सोमवार, 27 जनवरी 2020

औषधमूल्यं वर्धितम्

मम निद्रायाः क्लेशो वर्ततयत्यहं पूर्वं बहुवारमवदम्। ‘एल्-ट्रिप्टोफेन्’ नाम्नौषधमस्ति येनाहं षड्-सप्तघण्टा यावच्शयितुं शक्नोमि। तदौषधस्य मूल्यं त्रयस्त्रिंशत् प्रतिशतं वर्धतिम्। निद्रायाः कृतयौषधसेवनं मह्यन्न रोचते तथापि निद्रा तु प्राप्तव्यैव। दिने कार्यालङ्गन्तव्यं, पुत्रं विद्यालयं प्रापयितव्यम्, व्यायामङ्कर्तव्यम् - अन्यानि कार्याण्यपि सन्ति। मूल्यस्य वर्धनाच्चिन्तयामि केभ्यश्चिद्दिनेभ्य औषधं विना शये। यद्यौषधन्न क्रीयेत तर्हि वरम्। परन्तु यदि निद्रा पुनरपि चतुर्पञ्चघण्टा यावद्ध्रसेत, अगितकगत्यौषधङ्क्रीणीयाम्।

रविवार, 26 जनवरी 2020

बीजपूरम्

ह्यो बहुभ्यवर्षेभ्यः परं बीजपूरमखादम्। इतः पूर्वङ्खाद्यानि केवलं भार्यया क्रीयन्ते स्म। परन्तु केभ्यश्चित्सप्ताहेभ्योऽहमपि तया सह क्रयणाय गच्छामि। सा सर्वथा सामानानि खाद्यानि क्रीणाति। मह्यं वैवध्यं रोचते। तेन खाद्यानि रुचिकरीण्यपि भवन्ति। अतोऽहं सर्वदा नूतनखाद्यान्यन्विष्यामि। बहुभ्यवर्षेभ्यः परं बीजपूरञ्जग्ध्वामोदे।

बुधवार, 22 जनवरी 2020

पुत्रं घर्मो बाधते

केनचिदज्ञात्कारणेन मामकङ्गृहं बहुशीतलं वर्तते। ग्रीष्मकालयेतल्लाभकरम्। शीतकालेऽहङ्गृहेऽत्यधिकशैत्यमनुभवामि। परन्तु पुत्रस्य स्थितिस्तु विपरीतैव। यदाहं स्वेदकं धृत्वा तिष्ठामि स युतकेन विना गृहे भ्रमति। यदाहङ्कम्बलेनाच्छाद्य शये स व्यजनञ्चालयित्वा शेते। रात्रावूष्णयन्त्रं पिधाय वयं शेमहे। तस्मात् प्रातःकालं पर्यन्तङ्गृहे तापमानन्निपतति। कल्यमुत्थायाहं झटिति द्वित्रिवस्त्राणि धरामि परन्तु पुत्र उत्थाय केवलमेकं युतकं धृत्वा प्रातःकालीनानि कार्याणि करोति। यद्यहं हठेन तस्मिन् स्वेदकं धारयामि तर्हि केषाञ्चिन्निमेषानामनन्तरं स तत्स्वेदकञ्जहाति। मम पुत्रस्य शीतसहनशीलतां दृष्ट्वोक्तिविकलोऽस्मि। अहं तं विनोदेन वदामि - त्वया ‘एस्किमो’ कुटुम्बे जन्म लब्धव्यमासीदिति।

रविवार, 19 जनवरी 2020

पुनर्ह्रसते निद्रा

गतकतिपयसप्ताहेभ्योऽहमूर्जांशयुक्तभोजनं भक्षयन्नासम्। तस्माद्भारोऽवर्धत। तन्निवारणाय गतदिनेषूर्जांशयुक्तभोजनङ्किञ्चिन्नयूनतयाखादम्। तत्पुरस्सरन्निद्रा पुनर्ह्रसते। गतत्रिचतुररात्रिषु केवलं पञ्चघण्टा यावत् प्रतिरात्रिमशयि।

शनिवार, 18 जनवरी 2020

२०२०-वसन्तर्तुवर्गः-२

द्वितीयस्तरस्य वर्गायाष्टजनैः पञ्जीकृतम्। अस्मिन् सत्रे नूतनपुस्तकमनुसरामः। गतसप्ताहे चतुर्भ्यश्छात्रेभ्यः पुस्तकमददां यतस्तैरेव वर्गशुल्कं दत्तम्। अस्मिन् सप्ताहे चतुर्भिरन्यैश्छात्रैः पञ्जीकृतम्। साँयकाले सञ्चालकस्य गृहङ्गत्वा तस्मात् पुस्तकानि स्वीकृत्यागमम्। श्वो नूतनछात्रेभ्योऽपि पुस्तकं दातुं शक्ष्यामीति सन्तोषः। नूतनपुस्तकं सर्वेषूत्साहञ्जनयति। पुस्तकेऽस्मिन्नूतनविषया अपि सन्ति यान् वयं पूर्वन्नापठाम। नूतनविषयेभ्यो नूतनपुस्तकाच्च वर्गोऽयमुत्साहेन प्रचलेदित्याशासे। गतवर्षे केनचिच्छिक्षकेनैतत् पुस्तकमाधारिकृत्य पाठनप्रयासः कृतः परन्तु वर्गः सम्यक्तया न प्राचलत्। अस्मिन् वारमेतन्न भूयात्।

नूतनचलनयन्त्रम्

व्यायामाय नूतनचलनयन्त्रमक्रीणिवहि। चलनयन्त्रस्य भारस्त्रिंशदधिकशतपौण्डमितः। व्यायामप्रकोष्ठं द्वितीयस्तरे। कथं यन्त्रमुपरि गमयेवेति प्रश्नः। समतलयावाभ्यामेतावान् भारो वोढुं तु शक्यते, परन्तूपरि नयनङ्कठिनतरम्। तथापि बहुचिन्तनङ्कृत्वा योजनां रचयित्वावां तद्यन्त्रमुपरि नयने सफलावभूव। कोऽपि व्रणितो नाभूत्। यन्त्रगृहे कोऽपि हानिर्नाभूत्। अद्य बहुभ्यो दिनेभ्यः परस्ताच्चलनयन्त्रेऽचलिषम्। दशडिगरिमितं प्रतिकूलमगच्छम्। तेन बहुस्वेदः स्रवितः। आनन्दः प्राप्तः।

रविवार, 12 जनवरी 2020

त्रय एव?

अद्य संस्कृतवर्ग आरप्स्यते। एतावत्पर्यन्तं प्रथमस्तरीयाय वर्गाय केवलं त्रीभिर्जनैः पञ्जीकृतम्, द्वितीयस्तरीयाय वर्गाय केवलञ्चतुर्भिः। आश्चर्यमनुभवामि। जानेऽहञ्जना अन्तिमक्षणे पञ्जीकुर्वन्तीत्यत आशासीद्यदन्तिमदिने बहवो जनाः पञ्जीकुर्युः। परन्तु तन्नाभवत्। अपि च बालाध्यपकेन बालवर्गाभ्यां पञ्जीकरणपत्रन्न प्रेषितम्। तस्माद्बालकाः पठेयुरुत नेति मातापितरो न जानीरन्। यदि ते बालकानानेतुन्न शक्नुवन्ति तर्हि ते स्वयन्नागच्छेयुः। प्रायस्तस्मादेव जनैर्न पञ्जीकृतम्। बालाध्यपकेनेतोऽपि पञ्जीकरणपत्रङ्किमर्थन्न रचितमिति न जाने। दिसम्बरमासेऽवकाशसमयौ चास्ताम्। समयो न प्राप्त इति वचस्तु स्वीकरणानार्हम्। यदि स्वयमेव संस्कृताय प्राधान्यं न दद्याम तर्हि छात्रेभ्य एतादृशीमपेक्षाङ्केनाधिकारेण कुर्याम?

शनिवार, 11 जनवरी 2020

रमणीयमुद्यानम्

वृक्षान् कर्तयित्वोद्यानं रमणीयञ्जातम्। गृहान्तरङ्गता रमणीयं दृश्यं द्रष्टुं शक्यते। बहिरङ्गतोऽधिकप्रकाश आगच्छति।

गुरुवार, 9 जनवरी 2020

वृक्षा लूनाः

मम गृहोद्याने बहवो वृक्षाः सन्ति, पुरतः पृष्ठतोऽपि। ये जना मम गृहे पूर्वमूषुः, तैरुद्यानस्य मध्ये वृक्षा आरोपिताः। केन हेतुना न जाने। अनेन पृष्ठोद्यानं निष्प्रयोजकम्। पुत्रस्तत्र क्रीडितुन्न शक्नोति। यदि कस्मैचित्सम्मेलनाय जना गृहमागच्छेयुस्तर्हि तेषां मनोरञ्जनाय वयं पृष्ठोद्यानं प्रयोक्तुन्न शक्नुमः। शरदर्तौ लक्षशः शुष्कपर्णानि भूमावुपचिन्वन्ति। वेगवायुरागच्छेच्चेदमी वृक्षा गृहं ताडयेयुर्हानिञ्च कुर्युः। अद्योद्यानमध्यस्थाश्चत्वारो वृक्षा लूनाः। अनेच्छया वृक्षा लूना यतोऽहञ्जाने जागतिकोष्णतावशाद्वृक्षा अत्यधिकमहत्वपूर्णाः। तदर्थमेव चतुर्दशसु वृक्षेषु केवलञ्चत्वारो वृक्षा एव लूनाः। इदानीं पृष्ठोद्यानं प्रयोजनाय। तस्मिन् क्रीडितुं शक्नुमः, द्योवीक्षणयन्त्रं स्थापयित्वा द्यां द्रष्टुं शक्नुमः, शिबिरवासङ्कर्तुं शक्नुमः, जनान् समाहर्तुं शक्नुमः।

बुधवार, 8 जनवरी 2020

२०२०-वसन्तर्तुवर्गः-१

आगामिनि भानुवासरे संस्कृतवर्गस्य नूतनसत्र आरप्स्यते। अद्यैकेन कुटुम्बेन सह समाभाषिषि। ते संस्कृतं पिपठिषवः। अहं तान् पञ्जीकरणाय प्रोत्साहनमदाम्। तैरुत्साहो दर्शितः। बहवो जनाः कथयन्ति ते पञ्जीकरिष्यन्ति परन्तु न कुर्वन्ति। ते पञ्जीकुर्युरिति प्रार्थये।

विलम्बेनागमम्

सामान्यतोऽहं सार्धचतुर्वादने कार्यालयादागच्छामि। अद्य षड्वादनयागमम्। सप्तवादनपर्यन्तं पुत्रो दूरदर्शनं पश्यति। तदनन्तरमहं व्यायाममकृषि। स नववादने स्वपिति। अतः पुत्रेण सह न्यूनं समयं यापितवानद्येति खेदः।

शनिवार, 4 जनवरी 2020

प्रत्यूर्जता-२

प्रतिशीतकालं प्रत्यूर्जता मां पीडयति। ‘सीडर्-एलेर्जि’ मां बाबाध्यते। यदि बहिस्थवायोः श्वसिमि तर्ह्यादिनमारात्रि च क्षौमि। ह्यः केवलं पञ्चदशनिमेषान् यावद्बहिरगच्छम्, तेनैव नासिका स्रवति, क्षुतानि चागतानि। नेत्रयोः कण्डूयनमनुभूयते। औषधं भक्षयामि। तेन व्यथा स्तोकन्निवार्यते। अयं सप्ताहान्तस्तापमानदृष्ट्या उत्तमः। बहिर्गन्तव्यम्। वातावरणं रन्तव्यम्। परन्तु प्रत्यूर्जता कारणात्कर्तुन्न शक्नोमि। मुक्तमानवः सन्नपि बन्दिरिव जीवामि। पुत्रस्य स्थितिरपीयमेव।

शुक्रवार, 3 जनवरी 2020

युध्यावहे

प्रतिशनिवासरं साँयकाले दूरदर्शने मल्लयुद्धं दर्शय्यते। अदो युद्धं पुत्राय रोरुच्यते। प्रतिवारं स दिदृक्षति। न केवलं दिदृक्षति, युयुत्सत्यपि। परन्तु केन सह युध्येत? अहमेव तेन सह योद्धुं शक्नोमि। घण्टाद्वयं यावन्मल्लयुद्धं भवति। युद्धे चलति सति विज्ञापनानि यदागच्छन्ति, तस्मिन् कालयावां युध्यावहे। अहमतिजागरुकतया युध्ये येन स व्रणितो न भवेत्। स तु किमप्यचिन्तयित्वा मां तुदति। स उत्सासह्यते मोमुद्यते च। वयसा सह तस्य बलमपि वर्धते। गच्छता कालेन तस्य प्रहारा बलवन्तो भवन्ति, मयि वेदनाञ्जनयन्ति। तथाप्यावां रमावहे।

गुरुवार, 2 जनवरी 2020

द्योवीक्षणयन्त्रम्-२

पुत्राय क्रिस्तमसपर्वावसरे द्योवीक्षणयन्त्रं दत्तम्। एतावत्पर्यन्तं तत्तु पेटिकायामेवासीत्। तस्यांशानद्याहं पुत्रञ्च समाहार्ष्व। अद्य द्यवि मेघाः प्रसृता अतो यन्त्रस्य प्रयोगङ्कर्तुन्नाशकाव। प्रायः श्वः परश्वो वा तस्य प्रयोगङ्कुर्याव। आदौ द्वित्रिवारं तस्य प्रयोगः सरलो न भवेदिति मन्ये। बाल्यकालयेतादृशं यन्त्रं प्रापणाय मम तीव्रेच्छासीत् परन्तु कदापि न प्राप्तम्। सम्प्रत्यवसरः प्राप्तः परन्तु तादृश उत्साहो न वर्तते। गृहाद्बहिर्गन्तव्यं यतो गृहोद्याने बहवो वृक्षाः सन्ति।

बुधवार, 1 जनवरी 2020

तनयः प्रत्यागतः

तनयस्तस्य मातामह्या गृहात् प्रत्यागतः। सप्तदिनानि यावत् स तत्रातिष्ठत्। तत्र सोऽरमत परन्तु स्वगृहं तु स्वगृहमेव भवति। यादृशं सुखं स्वगृहेऽनुभूयते तादृशं तु परजनानां प्रासादेष्वपि न प्राप्यते। अतः प्रत्यागत्य स हर्षितः। क्रिस्तमसपर्वे तेन बहून्युपायनानि प्राप्तानि। तेषु स स्तोकमेव मातामह्या गृहमनयत्। यानि क्रीडनकानि स नानयत्, इदानीं स तैः सह क्रीडति। इतोऽपि तस्य सप्ताहमितोऽवकाशः शिष्यते। आगामिने दिनद्वयायाहङ्गृहात्कार्यङ्करिष्यामि। सोममङ्गगलवासरयोस्तस्य मात्रा कार्यालयाद्विरामः स्वीकृतः। सा तेन सह गृहे स्थाता।