शनिवार, 29 अप्रैल 2023

हिमखण्डपतनम्

ह्यः साँयकाले हिमखण्डपतनमभूत्। अहं तु गृहयासं परन्तु भार्या कारयाने मार्गयासीत्। वर्षावशाद्वाहनसम्मर्द आसीत्। तेन सा किञ्चिद्विलम्बेन गृहमागच्छत्।

पादत्राणे

पुत्रस्य पादत्राणे षण्मासेष्वेव जीर्णे जाते। पञ्चचत्वारिंशद्रुप्यकाणि व्ययित्वोत्तमे पादत्राणे क्रीत आस्ताम्। ते दीर्घकालं यावदपयोगकरी भवेतामित्यपेक्षासीत्। परन्तु पुत्रः प्रतिदिनं त्रिचतुश्होरा यावन्मार्गे क्रीडति। तस्मात्ते क्षीयेते।

सङ्क्रमणाय विलम्बः

आ द्वाभ्यां सप्ताहाभ्यां दलसङ्क्रमणायामुकेन दलेन सह सम्भाषणं कुर्वन्नस्मि। सर्वाणि सन्दर्शनानि सम्पन्नानि। तथापि तद्दलेनाङ्गीकारो न दत्तः। स दलोन्यान् प्रत्याशिनोऽपि परीक्षत इति चिन्तयामि। अस्मिन् विषयेऽहं तु किमप्यन्त्कर्तुं न शक्नोमि।

संस्कृतसम्मेलनम्

अस्मिन् सप्ताहान्ते राष्ट्रियस्तरीयं संस्कृतमेलनमस्ति। अन्तर्जालेन भागं वहिष्यामि।

मंगलवार, 25 अप्रैल 2023

प्रधानाभ्यन्तृणा सह सन्दर्शनम्

दलसङ्क्रमणाय प्रयत इत्यहं पूर्वं सूचितवान्। तदर्थं ह्यः प्रधानाभ्यन्तृणा सह सन्दर्शनमभवत्। सम्यगभवदिति मन्ये। इतोऽपि न्यूनातिन्यूनं सन्दर्शनमेकमवशिष्यते। तस्मात्परं दलसङ्क्रमणायावसरो लभ्यत इति भावयामि।

रविवार, 23 अप्रैल 2023

रोगग्रस्तः पुत्रः

गतेषु त्रिषु दिनेषु पुत्रा रोगग्रस्त आसीत्। शनिवासरे पादकन्दुकक्रीडा स्पर्धासीत्। तत्र गन्तुं नाशक्नोत्। अद्य स स्वस्थं भासते। श्वो विद्यालयं गन्तव्यम्।

बुधवार, 19 अप्रैल 2023

सप्तभ्यो वर्षेभ्यः परस्तात्

सप्तभ्यो वर्षेभ्यः परस्तात्सम्प्रत्यहं कार्यालये नूतनदलं गमनाय प्रयते। अस्मिन्वर्षे मदीये दले हर्षदायकं कार्यं नास्त्येव। यत्किमपि कार्यमस्ति तदतिनैरस्यपूर्वकमस्ति। अतो दलसङ्क्रमणाय प्रयते। द्वाभ्यां दलाभ्यां सह सम्भाषणं जातम्। तयोः कोऽपि मां स्वीकुर्याद्वा नेति द्रष्टव्यम्।

शनिवार, 15 अप्रैल 2023

पादकन्दुकक्रीडा

पुत्रः पादकन्दुकक्रीडां क्रीडति। प्रतिमङ्गलवासरे क्रीडाभ्यासः प्रचलति। शनिवासरे स्पर्धा। बुधवासरे पुत्रस्य जलतरणपाठो भवति। अतः सप्ताहे त्रिषु दिनेषु कुत्रचित्पुत्रो नेतव्यः।

बुधवार, 5 अप्रैल 2023

कार्यम्

अद्यत्वे कार्यालये कार्यं न्यूनमस्ति। तस्माद्भौतिकविज्ञानं पठनाय समयो लभ्यते। परन्तु महच्छ्रमः समयश्च आवश्यकौ। आ मासात् पठन्नस्मि। प्रगतिः सम्यगस्ति परन्तु श्रान्तिमप्यनुभवामि। यदा कार्यालये कार्यं सामान्यं भवेत्तर्हि भौतिकविज्ञानं पठेयमिति सम्भावना विरला।