रविवार, 26 मार्च 2023

कार्यालये परिवर्तनम्

कार्यालये वर्षेऽस्मिन् मदीयाय दलाय करणार्हा विशेषप्रकल्पा न वर्तन्ते। इत्यस्मान्मम दलमन्येन दलेन सह योजितम्। आहत्य बहूनां प्रचलत्तन्त्रांशानां क्षेमोऽस्माभिः करणीयः। नूतनप्रकल्पा न सन्तीति मह्यं न रोचते। सर्वं कार्यं निरुत्साहं भविष्यति। परन्त्विदानीं नूतनोद्योगस्यान्वेषणं कष्टकरम्। अतः कथञ्चित्कार्यं करणीयमेव।

दन्तचिकित्सा

श्वो दन्तचिकित्सा भविता। अभिरक्षायोजना स्वल्पशुल्कमेव दास्यति। शेषं मया दातव्यम्। दन्तचिकित्सा सम्यग्भूयात्।

बुधवार, 15 मार्च 2023

अन्तरिक्षयानमपश्याम

सोममङ्गलवासरयोः प्रावासायागच्छाम। समुद्रतटे समयमयापयाम। तदनन्तरमन्तरिक्षसंस्थामगच्छाम। तत्रान्तरिक्षयानं दर्शितमासीत्। अहं बहुभ्यो वर्षेभ्यः पूर्वमन्तरिक्षयानमपश्यं परन्तु भार्यापुत्राभ्यां प्रथमवारं दृष्टम्।

बुधवार, 1 मार्च 2023

भौतिविज्ञानम्

अद्यत्वे भौतिविज्ञानं पठामि। आ बाल्याद्भौतिकविज्ञानं मह्यं भृशं रोचते। पठनाय बहुवारं प्रयत्नं कृतं मया परन्तु समधिकसमय आवश्यकः। त्रिसप्ताहेभ्यः पूर्वं पुस्तकालयादेकं पुस्तकमगृह्णाम्। उत्तमं पुस्तकमस्ति। प्रतिदिनं पठामि। इदानीं पुस्तकं समाप्तप्रायम्। इदं पुस्तकं विहाय त्रीणि पुस्तकानि सन्ति यान्यनेन लेखकेन लिखितानि। तान्यपि पिपठिषामि। एतेषु चतुर्षु पुस्तकेषु भौतिकविज्ञानं गणितेन सह पाठ्यते। अस्मात् पठनं न सरलम्। चतुर्णां पुस्तकानां पठनाय प्रायः सम्पूर्णवर्ष आवश्यक इत्यहमूहे।