बुधवार, 28 नवंबर 2018

पङ्क्तित्रयम्

देवनागर्या अभ्यासायाभ्यासपुस्तके पङ्क्तित्रयं पुत्रेण लेखनीयमिति मया विहितम्। वस्तुतः स सम्यक्तया लिखति। तिस्रः पङ्क्तीर्लेखनार्थं तेन केवलं दशनिमेषा आवश्यकाः। तथापि प्रतिदिनं स विलम्बते। विद्यालयाद्गेहमागत्य दूरदर्शनं दिदृक्षति। तदनु बहिश्चिक्रीडिषति। क्रीडानन्तरं स श्रान्तो भवति। तत्काले तस्य गात्रमस्तिष्के क्लाम्यतः। अतः स लिलेखिषुर्नभवेत्। अन्यच्च पुनर्दूरदर्शनं दिदृक्षति। प्रतिदिनमेषा कथा। अद्याहं तमजीज्ञपं यावत् स वाक्यत्रयन्न लिखेत्तावत् स दूरदर्शनं द्रष्टुन्न शक्नुयात्। बहु रुदित्वा स पङ्क्तित्रयमलेखीत्।

पुत्रायासन्दौ

आवयोस्तैलशकटयोः पुत्रायासन्दौ स्तः। श्वशुरयोस्तैलशकटयोरपि पुत्रायासन्दौ स्तो यतः स काले काले तयोर्गेहे प्रवासाय गच्छति। तत्र स ताभ्यां सह तैलशकटेन बहिर्गच्छति। अतस्तयोस्तैलशकटयोरप्यासन्दावनिवार्यौ। तयोस्तैलशकटयोरवस्थितासन्दौ लघ्वाकारिणौ यतस्तावासन्दौ केभ्यश्चिद्वर्षेभ्यः पूर्वङ्क्रीतौ। अतो द्वौ नूतनासन्दौ क्रीणीवः। नूतनासन्दावावयोस्तैलशकटयोः स्थापयिष्यावः। आवयोस्तैलशकटयोरवस्थितौ साम्प्रतिकासन्दौ श्वशुरतैलशकटाभ्यां दास्यावः।

द्वाभ्यां पदोन्नतिः

कार्यालये मम समूहस्थाभ्यां सहोद्योगिभ्यां पदोन्नतिः प्राप्ता। वर्षद्वयस्यान्तराले। अहमसूयां तु नानुभवामि परं मनसि काचन चिन्ता पौनःपुन्येनोत्पद्यते। पदोन्नतये न प्रयते चेदन्येषां दृष्टिषु मम मानसिकचित्रङ्कीदृशं भवेत्? अयमधिककार्यं दायित्वञ्च न चिकीर्षति? तेषां दृष्टिषु मम मानो ह्रसेत्? स्वमनस्यपि चिन्तनमागच्छति। पदोन्नतये न प्रयते चेदस्माद्धनमानहानी जायेयाताम्?

सोमवार, 26 नवंबर 2018

दीर्घसुषुप्तिविधिः

गतचतुर्भ्या रात्रिभ्यः सप्ताष्टघण्टा यावन्निद्रा प्राप्ता। कथम्? अत्र विधिः प्रस्तूयते -

१. प्रातराशस्य पुरस्सरम् ‘विटामिन्-डी’ सेवनीयम्।
२. दिने न्यूनतयैव दुग्धपीयूषादि, केफ़ीनयुतानि खाद्यानि पेयानि च सेवनीयानि। अपराह्णे तु लेशमात्रमपि न सेवनीयम्।
३. यदकिमपि भोजनमुदरवायुञ्जनयति तद्भोजनं न्यूनतया खादनीयम्।
४. रात्रौ निद्रापूर्वञ्चतुश्शतमिलिग्रामपरिमितम् ‘मेग्नीसियम्-ग्लैसिनेट्’ अल्पजलेन खादनीयम्।
५. अपराह्णे जलं न्यूनतया पातव्यम्।
६ सांयकाले व्यायामङ्करणीयम्।
७. शयनकालयातपस्तर ऊष्णो भवितव्यम्। राङ्कवकम्बलादिभिः सह शयितव्यम्।
८. पादयोः पादकोशौ परिधारणीयौ।
९. प्रतिदिनङ्कदलीफलङ्खादनीयम्।

रविवार, 25 नवंबर 2018

दिनचतुष्टयँय्यावत्

दिनचतुष्टयँय्यावत् ‘थेङ्कस्गिविङ्गपर्वस्य’ अवकाशोऽऽसीत्। यद्यपि शुक्रवासरे ममावकाशो नासीत्तथापि तस्मिन् दिने प्रायः सर्वे जना विरामं स्वीचक्रिरे। अतः कार्यं शून्यप्रायमासीत्। तनयस्य तु सकलसप्ताहो यावदवकाशोऽऽसीत्। आहत्य तस्य नवदिनानि यावदवकाशो बभूव। श्वो मया कार्यालयङ्गन्तव्यम्। तेन विद्यालयङ्गन्तव्यम्। पुनः कार्यचर्यारप्स्यते।

शनिवार, 24 नवंबर 2018

रूमीरहस्यम्-१

‘रूमीरहस्यम्’ इति नाम्ना पुस्तकस्य पठनमारब्धवान्। पुस्तके त्रयोदशशताब्द्या महाकवे रूमीवर्यस्य कवितानां संस्कृतानुवादो गुम्फितः। एतन्महान् कार्यं राधावल्लभत्रिपाठीवर्येण कृतम्। एतत्पुस्तकं तु कतिपयवर्षेभ्यः पूर्वङ्क्रीतं मया परन्तु तत्काले यथार्थसंस्कृतज्ञानाभावात् पुस्तकं पठितुन्नाशक्नवम्। ह्यः पुस्तकं पुनर्हस्तगतम्। एतर्हि न्यूनातिन्यूनं नवतिप्रतिशतमवगन्तुं शक्नोमि। फारसीसंस्कृतभाषयोर्मध्येऽमुं सेतुं निर्मीय राधावल्लभवर्येण साहित्यप्रपञ्चायोपकृतम्।

शुक्रवार, 23 नवंबर 2018

प्राह्णेतनी बहिर्यात्रा

अद्य पुत्रस्य विद्यालयस्यावकाशः। ममावकाशो नास्ति। अतो गृहादेव कार्यङ्करोमि। प्राह्णे प्रातराशाय बहिरगाव। स तु पट्टिकाशकटेन नगरसञ्चारिशकटेन वा जिगमिषुः। परमद्य किञ्चिच्छैत्यमस्ति। मेघा अपि जलेन भूमिमभिषिञ्चन्ति। अतस्तमयुभयोः कस्मिन्नपि शकटे नानैषम्। वैयक्तिकतैलशकटेन गत्वा प्रातराशञ्जग्ध्वा गृहमागमिष्व।

मध्याह्नभोजनम्-२

ह्यः श्वशुरावागतवन्तौ। तौ चाकलेहापूपमानीतवन्तौ, पुत्रञ्च :-)। वयङ्कुक्कुटमासमन्यानि खाद्यानि चाद्म। तौ घण्टाचतुष्टयँय्यावदतिष्ठताम्। सर्वं यथारीत्या प्राचलत्। पुनर्गृहमागत्यावां परिष्वज्य तनयः प्रहृष्टोऽभवत्।

गुरुवार, 22 नवंबर 2018

मध्याह्नभोजनम्

अद्य थेन्क्सगिविङ्गपर्वोऽस्ति। श्वशुरावागमिष्यतः। ताभ्यां सहावयोः पुत्रोऽप्यागमिष्यति यतः स गतपञ्चभ्यो दिनेभ्यस्तयोर्गेहयेवासीत्। तयोर्गेहे सोऽभिरेमे। तत्र स किमपि खादितुं शशाक - प्रायशः शर्करायुतानि खाद्यानि :-(। कियतेऽपि कालाय दूरदर्शनं ददर्श। अत्रागत्य तस्यैषा स्वच्छन्दतावसिता भवेत्।

वाद्ययन्त्राभ्यासः-४

सन्तन्त्रेषु श्रुतेषु तेषामभिज्ञानं वाद्ययन्त्राभ्यासस्यान्यतमो भागः। अभ्यासोऽयमतिकठिनः। आरम्भे सर्वाणि सन्तन्त्राणि सदृशानि भासन्ते। पौनःपुन्येन श्रुत्वैव तेषु भेदः क इति ज्ञायते। प्रतिसन्तन्त्रस्य प्रमुखतो द्वौ भागौ स्तः - मुख्यः (‘मेजर्’) लघुश्च (‘मैनर्’)। तयोः सामान्यत एकमात्रतन्तोर्भेदोऽस्ति। अतस्तयोस्तारातम्याभिज्ञानङ्क्लेशाय। परन्त्वाभ्यासेन साधयितुं शक्यम्।

रविवार, 18 नवंबर 2018

नूतनवर्गः-१२

अद्यतने वर्गे पाठनीया अंशाः -
१. क्त्वा प्रत्ययः - दत्त्वा, गत्वा, खादित्वा, पीत्वा, उक्त्वा, कृत्वा, दृष्ट्वा उपविश्य, उत्थाय, आगत्य, आनीय
२. तुमुन् प्रत्ययः - दातुम्, गन्तुम्, खादितुम्, पातुम्, वदितुम्, कर्तुम्, द्रष्टुम्, उपवेष्टुम्, उत्थातुम्, नेतुम्, क्रेतुम्
३. भवितुम् अर्हति (सः अध्यापकः भवितुम् अर्हति।)

सम्भाषणस्थितयः
१. कुत्र गच्छति? निर्धनेभ्यः भोजनं दातुम् गच्छामि। भवान् अपि आगच्छतु। कार्यं कृत्वा आगच्छामि।
२. ह्यस्तनं मेलनं कथम् आसीत्?
३. आपणं किमर्थं गच्छति? वस्त्राणि क्रेतुम्। तिष्ठतु। अहं भोजनं खादित्वा भवत्या सह आगमिष्यामि।
४. वेतनवृधिः ददातु? किमर्थम्। भवान् तु गतमासे कार्यं कर्तुम न शक्तवान्। आगामि प्रकल्पः करोतु। अस्तु कृत्वा पुनः पृच्छामि।
५. अतिथिः आगच्छति। भवान् किं खादितुम् इच्छति। न खादित्वा आगतम्। अस्तु, चायपेयं पातुम् इच्छति वा? न तदपि पीत्वा आगच्छामि।

शनिवार, 17 नवंबर 2018

शिक्षकछात्राणां समागमः-२

अद्यतनः संस्कृतशिक्षकछात्राणां समागमो यथारीत्या प्राचालीत्। आहत्य पञ्चदशजना आगमन्। सर्वे स्वादुखाद्यान्यघसन्। शिक्षकाणाञ्छात्राणाञ्च परस्परमनौपचारिकमेलनञ्जातम्। एतदस्य नगरस्य संस्कृतवातारणस्य हिताय। एतादृशेभ्यो मेलनेभ्यो नूतनसंस्कृतकार्यकर्तारो भूयासुः।

शिक्षकछात्राणां समागमः

अद्य संस्कृतशिक्षकछात्राणां समागमो भविष्यति। प्रथमवेलायाङ्केवलं शिक्षका वर्त्स्यन्ते। वर्गाः कथं प्रचलन्ति, आगामिवर्षे क्रियमाणानि कार्याणि - एतेऽंशाश्चर्चयिष्यन्ते। द्वितीयवेलायाञ्छात्रा आगच्छेयुः। तैः सह भोजनं सम्भाषणञ्च प्रवर्त्स्येते।

शुक्रवार, 16 नवंबर 2018

यानगृहकुट्टिमम्

नवमासेभ्यः पूर्वं यानगृहस्य कुट्टिमं रसायनेनावेष्टितम्। रसायनावरणेन भूमिर्यानाभ्यां तैलादिभिः पीता न भूयात्। तस्य रञ्जनमपि कारितम्। आभ्याङ्कुट्टिमं भव्यं दृश्यते। ऐषमो नितरां निदाघो बभूव। तेन कुट्टिमे रसायनो द्रवीबभूव। यानचक्राणां मुद्राः कुट्टिमेऽदृश्यन्त। द्वाभ्याँय्यानाभ्यामष्ट मुद्रा दृरीदृश्यन्ते। यः कर्मकरा रसायनावरणमकरोत् स आवाभ्यां सूचितः। अहङ्कुट्टिमं परिष्करिष्यामीति तेनोक्तम्। परिष्करणाय समयो निर्धारितः। अतितराङ्घर्मकारणात् कुट्टिमं परिष्कर्तुन्न शक्यते यतो रसायनः पुनर्द्रवीभविष्यतीति निर्धारितसमयात् पूर्वस्मिन् दिने तेनोक्तम्। अस्तु - निदाघकालगमनात् प्राक् कारयिष्याव इत्यावाभ्यामुत्तरितम्। ओक्टोबरमासेऽऽवां तं पुनराहूतवन्तौ। इदानीं तु प्रतिदिनं वर्षा पततीत्यता रसायनेन पुनारावरणं सुकरं नास्ति यतोऽऽर्द्ररसायनो यथावन्न परिशुष्येत्। अस्तु - अन्यस्मिन् दिने कारयावः। गतसप्ताहे तं पुनराहूतवन्तौ। इदानीं तु बहुशैत्यमस्ति। रसायनं सुनिबद्धनाय न्यूनातिन्यूनमातपस्तरः पञ्चपञ्चाशद्डिगरीपरिमिता भवेदिति स साम्प्रतं विवदति। स कुट्टिमं परिष्कर्तुन्नेच्छतीति प्रतिभाति। आगामिमङ्गलवासरे करिष्यामीति स इदानीं वदति। द्रक्ष्यावो यदि स कुट्टिमङ्करोति न वा।

गुरुवार, 15 नवंबर 2018

मैलत्रयँय्यावत्

गतकतिपयेषु दिनेषु समधिकशैत्यमासीत्। अद्य तथा नास्ति। अतो मध्याह्नभोजनात्परं मैलत्रयँय्यावदाटिषम्। अस्मात् सांयकाले गृहङ्गत्वा चलनयन्त्रे न चलनीयं मया। कञ्चनान्यं व्यायामङ्करिष्ये।

आत्मजो गन्ता

आगामिसप्ताहे पुत्रस्य विद्यालयावकाशो भविता। स तस्य मातामह्या गृहङ्गन्ता। शनिवासरादारभ्यो गुरुवासरपर्यन्तम्। एतावत्पर्यन्तमावां तेन विना एतावते कालाय कदापि नावर्तावहि। ऐदम्प्राथम्येनैवं भविता। तेन सह तस्य संस्कृतपुस्तकानि गमयामि। तत्र तेनाभ्यासः करणीय इत्यहं तमबोधयत्। तस्य मातामहमावाभ्यामुक्तं तेन सह चतुरङ्गंक्रीडितव्यमिति। अन्यथा स सर्वथा दूरदर्शनं प्रत्यक्षमुपविश्य कालक्षेपङ्कर्ता।

मंगलवार, 13 नवंबर 2018

लेखनाभ्यासः किञ्चिद्धहीयते

तनयः प्रतिदिनं देवनागरीलेखनाभ्यासङ्करोतीति तु हर्षदायी प्रसङ्गः। परन्तु तस्य गतिः किञ्चिन्नयूना जाता। प्रतिदिनं स केवलं तिस्रः पङ्कतीर्लिखति। अनेन प्रगत्यर्घेण सर्वानक्षराँल्लेखनाय वर्षान्तपर्यन्तं तेनावश्यकम्। तथापि स प्रतिदिनमभ्यासङ्करोतीति महत्वपूर्णम्। किञ्च समधिकाभ्यासे कुर्वाणे तस्य रुचिः क्षीणा भवेदेतस्माद्भयात्तमाधिक्येन न नुदामि।

रविवार, 11 नवंबर 2018

पुनश्चतुरङ्गम्

ह्योऽहं पुत्रश्च पुनश्चतुरङ्गमक्रीडाव। क्रीडायाः पूर्वं सोऽवदद्यन्मन्त्रिणि हन्यमाने स न रुद्यात्। अहं तस्मात् प्रतिश्रुतिमयाचे। स तामददत्। आवां द्वे क्रीडेऽक्रीडाव। उभयोरपि तस्य मन्त्रिणो न मृतः। तावदेव न, अपि चाहमुभयोः क्रीडयोस्तेन पराजितः। स तु प्रहृष्टं प्लवङ्गम इवाचोकूर्द्यत। आगामिसप्ताहान्ते स तस्य मातामह्या गृहङ्गन्ता। चतुरङ्गङ्क्रेतव्यमित्यावां तौ सूचयिष्यावः। तत्रापि यदि स मातामहेन सह चतुरङ्गङ्क्रीडेत्तर्ह्युत्तमं भवेत्।

नूतनवर्गः-११

अद्य नूतनवर्गस्यैकादशः प्रकरणोऽभूत्। त्रयोदशजनाः परीक्षामदुः। घण्टा यावत् सम्भाषणाभ्यासमकृष्महि। ऐषमश्चत्वारो वर्गा अवशिष्टा इति मन्ये। यद्येतत्सत्यं तर्हि वत्सरावसानं प्रागेव पुस्तकमुद्यापितं भवेदिति ममाभिप्रायः। तर्हि नूतनवर्षादारभ्य नूतनपुस्तकं स्वीकृत्याध्ययनङ्कर्तास्महे।

शनिवार, 10 नवंबर 2018

क्यालिफोर्निया जाज्वल्यते

सम्प्रति क्यालिफोर्नियाराज्यञ्चण्डाग्निना दूयते। विशालभूखण्डा जाज्वल्यन्ते - नगराण्यरण्यानि च। जना दूयमानेभ्यो वसतिभ्यः पलायनरताः परं सर्वत्र प्रचण्डाग्निर्वतते। जनानाङ्गृहाणि भस्मसाज्जातानि। एतादृशं प्रलयं दृष्ट्वा मनश्चेखिद्यते। प्रतिवर्षङ्क्यालिफोर्नियाराज्यङ्काचनेतिहस्तानतरितं भवति।

वाद्ययन्त्राभ्यासः-३

वेगेन सन्तन्त्राणि परस्परं विनिमयनायाङ्गुलीस्तन्तुभ्यो दूरे न नयनीयाः। किञ्च विभिन्नेषु सन्तन्त्रेषु कासाञ्चिदङ्गुलीनां व्यवस्था समाना। अतः प्रथमसन्तन्त्राद्द्वितीयसन्तन्त्रङ्गच्छत् सति, अङ्गुलीनामाकारो न्यूनतया परिवर्तनीयः। अनयोः सन्तन्त्रपरिवर्तनगतिर्वर्धेत।

शुक्रवार, 9 नवंबर 2018

मिष्टान्नानि

दीपावलीपर्वनिमित्तेन मिष्टान्नान्याधिक्येनाखादम्। अहञ्जाने शर्करातिहानिकारिणी। अतो दीपावलीपर्वे गृहाय तु मोदकानाङ्केवलमेकं लघुपिटकमक्रीतम्। परं प्रतिवेशिभिर्मिष्टान्नानि दत्तानि, कार्यालयेऽपि मिष्टान्नान्यासन्। न्यूनतया खादनीयमिति प्रयत्नमहमकरवम्। परन्त्वाहत्य बहूनि मिष्टान्नान्यखादम्। इदानीं सर्वाणि मिष्टान्नानि गतानि। आगामिदिनेषु पथ्यभोजनमेव खादिष्यामि। कनिष्ठपक्षमहं हेलोईनपर्वयेकमात्रो मधुजः खादितवान्। दीपावलीपर्वे तथैव किमर्थमहन्नाकरवम्? भारतीयमिष्टान्नेषु घृतमस्ति। तन्मह्यं पाचनानुकूलम्। अतोऽहं मिष्टान्नानि खादितवान्।

संस्कृतभाषिप्रतिवेशिनौ

अद्य नूतनप्रतिवेशिनो गृहप्रवेशसमारोहेऽगाम्। उपायने मिष्टान्नयुतं भाजनमनैषम्। अद्य प्रातःकाले बहुशैत्यमभूत्तथापि पादाभ्यामेवागाम्। नूतनप्रतिवेशिनौ दम्पती। तयोरपत्यानि न सन्ति। तावन्यस्माद्राज्यादागतौ। मम सामन्ते गृहमक्रीणिताम्। उभयोः संस्कृतेऽऽसक्तिरस्ति। तौ परस्परं संस्कृतेन वदतः। एषोत्तमा वार्ता।

वाद्ययन्त्राभ्यासः-२

निमेषाभ्यान्तरे षष्टिवारं सन्तन्त्राणि परस्परं विनिमातव्यानीती गुरुर्वदति। षष्टिवारन्न कर्तुं शक्यते चेन्न्यूनातिन्यूनञ्चत्वारिंशद्वारं तु करणीयमेवाग्रिमं स्तरङ्गमनात् प्राक्। साम्प्रतं तु केवलं त्रिंशद्वारं सन्तन्त्राणां विनिमयङ्कर्तुं शक्नोमि। विनिमयगतिवर्धनाय वाद्ययन्त्रस्य तन्तुषु सर्वा अङ्गुल्यः युगपत्स्थापनीयाः। तस्य कृतेऽधिकोऽभ्यासः करणीयो यतः साम्प्रतमहमेकैकशोऽङ्गुलीः स्थापयामि।

मंगलवार, 6 नवंबर 2018

वाद्ययन्त्राभ्यासः-१

वाद्ययन्त्राभ्यासारम्भात् केवलं त्रिचतुरा दिना अतीताः। प्रगतिः सन्तोषकारिणी। त्रिचतुरेषु दिनेष्वेवाहम् ‘ए’, ‘ई’, ‘डी’ सन्तन्त्राणि वेगेन वादयितुं शक्नोमि। अपि च तेषु परस्परं परिवर्तनङ्कर्तुं शक्नोमि। गतवर्षस्याभ्यासो विफलो नाभूदिति भासते। अस्मिन् सप्ताहेऽप्येतेषां सन्तन्त्राणामभ्यासङ्कुर्यामिति चिन्तयामि यत इतोऽप्यधिकवेगेन परिवर्तनकरणमावश्यकम्।

गात्रस्याततिशक्तिः

केवलं सप्ताहँय्यावद्वाद्ययन्त्रवादनस्याभ्यासङ्कुर्वाणयेवाङ्गुलीषु वेदना गतप्राया। केषुचिद्गतदिनेष्वहमाधिक्येन मांसमद्मि। तस्माज्जानुवेदना गता, गुल्फोऽपि स्वस्थोऽभूत्। पूर्वमहङ्केवलं सार्धद्विमीलपरिमितमेव चलितुमशक्नवम्। तस्मादाधिक्येन चलनेन जानुगुल्फयोर्वेदनामन्वभवम्। ह्योऽहं दिने मीलद्वयँय्यावदटम्। प्रदोषञ्चलनयन्त्रे मीलचतुष्टयँय्यावद्दशडिगरी प्रतिकूलमचलम्। तथापि वेदना नानुभूता। मनुष्यस्य गात्रस्याततिशक्तिं दृष्ट्वा विस्मितोऽहम्।

रविवार, 4 नवंबर 2018

वचनेस्थितः पुत्रः

यतः कश्चन कुचेष्टालुर्बालको मम पुत्रं संस्कृतवर्गे पीडयत्यतोऽहं मम पुत्रं बोधितवान् यद्यावच्छीघ्रं तस्य वर्गं समापयेत सत्वरं मम वर्गस्य प्रकोष्ठे तेनागन्तव्यम्। यद्यपि स कुचेष्टालुर्बालकोऽद्याविद्यमानोऽभूत्तथापि मम पुत्रो मदाज्ञायाः पालनङ्कुर्वन् मम प्रकोष्ठेऽऽगमत्। वचनेस्थितः पुत्रः सः।

अभ्यासञ्चिकीर्षामि परन्तु...

वाद्ययन्त्रवादनस्याभ्यासञ्चिकीर्षामि परन्तु ममाङ्गुल्यो दोदूयन्ते। एकस्मिन् दिने केवलं १५-२० निमेषेभ्योऽभ्यासङ्कर्तुं शक्नोमि। वाद्ययन्त्रस्य धातुतन्तवोऽङ्गुलीषु वेदनाञ्जनयन्ति। यदि वेदनामनवेक्ष्याभ्यासः क्रियेत तर्ह्यङ्गुलीषु गण्डा जायेत। तदानीं बहुभ्यो दिनेभ्योऽभ्यासः कर्तुन्न शक्यते। अतः ससंरम्भमभ्यासो न करणीयः।

गर्विष्ठोऽहम्

मम पुत्रो हृत्पूर्वकेण संस्कृताध्ययनङ्करोति। सम्प्रति स देवनागर्याः सर्वाण्यक्षराणि पठितुं शक्नोति। सरलाः शब्दा अपि पठितुं शक्नोति। संस्कृतेन एकत आरभ्यो दश पर्यन्तं सङ्ख्यापि गणयितुं शक्नोति। तस्य दीक्षया कर्मठत्वेन च गर्विष्ठोऽहम्।

कुचेष्टालुर्बालकः

संस्कृतवर्गे कश्चन कुचेष्टालुर्बालकः। स मम पुत्रं पीडयति। तस्य स्यूतस्य तन्तवस्तनोति। बाहुभ्यां तेन सह कर्षाकर्षि करोति। मम पुत्रस्तेन सह न विवदिषति। तथापि स तमनुसरति। गतवर्गे स तस्य स्यूते जलकूपीमधरोत्तरञ्चकार। जलं सुस्राव। पुस्तकानि क्लिन्नानि बभूवुः। सुदैवात् स अद्य नागमिष्यति। यदि स अग्रेऽपि तथा करोति तस्य मात्रा सह संवदिष्यामि।

नूतनासन्दः

बहुशोऽहङ्गृहे सङ्गणके कार्यङ्करोमि। सङ्गणकं पुरतोऽष्टघण्टा यावदुपविशामि। अतः समीचीन आसन्द अत्यावश्यकः। पूर्वतनासन्दः समीचीन आसीत् परं स आसन्दः शीर्णो जातः। अतः नूतनासन्दमक्रीणि। ह्यस्तमासन्दं भागशः समवेतं मया। अयमासन्दो मह्यं रोचते। अस्मिन् सुस्थोऽहम्।

शनिवार, 3 नवंबर 2018

नूतनवर्गः-१०

श्वस्तने वर्गे पाठनीया अंशाः -

सम्बोधनरूपाणि - मित्र, पुत्र, राम, लते, नलिनि, भगिनि, अम्ब, भवन्, भवति
चतुर्थी विभक्तिः - बालकाय, बालिकायै, पुत्र्यै, बालकेभ्यः, बालिकेभ्यः, पुत्रीभ्यः

सम्भाषणविषयाः -
विमानपत्तनं गत्वातिथिः स्वीकरणीयः
अद्य गृहे भोजनङ्करणीयमुतोपाहारगृहे - इति विवादः
पुत्री दूरदर्शनं दिदृक्षति - सा बहिर्नेतव्या
श्वः अवकाशः - माता सङ्ग्राहलयङ्गन्तुमिच्छति, पिता क्रिकेटक्रीडा द्रष्टुमिच्छति
बसस्थानकम् - डौनटौनं किं बसयानं गच्छति

वाद्ययन्त्रं पुनः

वाद्ययन्त्रवादनाभ्यासं पुनरारब्धवान्। गतवर्षे प्रयत्नङ्कृत्वाभ्यासमत्यजम्। सामान्यतोऽहन्न तित्यक्षुः। परं वाद्ययन्त्रं सुमहत्कार्यमपेक्षते। गतवर्षे बहुभ्यो दिनेभ्यः प्रतिदिनमभ्यासङ्कृतवान् परं प्रगतिर्न प्राप्ता। अस्मिन् वारमहं वाद्ययन्त्रं मम प्रकोष्ठयेव स्थापितवान्। तस्मादधिकतरमभ्यासङ्करिष्यामीत्यपेक्षा। आश्चर्यं नामाहङ्गतवर्षात्सर्वं स्मरामि। किमपि न विस्मृतवान्। गतवर्षस्याभ्यासो धूलीसञ्जातो नाभवदिति ज्ञात्वा मोदे। अस्मिन्नवसरे वादनन्न त्याजयामीति ममाशा। सप्रत्याशमभ्यासङ्करोमि। वादने नैपुण्यं साध्यासम्!

गुरुवार, 1 नवंबर 2018

शर्कराया वशंवदाः

ह्यो हेलोईनपर्व आसीत्। सर्वाण्यपत्यानि मधुजाः सञ्चने व्यस्ता आसन्। सर्वा मधुजा अतिमात्रं शर्करायुताः। शर्करातिहानिकारकः पदार्थः। वयं प्रौढा अपत्येभ्यः शर्करायुता मधुजा दत्वा घोरप्रमादङ्कुर्मः। अपत्यानि शर्कराया वशंवदाः कारयामो वयम्। तेषां दन्ताः शीर्यन्ते। अपत्यानाङ्कृतेऽस्माकं दायित्वमस्ति। तेभ्यः शर्करायुतानि खाद्यानि न्यूनतया देयानि।