रविवार, 28 अक्तूबर 2018

प्रदूषितवायुः

दिल्लीनगरस्य वायुरतितमां दूषित इत्यद्यतन्यां वार्तायामश्रौषम्। दूषितवायुना बहवा रोगा जायन्ते। फुफ्फुसाः शीर्यन्ते। दिल्ल्यां वासः क्लेशाय। यद्यहं दिल्ल्यामवत्स्यं तर्हि तं दूषितनगरं त्यक्त्वान्यत्रागमिष्यम्।

कुष्माण्डः

हेलोईनपर्व आगच्छन्नस्ति। अद्य सुतस्तस्य माता च कुष्माण्डमतक्षिष्टाम्।

चित्रग्रहणम्

अस्माकं सामन्तस्य मासिकी पत्रिकास्ति। प्रतिमासं तस्यां सामन्तस्य वार्ताः प्रकाश्यन्ते। अस्माकं प्रतिवेशिनी तस्यै पत्रिकायै लेखा लिखति। अस्मिन् मासे सा मम भार्याया विषये लेखँल्लिखन्नस्ति। पत्रिकायाः सम्पादिकास्माँश्चित्रग्रहणार्थमाहूतवती। मध्याह्ने वयमुद्याने ताममेलिष्म। सास्माकं बहूनि चित्राण्यग्रहीत्। लेखेन साकञ्चित्राणि प्रकाशयिष्यन्तयिति तयोक्तम्।

पूर्वतने दूरवाण्यौ

ह्यः पूर्वतनयोः दूरवाण्यो नैजदत्तांशं मार्जितवान् । चिरकालाद्मिमार्जिषुरहम्। भार्याया दूरवाणी तु प्रायो वर्षयावत् निष्प्रयोजका। मम मासप्रायः। द्राक् ते पुनश्चक्रीकरणार्थं दातव्ये।

शनिवार, 27 अक्तूबर 2018

नूतनवर्गः-९

श्वस्तने वर्गे पाठनीया अंशाः -

क्रियापदानि सर्वेषु कालेषु रूपाणि (बहुवचनेऽपि)

पठति पठितवान् पठिष्यति      (पुस्तकम्)
ददाति दत्तवान् दास्यति      (पुस्तकम्)
शृणोति श्रुतवान् श्रोष्यति      (वार्ता)
भवति भूतवान् / अभवत् भविष्यति      (वार्ता)
खादति खादितवान् खादिष्यति     (भोजनम्)
अस्ति आसीत् भविष्यति      (भोजनम्)
पचति पक्तवान् पक्ष्यति      (भोजनम्)
पिबति पीतवान् पास्यति      (क्षीरम्)
करोति कृतवान् करिष्यति      (गृहकार्यम्)
शक्नोति शक्तवान् शक्ष्यति      (गृहकार्यम्)
गच्छति गतवान् गमिष्यति      (चलचित्रमन्दिरम्)
पृच्छति पृष्टवान् प्रक्ष्यति      (चलचित्रमन्दिरम्)
पश्यति दृष्टवान् द्रक्ष्यति     (चलचित्रमन्दिरम्)
वदति उक्तवान् वदिष्यति      (परीक्षा)
लिखति लिखितवान् लेखिष्यति     (परीक्षा)
नयति नीतवान् नेष्यति     (कारयानम्)

स्थितयः
१. भवते पुस्तकं दत्तवती। पठितवती किम्? कथम् आसीत्?
२. वार्ता श्रुतवती किम्? दूषितं जलम्।
३. मित्रं भारतात् आगतवान्। तत्र वातावरणं कथम्? अत्र कथं?
४. मम कार्यालयस्य सहकर्मकराः आगमिष्यन्ति। भोजने किं पक्ष्यति?
५. चलचित्र मन्दिरम् गन्तव्यम्? मित्राणि पृष्टव्यम्। किं चलचित्रम् द्रष्टव्यम्?
६. परीक्षाया फलितांशः सम्यक् नास्ति।
७. कारयानम् परिष्करणम्।

शनिवार, 20 अक्तूबर 2018

नूतनवर्गः-८

श्वस्तने वर्गे पाठनीया अंशाः -

बहुवचनस्य पुनःस्मरणम्।
पुत्राः, लताः, छात्राः, नद्यः, मीनाः, भवन्तः, भवत्यः, फलानि, ते, ताः, तानि

द्वितीयाविभक्तिः
यः क्रिया करोति सः कर्ता। कर्ता प्रथमाविभक्तौ वर्तते।
यः क्रियायाः फलं प्राप्नोति सः कर्म।

पुत्रः वदति।
पिता पुत्रं वदति।

नदी वहति।
मानवः नदीं दूषयति।

सीता पठति।
माता सीतां पाठयति।

भवान् पठति।
अहं भवन्तं पाठयामि।

भवती पठति।
अहं भवतीं पाठयामि।

तत्र वनम् अस्ति।
रामः वनम् गच्छति।

फलं पतति।
बालकः फलं खादति।

विद्यालयः नगरे अस्ति।
सा विद्यालयं गच्छति।

सः तं तर्जयति।
सः तां तर्जयति।

भवान् कं पाठयति?
अहं बालकं पाठयामि।

भवान् कां पाठयति?
अहं बालिकां पाठयामि।

भवती किं खादति?
अहं तत् खादामि।

सम्भाषणाय स्थितयः -
१. अद्य सांयकाले गृहे भोजनं करणीयमुत भोजनालये गत्वा भोजनं करणीयम्?
२. जन्मदिनस्य निमन्त्रणम्।
३. अद्याहङ्किङ्कृतवान्?

सोमवार, 15 अक्तूबर 2018

मन्त्रिणो मोहः

अहं पुत्रेण सह नैमित्तिकेन चतुरङ्गङ्क्रीडामि। पूर्वं मयावेदितँय्यन्मन्त्रिणि हन्यमाने पुत्रश्चाक्रन्द्यते। बहुकृत्वः क्रीडित्वापि स मन्त्रिणो मोहन्न परित्यजति। तं मोहं निवारणाय बहुवारँय्यासु क्रीडासु तस्य मन्त्रिणो मया मारितस्तास्वहन्तु कामतस्तञ्जापितवान्। मन्त्रिणि मृतेऽपि जेतुं शक्यतयिति पाठं तं पाठनार्थम्। परन्तु स मन्त्रिणो मोहन्न वर्जयति। तस्य जिगीषा सुमहती। यदि स एष पाठन्नावगच्छति जीवने पौनःपुन्येनाशाभङ्गः प्राप्येत तेन। जीवने सर्वथा जेतुन्न शक्यते। कादाचित्कतया पराभवोऽपि सहनीयः। शीघ्रं सोऽयमवगच्छेदाधिक्येन स जीवने सुखी भविष्यति।

रविवार, 14 अक्तूबर 2018

ऊर्जांशो मासञ्च

अहं पूर्वमुक्तवान् यद्भोजनयूर्जांशो न्यूनीकरणीयः। अहं शाकाहारी नास्मि तथापि मासमाधिक्येन न भुनज्मि। सामान्यतः मासे द्वित्रवारं मांसं भुनज्मि। प्रतिदिनं व्यायामङ्करोमि। तस्मात् पर्याप्तपोषणमावश्यकम्। गतकतिपयेभ्यो दिनेभ्योऽहं प्रतिदिनं मांसमद्मि। ऊर्जांशमपि किञ्चिदाधिक्येन खादामि। अस्य परिणामो मां विस्माययति। अस्माद्गात्रवेदना न्यूना जाता। रात्रौ निद्रापि समीचीनतराभूत्। दीर्घावधिं यावच्छये। जठरे पाचनमपि समीचीनतरमभूत्। इतिवत् खादिष्यामि।

शनिवार, 13 अक्तूबर 2018

नूतनवर्गः-७

श्वस्तने वर्गे पाठनीया अंशाः -

सप्तमीविभक्तेः पुनःस्मरणम्।
अस्ति भवति धातुरूपे। भवती भवति एतयोः शब्दयोः भेदः।
कदा, अद्य, ह्यः, श्वः, परश्वः, प्रपरश्वः, प्रपरह्यः
द्वितीयाविभक्तिः - अहं भवन्तं / भवतीं / तत् पाठयामि।
बालः विद्यालयं गच्छति। बालिका कन्दुकं क्षिपति। भूतकालः।
समयो भवेच्चेद्भविष्यत्कालः।

पुण्यकोटि

यदि तव संस्कृतजगति रुचिः स्यात् त्वन्नूनञ्जानीयाः ‘पुण्यकोटि’ इत्याख्यया किञ्चनानुप्राणितचलनचित्रं रच्यमानमस्ति। एषा निस्सन्देहेनाह्लादका वार्ता। परन्त्वस्य चलनचित्रस्य विषयो गौरनेनाशाभङ्गः प्राप्तो मया। गोभ्यो मम कापि द्वेषभावना नास्ति। परं संस्कृतप्रचारायोत्तमावसरमवकृत इति ममाभिप्रायः। संस्कृतप्राचाराय ये विषया युवकयुवतीभ्या रोचन्ते तानधिकृत्य चलनचित्राणि निर्माणीयानि। अद्यतनेभ्यो युवकेभ्यो गौरुत पौराणिककथा रोचते वा? गवा कथं युवका आकृश्येरन्? एतादृशानि कर्माणि कृत्वा संस्कृतज्ञाः प्रलपन्ति यदद्यतना बालबालिकाः संस्कृते रुचिन्न दर्शयन्ति।

अभिरक्षायोजनानां शुल्कमधिकायते

साम्प्रतिककाले नानाविधा अभिरक्षायोजना अनिवार्याः - यानाभिरक्षायोजना, जीवनाभिरक्षायोजना, गृहाभिरक्षायोजना - न्यूनातिन्यूनमेताः परिपालनीयाः। यदाकदापि एता नवीकरणाय शुल्कं देयं तच्छुल्कं सर्वथाधिकायते। प्रतिवारमुन्नमितस्य शुल्कस्य दानेन मम मनो दूयते।

पर्यवेक्षको गतः

अस्य सप्ताहस्य गुरुवासरादारभ्यागामिसप्ताहस्य शुक्रवासरं पर्यन्तं कार्यालये मम पर्यवेक्षकमाखेटाय गतः। व्याधः स मृगयिष्यमाणेऽहङ्किञ्चित्सौकर्येण कार्यङ्करिष्यामि। सौविध्येनागामिसप्ताहं गमिष्यतीति तर्कयामि।

पुत्राय जलं व्यस्मरम्

प्रतिशुक्रवासरं पुत्रस्तस्य विद्यालयस्य भोजनालये भोजनमत्ति। परन्तु जलकूपी तु तेन नेतव्या। ह्योऽहं ताञ्जलकूपीं तेन सह गमयितुं व्यस्मरम्। स तस्याध्यापिकां बोधितवान् परमतिरिक्ता जालकूपी कक्ष्यायां नास्ति तयोक्तम्। अतः पुत्र आदिनं पिपासितस्तस्थौ। प्रतिदिनं तस्य माता तमानेतुमपराह्णे विद्यालयङ्गच्छति। सा सर्वथा तस्मै जलं नयति। तां मिलित्वा पुत्रः सर्वं तज्जलं पपौ। प्रदोषङ्कार्यालयादागत्य मया ज्ञातङ्कीदृशः प्रमादो मया कृतः। अनुशयोऽन्वभवम्। भविष्यत्काले पुनः एतादृशः प्रमादो मया न क्रियेतेति जानाम्यहम्।

शनिवार, 6 अक्तूबर 2018

नूतनवर्गः - ६

श्वस्तने वर्गे पाठनीया अंशाः -
प्रथमतः परीक्षायोजनीया। तदनन्तरङ्क्रियापदानि पाठनीयानि।

क्रियापदानि (लट्, लोट्)
गच्छति, वदति, पचति, खादति, पिबति, चलति, धावति, प्रक्षालयति, हरति, वसति
करोमि, वदामि, पठामि, उपविशामि, उत्तिष्ठामि

उपविशतु, पठतु, गच्छतु, आगच्छतु, करोतु
कुर्वन्तु, पठन्तु, गच्छन्तु

यदि समयोऽवशिष्यते सर्वनामानां बहुवचनं पाठनीयम्-
एते, एताः, एतानि, ते, ताः तानि

कूटसमस्या

गतसप्ताहे कार्यालये कयाचित्कूटसमस्यया सह युध्यमान आसमहम्। द्विसहस्रा नूतनाः क्रेतार आस्माकीनाज्जालपुटात्क्रेतुन्न शक्नुवन्तीति मामकेन परिवेक्षकेन मां सूचितम्। केनापि हेतुना क्रेतॄणाङ्क्रयणानुज्ञावधिः (‘बाइङ्ग्-सेशन्-टाइमौट्’) न्यूना जाता। केन कारणेन सोमवासरादारभ्य शुक्रवासरं पर्यन्तमहमन्विष्टवान्। अन्ततः शुक्रवासरे समस्यायाः समाधानं प्राप्तम्। मम परिवेक्षको मया प्रसन्नोऽभवत्। क्रेतारोऽपि प्रसन्ना अभवन्।

प्रतिवेशिनो जन्मदिवसोत्सवः

अद्य प्रतिवेशिनः पुत्रस्य जन्मदिवसोत्सवाय वयमगमाम। तयोः पुत्रस्त्रिवर्षीयोऽभूत्। उत्तम उत्सवः। प्रतिवेशिना नानापशव आहूताः। छागः, कुक्कुट्टाः, शशाः, कादम्बश्च विद्यमानाः। तान् स्पृशन्तो बालबालिका अमोदिषत। अतिथिभ्य उत्तमभोजनमपि परिवेषितम्।

तनयस्य संस्कृताध्ययनम्

गतेभ्यस्त्रिभ्यः सप्ताहेभ्यः पुत्रः संस्कृतवर्गाय गच्छन्नस्ति। वर्गाय गमनं पठनञ्च तस्मै रोचते। प्रतिरात्रावपि स संस्कृतं पठति। देवनागर्या लेखनाभ्यासङ्करोति। इदानीं पर्यन्तं सर्वे स्वराः केचन व्यञ्जनाश्च तेन पठिताः। अस्मान्मुदितोऽहम्। भाविनि काले तस्यासक्तिरनुवर्तिष्यतयित्याशासे।