बुधवार, 31 मई 2023

मातामह्या गृहे

गते सप्ताहान्ते पुत्रो मातामह्या गृहमगच्छत्। बहुभ्यो मासेभ्यः परं सोऽगच्छत्। तस्मादावां किञ्चित्समयमलभावहि।

कार्यालयमगमम्

अद्य कार्यालयमगमम्। नूतनदले कार्यमारब्धम्। तदर्थमगमम्। श्वोऽपि गमिष्यामि।

सोमवार, 22 मई 2023

जन्मदिवसोत्सवः २

पुत्रस्य जन्मदिवसोत्सवः सम्यक्तयाभवत्। दश बालका आगच्छन्। भोजनं क्रीडाश्च आसन्। पुत्र उपायनानि प्राप्नोत्।

रविवार, 21 मई 2023

जन्मदिवसोत्सवः

अद्य पुत्रस्य जन्मदिवसोत्सवः। पूर्वेषु वर्षेषु गृह एवोत्सव आयोजितः। अस्मिन्वारमुके क्रीडालय उत्सवं कुर्मः। अधिकधनव्ययो भविष्यति परन्तु सौकर्यमपि भविष्यति।

वर्गः समापितः

मया संस्कृतवर्गः समापितः। ग्रीष्मकाले बहवो जनाः प्रवासाय गच्छन्ति। तस्मान्न्यूना जना एव वर्गमागच्छन्ति। इत्यतो वर्गः समापितः। पूर्वेषु वर्षेषु ग्रीष्मकाले मया विशेषव्याकरणविषयाः पाठिताः परन्तु विरामेऽस्मिन् न पाठयिष्यामि। विराममेव स्वीकरिष्यामि। अगस्तमासादारभ्य वर्गः पुनरनुवर्तिष्यते।

शनिवार, 13 मई 2023

विजेता

अद्यादिनं वर्षापप्तत्। वर्षायां पादकन्दुकस्पर्धाया अन्तिमे क्रीडे भविष्यत उत नेति न ज्ञातम्। परन्तु क्रीडेऽभूताम्। पुत्रस्य दलं स्पर्धायां विजेताभूत्। पुत्रो हर्षितः।

शुक्रवार, 12 मई 2023

व्यजने स्थापिते

सप्तवर्षेभ्यो गृहेऽस्मिन् निवसामि। द्वयोः प्रकोष्ठयोश्छादव्यजने नावर्तताम्। एतावत्पर्यन्तं भूमिस्थव्यजने क्रीत्वा ताभ्यां वायुमलभामहि। परन्तु ताभ्यां ग्रीष्मः सम्यक्तया न निवारितः। अद्य छादव्यजने स्थापिते। ताभ्यामतीवानुकूल्यमागतम्।

रविवार, 7 मई 2023

मेलनम्

ह्योऽन्यन्नगरमगच्छम्। तत्र संस्कृतमेलनमासीत्। तस्मिन्नेव नगरे भार्याया मातृपितरौ निवसतः। सा पुत्रश्च मया सहागच्छताम्। परन्तु वाहनसम्मर्दवशात्तौ मातृपित्रोर्गृहे गन्तुं नाशक्नुताम्। यदाहं मेलने भागं वहन्नासं तदा तौ विपणौ गत्वा भोजनमखादताम्। रात्रौ नववादने गृहमागच्छाम।

शनिवार, 6 मई 2023

भारतभूषा गीतम्

भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये ।
संस्कृतिरक्षा राष्ट्रसमृद्धि: भवतु हि भारतदेशे ॥

श्रद्धा महती निष्ठा सुदृढा स्यान्न: कार्यरतानाम्
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम् ।
न हि विच्छित्तिश्चित्तविकार: पदं निदध्मस्सततम्
सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम् ॥

श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम्
चेतो वाणी प्राणा: काय: संस्कृतहिताय नियतम् ।
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीम्
पुष्टिस्तुष्टिस्संस्कृतवाक्त: तस्मादृते न किञ्चित् ॥

नाहं याचे हारं मानं न चापि गौरववृद्धिम्
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित् ।
यस्मिन् दिवसे संस्कृतभाषा विलसेज्जगति समग्रे
भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु ॥

मंगलवार, 2 मई 2023

हृष्यामि

अहं सामान्यतोऽन्येषां जालपुटानां सङ्केतानत्र न स्थापयामि। परन्त्विदं दृष्ट्वा हृष्यामि। पश्यत कथं चीनदेशीया निर्गलतया संस्कृतेन मधुरवचांसि वदति!

https://www.youtube.com/watch?v=40sCpRdhMNk

गृहमूल्यकरः

गृहमूल्यकरः कियान् भवत्वित्यस्य निर्णयस्य समय आगतः। सर्वकारेण गृहस्य मूल्यं पूर्ववर्षस्यापेक्षया न्यूनं निश्चितम्। तथापि करो वर्धितः! कीदृशी विडम्बना!

नूतनदलाच्छ्रुतम्

आ कतिपयसप्ताहेभ्यः कार्यालये दलसङ्क्रमणाय प्रयते। अद्य प्रातःकाले नूतनदलेनामन्त्रणं दत्तम्। अद्य मम प्रबन्धकं सूचयिष्यामि। न जाने तस्य प्रतिक्रिया का भविष्यति।