यथा यथा पुत्रो वर्धते तस्यालस्यमपि वर्धते। यस्मिन्कस्मिन्नपि कार्ये श्रम आवश्यक स न चिकीर्षति। अद्य तरणकुण्डे गच्छेवेति चिन्तितमासीत् परन्तु गमनसमये सोऽतर्कितकारणानि दत्त्वा गन्तुं नाशक्नोत्। प्रतिदिनं केवलं चलच्चित्रक्रीडाणां विषये चिन्तयति तासां विषय एव सम्भाषणं करोति। अन्यत्केवलं कदाचित्पुस्तकानि पठति। तेष्वपि तस्य रुचिर्न्यूना जातेति भासते।
बुधवार, 9 अगस्त 2023
पुत्रस्यालस्यम्
सोमवार, 6 फ़रवरी 2023
रिच्-डैड्-पूर्-डैड् - १०
अथ दशमाध्यायस्य पाठः।
कर्म क्रियताम्। बहवो जना किं कर्तव्यमिति जानन्ति परन्तु कदापि न कुर्वन्ति, केवलं चिन्तयन्ति। धनं स्वयं नागच्छति। धनं प्रापणाय कर्म कर्तव्यम्।
रिच्-डैड्-पूर्-डैड् - ९
अथ नवमाध्यायस्य पाठः।
धनार्जनाय केचनांशाः -
१. धनार्जनेच्छान्तरिकी भावनात्मकी च भवतु। न भवति चेद्यावाञ्छ्रम आवश्यकस्तावन्तं करणं दुष्करम्।
२. धनं कथं व्ययितव्यमिति प्रतिदिनं वयं चिनुमः। सम्यक्तया धनस्य प्रयोगः करणीयः।
३. धनं कथमर्जनीयमिति धनाढ्यमित्रेभ्यः शिक्षणीयम्। धनं कथं न व्ययितव्यमिति दीनमित्रेभ्यः शिक्षणीयम्।
४. धनार्जनाय बहवो मार्गाः। कञ्चन मार्गमनुसृत्य धनं सङ्ग्रह्यान्यो मार्गोऽनुसरणीयो यतो गच्छता कालेन प्रथममार्गो बहुभिर्ज्ञायेत। तस्माद्धनार्जनावसरा न्यूना भवेयुः। नूतनमार्गो गम्यते चेज्जनाभावादधिकावसरा भवेयुः।
५. धनस्य मूल्यं गच्छता कालेन क्षीयते। अतः सर्वप्रथमं धनं स्वस्मै प्रयोक्तव्यम्। तदनन्तरमेवान्येभ्यः।
६. ये जना धनार्जनायास्माकं साहाय्यं कुर्वन्ति तेभ्य औदार्येण धनं दातव्यं यतस्तेषां कारणेनैव वयं समधिकधनमर्जयितुं शक्नुमः।
७. धनार्जनाय धननिवेशनमावश्यकम्। धननिवेशनं कृत्वा निविष्टं धनं पुनर्लभ्येत परन्तु तस्मादधिकं किं लब्धुं शक्यतयित्यस्य विषयेऽवधानं करणीयम्। तस्मादधिकं यल्लब्धुं शक्यते तस्य विशेषमहत्त्वमस्ति यतस्तन्निश्शुल्कं भवितुं शक्नोति।
८. धनस्य स्वामी भव। विपरीतं मा भवतु। धनाधीनो मा भूः।
९. आदर्शजनाननुसरणं करणीयम्। यशस्विनः किं कुर्वन्तित्यस्यावधानं कृत्वा स्वजीवने तेषां धनाचरणं करणीयम्।
१०. अन्यान्धनविषये पाठय। अन्येभ्यः धनं ज्ञानं च दातव्ये। यद्दीयते न केवलं पुनः प्राप्यते, यावद्दत्तं तस्मादधिकं प्राप्यते।
रविवार, 5 फ़रवरी 2023
रिच्-डैड्-पूर्-डैड् - ८
अथाष्टाध्यायस्य पाठः।
स्वसंस्थायै कार्यं करणेऽस्माकं संशयोऽस्ति। तस्य कारणानीमानि।
१. धनच्युतेर्भयम् - ये कदापि धनहानिं न सहन्ते ते आवश्यकीं सन्देहास्पदतां न स्वीकुर्युः। तस्माद्धनं कदापि नागच्छति। धनवर्धनाय किञ्चित्सन्देहास्पदता सहनीयैव।
२. संशायलुता - सर्वं सर्वदा विनाशकरि भवितुं शक्नोतीति ये चिन्तयन्ति ते कदापि धननिवेशनं न कुर्वन्ति। तस्माद्धनं कदापि नागच्छति।
३. आलस्यम् - ये धनविषये चिन्तनं परिहरन्ति ते साकूतमन्येषु कार्येषु मनोनिवेशनं कृत्वा व्यस्ता भवन्ति। मनस्सु ते जानन्ति तैर्धनविशयेऽवधेयं परन्तु तच्छिरोवेदनां परहिरन्ति। तस्मात्तेषां सम्पन्न वर्धते।
४. हीना धनशालीनता - धनं यादृशं वस्त्वस्ति यस्य मूल्यं गच्छता कालेन क्षीयते। अतो धनमस्ति चेत्स्वस्मै सर्वप्रथमं धनस्य प्रयोगः करणीयः। अन्येभ्यो धनं दातव्यं चेद्यावच्छक्यं तावद्विलम्बेन दातव्यम्। न दातव्यमिति नास्ति। पूर्वनिश्चिततिथिसीमामतिक्रम्य दातव्यमित्यपि नास्ति। परन्तु देयतिथेः परिधिरस्ति चेत्तर्हि परिधेरन्तिमभागे धनं दातव्यम्। तस्मात्पूर्वं स्वस्मै धनोपयोगः करणीयः।
५. दर्पः - यदहं जानामि तस्यैव महत्त्वं, तदेव धनं वर्धयितुं शक्नोति, यन्न जानामि तस्य महत्त्वं नास्ति, तस्माद्धनमर्जयितुं न शक्यतयिति चिन्त्यते चेन्निश्चयेन धनहानिर्भवेत्। स्वस्याज्ञानमभिज्ञाय नूतनविषयाः पठनीया यस्मान्नूतनपद्धतिभिर्धनार्जयितुं शक्येत।
रिच्-डैड्-पूर्-डैड् - ७
अथ सप्तमाध्यायस्य पाठः।
अन्याभ्यः संस्थाभ्यः कार्यं कुर्याम चेत्कौशलं वर्धनायैव धनार्जनाय न। वेतनं विना कार्यं करणीयमिति नाभिप्रायः परन्तु वेतनस्य महत्त्वं गौणं कौशलस्य प्रधानमिति चिन्तनं भवतु। कौशलं लब्ध्वा स्वसंस्था प्रवर्तनीया यस्माद्धनमसमभ्यमर्ज्यते न त्वन्येभ्यः।
रिच्-डैड्-पूर्-डैड् - ६
अथ षष्ठाध्यायस्य पाठः।
धनिका धनं निर्मान्ति। अधनिका धनाय कार्यं कुर्वन्ति। स्वव्यवसायेन वयमपि धनं निर्मातुं शक्नुमः। तत्स्याच्चेदन्येभ्यः कार्यकरणं नावश्यकम्। धनं निर्माय धनार्जनं कर्तुं शक्नुमः।
रिच्-डैड्-पूर्-डैड् - ५
अथ पञ्चमाध्यायस्य पाठः।
अन्याभ्यः संस्थाभ्यः कार्यं कुर्मश्चेत्सर्वप्रथमं सर्वकारायायकरो देयः। तदनन्तरमयदवशिष्यते तदसम्भ्यम्। स्वस्य संस्थां रचयित्वा कार्यं कुर्मश्चेत्सर्वप्रथमं स्वस्मै धनं दीयते। तदनन्तरमयद्वशिष्यते तदेव सर्वकारेणायकररूपेण दीयते। उभयोः स्थित्योर्महान् भेदः। यावच्छक्यं स्वसंस्थायै कार्यं कर्तव्यं न त्वन्याभ्यः संस्थाभ्यः।
रिच्-डैड्-पूर्-डैड् - ४
अथ चतुर्थाध्यायस्य पाठः।
यदि सामान्योद्योगः क्रियते तर्हि वयमन्येभ्यो धनमर्जयामः। यदि स्वव्यवसायाय कार्यं कुर्मस्तर्हि स्वेभ्यो धनमर्जयामः। स्वेषां सम्पत्कथं वर्धनीयेति मनसि निधाय कार्यं कर्तव्यम्। अन्येषां सम्पद्वर्धनाय न कार्यं करणीयम्।
रिच्-डैड्-पूर्-डैड् - ३
अथ तृतीयाध्यायस्य पाठः।
कार्यस्वान्त्र्यं प्रापणाय धनविषयका अङ्का अवगन्तव्याः। किं धनं सम्पत्किं देयकमित्यभिज्ञातव्यम्। तस्मात्समपदर्जनं वर्धेत देयकानि क्षायेयुः। वर्धन्त्या सम्पदा कार्यस्वान्त्र्यं लभ्येत।
रविवार, 29 जनवरी 2023
रिच्-डैड्-पूर्-डैड् - २
रिच्-डैड्-पूर्-डैड् इति पुस्तकं पठामि। विंशतिवर्षेभ्यः पूर्वं पुस्तकमपठम्। धनविषये पुस्तकमस्तीत्येव स्मरामि। तस्मादधिकं किमपि न स्मरामि। अधुना पुनः पठामि।
अथ द्वितीयाध्यायस्य पाठः।
धनार्जनाय धनस्य कृते न कार्यं करणीयम्। धनार्जनाय धनेनास्मभ्यं कार्यं कारयितव्यम्। सामान्योद्योगोऽस्ति चेत्काश्चन होरा यावत्कार्यं कृत्वा ध्रुवराशिधनं लभ्यते। स्वस्य व्यवसायो भवेच्चेदसीमितधनं लब्धुं शक्यते। किञ्च लभ्यमानो धनराशिर्व्ययितहोराराशेः समधिको भवितुं शक्नोति।
थिङ्किङ्ग्-इन्-बेट्स् - ६
अथ षष्ठाध्यायस्य पाठः।
निर्णयं कुर्वति सति तस्य निर्णयस्य विषये भूतकाले भविष्यत्काले च चिन्तनीयम्। निर्णयोऽयं यदि पञ्चवर्षेभ्यः पूर्वमकरिष्यतासीत् तर्हि कथं भाव्यते। पञ्चवर्षेभ्यः परं क्रियेत चेत्तर्हि कथं भाव्यते। मदिरापानं कृत्वा वाहनचालनाय सज्जो जनः स्वं प्रष्टुं शक्नोति - एतस्य विषये श्वोऽहं कथं चिन्तयामि। अन्यच्च भविष्यत्काले कीदृशाः प्रमादाः कर्तुं शक्नुयाम तद्विचिन्त्य सम्प्रति तन्निवारणाय पदानि स्थापनीयानि येन प्रमादाः न भवेयुरेव। बहुषु विकल्पेषु कस्य विकल्पस्य कियती सम्भावनास्तीति चिन्तयित्वा निर्णयः करणीयः। यल्लक्ष्यमस्ति तत्साधितमिति चिन्तयित्वा तत्साधनाय किं किं कर्तव्यमिति स्पष्टं भवति। भविष्यत्काले लक्ष्यमसाध्यं तिष्ठतीति चिन्तयित्वा किं किं न करणीयमिति स्पष्टं भवति। सम्यङ्निर्णयकरणायोभे आवश्यके।
शनिवार, 28 जनवरी 2023
थिङ्किङ्ग्-इन्-बेट्स् - ५
अथ पञ्चमाध्यायस्य पाठः।
कोऽपि सन्देशो न रोचते चेद्दूतो न हन्तव्य इति तु सर्वज्ञातम्। सत्यमेव। तदतिरिच्य सन्देशः सत्योऽस्ति चेत्सन्देशोऽपि न हन्तव्यः। तन्नाम सन्देशस्य सत्यता न रोचते चेत्सन्देशो नोपेक्षणीयः। किमपि सत्यं कुत आगतम्, कथमागतम्, केन दत्तमित्युपेक्ष्य तत्सत्याद्वयं किं शिक्षितुं शक्नुयामेति चिन्तनीयम्। तस्मान्निर्णयकरणकौशलं वर्धनीयम्। जनसमूहे कैश्चन जनैः सह मतभेदस्तु भवत्येव। तत्सामान्यम्। येभ्यो मतभेदोऽस्ति तेषामुपेक्षा न करणीया। तेषां मतं श्रुत्वा स्वस्य मते ये दोषाः सन्ति ते परिष्करणीयाः। अपि चान्यैः सह मतभेदे सति 'परन्तु' इत्यस्य प्रयोगोऽत्यवधानेन करणीयः। यावच्छक्यं 'च' प्रयोक्तव्यः। 'त्वमेवमेवं वदसि परन्तु...' इत्यस्य स्थाने 'त्वं यद्वदस्यहमवगच्छामि। तदतिरिच्यास्माभिरेवमेवमपि परिशीलनीयम्' - एतत्क्रियते चेत्समूहे द्वेषभावना न भवेत्। सर्वे मिलित्वा कर्तव्यं कार्यं समीचीनतया करणाय प्रयतन्तयिति भावो वर्धते।
मंगलवार, 24 जनवरी 2023
थिङ्किङ्ग्-इन्-बेट्स् - ४
अथ चतुर्थाध्यायस्य पाठः।
कृतस्य निर्णयस्य दुष्परिणामस्य निमित्तं दौर्भाग्यमिति चिन्तनस्य निवारणाय केषाञ्चिद्विशिष्टमित्राणां समूहः सृष्टव्यः। सामान्यतो मित्राणि दुष्परिणामेषु सान्त्ववचांसि ददति। न तव दोषो दौर्भाग्यस्यैव दोष इति सामान्यमित्राणि ब्रुवन्ति। परन्तु दुष्परिणामेभ्यो वयं नूतनपाठान्पठाम। तदर्थं ये जनाः सान्त्ववचांसि त्यक्त्वा वयं कुत्र दोषमकरवामिति विशदीकुर्युस्तादृशानि मित्राणि भवन्तु। एभिर्मित्रैः परस्परावगमनं भवतु यद्वयमस्मिन् समूहे निस्सङ्कोचं दोषान् विषदीकुर्याम। एतस्मात्परस्परं लाभो भवेत्। समूहे केनापि दोषे विशदीकुर्वत्यन्यैर्द्वेषो न करणीयः। अनेन भविष्यत्कालेऽस्माकं समीचीननिर्णयकरणकौशलं वर्धेत।
रविवार, 22 जनवरी 2023
थिङ्किङ्ग्-इन्-बेट्स् - ३
अथ तृतीयाध्यायस्य पाठः।
कृतस्य निर्णयस्य दुष्परिणामः स्याच्चेद्वयं दुर्भाग्ये दोषं स्थापयामः। परिणामोऽस्मदनुगुणं स्याच्चेद्वयं स्वस्य कौशलं कारणभूतं घोषयामः। अन्यैः कृतेषु निर्णयेषु वयं विपरीततया व्यवहरामः। दुष्परिणामास्तेषां कौशलाभाववशाद्घोषयामः। उत्तमपरिणामास्तेषां सौभाग्यवशाद्घोषयामः। एषा प्रवृत्तिः परिहरणीया। कोऽपि परिणामो भाग्यकौशलयोः केनिचित्संयोजनेन लभ्यते। दुष्परिणामो भवेत्सुपरिणामो भवेद्वा कृतेषु निर्णयेषु के के दोषा अस्माभिः कृताः, तेभ्यो दोषेभ्यो वयं कं पाठं ग्रहीतुं शक्नुम इति चिन्तनीयम्। तस्मादग्रिमेषु निर्णयेषु जीवने च लाभो भवेत्।
शनिवार, 21 जनवरी 2023
थिङ्किङ्ग्-इन्-बेट्स् - २
अथ द्वितीयाध्यायस्य पाठ:।
सर्वेषामुकी विचारसरणिरस्ति। जनास्तद्विचारसरणिं दृढीकरणाय प्रमाणमन्विष्यन्ति। विचारसरणेर्विपरीतप्रमाणं लभ्यते चेज्जनास्तत्प्रमाणं तृणीकुर्युः। तन्न कर्तव्यम्। अस्माकं साम्प्रतिकविचारसरणिः समीचीनास्ति वा नेत्यस्य प्रश्नः करणीयः। गच्छता कालेन यदा यदा प्रमाणं लभ्यते तदा तदा तदाधारीकृत्य विचारसरणिः परिवर्तनीया त्यक्तव्या वा। यस्मिन्नस्माकं विश्वासस्तदुपरि वयं धनेन पणयितुं सज्जा वा? यदि न तर्ह्यधिकप्रमाणमन्वेषणीयम्। जीवने सर्वे निर्णयाः पणीकरणमिव। कियती दृढा प्रतीतिरस्तीति चिन्तयित्वा निर्णयाः करणीयाः।
थिङ्किङ्ग्-इन्-बेट्स् - १
थिङ्किङ्ग्-इन्-बेट्स् इति पुस्तकं पठामि। अथ प्रथमाध्यायस्य पाठः।
कश्चन निर्णयः सम्यगसीद्वा नेत्यस्य निर्णयः कृतस्य निर्णयस्य परिणाममाधारीकृत्य न कर्तव्यः। जीवने बहूनि निमित्तकारणानि न केवलमस्माकं हस्ते न सन्ति परन्तु तेषां विषये बहुवारं वयं न जानीम एव। निर्णयः सम्यक् सत्यपि परिणामो हानिकारको भवितुं शक्नोति। निर्णयसमये सर्वा ज्ञातसूचनाः परिशील्य पर्याप्तचिन्तनं कृत्वा च निर्णयः कृत एतदेव सम्यङ्निर्णयं सूचयति। परिणामस्त्वस्माकं हस्ते नास्ति।
बुधवार, 18 जनवरी 2023
ब्रेन्-रूल्स् - अध्यायः १२
अथ द्वादशमाध्यायस्य पाठः।
कौतुकमत्यावश्यम्। बालकेषु कौतुकं श्लाघनीयम्। तस्माच्छिक्षणं सम्यग्भवेत्। तस्माद्बालका नूतनकौशलानि लभेरन्।
ब्रेन्-रूल्स् - अध्यायः ११
अथैकादशमाध्यायस्य पाठः।
पुरुषस्त्रियोर्मस्तिष्कौ भिन्नतया कार्यं कुरुतः। तयोर्भेदमवगम्य तदानुसारं पठनं पाठनञ्च करणीयम्। तस्मात्पुरुषस्त्रियोरुभयोः शिक्षणं सम्यग्भवेत्। एतन्न केवलं विद्यालयेऽपितु कार्यालयेऽपि करणीयः।
यद्यपि पुस्तकमुपरिदत्तं पाठं पाठयति तथाप्यद्यत्वे तादृशं कर्तुं शक्यतयित्यस्मिन् मम सन्देहः। यतोऽद्यत्वे सर्वत्र स्त्रीपुरुषसामान्यताया गानमेवास्ति। कोऽपि भिन्नतया वदेच्चेत्स स्त्रीद्वेषी भाव्यते।
ब्रेन्-रूल्स् - अध्यायः १०
अथ दशमाध्यायस्य पाठः।
सर्वेष्विन्द्रियेषु दृष्टिः प्रधाना। सर्वेष्विन्द्रियेषु मस्तिष्को दृष्टये सर्वाधिकसंसाधनानि ददाति। चित्रमेकं सहस्रशब्दा इवेत्युच्यते। तत्सत्यम्। अवगमनाय सूचनां दानाय च चित्राणां प्रयोगः करणीयः। तस्मात्सूचना दीर्घं यावत्स्मर्येत।
सोमवार, 16 जनवरी 2023
ब्रेन्-रूल्स् - अध्यायः ९
अथ नवमाध्यायस्य पाठः।
कस्यचिद्वविषयेऽवगमने बहूनीन्द्रियाणी प्रयुज्यन्ते चेद्दीर्घकालं यावद्विषयस्य स्मरणं भवति। इन्द्रियेषु जिघ्रणं विशिष्टमस्ति। सुगन्धेन बहुवर्षेभ्यः पूर्वं स्मृतमपि झटिति मस्तिष्के मुखे चागच्छति।