शनिवार, 31 जुलाई 2021

सप्ततन्त्रीं वादयामि

आ सप्ताहात्सप्ततन्त्रीं वादयामि। रमे। सप्ततन्न्रीं वादयित्वा षट्तन्त्री सरलं भासते।

रविवार, 25 जुलाई 2021

कृतज्ञास्तेऽहमपि

ह्यो मत्संस्कृतवर्गीयांश्छात्रानमिलम्। गुरुपूर्णिमावसरे ते मां मिमीलिषाम्बभूवुः। ते मह्यं पुष्पान्युपायनानि चाददुः। स्वादिष्टभोजनमप्यभोजयन्त। ते कृतज्ञतां प्राकटयन्। अहमपि तेभ्य आदारसत्कारं लब्ध्वा धन्योऽस्मि। संस्कृतभाषा विश्वव्यापिनी भूयात्।

शुक्रवार, 23 जुलाई 2021

सप्ततन्त्र्यागमिष्यति

अद्य सप्ततन्त्र्यागमिष्यति। यानि गीतान्यहं षट्तन्त्रिणि वादयितुन्न शक्नोमि तानि वादयितुं शक्ष्यामि। पुत्रोऽप्युत्सहते।

शिष्या मिमेलिषन्ति

गुरुपूर्णिमावसरे शिष्या मां मिमेलिषन्ति। अहमपि तान्मिमेलिषामि परन्तु करोनायाः प्रकोपो वर्धते। तद्भयादुद्याने मुखावरणं धृत्वा मेलिष्याम इति निर्णयः कृतः। प्रायः शनिवासरे मेलितास्मः।

रविवार, 11 जुलाई 2021

समयः कुत्र देयः

सन्दर्शनाय प्रभूतसन्नाहा आवश्यकाः। तदर्थं प्राचुर्येण समयो निवेशनीयः। उत्तमोद्योगं लब्ध्वा प्रभूतधनमपि प्राप्यते। तस्य संरक्षणं वर्धनञ्चापि महत्पूर्णम्। तन्न क्रियते चेदुत्तमोद्योगस्य को लाभः? परन्तु धनस्य वर्धनाय संरक्षणायापि बहूनि कार्याणि कर्तव्यानि। तेषाङ्कृतेऽपि बहुसमय आवश्यकः। तर्हि काचिद्विप्रतिपत्तिराविर्भवति। अनयोरेकस्मिन्समये दीयते चेदन्यस्मै समयो नावशिष्यते। क उपायः? उभयोरेक एव करणीय इति नास्ति। जीवनस्य बहुषु प्रसङ्गेषु तुल्यतावश्यकी। तेषु प्रसङ्गेषु विषयोऽयमन्यतमः। अतो यावच्छक्यमुभाभ्यां यतनीयम्। परन्तु समयाभावो भवेच्चेद्धनसंरक्षणं वर्धनञ्च वरम्। यदि लब्धं धनं संरक्षितुन्न शक्येत तर्ह्यधिकधनर्जनाय किं प्रयोजनम्?

क्तप्रत्ययाभ्यासः

क्तप्रत्ययस्य पाठनीयान्युदाहरणानि -

कृतेभ्यः कार्येभ्यः तेन शुल्कं न दत्तम्।

पठितेषु पुस्तकेषु एतत् उत्तमम्।

उत्सवे बहूनि गीतानि गीतानि।

सा खादितेन भोजनेन अस्वस्था अभवत्।

क्रीता पत्रिका पठिता।


शनिवार, 10 जुलाई 2021

व्यस्तो भवितास्मि

आगामिषु त्रिषु मासेषु कार्यालयेऽधिककार्यं भविता। तेन व्यस्तो भवितास्मि। यावच्छक्यं दिने घण्टाया अधिकार्यन्न कुर्याम्।

नूतनपर्यङ्कः

मम प्रकोष्ठे नूतनपर्यङ्कमस्थापयिष्वहि। अयसा निर्मितः पूर्वतनः पर्यङ्को नादङ्करोति स्म। तस्य स्थैर्यमपि सम्यङ्नासीत्। अतः काष्ठपर्यङ्कमक्रीणीवहि।

निष्ठा पाठिता

छात्रान्निष्ठा पाठिता। निष्ठायां क्तवतुक्तप्रत्यौ स्तः। श्वोऽपि क्तप्रत्ययाभ्यासङ्कारयिष्यामि।

चत्वारो बहिः

अद्य प्रातःकाले वर्षापप्तत्। वर्षां पश्यन्तः शृण्वन्तश्च चत्वारो वयं बहिः प्रातराशमकृष्महि। बहुभ्यो दिनेभ्यः परं वयं सर्वे साकं प्रातराशमकृष्महि। सामान्यतो भार्या कल्यं धावनाय गच्छति। पुत्रो विलम्बेन जागर्ति। अहं प्रातस्तमाञ्जागर्मीत्यतः शीघ्रं प्रातराशं भुञ्जे। वर्षावशाद्भार्या धावनाय नागमत्। बहिरुपविश्यावां समभाषिष्वहि। अनन्तरं पुत्र आगमत्। तदनन्तरं वयं हेम्स्टरमप्यानैष्म। ततःपरं प्रातराशमभौक्ष्म।

सोमवार, 5 जुलाई 2021

मित्रमन्यं राज्यङ्गन्ता

मम भार्याया मित्रमेकं तस्याः पतिश्च नगरमिदं त्यक्त्वान्यं राज्यङ्गन्तारौ। एकस्मिन्नेव वर्षे पतिरंशापणे प्रभूतधनमर्जयाञ्चक्रे। तेन धनेन स समुद्रं निकषा बृहद्भूमिञ्चिक्रिये। अस्मिन्मासे सकुटुम्बं स तत्र गन्ता। जना रात्रिन्दिवं प्रयत्यापि तादृशं धनं सङ्ग्रहीतुन्न शक्नुवन्ति। शक्नुवन्ति चेत्तदर्थं बहवो वर्षा आवश्यकाः। तेभ्यो हर्षामि।

सम्पत्कुमारो दिवङ्गतः

सुधर्मेत्यनन्या संस्कृतसमाचारपत्रिकास्ति। केभ्यश्चिद्वर्षेभ्यः पूर्वमहं तां वार्तापत्रिकां प्रतदिनं पठामि स्म। तस्यां पत्रिकायामेवाहमैदम्प्राथम्येन लिट्लकारस्य प्रयोगमपश्यम्। परन्तु पत्रिकाया जालपुटः सम्यक्तया कार्यन्न करोति स्म। तेन पत्रिकापठनञ्च्युतम्। तस्यै पत्रिकायै संरक्षणायाहं धनदानमप्यकरवम्। तस्याः पत्रिकायाः प्रकाशकः सम्पत्कुमार आसीत्। खेदेन सूचयामि सम्पत्कुमारो दिवङ्गतः। तेन संस्कृतायोपकृतम्। सुधर्मापत्रिकासंस्कृतञ्च रक्ष्यास्ताम्।

रविवार, 4 जुलाई 2021

भ्रात्रयुद्योगः

भ्राता तस्योद्योगं तत्याजेत्यहं पूर्वमसूचयम्। गतसप्ताहे भ्रात्रा मातृपितृभ्यां सह समभाषे। त्रयाणामपेक्षास्ति कथञ्चिदहङ्केनचित्सह सम्भाष्य तं नूतनोद्योगं प्रापयेयम्। आ जीवनं भ्राता वित्तकोषे कार्यञ्चक्रे। स तन्त्रांशं न जानाति। कथमहङ्कमप्युक्त्वा तमुद्योगं दापयेयम्? सहोद्योगिनङ्किं वदेयम्? मम भ्रातास्ति यस्तन्त्रांशं न जानाति तथापि तमुद्योगं देहि? अथवासत्यं वदानि किम्? मम भ्राता तन्त्रांशञ्जानाति। तस्मायुुद्योगं देहि?

शनिवार, 3 जुलाई 2021

नासिकायां शुक्लबिन्दुः

ह्यो हेम्स्टस्य नासिकायां शुक्लबिन्दुरेको दृष्टः। कथङ्किमर्थञ्चागत इति नाजानीमहि। स रोगं वार्ध्यक्यं प्राप्नोति वेति चिन्ताग्रस्तो भूत्वान्तर्जालेऽपश्यम्। चिन्ताजनकविषयो नास्तीति ज्ञातम्। हेम्स्टरः पञ्जरतन्त्रीषु दशति। अनेन नासाकेशा लुप्यन्ते।

पदोन्नत्यै यत्यताम्

मदीयामुद्योगसंस्थायां पदोन्नत्यै सर्वैर्यत्यतामित्यपेक्षास्ति। अहं ममोद्योगात्सन्तुष्टोऽस्मि। यद्यपि पदोन्नत्याधिकवेतनं लप्स्ये तथापि मम तीव्रेच्छा नास्ति पदोन्नत्यै। उन्नतपदे बहुषु मेलनेषु गन्तव्यम्। समयाभावोऽधिकदायित्वञ्च वर्तेते। तन्मह्यन्न रोचते। तथाप्यपेक्षास्तीत्यतस्तदर्थं यते। नूतनपर्यवेक्षक उत्साहेन मम पदोन्नत्यै कर्तव्यानि निर्वहति। केभ्यश्चिन्मासेभ्यः परं ज्ञास्यते पदोन्नतिः प्राप्ता वा न। प्रथमे प्रयासेऽस्यां संस्थायां पदोन्नतिर्दुर्लभ्यतयिति श्रूयते।

गुरुवार, 1 जुलाई 2021

ईर्ष्यामि?

आ षड्भ्यो मासेभ्य उद्योगसन्दर्शनसन्नाहाय प्रायायत्ये। अद्यत्वे सन्दर्शनेषु कठिनाः प्रश्नाः पृच्छ्यन्ते। षण्मासेभ्योऽभ्यासङ्कृत्वापि सज्जो नास्मीति भावयामि। मम मित्रमेकं त्रिभ्यो मासेभ्यः सन्नाहङ्कृत्वोत्तममुद्योगमलभत। गततिसृषु रात्रिषु विषयेऽस्मिन्नेव चिन्तयामि। मित्रायेर्ष्यामि वा? स्यान्नाम। तेन सह समभाषे। कीदृशाः प्रश्नाः पृष्टा इत्यहं तमपृच्छम्। ये प्रश्नाः पृष्टाः प्रत्येकप्रश्नस्य समाधानं सन्दर्शने स विंशतिनिमेषेषु ददौ। तादृशङ्कौशलं मयि नास्ति। प्रायः स मद्बुद्धिमत्तरः। सन्दर्शनाभ्यास अनुवर्तनीयः।