गतदिनेषु पुनः संस्कृतवदनस्य पाठनस्य चेच्छा जागृता जाता। पुनः संस्कृतं पाठयेयमिति चिन्तयामि।
रविवार, 3 मई 2026
रविवार, 22 फ़रवरी 2026
विरलतयात्र लिखामि केन कारणेन
अत्र लिखिता लेखाः क्षीयन्ते। केन कारणेन? भौतिकविज्ञानं पठामि। तत उपर्योद्यगमप्यस्ति। भौतिकविज्ञाने महत्छ्रम आवश्यकः। तस्मिन्नेव समयो गच्छति। एतेन कारणेन लेखा अत्र विरला अभूवन्। परन्तु संस्कृतं मह्यमिदानीमपि रोचते। प्रयत्नं कृत्वा लेखानां सङ्ख्यां वर्धयिष्यामि।
गुरुवार, 10 जुलाई 2025
मंगलवार, 20 अगस्त 2024
आँकि-शब्दकोशः
आ बहुभ्यो वर्षेभ्यः संस्कृते पठति मया संस्कृतशब्दानां बृहच्छब्दकोशा रचितः। स शब्दकोशः 'एड्वानस्ड्-संस्कृत-वोकेबलरि` इति नाम्ना `आँकिवेब` इति नाम्ना जालस्थाने स्थापितो येनान्यजना अपि तस्य शब्दकोशस्य प्रयोगं कर्तुं शक्नुयुः।
रविवार, 28 अप्रैल 2024
संस्कृतं न पाठयिष्यामि
अहं बहुभ्यो वर्षेभ्यः संस्कृतं पाठयन्नस्मि। इदानीं तस्माच्छ्रान्तिमनुभवामि। अत इतः परं संस्कृतं न पाठयिष्यामि। प्रायोऽग्रिमेषु वर्षेषु पुनः पाठयितास्मि।
रविवार, 14 अप्रैल 2024
ह्यस्तनं मेलनम्
ह्योऽस्माकं स्थानीयमेलनमभूत्। अन्यस्माद्राज्यात् कार्यकर्तापि विद्यमान आसीत्। त्रयघण्टात्मकं मेलनं सम्यगासीत्। अन्ते भोजनमपि कृतम्।
शनिवार, 2 दिसंबर 2023
सम्भाषणसन्देशपत्रिका
आ पञ्चभ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां पठामि। अधुना तस्याः पत्रिकायाः किञ्चिन्नैरस्यमनुभवामि। प्रतिमासं पत्रिकाया लेखाः समानरूपकाः समानविषयकाश्च। द्वित्रलेखा मन्दिरदेवादीनां विषयकाः। केचन लेखा भारतस्वतन्त्रतासङ्ग्रामविषयकाः। याः कथाः कल्पनात्मकास्ता अपि कुत्रचिद्देवसंन्यासिपण्डितान् स्थापयन्ति। पौनपुन्येन समादृशाँल्लेखान् पठित्वेदानीं तस्याः पत्रिकायाः पठनं क्लेशाय। तर्हि नववर्षे पत्रिकाया ग्राहकतां न नवीकुर्यामिति चिन्तयामि।
गुरुवार, 28 सितंबर 2023
संस्कृतवर्ग आरब्धः
संस्कृतवर्ग आरब्धः। गीतासोपानस्य द्वितीयभागस्यानुवर्तनं कुर्मः। एतत्पुस्तकं समाप्य पाठनाद्विरामं ग्रहीष्यामीति चिन्तयामि। आ षड्भ्यो वर्षेभ्यः पाठयन्नस्मि। सम्प्रति पाठनं न रमे।
रविवार, 20 अगस्त 2023
वर्गा अन्तर्जालेन
अभिमुखं मेलनान्येव करणीयानीति राष्ट्रियकेन्द्रस्यादेशः। यद्यपि मह्यं न रोचते तथाप्यहं संस्कृतस्य हेतवे सज्जः। परन्तु ह्यः स्थानीयकेन्द्रसञ्चालकेन सन्देशः प्रेषितोऽभिमुखमेलनेभ्यः स्थलो न लब्धः। तस्मान्मेलनान्यन्तर्जालेन प्रचलिष्यन्ति। सेप्टेम्बरमासस्य षोडषदिनाङ्कादारप्स्यन्ते वर्गाः। अहं गीतासोपानस्य द्वितीयभागस्य पाठनमनुवर्तयिष्यामि।
रविवार, 21 मई 2023
वर्गः समापितः
मया संस्कृतवर्गः समापितः। ग्रीष्मकाले बहवो जनाः प्रवासाय गच्छन्ति। तस्मान्न्यूना जना एव वर्गमागच्छन्ति। इत्यतो वर्गः समापितः। पूर्वेषु वर्षेषु ग्रीष्मकाले मया विशेषव्याकरणविषयाः पाठिताः परन्तु विरामेऽस्मिन् न पाठयिष्यामि। विराममेव स्वीकरिष्यामि। अगस्तमासादारभ्य वर्गः पुनरनुवर्तिष्यते।
मंगलवार, 2 मई 2023
हृष्यामि
अहं सामान्यतोऽन्येषां जालपुटानां सङ्केतानत्र न स्थापयामि। परन्त्विदं दृष्ट्वा हृष्यामि। पश्यत कथं चीनदेशीया निर्गलतया संस्कृतेन मधुरवचांसि वदति!
शनिवार, 29 अप्रैल 2023
शनिवार, 24 दिसंबर 2022
गणानां प्राचुर्यम्
संस्कृतकार्यकर्तास्मि। तस्मै केषुचिद्व्हाट्सैपगणेष्वस्मि। परन्तु दिने दिनेऽन्यैर्नूतनगणा रच्यन्ते। ते मां तेषु नूतनगणेषु योजयन्ति। यदा शक्येत तदा गणान् त्यजामि। अन्यथा गणसङ्ख्या वरीवृध्यिष्यते।
सोमवार, 19 दिसंबर 2022
हास्यकथा
सम्भाषणसन्देशपत्रिकायां हास्यकथास्पर्धायाः परिणामः प्रकाशितः। केनापि प्रथमद्वितीये स्थाने न जिते। प्रेषिताः कथा अनार्हा इति प्रकाशकेनोक्तम्। मम कथालेखनकौशलं बिरुदार्हमस्तीति तु न वदामि। परन्तु तथापि यस्यां स्पर्धायाङ्केनापि प्रथमद्वितीेये स्थाने न लब्धे तादृश्यां स्पर्धायां भागस्तु वोढव्यः। भाविनि काले विषयेऽस्मिन्नवधानवान्भविष्यामि।
सोमवार, 12 दिसंबर 2022
अभिमुखमेलनम्
ह्योऽभिमुखमेलनमभवत्। प्रायः सप्ततिजना आगच्छन्। गीतानि भाषणानि नाटकानि च दर्शितानि कार्यकर्तृभिश्छात्रैश्च। मया भाषणं दत्तम्। संस्कृतेन सम्पूर्णभाषणं वदामीति चिन्तितमासीत्परन्तु छात्राणाङ्कुटुम्बसदस्या अप्यासन्। तेभ्यो मुख्यतया आङ्ग्लभाषया भाषणं मया दत्तम्। तस्मिन्नेव काले भार्यापुत्रौ क्रिस्टमसोत्सवेऽगच्छताम्। साँयकाले वयङ्गृहमागच्छाम। रविवासरः सम्यक्तया यापितः।
शनिवार, 10 दिसंबर 2022
भाषणम् - २
बहवो छात्राः मां पृच्छन्ति पुनीतमहोदय भवान् संस्कृतं कथम् अधीतवान्? भवन्तं कः पाठितवान्? भवान् संस्कृतसम्भाषणाभ्यासं कथं प्राप्तवान्? अतः अहं तस्मिन् विषये किञ्चिद् वक्तुमिच्छामि। मम लक्ष्यमस्ति मम संस्कृतयात्रायाः विषये श्रुत्वा भवन्तः अपि प्रेरणां प्राप्नुयुः संस्कृताध्ययनं कुर्युः, दैनन्दिनजीवने संस्कृतसम्भाषणं कुर्युः इति।
बाल्यकाले अहं भारते विद्यालये संस्कृतं पठितवान्। वयं तु जानीमः एव भारते विद्यालयेषु संस्कृतं सम्यक्तया न पाठ्यते। छात्राः अध्यापकाः उभावपि केवलम् अङ्कप्राप्तये संस्कृतं चिन्वन्ति। तत्र संस्कृतज्ञानं न मुख्यं लक्ष्यम्। तस्मिन्काले अपि संसृकतं मह्यं रोचते स्म। परन्तु कदापि सम्य्कतया न पठितवान्, सम्भाषणं तु कदापि न कृतवान्। बहुभ्यः वर्षेभ्यः परस्तात् २०१२ वर्षे अहम् निर्णयं कृतवान् संस्कृतं सम्यक्तया पठिष्यामि। तदा अहम् अमेरिकायाम् आसम्। संस्कृतं कथं पठनीयम् इति अन्तर्जाले अन्वेषणं कृतवान्। अन्तर्जाले श्रीचित्रपुरमठस्य जालस्थानं प्राप्तम्। तस्मिन् जालपुटे अत्युत्तमा पाठाः पी-डी-एफ् रूपेण आसन्। तस्मिन् काले अहं बसयानेन कार्यालयं गच्छामि स्म। तर्हि तेषां पाठानां मुद्रणं कृत्वा अहं प्रतिदिनं मम स्यूते नयामि स्म, बसयाने पठामि स्म। प्रतिदिनं घण्टाप्रायः समयः बसयाने पाठान् पठामि स्म। तस्मात् मम व्याकरणज्ञानं वर्धितम्।
अपि च अन्तर्जालात् samskritabharatiusa.org इति जालस्थानं प्राप्तम्। तत्र पुस्तकभण्डारः अस्ति। तस्मात् अहं बहूनि पुस्तकानि क्रीतवान् - व्याकरणपुस्तकानि कथापुस्तकानि च। प्रतिदिनं तेषु पुस्केषु किमपि पुस्तकं स्वीकृत्य पठामि स्म। अनन्तरं मया सम्भाषणसन्देशपत्रिकायाः विषये ज्ञातम्। तस्याः ग्राहकता अपि मया क्रीता। प्रतिमासं तां पत्रिकां पठामि स्म।
२०१७ वर्षे मम परिचयः संस्कृतभारत्याः आस्टिन्केन्द्रेण सह जातः। शनैः शनैः मया पाठनम् आरब्धम्। तस्मात् मम सम्भाषणकौशलम् अपि अवर्धत। इदानीमहं पञ्चभ्यः वर्षेभ्यः संस्कृतं पाठयन्न्स्मि।
इयन्तं श्रमम् अहं किमर्थं कृतवान्? सरलः उत्तरः। संस्कृतं मह्यं रोचते। तस्याः भाषायाः माधुर्यं मम कर्णाभ्यां रोचते। यदाहं संस्कृतं वदामि, अहं प्राचीने भारते निवसामि इति भासते।यदा संस्कृतं वदामि न केवलं भारतीयसंस्कृतिम् अनुभवामि परन्तु तस्याः प्रचारः अपि भवति। संस्कृतं वदामि चेत् मम संस्कृतेः भाषायाः च विषये गर्वम् अनुभवामि। अतः अहं संस्कृतं पठामि, लिखामि, वदामि, पाठयामि च।
इदानीं भवन्तः प्रायः चिन्तयेयुः - एतत्सर्वं सम्यग् अस्ति पुनीमहोदय, परन्तु मया किं करणीयम् इति वदतु। वदामि।
यदि संस्कृताय भवतां श्रद्धा अस्ति, तर्हि केवलं संस्कृतं विषये मा वक्तव्यम् - संस्कृतेन वक्तव्यम्। संस्कृतं देवानां भाषास्ति, आर्टिफिश्यल् इन्टेलिजेन्स् कृते उत्तमा भाषा अस्ति - बहवो जना एतत्सर्वं वदन्ति। तत् सर्वं भवतु परन्तु तस्य न कोऽपि लाभः। यदि वयं संस्कृतभाषायाः कृते आदरं दर्शयितुम् इच्छामः तर्हि भाषायाः प्रयोगः करणीयः, ने केवलं तस्याः गुणगानम्। तर्हि संस्कृतभाषायाः प्राचाराय, तस्याः आनन्दं अनुभवनाय, संस्कतकौशलं वर्धनाय, भवद्भिः एतत् करणीयम् -
१. श्रवणं पठनं लेखनं सम्भाषणम्
२. यावच्छक्यं संस्कृतेन वक्तव्यम्। यदि भवतां कुटुम्बे अन्येषां जनानाम् अपि संस्कृते रुचिः अस्ति तर्हि वरम्। कुटुम्बसदस्यैः सह सम्भाषणं कुर्वन्तु। मम कुटुम्बे अन्ये जनाः संस्कृतं न वदन्ति, तर्हि अहं किं कृतवान्? संस्कृतभारत्याः अन्यैः कार्यकर्तृभिः सह सम्भाषणं कृतवान्।
बोस्टन् नगरे एका महिला आसीत् यया सह सम्भाषणाय कोऽपि नासीत्। सा मया सह चतुर्मासेभ्यः दूरवाण्या सम्भाषणं कृतवती। स्पष्टम् आसीत् चतुर्मासेभ्यः परं तस्य सम्भाषणकौशलं सुवर्धितम् आसीत्। तर्हि भवन्तः अपि केनापि सह सम्भाषणं कुर्वन्तु। यदि कोऽपि न प्राप्यते तर्हि माम् आह्वयतु।
३. प्रतदिनिं न्यूनातिन्यूनं त्रीणि वाक्यानि संस्कृतेन लिखन्तु। यत्किमपि भवत्सु जीवने प्रचलति तस्मिन् विषये त्रीणि वाक्यानि प्रतिदिनं लिखन्तु। तस्मात् किं भवेत्? भवतां शब्दज्ञानं, व्याकरणज्ञानं आत्मविश्वासः च वर्धताम्।
४. सम्भाषणसन्देशपत्रिकायाः ग्राहकतां स्वीकृत्य प्रतिमासं तां पत्रिकां पठन्तु। पत्रिकायां बहुषु विषयेषु लेखाः सन्ति। तस्मात् शब्दज्ञानं व्याकरणज्ञानं च वर्धते। अहं स्मरामि पञ्चभ्यः वर्षेभ्यः पूर्वं एकां सञ्चिकां पठनाय मह्यं सम्पूर्णमासम् आवश्यकम् आसीत्। इदानीम् अहं सम्पूर्णसञ्चिकां एकस्मिन् सप्ताहान्ते पठितुं शक्नोमि। अतः अद्यैव samskritabharatiusa.org गत्वा पत्रिकायाः ग्राहकतां क्रीणन्तु। केवलं चत्वारिंषद् डौलराणि दत्त्वा आवर्षं मुद्रितपत्रिका भारतात् आगच्छति।
मया एतत् सर्वं किमर्थम् उक्तम्? स्वस्य संस्कृतकौशलं ज्ञानं दर्शनाय न, अपि तु मम संस्कृतयात्रायाः विषये श्रुत्वा भवन्तः अपि किञ्चित् प्रेरणां प्राप्नुुयुः, भवतां संस्कृतज्ञानं कौशलञ्च वर्धेत इति मम आशा।
जयतु संस्कृतं। धन्यवादः।
भाषणमुख्यांशाः
श्वः मया भाषणीयम्। तस्य भाषणस्य मुख्येऽंशा इमे -
१. परिचयः
२. बाल्यकाले विद्यालये
३. २०१२ श्रीचित्रपुरमठः
४. पुस्तकानि क्रीत्वा पठितवान्, पत्रिकां पठितवान्
५. २०१७ संस्कृतभारत्या सह परिचयः
६. श्रमः किमर्थम्?
७. संस्कृतश्रद्धा अस्ति चेत् - आदरं दर्शनाय संस्कृतविषये मा वदतु, संस्कृतेन वक्तव्यम्
८. किं करणीयम् - श्रवणम् पठनम् लेखनम् सम्भाषणम्
९. संस्कृतेन सम्भाषणं कुर्वन्तु
१०. त्रीणि वाक्यानि लिखन्तु
११. सम्भाषणसन्देशपत्रिकां पठन्तु
१३. कार्यकर्ता / शिक्षकः वा भवतु
१४. जयतु संस्कतम्
गुरुवार, 1 दिसंबर 2022
पत्रिकाया ग्राहकता
आ षड्भ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां पठन्नस्मि। पूर्वं पत्रिका मह्यं रोचते स्म। गते वर्षे पत्रिकालेखेषु परिवर्तनञ्जातम्। प्रतिमासं पत्रिकायां त्रयो लेखा मन्दिरसम्बद्धाः सन्ति। केचन लेखा गाव अधीकृत्य वर्तन्ते। काश्चनकथा देशस्वतन्त्रसङ्ग्रामविषये सन्ति। एते विषया मह्यं न रोचन्ते। तथापि संस्कृतपठनं मह्यं रोचते। किञ्च पत्रिकापठनेन शब्दज्ञानं वर्धते। अतः पत्रिकाग्राहकता नवीकृता मया। इतोऽप्येकवर्षं यावत्पत्रिकां पठामि। यदि नैरस्यं भवेत्तर्ह्यग्रिमे वर्षे ग्राहकतां पुनर्न नवीकरिष्यामि।
शनिवार, 17 सितंबर 2022
सरलसंस्कृतम्
सरलसंस्कृतविषये केचनांशाः -
१. भाषाया लक्ष्यम् अवगमनम्।
२. भाषायाः मुखद्वयम् अस्ति - सरलं, प्रौढं चेति।
३. शिशुः जलं पिबति न तु डिम्भः कीलालं पिबति।
४. सरलसंस्कृतं सरलीकृतं एतयोः भेदः।
५. भाषायाः सरलमुखस्य प्रकाशनम्।
६. संस्कृतभाषा सरला न कठिना इति प्रचारः अस्माभिः करणीयम्।
७. निष्कासनं न - आत्मनेपदिधातून् विहाय परस्मैपदिधातवः प्रयुज्यन्ताम्।
पत्रं १७
१. जलं/कीलालं, अश्वः/हयः, नेत्रं / चक्षुः, मेघः/वारिदः, अस्ति / वर्तते / विद्यते (एक एव आवश्यकः)
२. प्रयते / प्रयत्नं करोमि, प्रयुञ्ज्महे / प्रयोगं कुर्मः, उद्घोषयामि / घोषणां करोमि, चिकीर्षामि / कर्तुम् इच्छामि, अधीते / पठति, अध्ययनं करोति, याति / एति / गच्छति।
३. लभते / प्राप्नोति, आस्ते / उपविशति, कुरुते / करोति, पद्यते / गच्छति, प्राप्नोति वा, ईक्षते / पश्यति
४. प्रादेशिकभाषस्थाः शब्दाः प्रयोजनीयाः
५. ६. वारि / जल, राजन् / महाराज, वक्षस्, उरस् / वक्षःस्थल, भिषज् / वैद्यः, वणिक् / आपणिक, चर्मन्, त्वच् / त्वचा
७. लङ्गलकारे उपसर्गसहितप्रयोगः क्लेशाय - स्व्यकरोत् / स्वीकृतवान्, प्राक्षालयत् / प्रक्षालितवान्, उपाविशत् / उपविष्टवान्
८. कार्यालयतः / कार्यालयात्, नववादनतः आरभ्य / नववादनात् आरभ्य, तेषां कृते / तेभ्यः, छात्राणां कृते / छात्रेभ्यः
९. मया क्रियेत / अहं करोमि, तया पठितम् / सा पठितवती, छात्रैः पुस्तकानि लभ्येरन् / छात्राः पुस्तकानि प्राप्नुयुः।
९. कर्ता, कर्म क्रिया इति अन्वयक्रमः अनुसर्तव्यः।
१०. द्वे पुस्तके स्तः - पुस्तकद्वयम् अस्ति, द्वाभ्यां दिनाभ्यां पूर्वम् / दिनद्वयात् पूर्वम्, द्वयोः मासयोः अनन्तरम् / मासद्वयस्य अनन्तरम्
११. युष्मत् विहाय भवत् - त्वाम् सूचयिष्यामि / भवन्तम् सूचयिष्यामि, तव स्यूतः / भवतः स्यूतः, युष्माकम् इच्छा / भवताम् इच्छा, युष्मासु कोऽपि वदतु / भवत्सु कोऽपि वदतु
१२. ध्वनिर्नागच्छति - ध्वनिः न आगच्छति, यो वदति स रमेशः / यः वदति सः रमेशः, पुस्तकपाणिः कः / यस्य हस्ते पुस्तकम् अस्ति सः कः?
१३. अष्टौ / अष्ट, एकोनविंशतिः / नवदश, एकोनत्रिंशत् / नवविंशतिः
१४. प्रश्नः प्रश्नरूपेण वक्तव्यम्,
भवान् भोजनं कृतवान् वा? आम्। अहं भोजनं कृतवान्। न अहं भोजनं न कृतवान्।
कः रमेशः? सः रमेशः?
भवान् कृपया पुस्तकम् आनयतु।