शनिवार, 30 दिसंबर 2017

रेलगन्तारौ

ह्यः सपुत्रा रेलयानेऽगच्छम्। रेलयानं प्रति मत्पुत्रस्य महत्यास्क्तिः। 'मां रेलयाने गमय' इति स बहुवारं पूर्वं मान्न्यवेदयत्। अस्मिन्नगरे सामान्यता रेलयानमवकाशदिनेषु न चलति। अतो यदा यदावयोः (मम मत्पुत्रस्य च) पर्वकारणेनावकाशो भवति तदा सर्वदा रेलयानस्यावकाशोऽप्यस्ति। अतस्तं रेलयाने गमयितुमवसरो न प्राप्नुवम्। अस्मिन् सप्ताहे कार्यालये बहवो जना अवकाशः प्राप्य कार्यालयादविद्यमानाः। तस्मात् कार्यालये बहुकार्यन्नास्ति। अस्यावसरस्योपयोगङ्करणीय इति मया चिन्तितम्। अतो ह्यः प्रातःकालयावां रेलयानेन नगरकेन्द्रमगच्छाव। तत्राल्पहारः कृत्वा पुना रेलयानेन गृहमाच्छाव। तस्मात् मत्पुत्रे महान् सन्तोषो जातः। तस्य मुखम दृष्ट्वैवेति लक्षितम्। मत्पुत्रस्य कृते काचिल्लघुक्रिया कृत्वैव पुत्रस्य मनो मोदयितुमशक्नवमिति विचिन्त्य महान् सन्तोषोऽन्वभवमहमपि।

बुधवार, 20 दिसंबर 2017

व्याकरणे सन्धेर्वैलक्षण्यम्

संस्कृतव्याकरणे सन्धिविषयो विलक्षणः। प्रायः सर्वे जना विषयोऽयं द्विषते। सन्धिनियमा बहवः। ते जटिलाश्च। विसन्धिना लिखिता लेखा न केवलमनायासेनावगन्तुं शक्यन्तेऽपितु सन्धिर्वर्तते चेत्पठनवेगोऽवरुध्यते। सन्धिः सर्वासु भाषासु भिन्नमात्रायां दृश्यते परन्तु तासु भाषासु सन्धिः केवलमनौपचारिकरूपेण वर्तते। स व्याकरणनियमेषु न समाविष्टः। संस्कृते सन्धिर्व्याकरणनियमेषु समाविष्टः। अतः स औपचारिकरुपेण पाठ्यते। यतः सन्धिरष्टाध्याय्याँल्लिखितोऽतः स त्यक्तुन्न शक्यते। संस्कृतमाधुनिककाले लौकिकभाषा नास्ति तस्मादेव सन्धिरद्य जीवति। यदि संस्कृतं पुनरलौकिकभाषा भवेत्तर्हि निश्चयेन कोऽपि सन्धिर्न प्रयुजयेत। तर्हि मया स किमरथं प्रयुज्येत? स मह्यं रोचते। स सुन्दरो मनोहरश्च। बहुषु नियमेषु के नियमाः प्रयोक्तव्या इति निर्णयकरणे सन्तोषमनुभवामि। मयि सन्धियुक्तशब्दाँल्लिखत्सु मन्मनो मोमुद्यते। सन्धेरभ्यासोऽपि प्राप्नोमि। अभ्यासेन सन्धिनियमा न विस्मरामि। इमे लेखा मदभ्यासस्य कृतयेव न त्वन्येषां पठनाय।

मंगलवार, 19 दिसंबर 2017

पदोन्नतिः

अद्य प्रातःकाले कार्यालयेऽहं मत्पर्यवेक्षकश्चामेलिष्व। मत्पर्यवेक्षको मामसूचयद्यद्यदि मह्यं पदोन्नतिं रोचते तर्हि मयाधिकङ्कार्यङ्कर्तव्यम्। अहं तमसूचयँय्यदहं पदोन्नतिन्नेच्छामि। केन कारणेन सोऽप्राक्षीत्। पदोन्नतिँल्लिप्सन्तो जना अहं प्रतिदिनं पश्यामि। पदोन्नतेः कृते कियत् कार्यङ्कुर्वते तदपीक्षेऽहम्। पदोन्नतेः कृते त्रिचतुरेभ्यो वर्षेभ्यो महत्कार्यङ्करणीयमिति संस्थाया अपेक्षा। एतत्तु मह्यन्न रोचते। अहं सर्वः समयः कार्यालयकार्ये मग्नो भवितुन्नेच्छामि। ममाभिरुचेः कुटुम्बस्य च कृतेऽपि समय इच्छामीत्यहं तमवोचम्। पदोन्नतेरपेक्षया त्वं प्रसन्नता सन्तुष्टिश्च महत्वं ददासीति मन्येऽहमिति सोऽवोचत्। तेन सत्यमेवोक्तम्। अयन्निर्णयः साध्वसाधु वेति काल एव कथयिष्यति।

अद्यतनजीवनं पुरातनजीवनम्

जीवने बहवः समस्या अस्मान् बाधन्ते। अमूः समस्या अधिकृत्य वयं बहुशः क्रन्दामः। कदा कार्यालये प्रोन्नतिं न प्राप्नुमः, कदा विद्युच्छक्तेर्मूलस्य वर्धनमस्मास्वसन्तोषो जनयति, कदा ज्वरग्रस्ता वयमित्यादयः। इयं सूची त्वनन्ता। यदा कदास्मान् काचन समस्या पीडयति पुरातनकाले जनानाञ्जीवनङ्कीदृशं बभूवेति चिन्तनीयम्। पुरातनकाले विद्युच्छक्तिर्न बभूवातो जनास्तमसि जिजीवुः। तयुष्णं निवारणाय व्यजनं न चालयाञ्चक्रिरे, शीतं निवारणायोष्णनिर्माणयन्त्रञ्चालयितुं न शेकुः। तेषां समस्यानामपेक्षयास्माकं समस्या त्वल्पा एव । यदि ज्वरपीडिता वयं, चिकित्सकेन दत्तमौषधं सेवित्वा पुनरारोग्यं प्राप्तुं शक्नुमः। प्राचीनकाले वैद्यशास्त्रमपि न बहूत्तमं। चिकित्सका औषधं ददुः परन्तु ते शस्त्रचिकित्सा न चक्रुः। धनिकराजानोऽपि रोगानधिकृत्य किमपि कर्तुं न शेकुः। यद्यप्याधुनिकजीवने समस्या वर्तन्ते तथाप्यास्माकञ्जीवनानि प्राचीनजीवनानामपेक्षया समीचीनतराणि। प्राचीनकाले सामान्यप्रजायाः कृते भोजनं सर्वदा विरलम्। अद्यत्वे भोजनस्योतिशयोऽस्ति। दरिद्रा अपि स्थूलगात्रेण पीडिताः। अतो यदा कदापि वयङ्कष्टैः पीड्यामहे तदा प्राचीनकालिकजीवनविषये चिन्तनीयम्। तदेवाधुनिककालिनः सुखसुविधायाः कृते धन्यो भवेम। अस्माकङ्कष्टानि न महन्तीति चिन्तयेम।

शुक्रवार, 15 दिसंबर 2017

उपायनानि

क्रिस्तमसपर्वमागमिष्यमानमस्ति। आपणा जनैः सम्मर्दाः। सामान्यदिनानामपेक्षयापणेष्वधिका जना दृश्यन्ते। सर्वे तेषां बन्धूनाङ्कृतयुपायनानि क्रीणितुमुद्युक्ताः। बन्धुभिः सह पर्वं समाचरन्त्येतत्तु हर्षजनकम्। परन्तु प्रतिवर्षं सहस्रा जना अनावश्यकान्युपायनानि लभन्ते। बहून्युपायनानि जनैर्ग्रहीत्वा कदापि नोपयोगः कुर्वते। तेषाङ्गृहे जीवने च तान्युपायनान्यवकाशः समयश्च समाविशन्ति। एतादृशानामुपायनानाङ्कृते जना व्यर्थतया महद्धनस्य व्ययः कुर्वते। येषाँव्वस्तूनाङ्ग्राहक उपयोगः कर्तुं शक्नोति तान्येव क्रेतव्यानि देयानि च। गृहँव्वस्तूभिर्न सम्मर्दङ्कर्तव्यम्। सम्मर्दगृहं मानसिकदुष्प्रभावञ्जनयति। अस्मिन् क्रिस्तमसपर्वे यानि वस्तून्यावश्यकानि तान्येव देयानि सङ्ग्रहतव्यानि च।

गुरुवार, 14 दिसंबर 2017

इच्छास्ति कर्माणि न सन्ति

बहवो जनाः संस्कृतेन बिभाषिषन्ते। इयमिच्छा ते स्फुटतया प्रदर्शयन्ति। अहमवश्यं पापठ्यिष्ययिति कथयन्ति। उत्साहसङ्कल्पौ स्तस्तथापि तेषां संस्कृतज्ञानं न वर्धते। केन कारणेन? तस्य कृते ते कर्माणि न कुर्वते। समयो नास्ति, संस्कृतभाषा कठिनैतादृशानि मृषावचांसि श्रूयन्ते। नूतनभाषाध्ययनस्य कृते महत्समयो महद्यत्नाश्चापेक्ष्यन्ते। भाषाध्ययनस्य कृते समयो दातव्यः। भाषां प्रधान्यता दातव्या। सा गौणा न भावयितव्या। अभ्यासश्चेक्रीयितव्यः। व्याकरणनियमाः पापठितव्याः। दैनन्दिनजीवने तद्भाषाया उपयोगः करणीयः। पापठितव्या लेलिखितव्या बाभाषितव्या सा। तदानीमेव ज्ञानं वर्धेत। यद्येतादृशं परिश्रमङ्कर्तुं नेष्येते संस्कृतपठने समयो निश्चयेन व्यर्थो भवेत्।

सप्तहोराभ्योऽशयिषि

गतरात्रौ सप्तहोराभ्योऽशयिषि। स्वप्ना माञ्जागरयितवन्त इति स्मरामि परन्तु पुनः स्वपितुमशकमिति भाति। गतरात्रौ किं भिन्नं? केन कारणेन सप्तहोराभ्यः स्वपितुमशकम्? कथं सप्ताष्टभ्यो होराभ्यः शय्येतेति रहस्यस्य परिशोधनार्थङ्कश्चन विधिः प्राप्स्ययित्याशासे परन्तु वस्तुतो गतनिशायाः सुनिद्रायाः कारणं तु साधारणमेव। पूर्वतनयोर्द्वयोर्निशयोः केवलं पञ्चषटहोराभ्योऽशेयि। अतो निद्राहीन आसमहम्। तस्मादेव सप्तहोराभ्यः स्वपितुमशकम्। सप्तहोराभ्योऽशयिषीत्युत्तमं परन्तु येन कारणेन तदभूत्तन्नोत्तमम्।

मंगलवार, 12 दिसंबर 2017

स्वप्ना निद्रां बाबाध्यन्ते

रात्रौ सम्यक्तया मया निद्रां न लभ्यते। प्रतिरात्रं बहवः स्वपना आगच्छन्ति। बहुवारं ते भयङ्कराः। तस्मान्मध्यरात्रञ्जागर्मि। कुस्वप्नैरहञ्जागर्ययिति न विस्मयजनकं परन्तु बहुवारँय्यद्यपि स्वप्ना न भयङ्करास्तथाप्यहञ्जागर्मि। एतत्तु मय्याश्चर्यञ्जनयति। वस्तुतः सर्वे स्वप्ना माञ्जागरयन्ति। किमर्थं मया न ज्ञायते। अपि नाम गाढनिद्राहं न कुर्वे। गतरात्रौ चतुर्वारमजागरिषम्। प्रतिवारं स्वप्नानाङ्कारणेन। स्वप्ना न विशिष्टाः। न हर्षमया न दुःखमयाश्च। ते साधारणा एव। तथापि ते माञ्जागरयितवन्तः। अनुस्यूततयाष्टहोराभ्यो निद्रा न लभ्यतयिति चिन्ता मां बाबाध्यते।

सोमवार, 11 दिसंबर 2017

अन्दिका

यद्गृहेऽहं निवसामि तस्मिन्नेकान्दिकास्ति। यदैतद्गृहमक्रीणां तदेयमन्दिका रिक्तासीत्। अग्निज्वलनस्य कृते तस्याङ्किमप्युपकरणानि नासन्। अन्दिका मम मनस्युत्साहमजनयत्। मद्गृहेऽन्दिका भवेदिति मम दीर्घकालीच्छा। पूर्वतनगृहेऽन्दिका नासीत्। गतमासेऽस्यां रिक्तान्दिकायामग्निज्वलनुपकरणं स्थापयितवान्। गतदिनेष्वेषान्दिका बहुवारमज्वलम्। सुन्दरं दृश्यम्। ऊष्णमपि ददाति सा। मम पुत्रायाप्येषान्दिका रोरुच्यते। यदा यदाहं ताञ्ज्वालयितुमुद्यतोऽस्मि स उत्साहेन कूर्दति करताडनङ्करोति च। यद्यहं तेन विना ताञ्ज्वालयति स क्रन्दति। अग्निञ्ज्वालयित्वा तस्याः पुरतरुपविशामोऽहं मम पुत्रो भार्या च। दूरदर्शनस्य पुरतस्तल्पासनयुपवेशनं स्थानेऽन्दिकायाः पुरतरुपविशामो वयम्। दूरदर्शनं पिधायाग्नेः पुरतः सम्भाषणङ्कुर्महे। पुत्रोऽपि तस्य क्रीडनकैः क्रीडति दूरदर्शनस्य पुरतरुपवेशनं स्थाने। तस्याः पुरतरुपविश्य पुस्तकपठनमपि मह्यं रोचते। प्रतिदिनं सायङ्कालेऽन्दिकाञ्जिज्वालिषा मन्मनस्यागच्छति। अस्मिञ्छीतकाले सा जाज्वल्यते वयं मोमुद्यन्ते च।

रविवार, 10 दिसंबर 2017

ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः

ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्।
ॐ शान्तिः शान्तिः शान्तिः॥

एतदुपनिषन्मन्त्रम्। प्रथमतः कठिनाः शब्दा निरीक्षामहे।
सुखिनः - एष ‘सुखिन्’ प्रातिपदिकस्य प्रथमविभक्तेर्बहुवचनम्।
निरायमयाः - एष ‘निरामय’ प्रातिपदिकस्य प्रथमविभक्तेर्बहुवचनम्।
कश्चिद्दुःखभाग्भवेत् - सन्धिविच्छेदङ्कृत्वा ‘कश्चित् दुःखभाग् भवेत्’ एते शब्दत्रयँल्लभ्यते।

अर्थः - सर्वे सुखिनोऽरोगिनश्च भूयासुः। सर्वे शुभं मङ्गलञ्च दृश्यासुः। कोऽपि दुःखं नानुभूयात्।

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥

अर्थः - यथा सुप्तस्य सिंहस्य मुखे मृगाः स्वयमेव न प्रविशन्ति, मृगा उत्तिष्ठेन सिंहेन हन्यन्तां तथैव केवलं मनसि चिन्तनङ्कृत्वा कार्याणि न सिध्यन्ते। तानि परिश्रमङ्कृत्वैव सिध्यन्ते।

गुरुवार, 7 दिसंबर 2017

श्वेतफलकम्

ह्यः श्वेतफलकमक्रीणाम्। श्वेतफलकङ्क्रेतव्यमिति बहुभ्यो दिनेभ्यश्चिन्तनङ्कुर्वन्नासम्। अद्यत्वे सर्वेषूद्योगसाक्षात्कारेषु सङ्गणकसंविधिलेखनस्य कृते श्वेतफलकमुपयुज्यते। तस्य कृतेऽभ्यासावश्यकतास्ति। अपि च संस्कृतवर्गे काचन छात्रा मम गृहमागन्तुं मत्तः संस्कृतं पिपठिषति (एषेच्छा प्रकटय्यापि सा नागच्छतीति तु पृथग्विषयः)। तां पाठनस्य कृतेऽपि फलकमावश्यकम्। तस्मिन् फलके मम चतुर्वषीयपुत्रोऽप्यक्षरचित्राणां विन्यासः कर्तुं शक्नोति। तस्य लेखनस्याभ्यासो भवेत्। अहमपि केचन नूतनाः संस्कृतशब्दा विचाराश्चित्राणि च तस्मिन् फलके लिलेखिषामि। दूरदर्शनं पुरतरुपवेशनं स्थाने श्वेतफलकं पुरतर्यदि समयो यापयेवावयोर्मानसिकनिर्माणशक्ती वर्धेयाताम्। तच्छ्वेतफलकं द्विशतरुप्यकैः क्रीतम्। आपातत इदन्नाल्पमूल्यमिति प्रतिभाति परन्तु मम ममपुत्रस्य च मानसिकनिर्माणशक्ती यदि वर्धेयातां तर्हि तत्त्वल्पमूल्यमेव सिद्धङ्खलु।

बुधवार, 6 दिसंबर 2017

अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत

अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत ।
शनै: शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम्॥

सन्धिविच्छेदितरूपम् -
अतितृष्णा न कर्तव्या तृष्णां न एव परित्यजेत।
शनै: शनैः च भोक्तव्यं स्वयं वित्तम् उपार्जितम्॥

एतत् सुभाषितं मनुष्यस्य तृष्णाथवेच्छा विषयेऽस्ति। साधारणमनुष्यस्य बहव इच्छाः सन्ति। स प्रभूतं धनमर्जितुमिच्छति। कार्यालये समाजे चौन्नत्यँव्वर्धयितुमिच्छति। ताः सर्वा अपीच्छास्तीव्राः सन्ति।

अतितृष्णा न कर्तव्या - इच्छा करोतु परन्तु सेच्छा सीमिता भवेन्न तु प्रभूतानन्ता च।
तृष्णां नैव परित्यजेत - कानिचन नीतिशास्त्राणि सर्वा इच्छास्त्यजत्विति कथयन्ति। परन्तु एतद्वाक्यङ्कथयतीच्छा त्यक्तुमावशयकता नास्ति। सेच्छा केवलं सीमितमात्रायाङ्करोतु।

शनै: शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् - शनैः शनै इत्युक्ते मन्दं मन्दम्। इच्छा पूरयित्वा यदर्जितं तं मन्दं मन्दं भुनक्तु। कीदृशमर्जितम्? स्वयं वित्तमुपार्जितम्। वित्तमिइत्युक्ते धनम्। यानि सुखसुविधानि धनराशयः स्वकीयपरिश्रमेणार्जितानि तान्येव शनैः शनैर्भुनक्तु।

इदानीँव्वयमस्य सुभाषितस्यार्थः सङ्क्षिपतरूपेण वक्तुं शक्नुमः। इच्छाः करोतु परन्तु लघुमात्रायां न बहुमात्रायाम्। इच्छाः पूरयित्वा यदर्जितं तत् शनैः शनैर्भुनक्तु न वेगेन।