथम् अस्ति? चिरात् भवन्तं न दृष्टवान्।”
दमनकः उत्तरं दत्तवान् - “हे राजन्! भवन्तं मम आवश्यकता नास्ति अतः इतःपूर्वं न आगतवान्। मम पूर्वजैः प्राचीनकालात् राजसेवा कृता परन्तु इदानीम् अहं भवतः विश्वासपात्रेषु न अस्मि। किन्तु आवश्यकता अस्ति चेत् राज्ञे तृणमात्रम् अपि लाभकरम्।”

पिङ्गलकः दमनकं सन्देहेन दृष्टवान् - “भवान् मम भूतपूर्वमन्त्रिणः पुत्रः खलु। अहं भवन्तं शृणोमि। वदतु, भवान् किं वक्तुम् इच्छति?”

दमनकः पृष्टवान् - “हे राजन्। भवान् किमर्थं जलपानेन विना नदीतः आगतवान्?”
राजा उक्तवान् - “किं भवता दूरात् आगतं गर्जनम् न श्रुतम्? यस्य गर्जनम् एतादृशं सः निश्चयेन भयङ्करः। वनात् निर्गमनस्य मम समयः आगतः इति चिन्तयामि।”

दमनकः मन्दहासेन उक्तवान् - “हे महिमन्! गर्जनात् भयं मा अनुभवतु। यथा शृगालेन मृदङ्गं दृष्ट्वा अवगतम् - नादः वञ्चयितुं शक्नोति।”

“सा का कथा?” - पिङ्गलकेन पृष्टम्।

तदानीं दमनकः पिङ्गलकं शृगालमृदङ्गयोः कथां श्रावितवान्। तां कथां वयम् अग्रिमे अध्याये पठिष्यामः।

गुरुवार, 20 जून 2019

पञ्चतन्त्रम् (अध्यायः २)

विष्णुशर्मामहाशयः पुत्रत्रयं छात्ररूपेण स्वीकृतवान्। सः तान् उक्तवान् - “वने मित्रद्वयं - वृषभः सिंहः च निवसतः स्म। परन्तु तयोः मैत्री एकेन धूर्तशृगालेन नष्टीकृता।”

“कथम्?” इति यदा पुत्रैः पृष्टं तदा विष्णुशर्मामहाशयः एतां कथां श्रावितवान्।

महिलारोप्यनगरे वर्धमानकः नाम्ना कश्चन समृद्धः वणिक् आसीत्। एकदा धनविषये तस्य मनसि एषा सूक्तिः आगता -

नास्ति चेत्, अर्जनाय प्रयत्नं क्रियताम्!
यदा आगच्छति, तस्य संरक्षणं क्रियताम्!
रक्षणे कुर्वति, तस्य अभिवृद्धिः क्रियताम्!
यदा वृद्धिः जाता, दानं क्रियताम्!

वर्धमानकः समृद्धः वणिक्। सः तस्य व्यापारं वर्धयितुम् इष्टवान्। अतः व्यापाराय सः मथुरायै प्रस्थानं कृतवान्। विक्रेतव्यानि वस्तूनि सः शकटे स्थापितवान्। शकटः वृषभद्वयं नन्दकः सञ्जीवकः च चालयतः स्म।

मार्गे घोरवनम्। वने अविदिततया सञ्जीवकः पङ्के पादं स्थापितवान्। झटिति तस्य पादः पङ्के न्यमज्जत्। सञ्जीवकः व्रणितः अभवत्। सः अग्रे गन्तुं न शक्तवान्।

वर्धमानकः वृषभस्य पादं परिष्कर्तुं प्रयत्तवान् परन्तु तेन साफल्यं न प्राप्तम्। शकटे मूल्यवन्ति वस्तूनि आसन्। वने बहवः अपायाः आसन्। यद्यपि तस्य वृषभं प्रति प्रीतिः आसीत् तथापि सः तेन सह तत्रैव स्थातुं न शक्तवान्। वृषभेन सह तिष्ठन्तु इति वर्धमानकः तस्य सेवकान् उक्त्वा अग्रे गतवान्। केषाञ्चित् दिनानाम् अनन्तरं वनभयात् सेवकाः वृषभं त्यक्त्वा तेषां स्वामिनम् उपगतवन्तः। वृषभः मृतः इति असत्यं तैः वर्धमानकं सूचितम्।

वस्तुतः सञ्जीवकः न मृतः। गच्छता कालेन सः स्वस्थः अभवत्। हरितं तृणं खादित्वा, यमुनानद्याः जलं पीत्वा सः आरोग्यं प्राप्तवान्।

तस्मिन् वने एव पिङ्गलकः नाम्ना सिंहः निवसति स्म। सिंहः वनस्य राजा। सः कस्मात् अपि न बिभेति। एकदा यदा सिंहः वृषभस्य रम्भणं श्रुतवान् सः विस्मितः अभवत्। सर्वदा वने स्थितेन सिंहेन पूर्वं कदापि वृषभस्य रम्भणं न श्रुतम्। सः भीतः। वनस्य घनभागं गत्वा सः वटवृक्षस्य अधः उपविष्टवान् चिन्तितवान् च। तत्र तस्य मन्त्रिगणः अन्ये पशवः चापि आसन्।

तत्र शृगालद्वयम् अपि उपस्थितम्। तौ करटकः (अवधानयुक्तः) दमनकः (निर्भयः) च। तौ भूतपूर्वमन्त्रिणः पुत्रौ। इदानीं तौ कार्यहीनौ आस्ताम्।

चिन्ताग्रस्तं सिंहं दृष्ट्वा दमनकः करटकम् उक्तवान् - “आवयोः राजा व्याकुलः। केन कारणेन?”

करटकः उत्तरं दत्तवान् - “तेन आवयोः कः सम्बन्धः? यः अन्येषां कार्येषु चञ्चूप्रवेशं करोति सः ‘काष्ठखण्ड-कर्षन्-वानरः’ इव निश्चयेन विनाशं प्राप्नोति।”

“काष्ठखण्ड-कर्षन्-वानरः किं कृतवान्?” - दमनकः सकुतूहलं पृष्टवान्।

करटकः काष्ठखण्ड-कर्षन्-वानरस्य कथां श्रावितवान्।

रविवार, 16 जून 2019

पञ्चतन्त्रपरिचयः (अध्यायः १)

‘पञ्चतन्त्रम्’ जीवजन्तूनां कश्चन प्राचीनः कथासङ्ग्रहः। ३०० बी.सी.ई. वर्षे विष्णुशर्मामहाशयः एताः कथाः सम्पादितवान्। पशुकथानां माध्यमेन एषः कथासङ्ग्रहः अस्मान् जीवनपाठान् पाठयति।

‘पञ्चतन्त्रम्’ नीतिशास्त्रस्य विषये ग्रन्थः। ‘नीतिः’ नाम जीवनविषये विवेकः अथवा सहजबुद्धिः। जीवने वयं विज्ञानम्, कलां, सङ्गणकशास्त्रम्, वैद्यशास्त्रम् इत्यादीनि पठामः। अस्माकं सहजबुद्धिः गच्छेत् चेत् एतेषु किमपि शास्त्रं न लाभाय। दौर्भाग्यवशात् विद्यालयेषु सहजबुद्धिः न पाठ्यते यतः सा सहजा खलु! सुदैवात् पञ्चतन्त्रम् अस्ति!

नीतिशास्त्रस्य एते सिद्धान्ताः - ‘मम सुरक्षा आवश्यकी, धनम् आवश्यकम्, कर्मयोगे अहं समर्थः भवेयम्, उत्तमानि मित्राणि आवश्यकानि, मम बुद्धिम् उपयुज्य जीवनं जीवनीयम्’ इति। आश्चर्यं नाम एकः शब्दः ‘नीतिः’ बहून् अर्थान् वेष्टयति।

पञ्चतन्त्रम् कथं जातम् इति पश्यामः।

अमरशक्तिः नाम्ना कश्चन राजा आसीत्। सः महिलारोप्यस्य राजा। यद्यपि सः राजा शूरवीरः बुद्धिमान् च आसीत् तथापि तस्य त्रयः पुत्राः वासुशक्तिः, उग्रशक्तिः, अनेकशक्तिः च मूर्खाः आसन्। चिन्ताग्रस्तः राजा चिन्तितवान् - "भविष्यत्काले मम पश्चात् एते त्रयः शासनं कुर्युः। राजनीेतेः शासनस्य जीवनस्य च विषये तेषां ज्ञानं शून्यम् अस्ति। तेषां ज्ञानवर्धनाय मया किं कर्तव्यम्? हा हन्त! एते मूर्खाः किमपि ज्ञानं स्वीकर्तुं न शक्नुवन्ति।"

राजा तस्य मन्त्रिगणेन सह विमर्शं कृतवान्।

मन्त्रिगणः उक्तवान् - “हे राजन्! व्याकरणं पठनाय न्यूनातिन्यूनं द्वादशवर्षाणि आवश्यकानि। अपि च भवतः पुत्रैः अर्थशास्त्रम्, कामशास्त्रम्, मनुशास्त्रं च पठनीयानि। तदर्थं बहूनि वर्षाणि आवश्यकानि।”

राजा खिन्नः अभवत्। तस्य पुत्राः विद्वांसः भवेयुः इति तस्य आशाभङ्गः अभवत्।

मन्त्रिगणः अनुवर्तितवान् - “हे राजन्। परन्तु विष्णुशर्मामहाशयः कश्चन विद्वान् अस्ति। सः नीतिशास्त्रेषु निपुणः। भवतः पुत्रान् पाठयितुं तम् अनुरोधं कुर्याम।”

विष्णुशर्मामहाशयः आहूतः। तस्य त्रयः पुत्राः विद्वांसः भवेयुः इति इच्छा राजा तं बोधितवान्। तदर्थम् अत्याधिकधनं सः तस्मै दास्यति इति अपि उक्तवान् राजा।

विष्णुशर्मामहाशयः आसन्दात् उत्थाय उक्तवान् - ‘हे राजन्। अहं भवतः पुत्रान् पाठयिष्यामि परन्तु किमपि धनं न स्वीकरिष्यामि। अहम् अशीतिवर्षीयः। धने इत्यादिषु मम रुचिः नास्ति। केवलं भवतः योगक्षेमाय अहम् एतत् करिष्यामि। षट् मासानाम् अनन्तरं यदि भवतः पुत्राः नीतिशास्त्रेषु निपुणाः न भवेयुः तर्हि भवान् मह्यं दण्डं ददातु।’

एतादृशं प्रगल्भकथनं श्रुत्वा राजा विस्मितः अभवत्। तथापि तस्य पुत्राः विद्वांसः भविष्यन्ति इति ज्ञात्वा सः मुदितः अभवत्। सः विष्णुशर्मामहाशयं पुत्राणां शिक्षकः नियुक्तवान्।

विष्णुशर्मामहाशयः पुत्रान् ‘पञ्चतन्त्रम्’ कथाः पाठयितुम् आरब्धवान्। पञ्चतन्त्रे पञ्च तन्त्राणि (ग्रन्थाः) सन्ति।

प्रथमतन्त्रं मित्रभेदः अस्ति। मित्रभेदः नाम ‘मित्राणां च्युतिः’। शत्रूणां कारणेन कथम् उत्तमानि मित्राणि अपगच्छन्ति इति एतत् तन्त्रम् पाठयति।

द्वितीयतन्त्रम् अस्ति मित्रसम्प्राप्तिः। मित्रसम्प्राप्तिः नाम ‘मित्राणां प्राप्तिः’। मित्राणि कथं प्राप्तुं शक्नुमः, यानि मित्राणि गतानि तानि पुनः कथम् आनेतुं शक्नुमः इति एतत् तन्त्रं बोधयति। परस्परं लाभाय मैत्री कथं विकसितुं शक्नुमः इति अपि पाठयति।

तृतीयतन्त्रं काकोलुकीयम् अस्ति। काकोलुकीयम् नाम ‘काकानाम् उल्लूकानां च सन्दर्भे’। शत्रूणां मध्ये भ्रमं संशयं च जनयित्वा कथं तान् शक्तिहीनाः कर्तुं शक्नुमः इति एतत् तन्त्रं पाठयति। काकानाम् उल्लूकानां शत्रुत्वम् आधारीकृत्य विवरणं ददाति तन्त्रम् एतत्।

चतुर्थतन्त्रस्य नाम लब्धप्रणाशम्। लब्धप्रणाशम् नाम ‘लाभस्य हानिः’। यत् पूर्वं प्राप्तं यदि तस्य विषये अवधानं न कुर्मः तर्हि कथं तस्य च्युतिः भवेत् इति एतत् तन्त्रं पाठयति।

पञ्चमम् अन्तिमं च तन्त्रम् अस्ति अपरीक्षितकारकम्। अपरीक्षितकारकम् नाम ‘बुद्ध्या विना कर्माणि’। सम्यक्तया चिन्तनेन विना कृतानां कार्याणां दुष्परिणामाः द्योतयति एतत् तन्त्रम्।