शनिवार, 31 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ९

अथ नवमाध्यायस्य पाठ:।

विकल्पानां प्राचुर्यं निर्णये विलम्बमानयति। अवरविकल्पान् त्यक्त्वान्ये विकल्पाः समानाः सन्ति चेत्तेषु कमप्येकं चित्त्वानिर्णयः शीघ्रं करणीयः। समानेषु विकल्पेषु समधिकसमय व्ययते चेत्समयो व्यर्थो भवति तस्य कोऽपि लाभो नास्ति।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ८

अथाष्टमाध्यायस्य पाठ:।

हस्तगतानां वस्तूनां मूल्यं वयमाधिक्येनोहामहे। तानि वस्तूनि यदान्यैर्न्यूनमूल्येन भाव्यन्ते तदास्मभ्यं न रोचते। वस्तुतो वस्तूनां स्वामित्वात् प्रयोगाच्चैव वयं चिन्तयाम एतेषां वस्तूनां मूल्यमधिकमिति। परन्त्वन्येभ्यस्तानि वस्तूनि साधारणवस्तून्येव। अतो हस्तगतानि वस्तूनि साधारणवस्तूनीव द्रष्टव्यानि यस्मात्तेषां मूल्यविषयेऽवास्तविकापेक्षा न भवेत्।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ७

अथ सप्तमाध्यायस्य पाठः।

कार्यं स्थगयित्वाधुना मनोरञ्जनमिति मानवस्वरूपम्। विशेषतः समस्या नावधीयन्ते चेत्ता न व्यपयान्ति। ता गुरुतरा भवन्ति। स्वनियन्त्रेण कार्यस्थगनवव्यवहारो निवारणीयः।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ६

अथ षष्ठाध्यायस्य पाठः।

भावुकस्थितौ वयं भिन्नतया निर्णयान् कुर्मः। यद्यपि दैनन्दिनजीवने वयं नैतिकमार्गे चरामस्तथापि भावाविष्टकाले वयं नैतिकमार्गं त्यक्त्वानैतिकमार्गं गन्तुं शक्नुमः। केवलं गन्तुं शक्नुमो न, गच्छामः। अतो भावुकस्थितौ निर्णयविषये विशेषावधानं देयम्।

शुक्रवार, 30 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ५

अथ पञ्चमाध्यायस्य पाठः।

यदि विनिमये धनं नास्ति तर्हि सामाजिककल्याणाय वयं चिन्तयामः। यदि विनिमये लेशमात्रमपि धनमस्ति तर्हि वयं सामाजिककल्याणममुपेक्ष्य न्यूनव्ययस्य यावच्छक्यं तावन्तं लाभमर्जयितुं प्रयतामहे। अतः सामाजिककल्याणविषयेषु धनमत्यवधानतया प्रतिपादनीयम्।


प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ४

अथ चतुर्थाध्यायस्य पाठः।

विनिमयो द्विविधः। आर्थिकः सामाजिकश्च। यत्र सामाजिकविनिमयोऽपेक्षितस्तत्रार्थिकविनिमयः क्रियते चेदसमीचीनम्। विनिमये धनं भिन्नापेक्षामानयति। अन्यच्च यत्र धनं नापेक्षितं तत्र दीयते चेज्जना अनादरमनुभूय बहुकालं यावत्स्मरेयुः। अत एनयोर्विनिमयोर्मिश्रणं न करणीयम्।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ३

अथ तृतीयाध्यायस्य पाठः।

निश्शुल्कवस्तुन आकर्षणमियदस्ति यस्मात् समीचीनतरं न्यूनशुल्कयुतं वस्तूपेक्ष्य वयं निश्शुल्कवस्त्वेव गृह्णीमः। बहुशो निश्शुल्कवस्तुन आवश्यकतैव नास्ति। कदाचिन्निश्शुल्कवस्त्वस्मभ्यं न रोचते। तथापि न्यूनशुल्कयुतवस्तु वर्जयित्वा निश्शुल्कवस्तु गृह्यते। तादृशं न करणीयम्। निश्शुल्कवस्तुनः सर्वदा चयनं सम्यङ्नास्ति। आर्थिकदृष्ट्या द्व्योर्वस्तुनो किं वस्तु लाभकरमिति दृष्ट्वा चयनं करणीयम्।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः २

अथ द्वितीयाध्यायस्य पाठः।

यदा वयं किञ्चिद्वस्तु क्रीणीयाम तद्वस्तुनो सर्वप्रथमश्रुतं मूल्यमाधारीकृत्य वयं तद्ववस्तुक्रयणसम्बद्धिनिर्णयान् कुर्मः। केवलं तावन्न। तदिवान्येषां वस्तूनां मूल्यं सम्यगस्ति वा नेत्यस्यापि निर्णयः प्रथमवस्तुनः सर्वप्रथमश्रुतं मूल्यमाधारीकृत्य क्रियते। तत्सर्वप्रथमश्रुतं मूल्यं ध्रुवमूल्यमिति नाम्ना ज्ञायते। यदि ध्रुवमूल्यं समधिकस्ति तर्हि वयं न्यूनं मूल्यं दानार्थं प्रयत्नङ्कुर्मः। परन्तु तन्न्यूनं मूल्यमप्यधिकमेव भवेद्यतो न्यूनताया निर्णयं वयं ध्रुवमूल्यं श्रुत्वैव कुर्मः।

गुरुवार, 29 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १

प्रिडेक्टेब्ली-इर्रैषनल् इति पुस्तकं पठामि। पुस्तकं यान् पाठान् मामध्यापयति तानत्रोपस्थास्यामि। 

अथ प्रथमाध्यायस्य पाठः।

एकमुदाहरणं पश्य। त्वं काफीपेयमिच्छसि। काफ्यापणे विक्लपा इमे - 

एकचषकमितमूल्यम् =  ३ रुप्यकाणि

द्विचषकमितमूल्यम् = ५ रुप्यकाणि

त्रिचषकमितमूल्यम् = ६ रुप्यकाणि

त्रिषु विकल्पेषु कं क्रीणीयाः? यद्यप्येकचषकमात्रं पर्याप्तं तथापि बहवो जना द्वितीयं तृतीयं विकल्पं वा चिनुयुः। केन कारणेन? तयोर्विकल्पयोः प्रतिचषकमूल्यं प्रथमविकल्पस्यापेक्षया न्यूनमस्ति। अतो यत्र केवलं त्रयरुप्यकाणां व्ययः करणीय आसीत्तत्र पञ्च षड्वा रुप्यकाणां व्ययः क्रियते।

पाठः - कस्यचिद्वस्तुनो मूल्यं केवलमन्यवस्तूनां मूल्यं दृष्ट्वा न परिशीलनीयम्। तद्ववस्तुन आवश्यकतास्ति वा नेति चिन्तनीयम्। आवश्यकतास्ति चेदेवाधिकधनं व्ययितव्यम्।

तापमाने महत्परिवर्तनम्

चतुर्भ्यो दिनेभ्यः पूर्वं समधिकशैत्यमासीत्। जलं हिमीभवति स्म। तदपेक्षयाधुना तापमानश्चत्वारिंशद्डिगरीमिताधिकतरः। सप्ताहारम्भे द्वौ स्वेदकौ तदुपरि प्रावारकं धृत्वाटन्नासम्। । इदानीं स्वेदक एव नावश्यकः।

बुधवार, 28 दिसंबर 2022

पुत्रेण सह पर्णसङ्ग्रहणम्

अद्य पुनः गृहोद्याने पर्णानि समग्रहीषम्। सामान्यतः पुत्रस्तस्य मित्रैः सह क्रीडति। परन्त्वद्य तस्य मित्राणि विलम्बेनागमन्। अत आवां मिलित्वा पर्णानि समग्रहीष्व। ह्यः सार्धैकघण्टासु मयैकाकिना त्रयस्यूतमितानि पर्णानि सङ्ग्रहीतानि। अद्य पुत्रः साहाय्यमकार्षीत्। तथापि तावति समये तत्येव स्यूताः सङ्ग्रहीताः। स बालकः। स मादृशेन वेगेन कार्यङ्कर्तुन्न शक्नोति। आवां विभज्य कार्यमकृष्वहि। तस्मान्मम वेगस्तस्य वेगः समः कर्तव्य आसीत्। परन्तु तत्र न कोऽपि क्लेशः। आवां मिलित्वा कार्यमकृष्वहि। तस्मादावामुभावरंस्वहि।

पर्यवेक्षकः प्रत्यागतः

आ सप्तभ्यो दिनेभ्यो मम पर्यवेक्षको विरामार्थं निवृत्त आसीत्। अद्य स पुनः कार्यालयमागमत्। अद्य तेन सह मेलनमासीत्परन्तु तत्तेन स्थगितम्। इदानीं तन्मेलनं श्वो भविष्यति।

मंगलवार, 27 दिसंबर 2022

त्रयः स्यूताः

साँयकाले सार्धैकघण्टासु त्रयः पर्णपूर्णस्यूता मया सङ्ग्रहीताः। इतोऽपि त्रिंशत्सयूताः सङ्ग्रहीतुं शक्यन्ते तावन्ति पर्णानि सन्त्युद्याने।

कोटिशः पर्णानि

शरदृतौ कोटिशः पर्णानि गृहस्थयुद्याने पतितानि। तानि सम्पाद्य क्षिपाणि। यदि न क्षिपेयं तर्हि मृत्तिका जलं न लभेत। जलशुल्कं दत्त्वापि सस्यानां पोषणं न भवेत्।

समधकिशैत्यङ्गतम्

समधकिशैत्यङ्गतम्। इतः परञ्जलघनकारकं शैत्यन्न भविष्यति (आगामिषु दिनेषु)। दैवात्सर्वा नलिकाः स्वस्था इति भासते। दीर्घं निश्श्वसिमि।

सोमवार, 26 दिसंबर 2022

वर्षान्तः

वर्षान्त आगच्छति। वर्षस्यान्तिमरात्रौ स्वादुभोजनङ्खादनाय भार्या समप्रत्येव चिन्तयन्त्यस्ति।

श्वः कार्यङ्कर्तव्यम्

हा हन्त! चत्वारि दिनानि यावदवकाशमुपभुञ्ज्य श्वः कार्यलयस्य कार्यङ्कर्तव्यम्। भार्ययापि। पुत्रस्य तु विद्यालयावकाशोऽनुवर्तते।

ब्लेक्-एज्

ब्लेक्-एज् इति पुस्तकमपठम्। २०-दिस्मबरदिवसे भार्या पुस्तकं मह्यमदात्। अद्य प्रातःकाले मया पुस्तकं समाप्तम्। अत्युत्तं रोमाञ्चकञ्च पुस्तकमासीत्। विषादवियोऽयं येन धनिकेन व्याजः कृतः स कारागारन्नागच्छत्। इदानीमपि स मुक्ततया भ्रमति, यत्पूर्वङ्करोति स्म तदेव करोति। किञ्च ये सर्वकाराधिकारिणस्तस्य विरुद्धं न्यायकर्तव्यमनुष्ठितवन्तस्तयेवेदानीं तस्य संस्थायाङ्कार्यङ्कुर्वन्ति।

रविवार, 25 दिसंबर 2022

उपायनानि

क्रिस्तमसपर्वणि प्रातःकाले पुत्रः सोत्साहमजागरीत्। तस्य मातृपितामहावागमिष्यतः। परन्तु स उपायनोद्घाटनाय प्रतीक्षाङ्कर्तुन्न पारयति। अत आवां तस्मायुपायनान्युद्घाटयितुमनुमतिमदाव। आवामप्युपायनान्युद्घाटितवन्तौ।

शनिवार, 24 दिसंबर 2022

श्वशुरावगन्तारौ

श्वः क्रिस्तमसपर्वणि श्वशुरावागन्तारौ। तौ गतमासेऽप्यागच्छताम्। पुनस्तौ मिलित्वा भोजनङ्करिष्यामः।

गणानां प्राचुर्यम्

संस्कृतकार्यकर्तास्मि। तस्मै केषुचिद्व्हाट्सैपगणेष्वस्मि। परन्तु दिने दिनेऽन्यैर्नूतनगणा रच्यन्ते। ते मां तेषु नूतनगणेषु योजयन्ति। यदा शक्येत तदा गणान् त्यजामि। अन्यथा गणसङ्ख्या वरीवृध्यिष्यते।

नूतनपुस्तकम्

जन्मदिवसे 'ब्लैक्-एज्' इति पुस्तकं भार्योपहाररूपेणाददात्। व्हाल्-स्ट्रीट्-मार्गे हेज्-फण्डस् कीदृशेण मार्गेण धनमर्जयन्तीति विवृतं तस्मिन्पुस्तके। ज्ञानदायकं रोमाञ्चकञ्च पुस्तकम्। यदा पठन्नस्मि विरन्तुन्न शक्नोमि।

शुक्रवार, 23 दिसंबर 2022

नलिकाः कृडिताः

रात्रौ समधिकशैत्यमासीत्। काश्चन नलिका मया स्राविता आसन्। याः स्रावितास्ता न कृडिताः। परन्तु तिस्र नलिकाः हिमीभूताः। अद्यापरणाह्ने शैत्यङ्किचिन्न्यूनञ्जातम्। तस्मात्कृडिता नलिका अधुना स्रवन्ति। सुदैवात्कापि नलिका न भग्नेति भासते। अद्य रात्रौ कृडिभूता नलिका स्रावनीयाः।

गुरुवार, 22 दिसंबर 2022

श्वोऽवकाशो गृहीतः

मया श्वोऽवकाशो गृहीतः। अद्य कार्यङ्किञ्चिन्न्यूनमभवत्। सुवर्णावसर इति चिन्तयित्वा शुक्रवासरे कार्यन्न करिष्यामि। तेन चत्वारि दिनानि यावदवकाशो भविष्यति यतः सोमवासरे क्रिस्तमसपर्ववशादवकाशोऽस्ति।

समधिकशैत्यम्

अद्य श्वश्च समधिकशैत्यं भविष्यति। नलिकासु जलन्न हिमीभवेत्तदर्थं बहिस्था नलिका आवृताः। रात्रौ नलिकाभ्यर्जलं स्रावयिष्यते।

पुत्रो जिजागरिषति

गते वर्षान्ते पुत्रस्तस्य मातामह्या गृहयासीत्। वर्षस्यान्तिमे दिने ते मध्यरात्रेः पूर्वमशेरत। आवां नाशेवहि। अग्रिमे दिने यदा पुत्रेण ज्ञातं तदा स कुपितोऽभवत्। अस्मिन्वर्षे स आवाभ्यां सह स्थास्यति। तर्ह्यस्माभिर्निश्चयेन मध्यरात्रिपर्यन्तञ्जागरणीयम्।

बुधवार, 21 दिसंबर 2022

उद्योगः

अमुक्या संस्थया सह सम्भाषणमभूत्। अतिलघुसंस्थास्ति। तत्र रक्तपाशेन कार्यन्न प्रचलेत्। तत्तूत्तमम्। परन्तु लघुसंस्थासु कार्यमत्यधिकमस्ति। तन्मह्यन्न रोचते। सन्दर्शनङ्करणीयमुत नेति चिन्तनीयम्।

मंगलवार, 20 दिसंबर 2022

स्वल्पकार्याय महत्समयहानिः

कार्यालये स्वल्पकार्यमेकमस्ति। तन्त्रांशे शब्दैकः परिवर्तनीयः। तन्त्रांशे किमपि परिवर्तनं परीक्षां विना न क्रियताम्। द्वाभ्यां दिनाभ्यामहं मम सहकरी च तस्य परीक्षणाय प्रयतावहे। परन्तु परीक्षा सज्जा नाभवत्। स्वल्पकार्याय महत्समयहानिर्जाता। इतोऽपि समस्या न गता। इतः परङ्कियान् समय आवश्यको न जाने।

मेलनं स्थगितम्

यथा मया चिन्तितमासीत्तथैवाभूत्। ग्राहकेण सह मेलनं स्थगितम्। अद्य भार्यापुत्रौ गृहेऽस्थाताम्। अतः समयो वेगेन गतः। दिनस्य पूर्वार्धे कार्यमकरवम्। उत्तरार्धे नाकरवम्।

अवकाशरहितजन्मदिवसः

अद्य मम जन्मदिवसः। कार्यालयादवकाशङ्ग्रहीष्यामीति चिन्तितमासीद्गते सप्ताहे। परन्तु प्रबन्धकेन ग्राहकेण सह मेलनमायोजितम्। सामान्यतोऽहं तन्मेलनमस्थगयिष्ये परन्तु मेलनमिदं मम प्रकल्पायैव। अस्मिन् प्रकल्पेऽहं द्वाभ्यां वर्षाभ्याङ्कार्यङ्कुर्वन्नस्मि। असौ ग्राहकः प्रथमग्राहकोऽस्य तन्त्रांशस्य। परन्तु मेलनं स्थगयिष्यतयिति भासते यतो मेलनाय या सूचनावश्यकी सा न वर्तते।

सोमवार, 19 दिसंबर 2022

व्यस्तदिसम्बरः

आ षड्भ्यो वर्षेभ्यः साम्प्रतिकसंस्थायाङ्कार्यङ्कुर्वन्नस्मि। सामान्यतो दिसम्बरमासो व्यस्तो न भवति। परन्त्वस्मिन्वारं तथा नास्ति। प्रतिदिनङ्कार्यमस्ति। किञ्चैक एव प्रकल्पो नास्ति। त्रिषु प्रकल्पेषु मम पादौ स्तः। त्रिषु प्रकल्पेषु सर्वं मह्यङ्करणीयमिति नास्ति तथाप्नुभववशाद्दलसदस्यानां साहाय्यं मम दायित्वम्। तस्मात्कार्यमधिको भवति। अग्रिमे वर्षे नूतनोद्योगं लभै।

हास्यकथा

सम्भाषणसन्देशपत्रिकायां हास्यकथास्पर्धायाः परिणामः प्रकाशितः। केनापि प्रथमद्वितीये स्थाने न जिते। प्रेषिताः कथा अनार्हा इति प्रकाशकेनोक्तम्। मम कथालेखनकौशलं बिरुदार्हमस्तीति तु न वदामि। परन्तु तथापि यस्यां स्पर्धायाङ्केनापि प्रथमद्वितीेये स्थाने न लब्धे तादृश्यां स्पर्धायां भागस्तु वोढव्यः। भाविनि काले विषयेऽस्मिन्नवधानवान्भविष्यामि।

रविवार, 18 दिसंबर 2022

स्टोर्क्स्

स्टोर्क्स् इति चलच्चित्रमद्राक्ष्व। यदा ह्यो भार्या गतासीत्तदा पुत्रायानुप्राणितचलच्चित्रमिदं मया चालितम्। शिशवः कथञ्जायन्तयिति प्रश्नो यदा बालैः पृच्छ्यते तर्हि पक्षिभिः शिशव आनीयन्तयिति मातृपितरो मिथ्यां वदन्ति। तदाधारीकृत्य चलच्चित्रमिदं रचितम्। शिशूनाधारीकृत्य चलच्चित्रमस्तीति व्यपदेशेन पुत्रेण चलच्चित्रन्न दृष्टम्। अद्याहं भार्या चाद्राक्ष्व। मनोरञ्जकञ्चलच्चित्रम्।

रोमाञ्चकरिणी पादकन्दुकक्रीडा

अद्य पादकन्दुकक्रीडाया विश्वचषकस्यान्तिमस्पर्धाभूत्। अर्जन्टीना-फ्राँस्-देशयोस्सपर्धा। रोमाञ्चकरिणी स्पर्धा। तस्याः क्रीडायाः कारणात्संस्कृतवर्गः स्थगितो मया। सम्यक्कृतं मया यतः क्रीडावर्गावेकस्यां होरायामेवास्ताम्।

दि-एलिफेन्ट्-व्हिस्परर्स्

दि-एलिफेन्ट्-व्हिस्परर्स् इति वृतान्तमपश्यम्। भारते तमिलनाडुराज्ये वनवासिभ्यां दम्पतिभ्यां द्वौ गजौ प्रेम्णा कथं पालिताविति दर्शितम्। गजा बुद्धिमन्तो भावात्मकाश्च सन्ति। तौ गजौ भाग्यवन्तौ। अन्ये गजा न ताविव भाग्यवन्तः। अन्येषाङ्गजानां दुस्स्थितिं दृष्ट्वा खिद्ये।

शनिवार, 17 दिसंबर 2022

पुत्राय किमपि न रोचते

सम्प्रति पुत्रो नववर्षीयः। तस्य स्वेच्छा वर्धन्ते। तस्मै कानिचन चलच्चित्राणि रोचन्ते। स तान्येव पश्यति। यदाहं तङ्किमप्यन्यद्द्रष्टुं प्रेरयामि स न पश्यति। तस्य रुचिकरविषयेष्वपि यदि चलच्चित्रमस्ति तथापि न पश्यति। युवानः स्वेच्छया सर्वङ्कुर्वन्तीति तु सर्वज्ञातं परन्तु नववर्षीयो बालकोऽपि तादृशं व्यवहरेदिति नापेक्षितं मया।

शुल्कन्न गृहीतम्

आ पञ्चभ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां पठामि। प्रतिवर्षं दिसम्बरमासे तस्याः पत्रिकाया ग्राहकतां नवीकरोमि। अस्मिन्वारमपि तदेव कृतम्। परन्तु प्रकाशकेनैतावत्पर्यन्तं शुल्कन्न गृहीतम्। विस्मृतमुत न, न जाने। इतोऽपि वर्षे कानिचन दिनान्यवशिष्यन्ते। अपि नामागामिषु दिनेषु शुल्कङ्ग्रहीष्यते।

भार्या मेलनमङ्गमिष्यति

प्रतिवेशिमहिलानाङ्क्रिस्तमसमेलनमस्ति। तत्कृते साँयकाले भार्या गमिष्यति। सा मिष्टान्नान्यपाक्षीत्। तानि नेष्यति। साँयकालेऽहं पुत्रश्च स्वाभ्यां स्याव।

न्यूरोमेन्सर्

न्यूरोमेन्सर् इति प्रख्यातपुस्तकं पठामि। कठिनं पठनम्। लेखभाषा कठिनास्ति। बहूनां पदानामर्था लोकसिद्धार्थानामपेक्षया भिन्नाः। अतः कथायाङ्किं प्रचलतीत्यवगमने काठिन्यमनुभवामि। पठनमनुवर्तेय वा न, न जाने।

शुक्रवार, 16 दिसंबर 2022

भार्यायायुपहारः

क्रिस्तमसपर्वागच्छति। संस्कृत्यनुसारमुपहारविनिमयः क्रियते। उपहारक्रयणं मह्यन्न रोचते यतो दैवात्यत्किमप्यावश्यकं तत्सर्वमस्ति। तथापि पुत्राय रोचते। इत्यतोऽद्य प्रातःकाले गत्वा भार्यायायुपहारमक्रैष्व। भार्याप्यावाभ्यामुपहारानक्रीणात्। इदानीमुपहाराः क्रिस्तमसवृक्षस्योऽधः स्थापयिष्यन्ते। क्रिस्तमसदिवसयुुपहारोद्घाटनङ्करिष्यते।

अवकाशः

अद्य कार्यालयादवकाशङ्गृह्णामि। सामान्यतो दिसम्बरमासः कार्यालये व्यस्तो नास्ति। परन्तु प्रतिवर्षङ्करणीयकार्यराशिर्वर्धते। अस्मिन्वारं दिसम्बरमासोऽतिव्यस्तः। प्रतिदिनं मेलनानि सन्ति। आ वर्षङ्क्रियमाणाः प्रकल्पा अन्तिमचरणे सन्ति। ते प्रकल्पाः समापनीयाः। तेषां सर्वेषां सम्बद्धानि वार्षिकलक्ष्यानि सन्ति। तानि लक्ष्यानि वर्षान्तात्पूर्वं साधनीयानि। अतोऽवकाशाय बहवोऽवसरा न वर्तन्ते। अद्य केवलमेकं मेलनमस्ति। सुवर्णावसरोऽस्तीति चिन्तयित्वा मयावकाशो गृहीतः। पुत्रस्यापि विद्यालयावकाशस्य प्रथमदिवसोऽद्य।

गुरुवार, 15 दिसंबर 2022

विद्यालयस्यान्तिमदिनम्

अद्य पुत्रस्य विद्यालयस्यान्तिमदिनमस्ति। स हृष्यति। अद्यः परं सा जनवरीमासे विद्यालयङ्गमिष्यति। अहङ्गृहात्कार्यङ्करोमि। कदाचिन्नैरस्यमनुभवामि। स गृहे तिष्ठेच्चेन्नैरस्यङ्किञ्चिन्न्यूनं भवेत्।

पृष्ठकाष्ठवृतिः

गृहस्थे पृष्ठोद्याने पृष्ठकाष्ठवृतिर्जीर्णासीत्। ह्यस्तस्याः परिष्कारः कारितः। सा वृतिर्मम प्रतिवेशिनस्य च गृहयोर्मध्ये स्थिता। अतस्तस्याः परिष्काराय धनव्ययोरावयोर्विभक्तः। गतेषु वर्षेषु काष्ठवृतौ बहुधनं व्ययतिम्। इदानीं सम्पूर्णकाष्ठवृतिर्नवीकारिता परिष्कारिता वा। इतः परं बहुभ्यो वर्षेभ्यस्तस्यां धनं न व्ययतिव्यमिति ममापेक्षा।

बुधवार, 14 दिसंबर 2022

दिनदर्शिका प्रेषिता

मातृपितृभ्यां २०२३ दिनदर्शिका प्रेषिता। तस्यां दिनदर्शिकायामस्माकङ्कुटुम्बस्य चित्राणि वर्तन्ते। मातृपितरौ तत्प्राप्य मोदेते।

काफ्यापणमगच्छम्

साँयकाले भार्यापुत्रौ प्रतिदिनं बहिर्गच्छतः। तौ प्रतिवेशिभिः सह भ्रमतः। सम्पूर्णदिनमेकाकी कार्यङ्कृत्वा साँयकाले पुनर्निश्शब्दङ्गृहं मह्यन्न रोचते। अतः काफ्यापणङ्गत्वा पुस्तकमपठम्। तत्र केनापि सह न समभाषे परन्तु तथापि तत्रान्यजनान् दृष्ट्वा नैरस्यन्नान्वभवम्।

मंगलवार, 13 दिसंबर 2022

न्यूना लेखसङ्ख्या

अस्मिन्वर्षेऽन्येषां वर्षाणामपेक्षया न्यूना लेखा लिखिता मया (अस्याञ्जालभित्तौ)। तद्विषये चिन्तयन्नासम् - केन कारणेनेति। वर्षारम्भिकेषु त्रिषु मासेष्वहमुद्योगसन्दर्शनायाध्ययनङ्कुर्वन्नासम्। तेन कारणेन तेषु मासेषु न्यूना लेखा लिखिता मया। तस्मादेवाहत्यासम्मिन्वर्षे लेखसङ्ख्या न्यूना जाता।

सोमवार, 12 दिसंबर 2022

अभिमुखमेलनम्

ह्योऽभिमुखमेलनमभवत्। प्रायः सप्ततिजना आगच्छन्। गीतानि भाषणानि नाटकानि च दर्शितानि कार्यकर्तृभिश्छात्रैश्च। मया भाषणं दत्तम्। संस्कृतेन सम्पूर्णभाषणं वदामीति चिन्तितमासीत्परन्तु छात्राणाङ्कुटुम्बसदस्या अप्यासन्। तेभ्यो मुख्यतया आङ्ग्लभाषया भाषणं मया दत्तम्। तस्मिन्नेव काले भार्यापुत्रौ क्रिस्टमसोत्सवेऽगच्छताम्। साँयकाले वयङ्गृहमागच्छाम। रविवासरः सम्यक्तया यापितः।

शनिवार, 10 दिसंबर 2022

एकेन दूरवाणीसम्भाषणेन

एकेन दूरवाणीसम्भाषणेन बहु साधयितुं शक्यते। सितम्बरमासे दन्तपरीक्षायायहमगच्छम्। सामान्यतो दन्तपरीक्षायाः सम्पूर्णशुल्कमभिरक्षायोजनया दीयते। परीक्षाशुल्कं सप्तसप्तत्यधिकशतं रुप्यकाण्यासीत्। तेषु योजनया केवलं त्रयश्चत्वारिंशद्रुप्यकाणि दत्तानि। चतुस्त्रिंशदधिकशतं रुप्यकाणि मया देयानि। योजना पञ्चवर्षेषु क्ष-किरणपरीक्षाशुल्कं केवलमेकवारं ददाति। पूर्वा क्ष-किरणपरीक्षा त्रिभ्यो वर्षेभ्यः पूर्वङ्कारिता मया। अतो योजनया शुल्कन्न दत्तम्। मया दातव्यमिति ज्ञातेऽप्यहं दन्तालयं दूरवाण्याहूयावदं देयं शुल्कं स्थगयत्विति। योजना किं दद्यात्किन्न दद्यातेति भवद्भिर्न सम्यक्तया परिशीलितम्। अतोऽत्र मम दोषो नास्ति। दन्तालयेन शुल्कं निरसीकृतम्। केवलमेकेन दूरवाणीसम्भाषणेन मया चतुस्त्रिंशदधिकशतं रुप्यकाणि रक्षितानि।

भाषणम् - २

सर्वेभ्यो नमः। भवत्सु बहवो जनाः मां जानन्ति। ये न जानन्ति तेषां कृते मम परिचयं ददामि। मम नाम पुनीतः। अहं संस्कृतभारत्याः आस्टिन्केन्द्रे प्रौढान् संस्कृतं पाठयामि। अस्मिन्वर्षे अहं गीतासोपानस्य द्वितीयभागं पाठयन्नस्मि।

बहवो छात्राः मां पृच्छन्ति पुनीतमहोदय भवान् संस्कृतं कथम् अधीतवान्? भवन्तं कः पाठितवान्? भवान् संस्कृतसम्भाषणाभ्यासं कथं प्राप्तवान्? अतः अहं तस्मिन् विषये किञ्चिद् वक्तुमिच्छामि। मम लक्ष्यमस्ति मम संस्कृतयात्रायाः विषये श्रुत्वा भवन्तः अपि प्रेरणां प्राप्नुयुः संस्कृताध्ययनं कुर्युः, दैनन्दिनजीवने संस्कृतसम्भाषणं कुर्युः इति।

बाल्यकाले अहं भारते विद्यालये संस्कृतं पठितवान्। वयं तु जानीमः एव भारते विद्यालयेषु संस्कृतं सम्यक्तया न पाठ्यते। छात्राः अध्यापकाः उभावपि केवलम् अङ्कप्राप्तये संस्कृतं चिन्वन्ति। तत्र संस्कृतज्ञानं न मुख्यं लक्ष्यम्। तस्मिन्काले अपि संसृकतं मह्यं रोचते स्म। परन्तु कदापि सम्य्कतया न पठितवान्, सम्भाषणं तु कदापि न कृतवान्। बहुभ्यः वर्षेभ्यः परस्तात् २०१२ वर्षे अहम् निर्णयं कृतवान् संस्कृतं सम्यक्तया पठिष्यामि। तदा अहम् अमेरिकायाम् आसम्। संस्कृतं कथं पठनीयम् इति अन्तर्जाले अन्वेषणं कृतवान्। अन्तर्जाले श्रीचित्रपुरमठस्य जालस्थानं प्राप्तम्। तस्मिन् जालपुटे अत्युत्तमा पाठाः पी-डी-एफ् रूपेण आसन्। तस्मिन् काले अहं बसयानेन कार्यालयं गच्छामि स्म। तर्हि तेषां पाठानां मुद्रणं कृत्वा अहं प्रतिदिनं मम स्यूते नयामि स्म, बसयाने पठामि स्म। प्रतिदिनं घण्टाप्रायः समयः बसयाने पाठान् पठामि स्म। तस्मात् मम व्याकरणज्ञानं वर्धितम्।

अपि च अन्तर्जालात् samskritabharatiusa.org इति जालस्थानं प्राप्तम्। तत्र पुस्तकभण्डारः अस्ति। तस्मात् अहं बहूनि पुस्तकानि क्रीतवान् - व्याकरणपुस्तकानि कथापुस्तकानि च। प्रतिदिनं तेषु पुस्केषु किमपि पुस्तकं स्वीकृत्य पठामि स्म। अनन्तरं मया सम्भाषणसन्देशपत्रिकायाः विषये ज्ञातम्। तस्याः ग्राहकता अपि मया क्रीता। प्रतिमासं तां पत्रिकां पठामि स्म।

२०१७ वर्षे मम परिचयः संस्कृतभारत्याः आस्टिन्केन्द्रेण सह जातः। शनैः शनैः मया पाठनम् आरब्धम्। तस्मात् मम सम्भाषणकौशलम् अपि अवर्धत। इदानीमहं पञ्चभ्यः वर्षेभ्यः संस्कृतं पाठयन्न्स्मि।

इयन्तं श्रमम् अहं किमर्थं कृतवान्? सरलः उत्तरः। संस्कृतं मह्यं रोचते। तस्याः भाषायाः माधुर्यं मम कर्णाभ्यां रोचते। यदाहं संस्कृतं वदामि, अहं प्राचीने भारते निवसामि इति भासते।यदा संस्कृतं वदामि न केवलं भारतीयसंस्कृतिम् अनुभवामि परन्तु तस्याः प्रचारः अपि भवति। संस्कृतं वदामि चेत् मम संस्कृतेः भाषायाः च विषये गर्वम् अनुभवामि। अतः अहं संस्कृतं पठामि, लिखामि, वदामि, पाठयामि च।

इदानीं भवन्तः प्रायः चिन्तयेयुः - एतत्सर्वं सम्यग् अस्ति पुनीमहोदय, परन्तु मया किं करणीयम् इति वदतु। वदामि।

यदि संस्कृताय भवतां श्रद्धा अस्ति, तर्हि केवलं संस्कृतं विषये मा वक्तव्यम् - संस्कृतेन वक्तव्यम्। संस्कृतं देवानां भाषास्ति, आर्टिफिश्यल् इन्टेलिजेन्स् कृते उत्तमा भाषा अस्ति - बहवो जना एतत्सर्वं वदन्ति। तत् सर्वं भवतु परन्तु तस्य न कोऽपि लाभः। यदि वयं संस्कृतभाषायाः कृते आदरं दर्शयितुम् इच्छामः तर्हि भाषायाः प्रयोगः करणीयः, ने केवलं तस्याः गुणगानम्। तर्हि संस्कृतभाषायाः प्राचाराय, तस्याः आनन्दं अनुभवनाय, संस्कतकौशलं वर्धनाय, भवद्भिः एतत् करणीयम् -

१. श्रवणं पठनं लेखनं सम्भाषणम्

२. यावच्छक्यं संस्कृतेन वक्तव्यम्। यदि भवतां कुटुम्बे अन्येषां जनानाम् अपि संस्कृते रुचिः अस्ति तर्हि वरम्। कुटुम्बसदस्यैः सह सम्भाषणं कुर्वन्तु। मम कुटुम्बे अन्ये जनाः संस्कृतं न वदन्ति, तर्हि अहं किं कृतवान्? संस्कृतभारत्याः अन्यैः कार्यकर्तृभिः सह सम्भाषणं कृतवान्।

बोस्टन् नगरे एका महिला आसीत् यया सह सम्भाषणाय कोऽपि नासीत्। सा मया सह चतुर्मासेभ्यः दूरवाण्या सम्भाषणं कृतवती। स्पष्टम् आसीत् चतुर्मासेभ्यः परं तस्य सम्भाषणकौशलं सुवर्धितम् आसीत्। तर्हि भवन्तः अपि केनापि सह सम्भाषणं कुर्वन्तु। यदि कोऽपि न प्राप्यते तर्हि माम् आह्वयतु।

३. प्रतदिनिं न्यूनातिन्यूनं त्रीणि वाक्यानि संस्कृतेन लिखन्तु। यत्किमपि भवत्सु जीवने प्रचलति तस्मिन् विषये त्रीणि वाक्यानि प्रतिदिनं लिखन्तु। तस्मात् किं भवेत्? भवतां शब्दज्ञानं, व्याकरणज्ञानं आत्मविश्वासः च वर्धताम्।

४. सम्भाषणसन्देशपत्रिकायाः ग्राहकतां स्वीकृत्य प्रतिमासं तां पत्रिकां पठन्तु। पत्रिकायां बहुषु विषयेषु लेखाः सन्ति। तस्मात् शब्दज्ञानं व्याकरणज्ञानं च वर्धते। अहं स्मरामि पञ्चभ्यः वर्षेभ्यः पूर्वं एकां सञ्चिकां पठनाय मह्यं सम्पूर्णमासम् आवश्यकम् आसीत्। इदानीम् अहं सम्पूर्णसञ्चिकां एकस्मिन् सप्ताहान्ते पठितुं शक्नोमि। अतः अद्यैव samskritabharatiusa.org गत्वा पत्रिकायाः ग्राहकतां क्रीणन्तु। केवलं चत्वारिंषद् डौलराणि दत्त्वा आवर्षं मुद्रितपत्रिका भारतात् आगच्छति।

मया एतत् सर्वं किमर्थम् उक्तम्? स्वस्य संस्कृतकौशलं ज्ञानं दर्शनाय न, अपि तु मम संस्कृतयात्रायाः विषये श्रुत्वा भवन्तः अपि किञ्चित् प्रेरणां प्राप्नुुयुः, भवतां संस्कृतज्ञानं कौशलञ्च वर्धेत इति मम आशा।

जयतु संस्कृतं। धन्यवादः।


भाषणमुख्यांशाः

श्वः मया भाषणीयम्। तस्य भाषणस्य मुख्येऽंशा इमे - 

१. परिचयः

२. बाल्यकाले विद्यालये

३. २०१२ श्रीचित्रपुरमठः

४. पुस्तकानि क्रीत्वा पठितवान्, पत्रिकां पठितवान्

५. २०१७ संस्कृतभारत्या सह परिचयः

६. श्रमः किमर्थम्? 

७. संस्कृतश्रद्धा अस्ति चेत् - आदरं दर्शनाय संस्कृतविषये मा वदतु, संस्कृतेन वक्तव्यम्

८. किं करणीयम् - श्रवणम् पठनम् लेखनम् सम्भाषणम्

९. संस्कृतेन सम्भाषणं कुर्वन्तु

१०. त्रीणि वाक्यानि लिखन्तु

११. सम्भाषणसन्देशपत्रिकां पठन्तु

१३. कार्यकर्ता / शिक्षकः वा भवतु

१४. जयतु संस्कतम्

गुरुवार, 8 दिसंबर 2022

दी-आल्केमिस्ट्

दी-आल्केमिस्ट् इति पुस्तकमपठम्। सुप्रसिद्धं पुस्तकमिदम्। मयि पठति कथा रुचिकरी नाभसत। तथापि प्रसिद्धा कथास्तीत्यतोऽपठम्। अन्ते कथा सम्यग्भवेदित्यचिन्तयम्। परन्तु तादृशन्नाभवत्। अन्ते तु कथा पूर्वस्मादपि विचित्रा जाता। किमर्थमिदं पुस्तकं सुप्रसिद्धमस्तीति न जाने। आ दशवर्षेभ्य इदं पुस्तकं मम गृहस्थे पुस्तकालये निधानिकायामतिष्ठत्। केभ्यश्चिद्वर्षेभ्यः पूर्वमपि पठनप्रयत्नमकरवम्। तदा किञ्चित्पठित्वात्यजत्। इदानीं पूर्णतया पठितम्। पूर्वस्मिन्वारं किमर्थं न पूर्णतया पठितमिति ज्ञातम्। कथा मह्यं न रोचते।

रविवार, 4 दिसंबर 2022

दूरदर्शनं विश्रामाय

सामान्तयोऽहमधिकतया दूरदर्शनन्न पश्यामि। सङ्गणके किमपि पठामि। परन्तु तस्माच्छ्रान्तिर्जायते। अतो गतयोः सप्ताहयोरहं सङ्गणकं विहाय दूरदर्शनमधिकतया वीक्षे। तस्मादहमधिकं विश्राममनुभवामि। दूरदर्शनं वीक्षणे सर्वदा पठनीयन्नास्ति। सङ्गणके तु सर्वदाहङ्किमपि पठन्नस्मि। अतो दूरदर्शनवीक्षणाच्चक्षुषोः श्रान्तिः किञ्चिन्न्यूनतरा भवति।

शनिवार, 3 दिसंबर 2022

वैज्ञानिककल्पनाचलच्चित्राणि

इमानि वैज्ञानिककल्पनाचलच्चित्राणि मम प्रियाणि - 

१. इन्टर्स्टेलर्

२. ओब्लिवियन्

३. एक्स्-मेकेना

४. टर्मिनेटर् १,२

शुक्रवार, 2 दिसंबर 2022

दलमेलनम्

कार्यालये मदीये दले दश जनाः सन्ति। अद्य सर्वे जना अमेलिष्म। साँयकाले मिलित्वा भोजनमखादिष्मारंस्महि च।

गुरुवार, 1 दिसंबर 2022

पत्रिकाया ग्राहकता

आ षड्भ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां पठन्नस्मि। पूर्वं पत्रिका मह्यं रोचते स्म। गते वर्षे पत्रिकालेखेषु परिवर्तनञ्जातम्। प्रतिमासं पत्रिकायां त्रयो लेखा मन्दिरसम्बद्धाः सन्ति। केचन लेखा गाव अधीकृत्य वर्तन्ते। काश्चनकथा देशस्वतन्त्रसङ्ग्रामविषये सन्ति। एते विषया मह्यं न रोचन्ते। तथापि संस्कृतपठनं मह्यं रोचते। किञ्च पत्रिकापठनेन शब्दज्ञानं वर्धते। अतः पत्रिकाग्राहकता नवीकृता मया। इतोऽप्येकवर्षं यावत्पत्रिकां पठामि। यदि नैरस्यं भवेत्तर्ह्यग्रिमे वर्षे ग्राहकतां पुनर्न नवीकरिष्यामि।

शनिवार, 26 नवंबर 2022

भौतिकविज्ञानम्

भौतिकविज्ञानं पिपठिषामि। तदर्थं महच्छ्रमः समयश्चावश्यकौ। उद्योगे सत्यतिदुष्करम्। पठेयञ्चेदप्यभ्यासाय विवादायान्ये छात्रा आवश्यकाः। एकाकी त्वतिकाठिन्यमनुभवेयम्। उद्योगनिवृतेः परस्तादेव कर्तुं शक्नुयामिति मन्ये। तर्हि बहूनि वर्षाणि यावत्प्रतीक्षा करणीया।

नावो नरः पतितः

प्रातःकाले वार्तासु दर्शितङ्कश्चन नरो नावो पतितः। या यात्रास्माभिः कृता तादृशी यात्रा तस्य नरस्यापि। यं समुद्रं वयं नावातराम स नरस्तस्मिन्नेव पतितः। पञ्चदशघण्टा यावत्स समुद्रे पल्वमान आसीत्। अनन्तरङ्कयाचन वणिङ्नावा स लक्षिता रक्षितश्च।

गुरुवार, 24 नवंबर 2022

चत्वारि दिनानि यावदवकाशः

अद्यावकाशोऽस्ति। श्वोऽवकाशो गृहीतो मया। अतोऽस्मिन्सप्ताहान्तो दीर्घः।

श्वशुरावागमिष्यतः

अद्य श्वशुरावागमिष्यतः। ताभ्यां सह मिलित्वा भोजनङ्करिष्यामः।

बुधवार, 23 नवंबर 2022

नाव्यगच्छाम

गतसप्ताहे प्रवासायागच्छाम। गुरुवासरे त्रिवादने नौः प्रयाणमकरोत्। शनिवासरे प्रातःकाले नववादनयिष्टस्थानमप्राप्नोत्। शनिवासरे दिने तत्रैवाभ्रमाम। साँयकाले नौः प्रत्यागमनाय यात्रामरभत्। सोमवासरे वयङ्गृहमागच्छाम। उत्तमा यात्रासीत्। नावि स्वादुभोजनमखादाम विविधाः क्रीडाश्चाकरवाम। परन्तु रविवासरे सागरे बृहत्तरङ्गा आसन्। ताभिर्नौरदोलयत्। तस्माद्भार्यापुत्रयोः वमनञ्जातम्। अन्यथा सर्वमुत्तमतया प्राचलत्।

शनिवार, 12 नवंबर 2022

ओब्लिवियन्

ओब्लिवियनिति चलच्चित्रमपश्यम्। बहुभ्यो वर्षेभ्यः पूर्वञ्चलच्चित्रालये दृष्टमासीद्मया। इदानीं दूरदर्शनेऽपश्यम्। उत्तमचलच्चित्रम्। विज्ञानकल्पनायुक्तेषु मम प्रियतमचलच्चित्रेष्विदमूर्ध्वं विराजते। 'इन्टरस्टेलर्', 'अरैवल्' अन्ये द्वे मम प्रिये विज्ञानकल्पनाचलच्चित्रे।

रविवार, 30 अक्तूबर 2022

जनपदोत्सवः

ह्यो जनपदोत्सवमगच्छाम। चतुर्दिनात्मकोत्सवस्यान्तिमदिन आसीत्। उत्सवे सङ्गीतनाटकमतिरिच्य पशुक्रीडा अप्यासन्। जना वृषभाश्वानारूह्य नानाकौशलनान्यदर्शयन्त। स्वादुभोजनमप्यासीत्। अस्माकं शनिवासर उत्तमतया व्ययितः।

शनिवार, 29 अक्तूबर 2022

द्विचक्रिकासमीकरणम्

पुत्रस्य द्विचक्रिकायाः पृष्ठवर्तिचक्रे कीलमाजगाम। तस्माच्चक्रे वायुर्न तिष्ठति स्म। प्रातःकाले द्विचक्रिकां समीकरणापणेऽनैष्म। सप्तविंशतिरुप्यकाणि दत्त्वा चक्रं समीकारितम्। इतःपरं पुत्रः पुनर्द्विचक्रिकया भ्रमेत्।

भ्राता पितृगृहे

गतसप्ताहे भ्राता सकुटुम्बं पितृगृहेऽतिष्ठत्। चतुर्वर्षेभ्यः परं सोऽगच्छत्। तेषु चतुर्षु वर्षेषु मातृपितरौ तं मेलनाय द्विवारञ्जग्मतुरिति मन्ये।

सोमवार, 24 अक्तूबर 2022

दीपावलीपर्व

दीपावलीपर्वण्यवकाशङ्ग्रहीष्यामीति मया चिन्तितमासीत्। परन्तु कार्यालये किञ्चित्कार्यमासीदित्यतोऽवकाशो न ग्रहीतः। तथापि पञ्चवादने कार्यं समाप्य साँयकाले पूजाङ्कृत्वा स्वादुभोजनञ्जग्ध्वा पर्वोत्साहेनाचरितम्।

रविवार, 23 अक्तूबर 2022

पर्यवेक्षकस्य सम्पत्तिकरः

मम पर्येवेक्षकेनास्मिन्वर्षे गृहङ्क्रीतम्। गृहक्रयणाय देयमूल्यात्समधिकमूल्यं दत्तं तेन। गृहस्यापणमूल्यमाधारीकृत्य सम्पत्तिकरो निश्चीयते। तर्हि तस्य सम्पत्तिकरोऽपि समधिक आसीत्। तस्मात् स आश्चर्यचकितोऽभवत्। तस्य गृहन्न तावन्मूल्यार्हमेतस्मात्सम्पत्तिकरो न्यूनः कर्तव्य इति स सर्वकारमयाचत्। तस्य याचना सर्वेकारेण निराकृता। अहो तस्य मौग्ध्यम्! यदि स गृहक्रयणाय तावन्मूल्यं दित्सति तर्हि तावन्मूल्यमेवापणमूल्यं खलु? स बुद्धिमान्। केन तर्केण तेनान्यथोहितमिति न जाने।

शनिवार, 22 अक्तूबर 2022

सम्पत्तिकरो ह्रसितः

प्रतिवर्षं सम्पत्तिकरो वर्धते। आ दशवर्षेभ्य इदमेव दृष्टम्। नास्मिन्वर्षे। प्रथमवारं सम्पत्तिकरो ह्रसितः। यद्यपि गृहमूल्यमवर्धत तथापि सर्वकारेण सम्पत्तिकरार्घो न्यूनिकृतः। तस्माद्गतवर्षस्यापेक्षया देयः करः किञ्चिन्न्यूनः। हृष्यामि।

शुक्रवार, 7 अक्तूबर 2022

कर्णस्थितिः

केभ्यश्चिन्मासेभ्यः पूर्वमेकया घटनया मदीये वामकर्णे वेदना जाता। कर्णवैद्यः परीक्षामकरोत्। सोऽवदत्सर्वं सम्यगस्तीति। परन्तु सर्वं सम्यङ्नास्ति। बहुभ्यो मासेभ्यः परमपि यदाहं सङ्गीतं शृणोमि तदा कर्णवेदना जायते। आश्चर्यं नाम केवलमुच्चनादेन न न्यूननादेनापि कर्णवेदना जायते। यदि सङ्गीतमल्पध्वनिस्तरे शृणोमि तदापि कर्णवेदना जायते। आजीवनमसौ वेदना स्थास्यतीति मन्ये।

सोमवार, 3 अक्तूबर 2022

दन्तशस्त्रचिकित्साकारयिष्ट

अद्य दन्तशस्त्रचिकित्साकारयिष्ट। शस्त्रभिषजा भग्नदन्तो निष्कासितः। नूतनदन्तस्थापनायास्थि स्थापितम्। पञ्चमासेभ्यः परमस्थिन उपरि दण्डं संस्थाप्य तदनन्तरं नूनतदन्तः स्थापयिष्यते।

रविवार, 2 अक्तूबर 2022

जनसम्मर्दाद्बिभेमि

इण्डोनीशियादेशे पञ्चविंशत्यधिकशताधिकजनाः पादकन्दुक्रीडायां मृताः। यत्र महज्जनसम्मर्दोऽस्ति तत्रेदृशी घटना भवितुं शक्नोति। पूर्वं बहुवारं वार्तास्वीदृश्या घटनाया विषये श्रुतम्। तेन कारणेनाहं यत्र कुत्रापि महज्जनसम्मर्दोऽस्ति तस्माद्बिभेमि।

दन्तचिकित्सा

श्वो दन्तचिकित्सा कार्यते। तत्परङ्कियती वेदनानुभविष्यतयिति चिन्तयामि।

शनिवार, 1 अक्तूबर 2022

पात्रक्षालनयन्त्रात्सौकर्यम्

नूतनपात्रक्षालनयन्त्रं सम्यक्तया पात्राणि क्षालयति। मार्जितैश्शोषितैः पात्रैः सौकर्यमस्ति। पूर्वतनयन्त्रात्पात्राणि भागशोऽमार्जितानि किञ्चिदार्द्राणि च भवन्ति स्म।

रविवार, 25 सितंबर 2022

नावि गन्तास्मः

परह्यः प्रवासाय चिटिकाः क्रीताः। करोनारम्भाद्वयं राज्याद्बहिर्नागच्छाम। अस्मिन्वारं नावि गन्तास्मः। पञ्चदिनात्मकी यात्रास्ति। नावि समुद्रेण गत्वा कस्मिंश्चिद्द्वीपे दिनं व्ययितास्मः। पञ्चत्रिंशद्वर्षेभ्यः पूर्वमहं बृहन्नव्यगच्छम्। भार्यापुत्रौ तु कदापि बृहन्नावि नागच्छताम्। अतो वयं सर्वयुत्साहिताः।

शुक्रवार, 23 सितंबर 2022

पात्रक्षालनयन्त्रं स्थापितम्

ह्यः प्रातःकाले पात्रक्षालनयन्त्रं स्थापितम्। एतावच्छीघ्रं स्थापयिष्यतयिति नोहितमासीत्। अनेन महत्सौकर्यञ्जातम्। हस्ताभ्यां पात्राणि न क्षालनीयानि।

रविवार, 18 सितंबर 2022

पात्रक्षालनयन्त्रङ्क्रीतम् (तृतीयवारम्)

द्वाभ्यां सप्ताहाभ्यां पूर्वं पात्रक्षालनयन्त्रङ्क्रीतमासीत् (तदापि द्वितीयक्रयणमासीत्)। तस्मिन् कालयापणिकोऽवदत्पात्रक्षालनयन्त्रं सार्धैकमासात्परमागन्ता। तदास्माकङ्गृहस्थयन्त्रङ्कार्यङ्करोति स्म। अतः प्रतीक्षास्माकमनानुकूल्याय नासीत्। परन्त्विदानीं तद्यन्त्रं पूर्णतया भग्नञ्जातम्। यन्त्रे भग्ने सत्यस्माभिर्हस्ताभ्यां पात्राणि क्षालनीयानि। तदर्थमधिकसमयः कार्यञ्चावश्यकौ। अतो वयमन्यस्मादापणाद्यन्त्रमक्रीणीम। तद्यन्त्रमग्रिमे सप्ताहयागन्ता। पूर्वतनक्रयणादेशो निरसीकृतः। अदो यन्त्रमप्यग्रिमे सप्ताहयागन्ता परन्तु तस्य स्थापनङ्कदा भविष्यतीति न जाने। केभ्यश्चिद्दिनेभ्यः परमन्ये कार्यकर्तार आगत्य तस्य स्थापनङ्कुर्युः। शीघ्रं स्थापनं भूयात्।

शनिवार, 17 सितंबर 2022

सरलसंस्कृतम्

सरलसंस्कृतविषये केचनांशाः -

१. भाषाया लक्ष्यम् अवगमनम्।

२. भाषायाः मुखद्वयम् अस्ति - सरलं, प्रौढं चेति।

३. शिशुः जलं पिबति न तु डिम्भः कीलालं पिबति।

४. सरलसंस्कृतं सरलीकृतं एतयोः भेदः।

५. भाषायाः सरलमुखस्य प्रकाशनम्।

६. संस्कृतभाषा सरला न कठिना इति प्रचारः अस्माभिः करणीयम्।

७. निष्कासनं न - आत्मनेपदिधातून् विहाय परस्मैपदिधातवः प्रयुज्यन्ताम्।

पत्रं १७

१. जलं/कीलालं, अश्वः/हयः, नेत्रं / चक्षुः, मेघः/वारिदः, अस्ति / वर्तते / विद्यते (एक एव आवश्यकः)

२. प्रयते / प्रयत्नं करोमि, प्रयुञ्ज्महे / प्रयोगं कुर्मः, उद्घोषयामि / घोषणां करोमि, चिकीर्षामि / कर्तुम् इच्छामि, अधीते / पठति, अध्ययनं करोति, याति / एति / गच्छति।

३. लभते / प्राप्नोति, आस्ते / उपविशति, कुरुते / करोति, पद्यते / गच्छति, प्राप्नोति वा, ईक्षते / पश्यति

४. प्रादेशिकभाषस्थाः शब्दाः प्रयोजनीयाः

५. ६. वारि / जल, राजन् / महाराज, वक्षस्, उरस् / वक्षःस्थल, भिषज् / वैद्यः, वणिक् / आपणिक, चर्मन्, त्वच् / त्वचा

७. लङ्गलकारे उपसर्गसहितप्रयोगः क्लेशाय - स्व्यकरोत् / स्वीकृतवान्, प्राक्षालयत् / प्रक्षालितवान्, उपाविशत् / उपविष्टवान् 

८. कार्यालयतः / कार्यालयात्, नववादनतः आरभ्य / नववादनात् आरभ्य, तेषां कृते / तेभ्यः, छात्राणां कृते / छात्रेभ्यः

९. मया क्रियेत / अहं करोमि, तया पठितम् / सा पठितवती, छात्रैः पुस्तकानि लभ्येरन् / छात्राः पुस्तकानि प्राप्नुयुः।

९. कर्ता, कर्म क्रिया इति अन्वयक्रमः अनुसर्तव्यः।

१०. द्वे पुस्तके स्तः -  पुस्तकद्वयम् अस्ति, द्वाभ्यां दिनाभ्यां पूर्वम् / दिनद्वयात् पूर्वम्, द्वयोः मासयोः अनन्तरम् / मासद्वयस्य अनन्तरम्

११. युष्मत् विहाय भवत् -  त्वाम् सूचयिष्यामि / भवन्तम् सूचयिष्यामि, तव स्यूतः / भवतः स्यूतः, युष्माकम् इच्छा / भवताम् इच्छा, युष्मासु कोऽपि वदतु / भवत्सु कोऽपि वदतु

१२. ध्वनिर्नागच्छति - ध्वनिः न आगच्छति, यो वदति स रमेशः / यः वदति सः रमेशः, पुस्तकपाणिः कः / यस्य हस्ते पुस्तकम् अस्ति सः कः?

१३. अष्टौ / अष्ट, एकोनविंशतिः / नवदश, एकोनत्रिंशत् / नवविंशतिः

१४. प्रश्नः प्रश्नरूपेण वक्तव्यम्, 

भवान् भोजनं कृतवान् वा? आम्। अहं भोजनं कृतवान्। न अहं भोजनं न कृतवान्।

कः रमेशः? सः रमेशः? 

भवान् कृपया पुस्तकम् आनयतु।

 



रविवार, 11 सितंबर 2022

धनव्ययः

केचन जना निश्चितसमयात्पूर्वमुद्योगनिवृत्तिं लभन्ते। कदाचिदहं तस्मिन्विषये चिन्तयामि परन्तु सर्वदा कोऽप्यनिवार्यो धनव्यय आपतति। अन्यच्च प्रतिवर्षं सम्पत्तिकरो वर्धते। उद्योगोऽस्ति वा न सम्पत्तिकरस्तु दीयतामेव। एवं सति कथं पूर्वकालिकोद्योगनिवृत्तिर्लब्धुं शक्यतयिति न जाने। इतोऽपि न्यूनातिन्यूनं दशवर्षेभ्य उद्योगः करणीयः। प्रायस्तस्मादधिकम्।

संस्कृतवर्ग आरभ्यते

अद्यारभ्य नूतनसंस्कृतवर्गो भविष्यति। उपदशछात्रा भागं वहेयुः।

सोमवार, 5 सितंबर 2022

पात्रक्षालनयन्त्रङ्क्रीतम् (पुनः)

गृहे पात्रक्षालनयन्त्रङ्कार्यङ्करोति परन्तु तज्जीर्णम्। सम्यक्तया पात्राणि न क्षालयति शोषयति च। अतो ह्यो नूतनपात्रक्षालनयन्त्रङ्क्रीतम्। केभ्यश्चिद्मासेभ्यः पूर्वमपि क्रीतमासीत्परन्तु यदा कार्यकर्तारस्तद्यन्त्रस्य स्थापनङ्कुर्वन्त आसन्तदा तेऽसूचयन्यद्भवताङ्गृहे केवलङ्कानिचन यन्त्राण्येव स्थापयितुं शक्यन्ते। जलनलिकाविन्यासस्तादृशोऽस्ति येन सर्वाणि यन्त्राणि स्थापयितुं न शक्यन्ते। तदाधारीकृत्य ह्यो यन्त्रङ्क्रीतम्। परन्तु यन्त्रं सार्धैकमासादनन्तरमागन्ता। तावत्पर्यन्तं वर्तमानयन्त्रमयुपयोक्तव्यम्।

शनिवार, 3 सितंबर 2022

हेम्स्टरो निरामयः

हेम्स्टरः पुनर्निरामयोऽभूत्। तस्य पादौ शाश्वततया व्रणितौ जाताविति मम चिन्तासीत्। अधुना सा चिन्तापगता। हृष्यामि।

बुधवार, 31 अगस्त 2022

कार्यालयेऽडामि

कार्यालयेऽधिककार्यं वर्तते। यस्मै प्रकल्पायाहमडामि स प्रकल्पोऽस्य वर्षस्य महत्वपूर्णप्रकल्पः। तल्लक्ष्यं साधनायाहमडामि। दशघण्टा यावत्कार्यङ्कृत्वा साँयकाले श्रान्तिमनुभवामि। व्यायामङ्गिटारयन्त्रवादनं वा करणं नेच्छामि।

शनिवार, 27 अगस्त 2022

सञ्चालको जहाति

अस्मन्नगरीयस्य संस्कृकेन्द्रस्य सञ्चालकः सञ्चालकत्वञ्जहाति। केन कारणेन न जानामि। प्रायो मिलित्वा ज्ञास्यामि।

बुधवार, 24 अगस्त 2022

द्वे संस्थे

कार्यालये यत्कार्यङ्कुर्वन्नस्मि तत्कार्यं द्वयोः संस्थयोरनुगुणं भवितव्यम्। ह्यो द्वितीयया संस्थया सह परीक्षणमकरवम्। ज्ञातं यत्ङ्किञ्चित्कार्यं पुनः कर्तव्यं यतः कार्यमेकस्याः संस्थाया अनुगुणमस्ति परन्तु द्वितीयसंस्थाया न। एतच्छ्रुत्वा मम प्रबन्धकः कीदृशीं प्रक्रियां दर्शयेदिति न जाने।

रविवार, 21 अगस्त 2022

हेम्स्टरो व्रणितः

सोमवासरे मम हस्तेऽस्माकं हेम्स्टर आसीत्। तं तस्य क्रीडाङ्गनं नयन्नासम्। अकस्मात्स मद्धहस्तादकूर्दत। पतनात्तस्य पृष्ठपादौ व्रणितावभवताम्। तस्य चलनमपि मन्दमभवत्। वयञ्चिन्ताग्रस्तोऽभवाम यतः स कुटुम्बसदस्य इव। शुक्रवासरे वयं तं पशुचिकित्सालयमनयाम। तत्र चिकित्सकस्तस्य परीक्षणमकरोत्। सोऽवदत्तस्य व्रणं त्वभवत्परन्तु सुदैवादस्थीनि नाभञ्जन्। तच्छ्रुत्वा वयङ्किञ्चिदपगतचिन्ताभवाम। चिकितस्केनौषधं दत्तम्। सोऽवदत्प्रायो द्वयोः सप्ताहयोः स पूर्ववत्स्यात्। भविष्यत्युत नेति द्रष्टव्यम्। मद्धहस्तात्सोऽकूर्दतेति चिन्तयित्वाहञ्चेखिद्ये। उभयोर्जीवयोरहं बुद्धिमत्तरः। अत आवयोरुभयोः सुरक्षाया दायित्वं ममैव। तस्य दायित्वस्य निर्वहणं मया सम्यक्तया न कृतमित्यस्मादानीं स व्रणितः। पूर्ववद्धावितुं न शक्नोति। स चङ्क्रम्यते। यदि केषुचिद्दिनेषु पूर्ववत्स्वास्थ्यं न लभेत तर्हि महद्विषादमनुभविष्यामि।

सोमवार, 8 अगस्त 2022

साँयकाले चलनयन्त्रे

प्रति साँयकालं भार्यापुत्रौ प्रतिवेशिनिभिः सह समयं व्ययतः। अहं ताभ्यां सह न गच्छामि यतः केवलं महिलास्तासामपत्यानि चोपस्थिताः सन्ति (सामान्यतः)। गताभ्यां द्वाभ्यां दिनाभ्यां तस्मिन्काले चलनयन्त्रे चलन्नस्मि। तस्मादधिकं व्यायामं लभे।

रविवार, 7 अगस्त 2022

इतोऽपि नलिका रुद्धा

वातानुकूलयन्त्रस्य नलिकेऽतोऽपि रुद्धास्ति। अद्य प्रातःकालेऽम्लं पुनरापतयिष्वहि। यदि तेनापि नलिका न स्रवेत्तर्हि स्वपक्षतस्तु किमपि न कर्तुं शक्नुवः।

रविवार, 31 जुलाई 2022

ग्रीष्मकालीनसत्रं समाप्तम्

ग्रीष्मकालीनसत्रं समाप्तम्। वर्गे प्रायः संस्कृतसम्भाषणाभ्यासमकरवाम। छात्राणां सम्भाषणकौशलं वर्धतयिति मन्ये। अगस्तमासस्योत्तरभागे नूतनसत्रमारप्स्यते। तस्मिन्गीतासोपानस्य द्वितीयभागं पाठयिष्यामि।

पादकन्दुकक्रीडा

दूरदर्शने बह्व्यः क्रीडा दर्श्यन्ते। सामान्यतोऽहमुपविश्य ता न पश्यामि। परन्तु तासु क्रीडासु पादकन्दुकक्रीडा दर्श्यमानास्ति चेत्पश्यामि। पादकन्दुकक्रीडायां मम विशेषरुचिर्नास्ति तथाप्यन्याः क्रीडा विहाय किमर्थं तां पश्यामि? पादकन्दुकक्रीडा केवलं नवतिनिमेषपरिमिता क्रीडा। अन्यच्चान्याः क्रीडा इव मध्ये मध्ये बहवो विरामा न वर्तन्ते। मध्यविरामं विहाय क्रीडा नैरन्तर्येण प्रचलति। तस्माद्विज्ञापनान्यपि न दर्श्यन्ते। अतः क्रीडा मनोरञ्जका। तेन कारणेनैव पादकन्दुकक्रीडां द्रष्टुं शक्नोमि।

शनिवार, 30 जुलाई 2022

कर्णस्वास्थ्यम्

मम कर्णस्वास्थ्यं वर्धते। भिषजा कर्णमलनिषकासेन कर्णस्थितिः किञ्चिदुत्कृष्टा जातेति भासते। कर्णमधिकृत्य चिन्ताग्रस्त आसम्। कर्णहानिरभवदिति चिन्तयन्नासम्। परन्तु तादृशन्नास्तीति भावयामि। हृष्यामि।

नलिकायामम्लः

गृहस्थं वातानुकूलयन्त्रं नियततया जलं स्रावयति। एतत्सामान्यं यतो गृहस्थार्द्रता यन्त्रेण निष्कासनीया। सार्द्रतैकया नलिकया निष्कास्यते यन्त्रेण। सा नलिका रुद्धा जाता। तस्मादन्यस्या नलिकाया जलं स्रवति। तन्न सामान्यम्। अपरस्या नलिकाया जलं स्रवति चेत्प्रधाननलिका रुद्धेत्यर्थः। प्रधानलिकानवरोधनेन जलं स्रावयेत्तदर्थं नलिकायामम्लमपातयिष्वहि। नलिका पुनस्स्रूयात्।

शुक्रवार, 29 जुलाई 2022

भार्याया उद्योगः

आ मासाद्भार्या तस्या नूतनोद्योगङ्गच्छन्त्यस्ति। एतावत्पर्यन्तङ्कार्यं सरलन्न्यूनञ्च। वेतनमपि पूर्वापेक्षयाधिकम्। नूतनोद्योगस्तस्यै रोचते। अहमपि तस्यै हृष्यामि।

गुरुवार, 28 जुलाई 2022

भिषजमगमम्

मध्याह्ने पुत्रं भार्यायाः कार्यालयं प्रापय्य कर्णपरीक्षार्थमद्य भिषजमगमम्। भिषक्कर्णाभ्याङ्कर्णमलं बहिषकार्षीत्। तदनन्तरं स कर्णेऽद्राक्षीत्। सोऽवादीत्सर्वं सम्यग्भासतयिति। यदाहं तङ्कर्णवेदनाविषयेऽसुसूचं तर्हि सोऽवादीच्चिन्ताया विषयो नास्तीति। एतच्छ्रुत्वाहमर्षिषम्। सप्ताहानन्तरमद्य साँयकाले पुनर्गिटारवादनमारप्सि। तथाप्यवधानेन गिटारयन्त्रं वादयिष्यामि। श्रवणशक्तिः संरक्षणीया।

सोमवार, 25 जुलाई 2022

रविवार, 24 जुलाई 2022

एडेक्-द्वीपः

दूरदर्शने वृत्तान्त एको दृष्टः। अलास्काराज्ये 'एडेक्' इति कश्चन द्वीपः। नवदशशताब्द्या अन्ते कश्चित्समुद्रीयचोरस्तस्मिन्द्वीपे स्वर्णनाणकानां बृहद्राशिर्गोपायाञ्चकार। सम्प्रति केचनजनास्तस्यान्वेषणङ्कुर्वन्ति। बृहत्कार्यम्। बहुभ्यो मासेभ्यः परस्तात् तैस्द्वे स्वर्णनाणके लब्धे। तदनन्तरं शैत्यमागतम्। तस्माद्भूमिर्हिमीभूता। तयागामिनि ग्रीष्मकाले पुनरन्वेषणङ्कुर्युः।

शनिवार, 23 जुलाई 2022

सिस्टीञ्चेपलः

अद्यत्वेऽस्माकन्नगरे वेटिकन्नगरस्य सिस्टीञ्चेपलस्य चित्राणां प्रतिकृतयो दर्शयमानाः सन्ति। भार्याया विशेषरुचिरस्ति यतः सा पूर्वकाले चित्रकला पपाठ। अद्य वयं तत्रागमाम। सम्यगासीत्परन्तु चिटिकामूल्यङ्किञ्चिदधिकमासीत्। ततः परं पुत्रो भोजनालयेऽजिघत्सीत्। आहत्य विंशत्यधिकशताधिकरुप्यकाण्यव्ययिष्म।

गुरुवार, 21 जुलाई 2022

कर्णवेदना

केभ्यश्चिद्दिनेभ्यः पूर्वमाकस्मिकतया ध्वनिविस्तरयन्त्रादुच्चध्वनिर्वामकर्णे प्रविष्टः। तदारभ्य कर्णः पीड्यमानोऽस्ति। यदा गिटाराभ्यासङ्करोमि तदा पीडा वर्धते। न करोमि चेत्पीडा न्यूना भवति। सुदैवाद्वामकर्णस्य श्रवणशक्तिः पूर्ववदनुभूयते। प्रायश्चिकित्सकङ्गच्छेयम्।

बुधवार, 20 जुलाई 2022

प्रतिवेशिन आगच्छन्

ग्रीष्मावकाशे बहवः प्रतिवेशिनः प्रवासाय गतवन्तः। अधुना बहवः प्रत्यागतवन्तः। अतो भार्यापुत्रौ प्रतिसाँयकालं बहिर्गच्छेताम्। तस्मात्साँयकाले मह्यमधिकः समयो भवेत्। ताभ्यां सहोपविश्य दूरदर्शनन्न द्रष्टव्यम्।

मेलनेषु समयो नश्यते

कार्यालये बहूनि मेलनानि भवन्ति। प्रायोऽर्धदिनं तु मेलनेष्वेव नश्यते। अद्य केवलं सार्धैकघण्टा यावदेव मेलनान्यभूवन्। अतः कार्याय पर्याप्तसमयो लब्धः। तस्माद्बहुकार्यङ्कर्तुमशकम्। यदि सर्वाणि दिनान्येवं भवेयुस्तर्हि कियत्कार्यङ्कर्तुं शक्येतेति चिन्तयामि।

निश्शुल्कपत्रम्

पुत्रो विद्यालयात्कस्यचिद्भोजनालयस्य निश्शुल्कभोजनपत्रमलभत। मातृपितृभ्यां तु धनं देयमेव। अद्य वयं तद्भोजनालयमगमाम। बुधवासरे तेन भोजनलायेन बालकेभ्योऽर्धशुल्कमेव प्रदायैव भोजनं दीयते। भोजनालयेन निश्शुल्कपत्रन्न स्वीकृतम्। अतः पूर्णधनं दत्त्वा भोजनमकृष्महि।

मंगलवार, 19 जुलाई 2022

गृहमूल्यानि

आ बहुभ्यो वर्षेभ्यो मदीये नगरे गृहमूल्यानि वर्धमाना आसन्। अद्यत्वे ऋणमूल्यवर्धनवशाद्गृहमूल्येषु किञ्चित्स्थैर्यमागतम्।

सोमवार, 18 जुलाई 2022

सप्ताहान्तो दीर्घतरो भवतु

केवलं द्विदिनात्मकः सप्ताहान्तः पर्याप्तो न भासते स्म। सप्ताहान्ते गृहस्य बहूनि कार्याणि वर्तन्ते विशेषतः क्षालनसम्बन्धितानि। त्रिदिनात्मकः सप्ताहान्तो भवेच्चेदुत्तमो भवेत्। स्यान्नामाग्रिमेषु वर्षेष्वहं सप्ताहे केवलञ्चत्वारि दिनानि यावत्कार्यङ्कुर्याम्। तस्माद्वेतनहानिस्तु निश्चयेन भविता परन्तु समयलाभोऽपि भविता।

शुक्रवार, 15 जुलाई 2022

अभिमुखमेलनानि?

केन्द्रसञ्चालकेन पृष्टं यदि शरदर्तावभिमुखसंस्कृतवर्गांश्चिकीर्षामः। मह्यमन्तर्जालेन पाठनं रोचते। तस्य बहवो लाभाः। गमनयागमने समयशिलातैले न व्ययितव्ये। कानि पुस्तकानि नेतव्यानीति नावधातव्यम्। गृहात्पाठ्येत चेत्सर्वाणि पुस्तकानि लभ्यन्ते न केवलं यानि नीतानि। द्वाभ्यां वर्षाभ्यां पूर्वं यत्र पाठयामि स्म तत्र प्रकोष्ठोऽतिलघुरासीत्। भग्ना आसन्दाः कलङ्कितश्वेतफलकञ्च पाठनं बाधेते स्म। कदाचित्प्रकोष्ठेऽत्यूष्णं शैत्यं वा बाधते स्म। गृहे सर्वं मदानुकूल्येन कर्तुं शक्यते। अभिमुखमेलनस्यापि केचन लाभास्सन्ति। जनैस्सह मेलनम्। बहिर्गमनम्। निकटस्थङ्काफ्यापणङ्गनमम्। अहमुभे कर्तुं शक्नोमि।

मंगलवार, 12 जुलाई 2022

प्रस्तुतिः

गते सप्ताहे कार्यालयेऽहं बृहज्जनगणस्य समक्षमेकां प्रस्तुतिमकरवम्। प्रस्तुतिरुत्तमरीत्याभवत्।

साहायकः

कार्यालये नूतनदलसदस्येन कार्यं शिक्षितव्यम्। तदर्थं स सप्ताहं यावन्मया सह कार्यङ्करिष्यति। तस्मान्मम कार्यङ्किञ्चिन्न्यूनं भविष्यतीति मन्ये।

शुक्रवार, 8 जुलाई 2022

अवकाशार्जनवृद्धिः

आ षड्भ्यो वर्षेभ्यः साम्प्रतिकसंस्थायै कार्यङ्कुर्वन्नस्मि। एतावत्पर्यन्तं प्रतिमासं दशघण्टामितावकाशोऽर्जयितुमशक्यत। षड्वर्षेभ्यः परं प्रतिमासं त्रयोदशघण्टामितावकाशोऽर्जयितुं शक्यते। अत इदानीमधिकावकाशङ्ग्रहीतुं शक्ष्यामि।

बुधवार, 6 जुलाई 2022

कार्यालययेकाकिनी

अस्मिन्सप्ताहे भार्यायाः कार्यालये तदृते कोऽप्न्यो नास्ति। आ दिनं सैकाकिनी कार्यङ्करोति।

रविवार, 3 जुलाई 2022

पर्यवेक्षकोऽवकाशे

आगामिनि सप्ताहे कार्यालये मम पर्यवेक्षकोऽवकाशे वर्तस्यते। तेन न्यूनानि मेलनानि भवेयुरिति चिन्तयामि। तदुत्तमम्। तस्मात्कार्यायाधिकसमयो भवतु। सामान्यतः पर्यवेक्षके गतेऽहङ्किञ्चिन्न्यूनङ्कार्यङ्करोमि परन्तु सम्प्रति बहुकार्यमस्ति। अत आगामिनि सप्ताहो व्यस्तो भविष्यतीति मन्ये।

पुत्रो मातामहीङ्गतः

शुक्रवासरे पुत्रसतस्य मातामह्या सह तस्या गृहेऽगच्छत्। सोमवासरयागन्ता। ह्योऽहं भार्या च साँयकाले भोजनार्थमगच्छाव। आपणसमूहेऽभ्रमाव।

शनिवार, 2 जुलाई 2022

तिथिर्गता

ह्यः पर्यन्तङ्कार्यालये किञ्चित्कार्यं मया कर्तव्यमासीत्। यावन्मम नियन्त्रणयासीत्तावत्कृतम्। परन्तु कार्यमन्येषु दलेष्वप्यवलम्बितमासीत्। तत्कार्यन्न पूर्णञ्जातम्। अतः कार्यं ह्यः समापयितुन्नाशक्नवम्। अग्रिमे सप्ताहेऽनुवर्तिष्ये।

शुक्रवार, 1 जुलाई 2022

पत्रिकाग्राहकताशुल्कं वर्धते

आ पञ्चभ्यो वर्षेभ्यः सम्भाषणसन्देश इति संस्कृतपत्रिकां पठामि। आरम्भे पत्रिकाया वार्षिकग्राहकतामूल्यं पञ्चत्रिंशद्रुप्यकाण्यासीत्। तदनन्तरं शुल्कं त्रिंशद्रुप्यकाणि पर्यन्तं ह्रसितम्। इदानीं शुल्कं चत्वारिंशद्रुप्यकाणि यावद्वर्धते।

मंगलवार, 28 जून 2022

विलम्बेनागमत्

अद्य भार्या कार्यालयाद्विलम्बेनागमत्। तस्याः परिवेक्षको विमानेनान्यस्मान्नगरादागमत्। यावत्स कार्यालयं प्राप्नोत्तावत्साँयकाले पञ्चवादनञ्जातम्। तेन सह मिलित्वा सा सार्धपञ्चवादने गृहमागच्छत्।

नूतनोद्योगे भार्यायाः प्रथमदिनम्

ह्यो भार्याया नूतनोद्योगे प्रथमदिनमासीत्। सा तस्याः सङ्गणकं प्राप्नोत्। भिन्नैर्जनैः सह मेलनान्यभवन्।

पदोन्नतिवार्ता प्रसृता

ह्यो विभागस्य मेलने ये जनाः पदोन्नतिमलभन्त तेषाञ्चित्राणि दर्शितानि। तेषु चित्रेषु मम चित्रोऽप्यासीत्। तद्दृष्ट्वा मद्दलीया जना मम पदोन्नतेर्विषयेऽजानन्। ते वर्धापनान्यददुः।

रविवार, 26 जून 2022

श्वो नूतनोद्योगः

सप्तवर्षेभ्यः परस्ताद्भार्या श्वो नूतनोद्योगमारप्स्यते। नूतनोद्योगात्साङ्केक्षिकाया नूतनकौशलं लभेतेत्याशा।

मल्लयुद्धमपश्याव

शुक्रवासरेऽहं पुत्रश्च मल्लयुद्धदर्शनायागच्छाव। आ द्वाभ्यां वर्षाभ्यां वयं प्रतिशुक्रवासरं साँयकाले दूरदर्शने मल्लयुद्धं पश्यामः। पुत्राय रोचतेतमाम्। अस्मिन्सप्ताहे तद्युद्धमस्माकं नगरयायोजितम्। चिटिके क्रीत्वावामगच्छाव। मम भार्याया रुचिर्नासीत्। सा नागच्छत्। सर्वमुत्तमरीत्याभवत्। परन्तु यानस्थगनस्थलस्य शुल्कञ्चत्वारिंशद्रुप्यकाण्यासीत्। तद्दृष्ट्वाश्चर्यमन्वभवम्। जीवने कदापि यानस्थगनस्थलायैतावन्ति रुप्यकाणि नाददाम्। पुत्रस्येच्छा पूर्णा जातेति महान्सन्तोषः।

मंगलवार, 21 जून 2022

आशाभङ्गः

आ द्वाभ्यां सप्ताहाभ्याङ्गिटारयन्त्रवादनमुद्रणाय प्रयत्नङ्कुर्वन्नस्मि। तदर्थं यानि यन्त्राण्यवश्यकानि तानि क्रीतानि। मुद्रणकर्तुं शक्नोमि परन्तु ध्वनेर्गुणवत्ता हीनाः। सर्वं परीक्षितम्। अन्तर्जाले बहूँल्लेखानपठं परन्तु ध्वनिगुणवत्ता न वर्धते। तस्मादाशाभङ्गमनुभवामि। कोऽपि परिचितो भवेद्य एतस्य विषये जानीयात्तर्हि तं प्रष्टुं शक्नुयां परन्तु मम मित्रेषु कस्याप्यस्मिन्विषये ज्ञानं नास्ति।

शुक्रवार, 17 जून 2022

पदोन्नतिः प्राप्ता

अद्य मदीयः प्रबन्धको मामसुसूचन्मह्यं पदोन्नतिर्दीयते। तया सह वेतनवृद्धिरपि करिष्यते।

गुरुवार, 16 जून 2022

ध्वनिविस्तारके प्रतिगमयिष्यामि

वाद्ययन्त्रमुद्रणाय ध्वनिविस्तारके अक्रीणाम्। अन्तर्जाले तयोर्विवेचनं सम्यगासीत्। परन्तु ते श्रुत्वा न समतुष्यम्। अद्य ते प्रतिगमयिष्यामि। विक्रेतृणा सम्पूर्णमूल्यं प्रतिदास्यतयित्यपेक्षे।

मंगलवार, 14 जून 2022

संस्कृतवर्ग आरभत

गते रविवासरे संस्कृतवर्ग आरभत। छात्रा उत्साहेन भागमवहन्।

काष्ठवृतिः

पृष्ठोद्याने बहिर्मुखी काष्ठवृतिर्जीर्णा जाता। सा वृतिः पञ्चादशवर्षपुरातनी। तस्याः काचन काष्ठपट्टिका भञ्जत्यः पतन्त्यश्च। तस्माद्गृहस्वामिसङ्गठनं पुनः पुनः पत्रं प्रेषयित्वा धनदण्डेन भर्त्सयते। गते सप्ताहे द्वादशाधिकपञ्चाशदधिकद्विसहस्ररुप्यकाणि व्ययित्वा सा वृतिर्नवीकारिता। अनेन सङ्गठनं प्रसादयिष्यतयिति मन्ये।

भार्या नूतनोद्योगमलभत

भार्या नूतनोद्योगमलभत। ह्यः सा साम्प्रतिकोद्योगमत्यजत्। इतोऽपि द्वाभ्यां सप्ताहाभ्यां पूर्वतनोद्योगङ्कर्तव्यम्। मासान्ते सा नूतनोद्योगमारप्स्यते।

शनिवार, 4 जून 2022

चलन्यन्त्रं विरंरम्यते

द्वाभ्यां वर्षाभ्यां पूर्वञ्चलनयन्त्रमक्रीणीव। सम्प्रति तच्चलनयन्त्रं सम्यकतया कार्यन्न करोति। चलति विरंरम्यते। तस्माद्धावकस्य समतोलनं भनक्ति। धावकपतनं सम्भवेत्। केवलं द्वयोर्वर्षयोश्चलनयन्त्रे दोश आगत इति विप्रलम्भः। अन्तर्जालेऽन्विष्य प्राय उद्धारः कर्तुं शक्येत। अन्यथा यन्त्रं व्यर्थञ्जातम्। तेन सह तस्य मूल्यमपि।

गुरुवार, 2 जून 2022

'जन्गल्'

ह्य 'जन्गल्' इति नाम्ना चलच्चित्रमपश्यम्। सत्यकथामाधारीकृत्य चलच्चित्रमिदं रचितम्। बोलिव्यादेशस्थे निबिडवने त्रीणि मित्राणि मार्गभ्रष्टा बभूवुः। ते केनचिदपरिचितेन सह जग्मुः। ते कथं निबिडवने जिजीवुरिति दर्शितम्। तैरमूर्खत्वं दर्शितमिति मन्ये। विदेशेऽज्ञातनिबिडवने परजनेन सह गमनमपायजनकम्। चतुर्षु जनेषु द्वौ जनौ पुनर्नगरं लेभाते। अन्याभ्यां द्वाभ्याङ्कापि वार्ता न श्रुता। कदाप्यपरिचितेन सह निर्जनस्थानन्न गन्तव्यम्।

भार्याया उद्योगसन्दर्शनम्

इदानीं भार्याया उद्योगसन्दर्शनं प्रचलति। एतस्मायुद्योगाय सोत्साहिता। साम्प्रतिकोद्योगस्यापेक्षयानेनोद्योगेन द्विगुणितं वेतनं दास्यते। सोद्योगं लप्सीष्ट!

सोमवार, 30 मई 2022

कार्यङ्कर्तव्यम्

त्रयाणां दिनानामनन्तरं श्वः कार्यालयस्य कार्यङ्कर्तव्यम्।

ग्रीष्मकालीनवर्गः

छात्रा अयाचन्त ग्रीष्मकाले वर्गो भवेदिति। गतेषु षञ्चमासेषु संस्कृतवर्गन्नापाठयम्। तस्मात्संस्कृतश्रवणभाषणावसरो नालभ्यत। तस्माद्दुखमनुभवामि। अतो ग्रीष्मवर्गः कर्तव्य इति चिन्तयामि। ममेच्छास्ति छात्रा सम्भाषणाभ्यासङ्कुर्युरिति। परन्तु न्यूनातिन्यूनं द्वौ छात्रौ व्याकरणं पिपठिषतः। व्याकरणं तु मह्यमपि रोचते। अतः पाठने न कोऽपि क्लेशः।

पुत्राय तन्त्रांशः

अद्य पुत्रं तन्त्रांशमपाठिषम्। पैथनिति भाषां तं पाठयामि। अद्यत्वे तन्त्रांशलेखनमत्युपयोगि कौशलमस्ति। ये तन्त्रांशं लेखितुं शक्नुवन्ति ते बहून्नुद्योगान्लब्धुं शक्नुयुः। अपि च तन्त्रांशलेखने मस्तिष्कस्य व्यायामं भवति। पुत्रस्य तन्त्रांशे रुचिर्वर्धेतेतीच्छामि। परन्तु कस्मिंश्चिदपि कार्ये यदि श्रम आवश्यकस्तर्हि तत्कार्यं तस्मै न रोचते। स प्यानोवादनमत्यजत्। तरणाभ्यासायापि स कठिनतयैव गम्येत। यावद्यावत्स वर्धते तस्यैतादृशो व्यवहार गच्छेदितीच्छामि।

नूतनसङ्गणकम्

कारयानस्य तैलपरिवर्तनङ्कारयन्नस्मि। नूतनसङ्गणके लेखमेतं लिखामि। पूर्वतनसङ्गणकस्य भार एतस्यापेक्षया द्विगुणादप्यधिकोऽस्ति। अपि च तस्य विद्युतकोशः केवलं पञ्चचत्वारिंशन्निमेषान्यावदेव कार्यङ्करोति। अतः पूर्वङ्कदापि तत्सङ्गणकन्नानयामि स्म। एतस्य सङ्गणकस्य विद्युतकोशः पञ्चघण्टाभ्योऽप्यधिकङ्कार्यङ्करोति। नूतनसङ्गणकं मह्यं रोचते। सामान्यतस्तस्य मूल्यं सहस्ररुप्यकाण्यस्ति। परन्तु कोस्ट्कोतः केवलं पञ्चाशदधिकसप्तशतरुप्यकाणि दत्त्वा लब्धम्। उत्तमं मूल्यं प्राप्याचिन्तयं सदृशमन्यत्सङ्गणकङ्क्रेतव्यमिति। परन्तु पुरातनसङ्गणकमिदानीमपि सम्यक्कार्यङ्करोति। यति सङ्गणकानि सन्ति तावति मात्रायां तेषां संरक्षणाय समयो दातव्यः। अतो न क्रीतम्।

पुत्रस्य ग्रीष्मविरामः

पुत्रस्य सार्धद्विमासात्मको ग्रीष्मविराम आरभत। गतेषु विरामेषु स किञ्चिदध्ययनङ्करोति स्म। सम्प्रति स केवलं तस्य मित्रैः सह क्रीडनमथवा चलच्चित्रक्रीडाः चिक्रीडिषति। तं सङ्गणकतन्त्रांशं पाठयितुं प्रयतिष्ये।

रविवार, 29 मई 2022

नूतनसङ्गणकाय नूतनवृत्तकम्

नूतनसङ्गणकाय नूतनवृत्तकङ्क्रीतम्। तत्स्थापनाय सङ्गणकस्य वर्तनीश्चालयन्नासं परन्त्वेका वर्तनी भग्ना जाता। तस्मात्सङ्गणके वृत्तकं स्थापनयियान्क्लेश आगतो येन वृत्तकं स्थापयितुन्नाशक्यत। वृत्तकं प्रतिप्रेषयितुं सज्ज आसम्। परन्तु मनसि विचार आगतः। एतद्वृत्तकं प्रतिलेखनायोपयोक्तुं शक्नुयाम्। अतो न प्रतिप्रेषयिष्यामि। प्रतिलेखनायैकमन्यदुपकरणमावश्यकम्। तदुपकरणमद्यागमिष्यति। तदनन्तरं प्रतिलेखितुं शक्नुयाम्।

शनिवार, 28 मई 2022

नूतनसङ्गणके लैनक्सः

षण्मासेभ्यः पूर्वं सङ्गणकङ्क्रीतमासीत्। सङ्गणके विन्डोसः स्थापितमासीत्। मह्यं लैनक्सः रोचतेतमाम्। नूतनसङ्गणके बहुभ्यो मासेभ्यो विन्डोस एव प्रयुक्तं यतो भार्या विद्यालयमजिगमिषत्। विद्यालयस्य कार्यस्य कृते विन्डोस आवश्यकमासीत्। परन्तु विद्यालयगमनस्य योजना स्थगिता। अद्य मया लैनक्सः स्थापितम्। पूर्वतनसङ्गणकं दशवर्षपुरातनमासीत्। नूतनसङ्गणकं प्रयुज्य हर्षितोऽस्मि।

शुक्रवार, 27 मई 2022

अनानुभवीनां बाहुल्यम्

कार्यालये सद्यकालेऽनानुभविकार्यकर्तॄणां प्राचुर्यं वर्धते। संस्थाया योजना तादृश्येव। अनुभविकार्यकर्तारोऽधिकवेतनमपेक्षन्ते, दिने केवलमष्टघण्टा यावत्कार्यङ्कुर्वन्ति। अनानुभविनो न्यूनवेतने कार्यङ्कुर्वन्ति। तेषाङ्कौटम्बिकदायित्वमपि नास्ति। तस्मात्ते रात्रिदिवं संस्थायै कार्यङ्कुर्वन्ति। तेषु पदोन्नतीच्छापि तीव्रास्ति। तस्मादपि तेऽधिककार्यङ्कुर्वन्ति। एवं सति संस्था किमर्थं तेभ्य उद्योगं न दद्यात्?

सोमवार, 16 मई 2022

चन्द्रग्रहणम्-२

अद्य कार्यालये पर्यवेक्षकेण सह सम्भाषमाणेऽहं तमसूचयं ह्या रात्रौ पुत्रेण सह चन्द्रग्रहणमपश्यमिति। झटिति तस्मिन् विशादो दृष्टः यतस्तस्य षड्वर्षीयः पुत्रोऽस्ति। मम पर्यवेक्षकोऽवदातीत्तेन न ज्ञातं चन्द्रग्रहणविषयेऽन्यथा स निश्चयेन तस्य पुत्रञ्चन्द्रग्रहणमदर्शयिष्यत्। नवम्बरमासे पुनश्चन्द्रग्रहणं भवितेत्हयं तमसूचयम्। तस्मिन्काले स तस्य पुत्रञ्चन्द्रग्रहणं दर्शयितुं शक्ष्यति।

रविवार, 15 मई 2022

चन्द्रग्रहणम्

अद्य रात्रौ चन्द्रग्रहणं भविष्यति। पुत्रेण कदापि चन्द्रग्रहणन्न दृष्टम्। तेन सह पश्यामि। दूरवीक्षणयन्त्रमपि प्रयोक्तुं प्रयतिष्यावहे।

पुत्रेण सह चलच्चित्रम्

गते सप्ताहे भार्या तस्या मित्रैः सह गृहेऽमिलत्। केवलं महिलानां मेलनमासीदित्यतोऽहं पुत्रेण सह चलच्चित्रं दर्शनायागच्छम्। 'बेड्-गायज्' इति चलच्चित्रं दर्शनाय तस्येच्छासीत्। चलच्चित्रं दृष्ट्वा पयोहिममखादाव।

सोमवार, 9 मई 2022

आदिनङ्कार्यङ्करिष्यति

एतावत्पर्यन्तं भार्यार्धदिनं यावदेव कार्यङ्करोति स्म। तया तस्याः संस्थायां भिन्नविभागयुद्योगः प्राप्तः। तत्रादिनङ्कार्यङ्कर्तव्यम्। अतः सा प्रातःकाले गत्वा साँयकालयेवागच्छेत्। एतावत्पर्यन्तमहं पुत्रं विद्यालयं प्रापयामि स्म भार्या मध्याह्ने पुत्रं विद्यालयादानयति स्म। इदानीं विप्रीतं भविष्यति। सा प्रातःकाले तं विद्यालयं नेष्यत्यहं मध्याह्ने तमानेष्यामि। नूतनदिनचर्या कथं भवेदिति द्रक्ष्यामः।

शनिवार, 30 अप्रैल 2022

कोटिशः पर्णानि

गृहोद्याने वृक्षा वर्तन्ते। शरदृतौ तेभ्यः पर्णानि पतन्ति - कोटिशः। यदि तानि पर्णानि न सङ्गृह्यन्ते तर्हि तृणं तैराव्रियते। अस्मात्तृणं सूर्यप्रकाशञ्जलञ्च न प्राप्नोति येन म्रियते। अतः पर्णसङ्ग्रहणमावश्यकम्। तत्सङ्ग्रहणङ्घोरश्रमोऽपेक्षते। आ त्रिभ्यो दिनेभ्यः प्रतिदिनङ्कानिचन पर्णानि सङ्गृह्णामि। इतोऽपि कोटिशः पर्णान्यवशिष्टानि। शनैःशनैः करिष्यामि।

मंगलवार, 26 अप्रैल 2022

जलस्रवणं समीकारितम्

रसवत्यां पात्रक्षालनकुण्डस्योऽधः स्रवज्जलं समीकृतम्। ह्यो भार्यापश्यद्यत्कुण्डेऽवकरपेषणयन्त्राज्जलं स्रवदस्ति। अद्य नलकारमाहूय नूतनावकरपेषणयन्त्रं स्थापितम्। पञ्चपञ्चाशदधिकद्विशतं रुप्यकाणि दत्त्वा सममस्या गतेति भासते।

रविवार, 24 अप्रैल 2022

जलं स्रवति

रसवत्याङ्क्षालकुण्डस्योऽधो जलं स्रवदस्ति। तत्रताभ्यो नलिकाभ्यो जलं स्रवतीति चिन्तयामः। परन्तु यदि पश्यामस्तर्हि स्रवज्जलङ्कुतश्चिन्न दृश्यते। रहस्यमस्ति। आगामिषु दिनेषु सूक्ष्मतयावलोकनीयम्।

भार्यापुत्रावगच्छताम्

ह्यो यदाहं संस्कृतसम्मेलनेषु भागं वहन्नासं तदा भार्यापुत्रौ भार्याया मित्रं मेलितुमगच्छताम्। तौ पञ्चघण्टा यावद्गतौ। मेलनान्यपि पञ्चघण्टा यावदासन्। उभे स्वादुभोजनञ्जग्ध्वामोदावहि। तन्मित्रमस्मभ्यं खाद्यानि पानीयानि चागमयत्। तस्य मित्रस्य हृदयो विशालः। सा सर्वदावयोः पुत्रस्य कृते किमपि प्रेषयति।

शनिवार, 23 अप्रैल 2022

सम्पत्तिकरः

सपम्पत्तिकरपत्रमागतम्। प्रतिवर्षं सम्पत्तिकरो दशप्रतिशतं वर्धते। वास्तुपरिहारवशाद् ('होम्स्टेड्-एग्सेम्पशन्') करः केवलं दशप्रतिशतं विर्धितः। अन्यथा पञ्चविंशतिप्रतिशतं वर्धितुं शक्नोति।

संस्कृतमेलनानि

सप्ताहान्तेऽस्मिन्बहवः संस्कृतमेलनानि वर्तन्ते। उभयोर्दिनयोश्चतस्रॄन्घण्टा यावन्मेलनानि सन्ति। आ वर्षारम्भादहं संस्कृतपाठनादवकाशं स्वीकुर्वन्नस्मि। मेलनानि न गच्छेमिति प्रथमतोऽचिन्तयम्। परन्तु संस्कृतश्रवणं वदनञ्च मामाकृष्टवन्ती। अनाभ्यासेन भाषाकौशलन्नापगच्छेदिति मम चिन्तासीत्। अतो मेलनेषु गन्तव्यमिति निश्चितं मया। इदानीमेवाद्यतनानि मेलनानि समाप्तानि। बहुभ्यो मासेभ्यः परं संस्कृतमुक्तवा श्रुत्वा च मोदे।

रविवार, 17 अप्रैल 2022

सोलरिस् (चलचित्रम्)

अद्य सोलरसिति चलचित्रमद्राक्षम्। पुस्तकं पठित्वा चलचित्रं दर्शनायेच्छा जागरुका। प्रायः विंशतिवर्षेभ्यः पूर्वञ्चलचित्रं द्रष्टमासीत्। तस्मिन्काले चलचित्रं मह्यन्नारोचतेति स्मरामि। परन्तु विंशतिवर्षेभ्यः पूर्वहं युवक आसम्। तस्मात्कालादहं बहूननुभवानलभे। सम्प्रत्यपि चलिचित्रन्न रूच्येतेति वक्तुं न शक्येत। चलचित्रं दृष्ट्वा सन्तुष्टोऽस्मि। चलचित्रं मह्यमरोचत। चलचित्रं पुस्तकात्किञ्चिद्भिन्नं परन्तु तत्तु किञ्चिदावश्यकमेवान्यथा जनाश्चलचित्रन्न पश्येयुः।

सोलरिस् (पुस्तकम्)

स्टेनिस्ला-लेम्महाशयः सोलरिसिति पुस्तकं १९६१ वर्षे लिलेख। पुस्तकमहं २०११ वर्षेऽक्रीणाम्। तस्मिन्वर्षेऽपठमपि। परन्तु दशवर्षेभ्यः परं पुस्तकात्किमपि न स्मृतम्। आकस्मिकतया पुनःपठनेच्छा जागरुका। गृहे प्रकोष्ठ एकः पुस्तकालयरुपेण वर्तते। पुस्तकालयेऽस्मिन्बृहदन्वेषणङ्कृतं मया। परन्तु पुस्तकं न लब्धम्। नितरां निराशामन्वभवम्। मया ज्ञातमासीदहं पुस्तकं निश्चयेन क्रीतवान्कस्मैचिन्न दत्तवानपि। तर्हि पुस्तकङ्कुत्रागच्छत्? निराशतया पुस्तकालययासन्दयुपविशन्नासम्। तदा मम दृष्टिर्दूरदर्शनस्योऽधः सान्द्रमुद्रिकाराशौ पतिता। तासु सान्द्रमुद्रिकासु सोलरिस्पुस्तकं स्थितमासीत्। पुस्तकं लब्ध्वा हर्षितोऽभवम्। गते सप्ताहे पुस्तकमपठम्। सामान्य विज्ञानकल्पना न वर्तते पुस्तके। अन्येनासमानजीवेन सह कथं सम्पर्कं स्थापयितुम् (वा न) शक्यतयिति पुस्तकस्य विषयः। पुस्तकं मह्यमरोचत।

शनिवार, 16 अप्रैल 2022

उद्योगः प्राप्तो गमितश्च

गते मासेऽहमस्मिञ्जालस्थाने लेखान्नालिखम्। तस्य कारणमुद्योगसन्दर्शनम्। त्रिवर्षेभ्यः पूर्वङ्काफ्यापणे कञ्चन सज्जनममिलम्। मासात्पूर्वं स सज्जनो मां तस्य संस्थायामुद्योगायाहूतवान्। सुवर्णावकाशो भासते स्म यतः कार्यमतिरुचिकरमासीत्। वेतनमपि सम्यग्भासते स्म। आ मासात्तस्याः संस्थायाः सन्दर्शनकार्यमकरवम्। संस्थयोद्योगो दत्तः। मया गृहीतश्च। यद्यपि कागदे वेतनं सम्यग्दृश्यते स्म वास्तविकतया वेतनमधिकन्नासीत्। वेतनस्य केवलं पञ्चाशत्प्रतिशतं भाग एव सुनिश्चित आसीत्। अन्यत्पञ्चाशद्भागं संस्था स्वच्छन्दतया दद्यात्। तन्मयि चिन्तामजनयत्। तथापि कार्यमुत्तममासीदित्यतो मयोद्योगः स्वीकृतः। गते सोमवासरे मदीयां साम्प्रतिकां संस्थां सूचनार्थमहं सज्जोऽभवम्। परन्तु तस्मिन्दिनयेव साम्प्रतिकसंस्थया वेतनवृद्धिः कृता। वेतनवृद्धेः पूर्वमपि नूतनोद्योगस्य वेतनं मय्युत्साहन्न जनयन्नासीत्। वेतनवृद्धिं लब्ध्वा तु नूतनोद्यगोस्य वेतनमन्यूनायत। अतो नूतनसंस्थामसूचयमहमुद्योगन्न स्वीकरिष्यामीति। मासं यावत्कृतङ्कार्यं व्यर्थञ्जातम्। अद्यत्वे स्थितिरीदृश्येव। यद्यपि बहव उद्योगावकाशा वर्तन्ते तथापि कञ्चनोद्योगं प्रापणाय महत्समयश्श्रमश्चावश्यकौ।

शुक्रवार, 15 अप्रैल 2022

जलोद्यानमगच्छाम

ह्यो निकटस्थञ्जलोद्यानमगच्छाम। रात्रौ तत्रैवावसाम। पुत्रः प्रहृष्टः। तेन बह्व्यो जलक्रीडाः कृताः। निकटवर्तिनं स्थानङ्गच्छेम चेद्गमनागमने समयो न व्यर्थीभवति। स्थलोऽयङ्केवलं दशमैलदूरयासीत्। अतोऽर्धघण्टायामेव तत्स्थलं प्राप्तवन्तो वयम्। प्रायस्तत्र रात्रिवासो नावश्यक आसीत्परन्तु रात्रिवास भार्यापुत्राभ्यामरोचतेत्यतः कृतः।

सोमवार, 21 मार्च 2022

सङ्ग्रहालयः

ह्यो निकटनगरस्थं सङ्ग्रहालयमगच्छन्। तत्र बहूनि प्राचानवस्तूनि प्रदर्शितान्यासन्। पुत्रस्तानि दृष्ट्वा मुदितः। प्रत्यागमनकाले वीथ्यां वाहनसम्मर्द आसीत्। तस्माद्यस्यै यात्रायै सार्धैकघण्टा सामान्यतोऽपेक्ष्यते तस्यै सपादद्विघण्टा यापिताः। तथापि सार्धपञ्चवादने गृहमागच्छाम। उचितकालयागच्छामित्यतः साँयकाले विश्रामङ्कर्तुमशक्नुम।

शनिवार, 19 मार्च 2022

वसन्तविरामः

वसन्तविरामः। पुत्रस्तस्य मातामह्या गृहङ्गतः। श्व आवां तमानेष्यावः। प्रातःकाले  पुत्रं लब्ध्वा सङ्ग्राहलयङ्गमिष्यामः। तदनन्तरं प्रत्यागमिष्यामः।

सन्दर्शनोऽभवत्

ह्य एकः सन्दर्शनोऽभवत्। सन्दर्शनिऽयं भिन्नरीत्या प्राचलत्। सामान्यत एक्समायुद्योगाय प्रायः पञ्चषट्सन्दर्शनानि कर्तव्यानि। परन्त्वेतया संस्थया गृहकार्यं दत्तम्। एकस्मिन् सप्ताहे कार्यङ्कृत्वा तदाधारीकृत्य घण्टात्मकं प्रदर्शनं विवेचनञ्च करणीयमासीत्। एतस्यै रीत्यै मय्यादरो वर्तते। करणीयङ्कार्यमपि सार्थकमासीत्। परन्त्वपरिचितकार्यङ्करणाय बृहत्समय आवश्यकः। आहत्याहं प्रायस्त्रिंशद्घण्टा अयापयम्। आगामिनि सप्ताहे ज्ञास्यते यद्युद्योगो दीयते वा न।

रविवार, 6 मार्च 2022

भिन्नरीत्योद्योगसन्दर्शनम्

गते सप्ताहेऽमुकेन महाशयेन सह समभाषे। स तस्य संस्थायै मम सन्दर्शनङ्कारयितुमिच्छति। स सन्दर्शनं भिन्नरीत्या करोति। गृहकार्यं ददाति। एकस्मिन्सप्ताहे यावच्छक्यङ्कार्यङ्कर्तव्यम्। प्रश्नं दृष्ट्वा मया ज्ञातं यन्मया प्रश्वनविषये किमपि न ज्ञायते। तस्मात्प्रश्नस्य परिहारकरणाय बृहच्छ्रमो कर्तव्यः। सर्वप्रथमं तु प्रश्वनविषये पठितव्यं यस्मादहं प्रश्नमवगन्तुं शक्नुयाम्। तदनन्तरं तस्य परिहारश्चिन्तनीयः। तदनन्तरमेका परिहारसञ्चिका रचनीया यस्यां परिहारो विस्तरेण प्रतिपादनीयम्। एतत्सर्वङ्कृत्वाप्योद्योगो लभ्यतयित्यस्य निश्चितता तु नास्त्येव। उद्योगो दीयेत चेत्कियति वेतने दीयेतेत्यपि प्रश्नः। तर्हि सन्दर्शनङ्कुर्यां वा नेति चिन्तयामि।

रविवार, 27 फ़रवरी 2022

पदोन्नतिः

प्रातःकाले पित्रा सह समभाषिषि। सर्वमङ्गलं पृष्ट्वा स मम पदोन्नितिर्विषयेऽपृच्छत्। मम पदोन्नतिर्भवेद्येन सोऽन्यान्वक्तुं शक्नुयात्तस्य पुत्रस्य पदोन्नतिरभवदिति तस्येच्छा। आ षड्वर्षेभ्यस्त्वमस्यै संस्थायै कार्यङ्कृत्वापि पदोन्नितिः किमर्थन्नाभवदिति स वारं वारं पृच्छति। अहं पदोन्नतये प्रयते परन्तु सामाजिकापेक्षाया एव। मम कापि विशेषेच्छा नास्ति। उच्चतरपदं प्राप्याधिकानि सम्मेलनानि भवन्ति। तस्मात्समयशैथिल्यं व्यपयाति। तदहन्निच्छामि। सम्प्रति बहुवारं कार्यं न्यूनमस्ति चेन्मुक्तसमयं लभे। उच्चस्तरेषु मुक्तसमयः कदापि न लभ्यते।

मंगलवार, 22 फ़रवरी 2022

वेतनवृद्धिः

ह्यः प्रबन्धकेन सह मेलनमभवत्। स मामसूचयद्यत्संस्थया वेतनवृद्धिः करिष्यते। केवलं मह्यन्न सर्वेभ्यः। विंशतिप्रतिशतं वेतनवृद्धिर्दास्यते। अन्यच्च मम पदोन्नतिविषये स विश्वासमदर्शयत्। यदि तस्य विश्वासः सम्यगस्ति तर्हि द्वयोर्मासयोः पदोन्नतिं लभेय। पदोन्नतिः प्राप्यते चेत्पुनर्वेतनवृद्धिर्भवेद्वा?

शनिवार, 19 फ़रवरी 2022

कर्मण्येवाधिकारो मम

आ वर्षं प्रयत्यापि सन्दर्शनुत्तमं भूत्वापीष्टोद्योगो न लब्धः। नूनं विप्रलब्धोऽस्मि। परन्तु जानामि कमपि लक्ष्यं साधने केचनांशाः स्वहस्तयोर्न वर्तन्ते। विधेर्विशेषमहत्वं सर्वदा वर्तते। एवं सति मम कार्यं तु श्रद्धया श्रमकरणमेव। तदतिरिच्य त्वहङ्किमपि कर्तुन्न शक्नुयाम्। एवञ्जानति मयि कापि विशेषनिराशा न तिष्ठति।

उद्योगो न दत्तः

समयक्सन्दर्शने सत्यपि संस्थयोद्योगो न दत्तः। न्यूनवेतनेऽपि। सा संस्था दर्पाविष्टा। सर्वे जनास्तत्रोद्योगप्राप्तये यतन्ते। अतः सा कमपि केनापि कारणेन निराकर्तुं शक्नोति। केन कारणेन निराकृतमिति तया नोच्यत।

शुक्रवार, 11 फ़रवरी 2022

पुत्रेणापि ज्ञायते

ह्या रात्रौ पुत्रो मया सहास्वपत्। तस्मै रात्रौ सम्भाषणं रोचते। स ममोद्योगविषयेऽपृच्छत्। अहं तमसूचयं यद्यद्यपि मम सन्दर्शनं सम्यक्तयाभवत्तथापि संस्थयाननुभवी कर्मकर इवोद्योगो दीयते। परन्तु पञ्चसु सन्दर्शनेषु ये द्वे सन्दर्शनेऽधारीकृत्य उच्चपदं दीयते ते सन्दर्शने तु तव बहूत्तमेऽभवतां तथाप्युच्चपदं न दीयते? इति विस्मयं सोऽदर्शयत्। सत्यं पुत्र! तस्मादेवाहङ्कुपितोऽस्मीत्यहं तमवदत्।

बुधवार, 9 फ़रवरी 2022

कोपान्निद्रा गता

सामान्यतः कोपप्रवृत्ति मयि न वर्तते परन्तु संस्थयाननुभवी कर्मकर इवोद्योगो दीयतयिति ज्ञात्वा कोपान्निद्रा गता रात्रौ।

मंगलवार, 8 फ़रवरी 2022

कुप्यामि

उद्योगसन्दर्शनं समपद्यतेति पूर्वं सूचितं मया। सन्दर्शनमुत्तममभवत्। ये प्रश्नाः पृष्टास्ते सर्वे सम्यक्तया परिहृता मया। संस्थयोद्योगो दीयतयिति मया चिन्तितमासीत्। अद्य संस्था मामसूचयन्ममसन्दर्शनं बहुश्लाघ्नीयन्नासीत्। तयुद्योगं दत्तुं शक्नुयुः परन्तु न्यूनवेतनेन पुरस्सरम्। कियद्वेतनं दास्यतयिति न सूचितम्। आगामिषु दिनेषु सूचयिष्यते। मम पञ्चदशवर्षाणामनुभवमपुेक्ष्य नूतनपदवीप्राप्तवाञ्छात्र इव मह्यमुद्योगो दीयतयिति दृष्ट्वा कुप्यामि।

सोमवार, 7 फ़रवरी 2022

भार्याया अवकाशः

अद्य भार्या कार्यालयादवकाशमग्रहीषि। अहं तु गृहादेव कार्यङ्करोमि। पुत्रो विद्यालयङ्गतः।

रविवार, 6 फ़रवरी 2022

अष्टाशीती रुप्यकाणि

पात्रक्षालनयन्त्रमावश्यकमिति मया पूर्वं लिखितम्। यन्त्रेकमावाभ्यां रोचते। ह्योऽन्तर्जाले तस्य मूल्यं नवचतुर्दशाधिकषट्शतमासीत्। दर्शनेन विना क्रेतुन्न शक्यतयित्यतो न क्रीतम्। ह्यः साँयकाले पात्रक्षालनयन्त्रं दर्शनायापणमगच्छाम। यद्यन्त्रं द्रष्टुं वयमिष्टवन्तस्तदापणे नासीत्। अद्य तस्य मूल्यमन्तर्जाले सप्तत्रिंशदधिकसप्तशतं दृश्यते। अत इदानीङ्क्रीयते चेदष्टाशीतिरधिकं मूल्यं देयम्।

शनिवार, 5 फ़रवरी 2022

कार्यालमगच्छत्

ह्यो मध्याह्ने भार्या कार्यालयमगच्छत्। दिने सूर्यो मेघाभ्यो बहिरागच्छत्। तेन रथ्यासु संशीतजलस्यापाय प्रायो गतः। द्वादशवादने गत्वा सार्धचतुर्वादने सागता। कार्यालये कर्तव्यङ्कार्यं वर्धमानमासीत्। ह्यो गत्वा तत्कार्यराशिः किञ्चिन्नियन्त्रणयागच्छदिति सासूचयत्।

पात्रक्षालनयन्त्रं भग्नम्

पात्रक्षालनयन्त्रं भग्नम्। पूर्णतया न। कार्यङ्करोति परन्तु बहुवारं प्रयत्नङ्कृत्वैव कार्यङ्करोति। प्रतिदिनं भार्यया तेन सह स्थातव्यम्। स चलति, परन्तु केषाञ्चिन्निमेषानामनन्तरं स्वयमेव विरमति। तत्काले पुनरारब्धव्यम्। तस्य नियन्त्रणपरिपथि दोष आगत इति मन्ये। तस्य समीकरणविषये चिन्तयावः परन्तु समीकरणे प्रायस्त्रिशतं रुप्यकाणि व्ययितव्यानीत्यूहावहे। सप्तत्रिशतं रूप्यकाणि व्ययित्वा नूतनयन्त्रं प्राप्तुं शक्यते। यद्यप्यावां तस्य समीकरणायेच्छावस्तथापि नूतनयन्त्रक्रयणमेव वरं यतः त्रिंशत्प्रतिशतं व्ययङ्कृत्वापि तद्यन्त्रं तु पुरातनमेव स्थास्यति। न्यूनातिन्यूनं तद्यन्त्रमुपदशवर्षपुरातनमस्ति। तर्हि त्रिगुणितरुप्यकाणि व्ययित्वा नूतनयन्त्रक्रयणमेव वरम्।

शुक्रवार, 4 फ़रवरी 2022

प्रायोऽद्य गन्तव्यम्

संशीतवर्षा समाप्ता। अतोऽद्य मध्याह्ने भार्या कार्यालयङ्गमनाय प्रयतिष्यते। न गन्तव्यमिति मम मतो यत इतोऽपि रथ्यासु संशीतजलं वर्तते। अद्य न गमिष्यति चेत्सप्ताहान्ते गन्तेति मन्ये।

गुरुवार, 3 फ़रवरी 2022

संशीतवर्षा पतति

आ रात्रि संशीतवर्षा पतन्त्यासीत्। तस्माद्रथ्यासु संशीतजलं सञ्चितम्। वाहनस्खलनस्य सम्भावना वर्धमानास्ति। भार्यामग्रहमकृषि कार्यालयन्न गन्तव्यमिति। कार्यञ्जीवनापायस्य कारणं मा भूयात्। केषाञ्चित्सज्जनानां वृत्तयो सन्ति या अनिवार्याः। तैर्जनैर्गन्तव्यमेव। परन्तु मदीयाया भार्याया वृत्तिस्तादृशी नास्ति। अतस्तया गृहे स्थातव्यम्। दैवात्सा सहमन्ये। अतः सा गृहयस्ति। पुत्रस्य विद्यालयेनाप्यवकाशो दत्तः।

बुधवार, 2 फ़रवरी 2022

नवपञ्चाशदधिकशतम्

सन्दर्शनसन्नाहाय प्रतिदिनङ्कस्मिंश्चिज्जालस्थाने तन्त्रांशाभ्यासङ्करोमि स्म। तज्जालस्थानं प्रतिवर्षं नवपञ्चाशदधिकशतं रूप्यकाणि शुल्कङ्गृह्णाति। शुल्कगृहणतिथिरासीत्त्रिंशज्जनवरी। मम सन्दर्शनं एकफेबररीदिनाङ्के समपद्यत। यतः सम्प्रति नूतनसंस्थयोद्योगो न दत्तस्तथापि भावयामि तयोद्योगो दीयते यतः पञ्चसु सन्दर्शनेषु मयोत्तमं प्रदर्शनङ्कृतम्। अत इतः परं तज्जालस्थानस्यावश्यकता न भवेदिति मन्ये। तर्हि नवपञ्चाशदधिकशतं रुप्यकाणि व्यर्थानि जातानि। नवविंशति दिनाङ्के मम ग्राहकताया निरसनङ्कुर्यामिति मया चिन्तितमासीत्परन्तु तस्मिन्कुर्वति कया संस्थया के प्रश्नाः कतिवारमपृच्छयन्तेति द्रष्टुन्न शक्यते। अतो ग्राहकताया निरसनं न कृतम्। तर्हि केवलं द्वाभ्यां दिनाभ्यां मया नवपञ्चाशदधिकशतं रुप्यकाणि दत्तानि।

मंगलवार, 1 फ़रवरी 2022

सन्दर्शनं समपादि

आ वर्षात्सन्दर्शनाय बृहच्छ्रमङ्कुर्वन्नासम्। ह्योऽद्य च सन्दर्शनमासीत्। उत्तमतया तत्सन्दर्शनमभूत्। संस्थयोद्योगो दीयतयिति भावयामि। कियति वेतनयिति द्रष्टव्यम्।

शुक्रवार, 21 जनवरी 2022

प्रकल्पः

गते वर्षे कार्यालये पदोन्नतये प्रायते। तदवसरे किञ्चिदधिककार्यङ्कर्तव्यं यस्माज्जना मम नाम जानीयुरिति परीक्षकेण सूचितमासीत्। ते जना मम विभागस्य भवेयुरिति वरम्। तदाधारीकृत्य कश्चन प्रकल्प आरब्धो मया। परन्तु प्रकल्पे प्रचलति मया ज्ञातं यत्प्रकल्पोऽयमप्यन्येषु दलेष्वलम्बितः। बृहत्संस्थासु तादृशी स्थितिः सामान्या। अतः पदोन्नतये हानिकरिणी लाभकरिणी वा भवेदिति द्रष्टव्यम्।

शनिवार, 15 जनवरी 2022

पुत्रो विद्यालयङ्गच्छति

करोनाप्रकोपः प्रचलत्यपि विद्यालयो बालान्विद्यालयमाह्वयति। अस्मिन्सत्रेऽन्तर्जालेन न पाठयिष्यतयिति विद्यालयेन सूचितम्। प्रतिदिनङ्केचन बाला विद्यालये करोनाप्राप्नुवन्तीति विद्यालयः सूचयति। पुत्रः स्वस्थं स्थेयात्।

शनिवार, 8 जनवरी 2022

प्रकल्पो निरस्तः

कार्यालये कस्मिँश्चित्प्रकल्पे कार्यङ्कुर्वनासम्। अहमेक एव कार्यङ्करोमि स्म तस्मिन्प्रकल्पे। गुरुवासरे स प्रकल्पः प्रबन्धकेन निरसीकृतः। स प्रकल्पः कस्यचिद्दीर्घप्रकल्पस्य लघुरूपमासीत्। तस्य कृतेऽर्धावधिरावश्यक्यासीत्। परन्तु लघुरूपस्य प्रयोजनं सीमितमासीत्। तस्मात्प्रबन्धकेन प्रकल्पस्य निरसनस्य निर्णयः कृतः। निरसनाद्मयि द्वैधीभाव उद्भूतः। तेन प्रकल्पेनाहं नूतनकौशलानि सम्पादयन्नासम्। परन्तु तत्प्रकल्पकार्येषु मम कौशलन्नासीतित्यतो घोरपरिश्रमङ्कुर्वन्नासम्। तेन महच्छ्रान्तिर्जायते स्म। तत्प्रकल्पस्थाने तस्य दीर्घरूपङ्करणीयमिदानीम्। दीर्घरूपं मन्दगत्या प्रचलेदिति मन्ये। तस्मान्नवकौशलमपि न प्राप्नुयामिति चिन्तापि बाधते। परन्तु गिटारवादनाभ्यासमधिकतया कर्तुं शक्नुयामित्याशासे।

सोमवार, 3 जनवरी 2022

सञ्चालकमागमत्

अद्य मम नगरसंस्कृतकेन्द्रस्य सञ्चालक आगमत्। केभ्यश्चिद्मासेभ्योऽहं संस्कृतवर्गं पाठयितुन्न शक्नोमीत्यहं तमसुसूचम्। स सार्धद्विघण्टा यावत्स्थित्वा मया सह समभाषिष्ट चायपानमप्यकार्षीत्। तेन सह सम्भाषणङ्कृत्वाहममोदिषि।

शनिवार, 1 जनवरी 2022

उपनववर्षरात्रिः

ह्या रात्रावावां द्वादशवादनपर्यन्तं जागृतौ। सामान्यत आवां तावत्पर्यन्तं न जागृवः। परन्तु ह्यः कथञ्चित्तदभवत्। स्वादुभोजनं मधुराणि चाखादाव। पुत्रस्तस्य मातामह्या गृहयासीत्। अद्य प्रातःकालयागमत्।