गुरुवार, 9 जनवरी 2020

वृक्षा लूनाः

मम गृहोद्याने बहवो वृक्षाः सन्ति, पुरतः पृष्ठतोऽपि। ये जना मम गृहे पूर्वमूषुः, तैरुद्यानस्य मध्ये वृक्षा आरोपिताः। केन हेतुना न जाने। अनेन पृष्ठोद्यानं निष्प्रयोजकम्। पुत्रस्तत्र क्रीडितुन्न शक्नोति। यदि कस्मैचित्सम्मेलनाय जना गृहमागच्छेयुस्तर्हि तेषां मनोरञ्जनाय वयं पृष्ठोद्यानं प्रयोक्तुन्न शक्नुमः। शरदर्तौ लक्षशः शुष्कपर्णानि भूमावुपचिन्वन्ति। वेगवायुरागच्छेच्चेदमी वृक्षा गृहं ताडयेयुर्हानिञ्च कुर्युः। अद्योद्यानमध्यस्थाश्चत्वारो वृक्षा लूनाः। अनेच्छया वृक्षा लूना यतोऽहञ्जाने जागतिकोष्णतावशाद्वृक्षा अत्यधिकमहत्वपूर्णाः। तदर्थमेव चतुर्दशसु वृक्षेषु केवलञ्चत्वारो वृक्षा एव लूनाः। इदानीं पृष्ठोद्यानं प्रयोजनाय। तस्मिन् क्रीडितुं शक्नुमः, द्योवीक्षणयन्त्रं स्थापयित्वा द्यां द्रष्टुं शक्नुमः, शिबिरवासङ्कर्तुं शक्नुमः, जनान् समाहर्तुं शक्नुमः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें