रविवार, 27 जून 2021

हेम्स्टरो विद्रुतः पुनर्लब्धः

अद्य कल्यमुत्थाय सङ्गणके कार्यङ्कुर्वन्नासम्। भार्या शयनप्रकोष्ठाद्बहिरागत्य मामुपसर्प्याप्राक्षीद्धेम्स्टरः कुत्रेति। अहं तां ससम्भ्रममद्राक्षम्। सावोचद्धेम्स्टरः पञ्जरे नास्ति कन्दुकेऽपि नास्ति पञ्जरस्य द्वारमप्यपावृत इति। क्षणाभ्यान्तरयावामवागमाव स पञ्जराद्विद्रुतः। पञ्जरद्वारस्यार्गलं सम्यङ्नास्ति। बहुभ्यो दिनेभ्यो वयं नक्तमर्गलङ्कीलयित्वा द्वारं तन्त्र्या बध्नीमः। परन्तु दिने न बध्नीमः। प्रातःकाले मया तन्त्र्यबद्धा कृतासीत्। तदनन्तरं स द्वारमुद्घाट्य विद्रुतः। आवाङ्गृहे तस्यान्वेषणमकुर्वहि। पाकशालायां तमद्राक्ष्व। कथञ्चित्कन्दुके स पुनर्गमित आवाभ्याम्। इदानीमारभ्य पञ्जरद्वारं तन्त्र्या सर्वदा बन्ध्नीयम्।

शनिवार, 26 जून 2021

गिटारापणमगच्छाव

सप्ततन्त्रिगिटारयन्त्रञ्चिक्रीषामीति पूर्वमसूचयम्। ह्योऽहं पुत्रश्च गिटारापणमगच्छाव। बहुषु गिटारयन्त्रेषु केवलमेकमेव सप्ततन्त्रियन्त्रमासीत्। अन्तर्जालापणेषु बहवो विकल्पा लभ्यन्ते। अन्तर्जालादेव क्रेष्यामि।

मंगलवार, 22 जून 2021

प्रबन्धकोऽवकाशङ्ग्रहीता

केभ्यश्चिद्दिनेभ्यः पूर्वं मदीयाय दलाय संस्थया नूतनप्रबन्धको नियुक्तः। ह्यः स मामसूचयत्तेन मासं यावदवकाशो ग्रह्णीयः। तस्य स्वास्थ्यविषये तेन काचिद्वार्ता ज्ञाता। शस्त्रचिकित्सावश्यकी। षड्जुलैदिनाङ्के चिकित्सा भविता। तदनन्तरं त्रिचतुस्सप्ताहं यावदकाशो ग्रह्णीयः। स शीघ्रं निरामयं लप्सीष्ट।

सोमवार, 21 जून 2021

भार्यापुत्रयोर्विहारः

यथारीति भार्यापुत्रौ विहारायागच्छताम्। पञ्चशद्मैलदूरे स्थितोद्याने तौ मम भार्यायाः पूर्वसहोद्योगिनीं मिमिलतुः। सहोद्योगिन्याः पतिरप्याजगाम। मया संस्कृतवर्गः करणीय आसीदतोऽहङ्गन्तुन्नाशक्नवम्। विहारेण तौ रेमाते।

रविवार, 20 जून 2021

गिटारयन्त्रापणङ्गन्तव्यम्

एतावत्पर्यन्तमहं षट्तन्त्रीयुक्तगिटारयन्त्रं वादयन्नासम्। परन्तु येषु गीतेषु मम रुचिरस्ति तेषु बहूनि गीतानि सप्ततन्त्रीगिटारयन्त्रे वाद्यन्ते। मयापि सप्ततन्त्रीयन्त्रङ्क्रेतव्यमिति चिन्तयामि। तस्मै गिटारयन्त्रापणङ्गन्तव्यम्।

शनिवार, 19 जून 2021

भार्यापुत्रौ गन्तारौ

भार्यायाः कार्यालयस्तस्याः सहोद्योगिनीं निर्गमयाञ्चकार। तां भार्या मिमिलिषति। श्वो भार्यापुत्रौ विहाराय गन्तारौ। उद्याने सहोद्योगिनीं तस्याः पतिञ्च मेलितारौ।

शुक्रवार, 18 जून 2021

यल्लिखितं तत्पठनीयम्

कृदन्तरूपवर्गमारभे। पञ्जीकरणपत्रे सर्वा सूचना स्पष्टतया लिखिता। तथापि जना न पठन्ति। एकेन छात्रेण पञ्जीकृतं परन्तु शुल्कन्न दत्तम्। पञ्जीकरणपत्रे भागविशेषः शुल्कायैव। कथं स तन्नापश्यदहमूहितुन्न शक्नोमि। एका छात्रा पञ्जीकृतवती परन्तु वर्गः कदारभते सा पृच्छति। प्रथमवर्गे नागच्छत्। वर्गः कदारभ्यत मया न ज्ञातमित्यवदत्। पञ्जीकरणपत्रे सुस्पष्टं वर्गस्य दिनाङ्कसमयौ लिखितौ। कथं तया न दृष्टं मां विचारविमूढङ्कारयति। एतादृशा अनवधानवन्तो जनाः कथं संस्कृतकौशलं प्राप्नुयुः?

हेमस्टराय क्रीडाङ्गनङ्क्रीतम्

हेमस्टराय क्रीडाङ्गनङ्क्रीतम्। तस्मिन्क्रीडकान्यपि स्थापितानि। परन्तु प्रायशो हेम्स्टरस्तस्मात्क्रीडाङ्गनाद्बहिर्गन्तुं प्रयतते। अस्मात्स्वल्पकालायैव तङ्क्रीडाङ्गने स्थापयितुं शक्नुमः।

मंगलवार, 15 जून 2021

हेम्स्टरः कन्दुके नागच्छति

आ द्वाभ्यां दिनाभ्यां हेम्स्टरः कन्दुके नागच्छति। पूर्वं स तस्मिन् रमते स्म। न जाने स किमर्थङ्कन्दुके न प्रविशति।

रविवार, 13 जून 2021

हेम्स्टरः कन्दुके रमते

प्रतिदिनं हेम्सटरङ्कन्दुके स्थापयामः। स तस्मिन्धावति। गृहस्य कोणे कोणे भ्रमति। तस्मात्स व्यायामं प्राप्नोति। कन्दुके स रमतयिति भासते।

कृदन्तरूपवर्ग आरभते

अद्यारभ्य कृदन्तरूपाणि पाठयामि। गतसत्रस्यान्तिमवर्गे बहवो जना असूचयँस्ते कृदन्तरूपाणि शिशिक्षिषन्ते। कृदन्तरूपाणि ममापि प्रियविषयः। वर्गाय सप्तजनाः पञ्जीकृतवन्तः।

शनिवार, 12 जून 2021

कार्यालयङ्गन्तव्यम्

परह्यो मम कार्यालयोऽसूचयद्यत्सप्टम्बरमासादारभ्य कार्यालयमागन्तव्यम्। गृहादेव कार्यङ्कुर्यामिति ममाद्यता। परन्तु कार्यालयः सप्ताहे द्वयोरदिनयोर्गृहात्कार्यङ्करणायानुमतिमादात्। तस्माद्धहर्षितोऽस्मि।

शुक्रवार, 11 जून 2021

आदिनं शेते

क्रीतो हेम्स्टरो नैशजन्तुः। स आदिनं शेते। रात्रौ जागर्ति। अतो दिने तेन सह विरलतयैव व्यवहरामः।

बुधवार, 9 जून 2021

सञ्चालकेन सह समभाषे

ह्योऽस्माकं संस्कृतकेन्द्रस्य सञ्चालकेन सह समभाषे। अहङ्ग्रीष्मकाले कृदन्तरूपाणि पाठयिष्यामि। स शरदर्तौ वर्त्स्यामानान्वर्गान्कल्पयति। सोऽवदद्भवता शरदर्तावपि वर्गः पाठयिष्यते। श्रान्तो मा भूरिति। आवश्यकतास्ति चेद्ग्रीष्मकाले वर्गं मा पाठय। मह्यं पाठनं रोचते। अनेन संस्कृतसम्भाषणायावसरो लभ्यतयित्यहं तमसूचयम्।

मंगलवार, 8 जून 2021

'स्टोऽवे'

'स्टोऽवे' इति चलचित्रमवीक्षे। मनोरञ्जकञ्चलचित्रम्। पृथ्व्या मङ्गलग्रहं गच्छन्तस्त्रयो जना विदन्ति तेषां यानेऽन्यजनोऽप्यस्ति। स कश्चन कर्मकरः। यानस्य प्राणवायुयन्त्रं भग्नञ्जातम्। केवलं द्वाभ्याञ्जनाभ्यां प्राणवायुरवशिष्टा। तदा ते किङ्कुर्युरिति दर्शितम्। चलचित्रस्य केचनांशा निन्दनार्हाः परन्त्वाहत्य सम्यक्चलचित्रमस्ति।

रविवार, 6 जून 2021

हेम्स्टरः कन्दुके

हेम्स्टरस्य पञ्जरं प्रतिसप्ताहं मार्जनीयम्। मलमूत्रपर्युषितभोजनादिन्यपसारणीयानि। मार्जनकाले हेम्स्टरः कुत्रापि स्थापनीयम्। तत्कृते कन्दुकमेकङ्क्रीतम्। तत्कन्दुकं हेम्स्टरायैव। तं तस्मिन्कन्दुकेऽस्थापयाम। स तस्मिन्कन्दुके गृहे भ्रमितुं शक्नोति। कन्दुकाद्बहिरपि द्रष्टुं शक्नोति यतः कन्दुकं पारदर्शि। अनेन तस्मै वातावरणं परिवर्तते। आजीवनं स पञ्जरे तिष्ठेदिति भावना नागच्छेत्। सम्प्रति वयं तं स्प्रष्टुं शक्नुमः। गच्छता कालेन सोऽस्माकं हस्तेष्वागच्छेदित्याशास्ति।

बुधवार, 2 जून 2021

नूतननियन्त्रकं स्थापितम्

ह्य आवां नूतनवातानुकूलयन्त्रनियन्त्रकमस्थापयाव। शुभवार्तेयं तेन नियन्त्रकेन यन्त्रं पुनः सम्यक्तया कार्यङ्करोति। उपरितने स्तरे पुनश्शीतवायुर्लभ्यते।

मंगलवार, 1 जून 2021

यदि हेम्स्टरो वदेत्

क्रीतस्य हेम्स्टरस्य जीवनङ्कथमिति चिन्तयामि। वयं तस्मायुत्तमजीवनं दानाय प्रयतामहे। तेन भोजनन्न सङ्ग्रह्यतां यतोऽस्माभिर्दीयते। कोऽपि तं भक्षयिष्यतीति भीतिरपि न तस्मै। तद्दृष्ट्या तस्य जीवनमुत्तमम्। परन्तु स आजीवनं पञ्जरे स्थास्यति। अहञ्जानेऽहङ्कदापि स्वातन्त्र्यं त्यक्त्वा निश्शुल्कभोजनं सुरक्षाञ्च ग्रहीतुन्नेषिष्यामि। तर्हि तं पिपृच्छिषामि यदि स स्वातन्त्र्यमिच्छति पञ्जरे सुरक्षितभोजनान्वितजीवनं वा?