रविवार, 30 सितंबर 2018

नूतनवर्गः-५

अद्यतने वर्गे पाठनीया अंशाः -

भवान्, भवती
कः का किम्
कस्य, कस्याः
अत्र, कुत्र, तत्र, सर्वत्र, अन्यत्र
अस्ति नास्ति

क्रियापदानि (लट्, लोट्)
गच्छति, वदति, पचति, खादति, पिबति, चलति, धावति, प्रक्षालयति, हरति, वसति
करोमि, वदामि, पठामि, उपविशामि, उत्तिष्ठामि

उपविशतु, पठतु, गच्छतु, आगच्छतु, करोतु
कुर्वन्तु, पठन्तु, गच्छन्तु

शनिवार, 29 सितंबर 2018

पामरयोर्नृशंसता दुष्कर्म च

चिरकालादहं स्वदेशात्प्रोषितः। स्वदेशाद्घोरवार्ता प्राप्ता। काभ्याञ्चित्पामराभ्यां प्रतिवेशिन्यौ निर्घृणं मारिते। माता पुत्री च। मातुः कन्धरा कर्तिता। विकलाङ्गिन्याः पुत्र्याः शिरो भग्नम्। असौ नृशंसता हन्तारौ धनस्य कृते न चक्राते। तौ गृहाद्धन्न निन्यतुः। कश्चनान्य हेतुः। को हेतुः कोऽपि न जानाति। नवत्यधिकनवशताधिकसहस्रवर्षादारभ्य ते मम प्रतिवेशिन्यावास्ताम्। तत्काले तु तयोर्गेहेऽन्ये सदस्या अप्यासन् - पुत्रौ पतिश्च। कतिपयवर्षेभ्यः पूर्वं पतिर्मृतः। सापि विचित्रा कथा। पतिर्मृत उत मारित इति विचिकित्सा। अद्यत्वे पुत्रावन्ययोर्नगरयोर्वसतः। माता पुत्री च गेहयेकले वसतः स्म। अतिदुःखकरिणी वार्तेयम्। मम हृदयं रोरुदीति।

नूतना दूरवाणी

अद्य नूतना दूरवाण्यक्रेषि। पूर्वतन्या दूरवाण्याः फलकं विकलञ्जातम्। बहुभ्यो दिनेभ्यः कथञ्चित्तस्य प्रयोगङ्कृतवान्। परङ्कृच्छ्रेणैव तस्योपयोगङ्कर्तुमशक्नवम्। अतो नूतनदूरवाण्या आवश्यकतासीत्। सप्ताष्टशतशा रुप्यकाणि नाविव्ययिषम्। अतः सार्धद्विशतानि रुप्यकाणि व्ययित्वा जङ्गमदूरवाणी क्रीतवान्। मां तु सा सम्यक्प्रतिभाति। किमर्थञ्जनाः सप्ताष्टशतशा रुप्यकाणि व्ययन्ति न जाने।

रविवार, 23 सितंबर 2018

सुधर्मा

सुधर्मा नाम्ना वार्तापत्रमन्तर्जाले बहुवर्षेभ्यः प्रकाश्यते। अहं तत् प्रतिदिनं पठामि स्म। परं वर्षप्रायं पूर्वं तस्य वार्तापत्रस्य मुद्रणगुणवत्ता हीना जाता। पूर्वं ‘पी-डी-एफ्’ माध्यमेन वार्तापत्रं प्रकाश्यते स्म। अक्षराणि स्फुटानि भवन्ति स्म। आवश्यक्तास्ति चेदक्षराकारो वर्धीकर्तुमपि शक्यते स्म। अद्यत्वे प्रकाशकेन ‘पी-डी-एफ्’ परित्यज्य ‘जे-पेग’ चित्रेण माध्यमेनावरगुणवत्तायुतं तद्वार्तापत्रं प्रकाशमानम्। मुद्रितान्यक्षराण्स्फुटानि। केन कारणेनैतत्परिवर्तनङ्कृतं प्रकाशकेन न ज्ञातं मया। अवरमुद्रणवशादिदानीं तद्वार्तापत्रं पठितुन्न पारयामि।

शनिवार, 22 सितंबर 2018

मुमूत्रिषा

मम मुमूत्रिषाया विषये यूयन्न पिपठिषथेति विभावयामि। परन्त्वन्यैर्मामकीना लेखाः पठितव्याः कदाहमिति विचिन्त्य लेखा लिखितवान्? यदि सा चिन्ता मां बाधते स्म तर्ह्येतादृश्याः कठिनभाषायाः प्रयोगन्न कुर्याम्। अद्यत्वे वातानुकूलपर्यावरणवशात् पिपासा न बाधते। तन्निमित्तं पर्याप्तजलन्न पीयते। पर्याप्तजलं पानीयमिति विद्वद्भिरुद्यते। अतोऽहञ्जलं पिबामि। कार्यालयेऽपि सङ्गणकस्य प्रत्यक्षं बहुभ्यो होराभ्यो नासिसिषाम्यतो भूयो भूयो गत्वा चायपेयञ्जलं वा पिबामि। तुषौषधं सेवनीयमिति वैद्येनादिष्टम्। तस्मायधिकजलमपेक्ष्यते। फलतः समधिका मुमूत्रिषा पीडयति। अपराह्णेऽधिकानि पानीयानि न पातव्यानि मयेति चेष्टे।

सुषुप्तिः

कतिपयरात्रिभ्यः सुषुप्तिः प्राप्ता। कासुचिद्रात्रिषु दीर्घनिद्रापि प्राप्ता। केन कारणेन? अहङ्किञ्चित्परिवर्तनङ्कृतवान्। दिनेऽधिकभोजनङ्खादामि। पर्याप्तोर्जांशेन (‘कार्बोहायड्रेट्स्’) प्रोभूजिनेन (‘प्रोटीन्’) समन्वितानि खाद्यानि खादामि। तुषौषधं (‘फायबर-सप्लीमेण्ट’) न्यूनतया गृह्णामि। तन्निमित्तं रात्रौ वातस्फीतता न्यूना जाता। अतो निशि तेन हेतुना न जागर्मि। पर्याप्तभोजनेन निशि वपुसि वेदना नानुभूयते। परन्त्वेका चिन्ता बाधते। यतोऽधिकं भोजनङ्खादाम्यतो मम भारो वर्धमानः। साशंसं पेशीनाङ्गुरुत्वं वर्धते न तु चर्मवसायाः। मयावधातव्यम्।

रविवार, 16 सितंबर 2018

पनसफलम्-२

पनसफलमखादिष्म। तस्य माधुर्यस्य कारणात् शाकमिव खादनं विलक्षणम्। मां स्वादुर्नाभासीत्।

पनसफलम्

अद्य मम गृहे भार्यया पनसफलं पच्यमानम्। बहुभ्यो वर्षेभ्यः पनसफलं मया न खादितम्। मद्बाल्यकाले माता तत्पचति स्म। भार्या तु पूर्वङ्कदापि पनसफलन्न पक्ववती। अन्तर्जालात्पाकविधिः प्राप्ता। पनसफलङ्कथं पर्यवसास्यतीति द्रष्टव्यम्।

लघुतन्त्रांशस्पर्धा

गतसप्ताहे कार्यालये लघुतन्त्रांशस्पर्धाभवत्। द्वयोर्दिनयोः कञ्चन नूतनतन्त्रांशं रचयित्वा सर्वेषां प्रत्यक्षं दर्शनीय इति नियम आसीत्। दिनद्वये कश्चन प्रकल्पः साधनीय इति तु मामत्योद्विग्नपूर्णकार्यमभात्। आरात्रि कार्यङ्कुर्यामिति मयोहितम्। अतोऽहं तस्यां स्पर्धायां भागन्नावहम्। स्पर्धायां समाप्तायामहं प्रतिस्पर्धिनः पृष्टवाँस्ते कियत्कार्यङ्कृतवन्तः। आरात्रि कार्यङ्कृतवन्त इति सर्वयुक्तवन्तः। अहमलसो न। परङ्कस्यैचिद्वाणिक्संस्थायायारात्रिकार्यकरणं मह्यन्न रोचते।

नूतनवर्गः-४

अद्य सम्भाषणशिबिरं प्रचलिष्यति। गतवर्गे सङ्ख्या पाठयितुन्नाशक्नवम्। अद्यैते विषयाः पाठयिष्यामि -

सङ्ख्या
समयः
सर्वनामानां बहुवचनम् - एते, एताः, ते, ताः, एतानि, तानि
लोटलकार - गच्छतु, उपविशतु, ददातु, करोतु, खादतु, पिबतु, नयतु, लिखतु

सम्भाषणमभ्यासमपि करिष्यामहे। सम्भाषणोपायाः -

१. दिनचर्या
२. परिचयः (अहङ्कः?, कतिवादनयुत्तिष्ठामि?, कुत्र कार्यङ्करोमि? मम कति पुत्राः पुत्र्यः सन्ति?)
३. ह्योऽहङ्किङ्कृतवान्?

शनिवार, 15 सितंबर 2018

अष्टाध्यायी सहजबोध - २

कतिपयदिनेभ्यः पूर्वम् ‘अष्टाध्यायी सहजबोध’ इति पुस्तकं प्राप्तम्। अद्वितीयपुस्तकमिदम्। हिन्दीभाषया पाणिनीयप्रक्रिया पाठ्यतेऽनेन पुस्तकेन। चतुरभागेषु विभक्तो ग्रन्थोऽयम्। चतुर्णां भागानां विषया इमे -

प्रथमभागः - सार्वधातुकतिङ्न्तकृदन्तप्रक्रिया
द्वितीयभागः - आर्धधातुकतिङ्न्तप्रक्रिया
तृतीयभागः - आर्धधातुककृदन्तप्रक्रिया
चतुर्थभागः - तद्धितप्रक्रिया

एतदतिरिच्येतोऽप्यप्रकाशिताश्चत्वारो भागाः। तयिमे -

पञ्चमभागः - स्त्रीसुबन्तप्रत्ययाः
षष्ठभागः - कारकसमासप्रकरणे
सप्तमभागः - स्वरप्रक्रिया
अष्टमभागः - अवशिष्टविषयाः

अप्रकाशितभागाः शीघ्रातिशीघ्रं प्रकाश्यासुः।

चलच्चित्रमन्दिरम्

अद्य पुत्रञ्चलच्चित्रमन्दिरमजीगमम्। एतावत्पर्यन्तं तेन चलच्चित्रमन्दिरे किमपि चलच्चित्रन्न दृष्टम्। विशालफलके चलच्चित्रं दृष्ट्वा सोऽमोदिष्ट। चलच्चित्रमुद्घाटनस्य विंशतिनिमेषेभ्यः परस्तात् पुत्रोऽवादीत्तस्यासन्द उत्तप्त इति। अहमासन्दमस्पृक्षम्। सत्यमोक्तं तेन। विस्मितोऽहम्। केन हेतुनासन्दः परितपतीति विचिकित्सा मन्मनस्युद्भूता। आवामसन्दौ व्यत्यकार्ष्व। तपने तस्मिन्नासन्दयुपविशन्नहमस्विदम्। अर्धघण्टा पश्चादासन्दस्य पार्श्वयेकं रक्तवर्णितँल्लघुविद्युद्दीपमद्राक्षम्। अपि नामासन्द एष विद्युदूष्णितः? तदनु तँल्लघुदीपङ्खर्व्यकार्षम्। प्रायः पञ्चदशनिमेषेभ्योऽनन्तरमासन्दस्य तापमानो न्यूनो जातः। ततः प्रभृत्यावामुभौ चलच्चित्रेऽरंस्वहि।

रविवार, 9 सितंबर 2018

वृष्टिरपप्तत्

ह्यो मयैष्यद्यच्छ्रीघ्रं वृष्टिर्भवेत्। अद्याप्रातर्वृष्टिः पतन्नस्ति। सर्वे पादपाः कुशश्च हरितायन्ते। ह्यः पर्यन्तन्तु ते पाण्डुवर्णिता आसन्। सामान्यतः पुत्रस्तस्य माता चापराह्णे लघुनिद्राङ्कुर्वाते परन्त्वद्य तौ जागरितौ। अद्य साँयकाले चायपेयेन पुरस्सरं समोसाखाद्यानि खादेमेति चिन्तयामि।

सुतः संस्कृतवर्गायागमत्

अद्य संस्कृतवर्गमभूत्। गमनात्प्रागहं पुत्रमप्राक्षँय्यत्स संस्कृवर्गाय जिगमिषति। आमिति सोऽवादीदिति महदाश्चर्यम्। अहन्तु सहर्षं तमनैषम्। गतावसरेऽप्यहं तं पृष्टवान् परं तदा स नाङ्गीकृतवान्। यदि स नियततया गच्छेत्संस्कृतं पठेच्च तन्महते सन्तोषाय।

नूतनवर्गः-३

अद्यतने वर्गे पुनस्मरणीयान्यंशान्येतानि
भवतः नाम किम्?
भवत्याः नाम किम्?
मम नाम रामः।
मम नाम रमा।
भवान् कुत्र कार्यं करोति?
भवती कुत्र कार्यं करोत?
अहं कखग कार्यालये कार्यं करोमि।
अहं कखग संस्थायां कार्यं करोमि।

एतान्यंशान्यद्य पाठनीयानि
सर्वनामानि -
सः रामः। सा रमा।
एषः रामः। एषा घटी।
एतत् पुस्तकम्। तत् फलकम्।
सः कः? सा का? तत् किम्?

भवतः पुत्रस्य नाम किम्?
भवत्याः पुत्रस्य नाम किम्?
कस्य लेखनी, कस्याः पुस्तकम्।
एतस्य लेखनी, एतस्याः पुस्तकम्।
एतत् रामस्य पुस्तकम्।
एतत् रमायाः पुस्तकम्।
नद्याः जलम्।
वृक्षस्य फलम्।
अर्जुनस्य रथः।
भारतदेशस्य राजधानी।
बालिकायाः वस्त्रम्।
महिलायाः शाटिका।

सङ्ख्या
एकम्, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव, दश, एकादश, द्वादश, त्रयोदश, चतुर्दश, पञ्चदश, षोडश, सप्तदश, अष्टादश, नवदश, विंशतिः।

समयः
एकवादनम्, द्विवादनम्, सपादपञ्चवादनम्, सार्धपञ्चवादनम्, पादोनषड्वादनम्, पञ्चन्यूनदशवादनम्, पञ्चाधिकदशवादनम्।

अहं पञ्चवादने उत्तिष्ठामि।
अहं सार्धसप्तवादने कार्यालयं गच्छामि।

शनिवार, 8 सितंबर 2018

वृष्टिः पत्यात्

एषमो बृहन्निदाघः प्रवर्तमानः। कुशः शुष्कायते। पादपा आश्यानाः। नभसि श्याममेघा दृश्यन्ते परन्तु वृष्टिर्नायाति। गभस्तिमाली तडागेषु जलस्तरन्न्यूनीकरोति। अस्मिन् सप्ताहे वृष्टिरपेक्ष्यते। शीघ्रातिशीघ्रं वृष्टिः पत्यात्।

अलक्सान्डर

ह्यः ‘अलक्सान्डर’ नाम्ना चलच्चित्रमपश्यम्। यथा नाम्नेङ्गितमेतच्चलच्चित्रं पुरातनस्य यवनराज्ञोऽलक्षेन्द्रस्य विषयेऽस्ति। सार्धत्रिघण्टा यावच्चलद्दीर्घञ्चलच्चित्रमिदम्। दिनद्वये मया दृष्टम्। उत्तमञ्चलच्चित्रम्। यवनदेशादारभ्य भारतपर्यन्तमलक्षेन्द्रस्य तस्यानीकस्य च सङ्ग्रामो दर्शितः। प्रायो दशवर्षेभ्यः स तस्यानीकश्च योयुध्याञ्चक्राते। एतावद्भ्यो वर्षेभ्यो युद्ध्वा भारतमागतवति तस्यानीकः परिश्रान्तो बभूव। गङ्गापर्यन्तमागतवत्सु सैनिका न युयुत्सवः। तेषां युयुत्सा शीर्णा जाता। सैनिकास्तेषाङ्कुटुम्बानि द्रष्टुमभिलेषुः। तेषु प्रतिजिगमिषा ववृधे। अन्ततोऽलक्षेन्द्रोऽङ्गीचकार। अतो भारतं पराधीनमङ्कृत्वैव ते यवनदेशं प्रतिजग्मुः। यदि ते न प्रतिजग्मुर्भारतदेशस्य संस्कृतिरद्य कीदृशी स्यात्को जानीयात्?

मंगलवार, 4 सितंबर 2018

अष्टघण्टा यावन्निद्रा

गतरात्रावष्टघण्टा यावन्निद्रालब्धा। एतद्विरलम्। अद्य निद्राहीनः क्लान्तो नाहम्। गतरात्रौ केन हेतुना सम्पूर्णनिद्रा लब्धेति चिन्तयामि। ह्या रात्रावपि स्वप्ना मामजागरयन्। परन्तु प्रतिवारं पुनः स्वपितुमशक्नवम्। किं भिन्नम्? न जाने। गतरात्रौ मम मस्तिष्को वेगेन नाधावत्। ह्यो दिने चलनयन्त्रे मीलद्वयँय्यावदचलम्। अपि नाम तस्माच्छ्रान्तोऽभवम्। ह्यः प्रातराश ऊर्जांशेन परिपूर्ण आसीत्। अपि नाम तद्धेतोः? अष्टघण्टानिद्राकरणविधिरन्वेषणीयः।

सोमवार, 3 सितंबर 2018

लिप्तं श्वेतफलकम्

साँयकालेऽहं पुत्रञ्च श्वेतफलके चित्रविन्यासङ्कुर्वन्तावास्व। कतिपयदिनेभ्यः पूर्वञ्चतसृषु लेखनीषु द्वे शुष्के जाते। अतः केभ्यश्चिद्दिनेभ्यः पूर्वं तेऽधरोत्तरे स्थापितवानहम्। अद्य ताभ्यां विन्यासेऽद्राक्षं ते श्वेतफलके रेखास्त्यजन्त्यावास्ताम्। ता रेखा मार्जं मार्जमपि मार्ष्टुन्नशकम्। लेखनीभिः सह किञ्चित् परिमार्जनद्रव्यङ्क्रीतवानासम्। अद्य यावत्तस्योपयोगः कदापि न कृतम्। अद्य तद्द्रव्यं प्रयोजकं सिद्धम्। तदुपयुज्यावां (अहं भार्या च) श्वेतफलकमार्जिष्व। मरीमृज्यित्वा प्रायः सर्वा रेखा गताः। तथापि फलकङ्किञ्चित्कषायितञ्जातम्।

अलसं दिनम्

प्रातस्तराञ्चतुर्वादनयुत्थाय घण्टायावत्पर्यन्कयेव शयानोऽभूवम्। पञ्चवादने पर्यङ्कं त्यक्त्वा चायपेयमपाक्षमपाञ्च। तदनन्तरं दूरदर्शने काश्चिद्वार्ता अद्राक्षम्। सप्तवादने भार्या पुत्रश्चोदस्थाताम्। ततः प्रातराशमबभक्षाम। अनन्तरङ्घण्टायावच्चलनयन्त्रे मीलद्वयमभ्रमिषम्। परस्तात्स्नात्वा सङ्गणके कञ्चन समयँय्यापितवान् पुत्रेण सह चतुरङ्गमक्रीडिषम्। मध्याह्नभोजनङ्कृत्वा लघुनिद्रामकार्षम्। अनन्तरमुत्थाय चायपेयं पीत्वा वस्त्राणि प्राचिक्षलम्। तदन्वपराह्णतन्यो वार्ता अश्रौषम्। जानाम्यहमलसदिनं प्रतिभाति परं रात्रौ पर्याप्तनिद्राया अभावात्क्लान्तोऽभूवम्। अतः किमपि विशिष्टङ्कर्तुञ्चिकीर्षा नाभूत्। श्वस्तु कार्यालयङ्गन्तव्यम्।

चतुरङ्गेन पीड्यते

गतकतिपयदिनेभ्यो मम पुत्रश्चतुरङ्गन्न क्रीडति। चतुरङ्गक्रीडायां प्रवर्तमानं बृहच्चिन्तनं तं विरक्तोऽकारयत्। ह्यः कथञ्चित्स क्रीडितुं सन्नद्धः। ह्योऽहं तमजापयम्। यतः स ह्यो विजितवानतोऽद्य स पुनः क्रीडनार्थमन्वरुधत्। अहन्तु सहर्षमङ्ग्यकार्षम्। प्रथमक्रीडायामहमजैषम्। यदाकदाचिदपि स क्रीडायां पराभूतः स सर्वदा पुनः क्रीडितुमनुरुणद्धि। अद्यापि तेनैवमकृतम्। द्वितीयक्रीडा प्रवर्तमानासीत्। एतावत्पर्यन्तङ्कोऽपि न विजितप्राय आसीत्। सहसा स आसन्दं प्रक्षिप्योच्चैस्तराङ्क्रन्दनमारब्ध। चतुरङ्गस्य मूर्धन्यचिन्तनं तं पीडयति तस्मिञ्छिरोभ्रमणञ्जनयति चेति तेन हेतुर्दत्तः। अहन्तु विस्मितोऽभूवम्। सामान्यतः शिष्टबालकः स एवन्न व्यवहरति। विद्यालयस्य चतुरङ्गसमूहे तेन भागं वाहयामीति चिन्तयन्नासं परमिदानीन्तु तस्मिन् विचारे संशयमेघा डयमानाः परिलक्ष्यन्ते।

रविवार, 2 सितंबर 2018

अष्टाध्यायी सहजबोध

अद्य ‘अष्टाध्यायी सहजबोध’ इत्याख्यस्य ग्रन्थस्य क्रयणादेशमदाम्। इमङ्ग्रन्थङ्क्रेतुं दीर्घकालादहञ्चिन्तयन्नस्मि। अस्मिन्देशेऽयङ्ग्रन्थः कृछ्रलब्धः। अन्तर्जालेन क्रयणादेशमदाम्। केषुचिद्दिनेषु ग्रन्थ आगच्छेत्। चतुर्षु भागेषु विभक्तो महार्घो सुमहद्ग्रन्थोऽयम्। नवत्यधिकचतुश्शताधिकद्विसहस्र पृष्ठैर्गुम्फितोऽयङ्ग्रन्थो मत्पञ्चाशीती रुप्यकाण्यचिच्यवत्। आदावेतावन्ति रुप्यकाणि चिक्रीषा नासीन्मम परमयङ्ग्रन्थो मयि कौतुकञ्जनयति। प्रवरया वैयाकरण्या श्रीमत्या दीक्षितपुष्पया नूतनविध्या व्याकरणः प्रतिपादितो ग्रन्थेऽस्मिन्। अनेन ग्रन्थेन षण्मासाभ्यन्तरेऽष्टाध्याय्यां दत्ता धातुप्रक्रियावगन्तुं शक्यते तया लेखिकया प्रख्यापितम्। यद्येतत्सत्यं तर्हि पञ्चाशीती रुप्यकाणि त्वल्पमूल्यमेव। किञ्च संस्कृतव्याकरणे नूतनग्रन्थरचनायै प्रोत्साहनार्थमेतस्य धनस्य व्ययेन ममासक्तिर्लघुयोगदानञ्च मया दर्शितम्।

मत्स्यागारः

अहं तनयश्च मत्स्यागारमगमाव। स मत्स्यागारोऽन्तिक एव। पूर्वन्नगच्छावेति विषादोऽनुभूयते। प्रायो वर्षपूर्वं तस्य मत्स्यागारस्य विषयेऽप्रशस्ता वार्ताः पठिता मया। परन्तु तथा किमपि न परिलक्षितम्। अन्येषु महानगरेषु स्थिता मत्स्यागारा इवायं मत्स्यागारो बृहन्नास्ति परन्तु तथापि स्तवनीयं स्थलमदः। नाम्ना तु मत्स्यगारोऽस्ति परन्तु तत्र न केवलं बहुविधा मीना वर्तन्तेऽपरञ्च नानाप्रकारा गोधाः, मकराः, अजगराः, पन्नगाः, बृहत्कच्छपाः, लघुकूर्माः, शुकाः, अन्यपक्षिणश्चापि विद्यमानाः। काँश्चित् पशूनप्यस्पृक्षावावाम्। घण्टाद्वयमव्ययाव काँश्चित्पारदेशिकान् पशूँश्चाद्राक्ष्वेति सन्तोषाय। आवयोः प्रवेशशुल्केनामीषां पशूनाङ्कल्याणं भवेदित्यपि हर्षजनकम्।

जिगमिषा नास्ति

सामान्यतो जनाः सप्ताहान्ते कुत्रचिद्गच्छन्ति। मयि तु कदापि कुत्रापि गमनाय जिगमिषा नास्ति। ह्यस्तु देवालये जन्माष्टमीपर्व आयोजितः। तत्रापि नाजिगमिषम्। गेहे स्थिरीभूय पुस्तककीट इवादिनंं पुस्तकानि पिपठिषामि। यदि बहिर्गमनाय जिगमिषा जायते तर्हि काफ्यापणङ्गत्वा पुस्तकं पठामि। तावदेव मम बहिर्गमनस्य जिगमिषा। प्रायेण गमनाय विरक्तोऽहम्। घोरनिदाघः प्रवर्तते। सर्वत्र जनसम्मर्दो दरीदृश्यते। वाहनस्थापनस्थलन्न लभ्यते। अतो विरक्तो भवाम्यहम्। परन्तु सुतः क्वचिन्नेतव्य इति चिन्तयामि। सर्वदा गृहे स्थानं तस्य क्षेमाय न। अद्य तं मत्स्यागारन्नेष्यामीति चिन्तयामि। अस्मासु केनाप्स्य नगरस्य मत्स्यागारो न दृष्टः।

शनिवार, 1 सितंबर 2018

अगवेष्यो जालपुटः

अस्मिञ्जालपुटे सुतराँल्लिखाम्यहम्। गूगलगवेषकेण सूचीकृतोऽयञ्जालपुटः। तथापि प्रायेणैष जालपुटोऽगवेष्यः। केन कारणेन? गूगलगवेषणपरिपाटिः केवलं सम्पूर्णशब्दानाङ्गवेषणङ्करोति। उदारहणतः ‘दृष्ट्वामोदिषि’ अस्मिञ्छब्दे वस्तुतो द्वौ शब्दौ स्तः - ‘दृष्ट्वा’ ‘अमोदिषि’ च। गूगलगवेषकः ‘दृष्ट्वामोदिषि’ संयुक्तशब्दमेव सूचीकरोति। अतो यदि ‘दृष्ट्वा’ उत ‘अमोदिषि’ इति शब्दाभ्याङ्केनापि गवेषणङ्क्रियते तर्हि ‘दृष्ट्वामोदिषि’ इति शब्देनाधृतजालपुटो न दृश्यते यतो गूगलगवेषकः शब्दान् भागशो न सूचीकरोति। अत एष जालपुटोऽन्तर्जाले वर्तित्वाप्यन्तर्हितः। सोल्लुण्ठनञ्जनास्तेषाञ्जालपुटान् गवेष्यः करणार्थङ्किङ्किन्न कुर्वते। अहन्तु प्रतिकूलङ्करोमि। सन्धिमुपयुज्य मदीयञ्जालपुटमगवेष्यङ्कारयामि। जना एतं पठेयुरित्यहमीहे परन्तु स्वच्छन्दतया स्वोपज्ञलेखनशैलीं प्रयोक्तुं शक्यते मयेत्यस्य जालपुटस्यास्तित्वस्य निदानम्। एष जालपुटोऽन्तर्जाले गवेष्य इत्यस्याङ्गता मह्यम्।

मोहन्जो-दारो

‘मोहन्जो-दारो’ इत्याख्यञ्चलच्चित्रमद्राक्षम्। दृष्ट्वामोदिषि। सिन्धुघाटीसभ्यताविषये केनचिच्चलच्चित्रं निर्मितमिति सन्तोषाय। चलच्चित्रं प्रायेण भूतार्थम्। निर्मातृणा सम्यगनुसन्धानङ्कृत्वैवादश्चलच्चित्रं निर्मितम्। भारतस्याधिकानि चलच्चित्राणि भारतस्यैतिह्यं दर्शयेयुरिति ममाशा। अदश्चलच्चित्रमवश्यं द्रष्टव्यम्।

लघुनिद्रा

मम निद्रासङ्घर्षोऽनुवर्तते। गतरात्रौ घण्टाचतुष्टयं मात्रन्निद्रामलप्सि। दिष्ट्याद्यापराह्णे सार्धैकघण्टा यावदशयिषि।