रविवार, 26 मार्च 2023

कार्यालये परिवर्तनम्

कार्यालये वर्षेऽस्मिन् मदीयाय दलाय करणार्हा विशेषप्रकल्पा न वर्तन्ते। इत्यस्मान्मम दलमन्येन दलेन सह योजितम्। आहत्य बहूनां प्रचलत्तन्त्रांशानां क्षेमोऽस्माभिः करणीयः। नूतनप्रकल्पा न सन्तीति मह्यं न रोचते। सर्वं कार्यं निरुत्साहं भविष्यति। परन्त्विदानीं नूतनोद्योगस्यान्वेषणं कष्टकरम्। अतः कथञ्चित्कार्यं करणीयमेव।

1 टिप्पणी:

  1. नमस्ते महोदय। अत्र मदियाय दलाय इति चतुर्थी विधानं केन सूत्रेण समर्थितं भवति? मया चिन्तितं षष्ठी विभक्तिः भवेत् इति। शेषे षष्ठी अथवा कंर्तृकर्मणः कृति इत्याभ्यां सूत्राभ्याम्। करणम् कृदन्तपदमिति कृत्वा कर्तृपदस्य षष्ठी।

    जवाब देंहटाएं