सोमवार, 31 दिसंबर 2018

कालो वेगेन याति

कियद्विलम्बेन वर्षान्त आगत इति भावना प्रतिवर्षान्ते बाल्यकाले मनसि वर्तते स्मेति सम्यक्तया स्मरामि। अद्यत्वे सा भावना विपर्यस्ता जाता। सम्प्रति वर्षान्तः शीघ्रेणागच्छतीति भावना मनस्युद्भवति। साम्प्रतिककाले जीवनवेगो वर्धमानः। तत्काले (बाल्यकाले) दूरदर्शनमल्पकालाय प्रसारितम्, अन्तर्जालन्नासीत्। तेन व्यस्तता न्यूनासीत्। कदाचिद्विद्युच्छक्तेरभावात्किमपि कर्तुन्नाशक्नुम - तिमिरयुपविश्य सँल्लापमभजामहि। जीवनं सरलमासीत्। काले कालेऽहं तज्जीवनं स्मरामि समुत्कण्ठे च।

वाद्ययन्त्राभ्यासः-६

यद्गीतपुस्तकं बुधवासरयागमिष्यमानमासीत्तत्पुस्तकमद्यैवागमत्। हर्षितोऽहम्। अमुष्मिञ्छतानि गीतानि लिखितानि। तेषाँव्वादनाय कानि कानि सन्तन्त्राणि वादनीयानीति दत्तम्। इतःपरङ्गीतानि कथँव्वादनीयान्येतन्निमित्तँय्यूट्यूबजालपुटे चलनचित्रदर्शनमनावशयकम्। एतस्मात् सङ्गणकेन विनैवाभ्यासङ्कर्तुं शक्ष्यामि। वाद्ययन्त्राभ्यासे नूतनात्साहमनुभवामि।

समधिकञ्जलदेयकम्

देयकानि सर्वैर्देयानीति जीवनस्य कटुसत्यम्। तस्मादपि कटुतरं समधिकदेयकम्। विविधेषु देयकेषु जलदेयकमन्यतमम्। नवम्बरमासेऽस्मत्कुटुम्बेन षष्शताधिकत्रिसहस्रा जलाढकाः (‘गेलन्’) परिमितञ्जलं प्रयुक्तमिति देयकं दर्शयति। तत्सामान्यम्। तेन कुटुम्बेनैव दिसम्बरमासे नवशताधिकपञ्चसहस्रा जलाढकाः परिमितञ्जलं प्रयुक्तमिति दिसम्बरमासीयं देयकं बोधयति! अमुष्यां हेमन्तर्तौ पर्याप्तवृष्टिरभवत्। तेन हेतुना तृणसेचकोऽपि न व्यापारितोऽस्माभिः। कोऽप्यतिथिर्नागतवान्। गृहस्य जलप्रणाल्यां स्रावो न दृश्यते। तर्हि कथमेतच्छक्यते? मया कः प्रतिवादो देयः? अस्माभिरमुष्मिन् प्रमाणे न जलमुपभुक्तम्? निश्चयेन सर्वकारो विश्वासन्न कुर्यात्। किमपि कर्तुन्न शक्यते। समधिकं देयकं देयम् - किं बहुना?

रविवार, 30 दिसंबर 2018

गृञ्जनकलायः

अद्य बहोः कालस्यानन्तरङ्गृञ्जनकलायमघसम्। बाल्यकाले माता भोजनाय तत्पचति स्म। भार्या प्रथमकृत्वोऽपाक्षीत्। नैशाहारस्तया संस्कृतः। जग्ध्वा महान्तं सन्तोषमप्रापम्।

वाद्ययन्त्राभ्यासः-५

वाद्ययन्त्राभ्यासो मन्दगत्या प्रचलति। कठिनङ्कार्यमेतत्। यस्माज्जालपुटादहं पाठान् स्वीकरोमि तस्मादद्य गीतपुस्तकस्य क्रयणादेशं दातुमहं समुद्यत आसम्। स जालपुटो ब्रिटेनदेशीयः। तस्मायन्यद्विनिमयद्रव्यमपेक्ष्यते। अन्ताराष्ट्रियं पुस्तकप्रेषणशुल्कमपि निरीक्ष्यते। तथापि करवाण्येतदालोच्य क्रयणादेशजालपुटस्थं पिञ्जं नोदनाय सन्नद्धोऽहम्। यदि पुस्तकमिदं स्वेदेशे लभ्येत तदानुकूल्यायेत्यचिचिन्ते। पिञ्जमनुत्वैवान्यस्मिञ्जालपुटे पुस्तकानवेषणमकृषि। अहो! पुस्तकँल्लभ्येत! किमर्थं मया पूर्वन्नान्विष्टम्? तावदेव न, तस्य मूल्यमपि स्वल्पम्! किञ्च दिनद्वयाभ्यान्तरे पुस्तकँल्लब्धुं शक्यते। ब्रिटेनदेशादागमनाय न्यूनातिन्यूनं सप्ताहावधिर्निरीक्षिता। एतस्माज्जालपुटात् पुस्तकं बुधवासरयागन्ता। तदुपयुज्य वाद्ययन्त्रे सङ्गीताभ्यासङ्कर्तास्मि।

ऊष्णशीतवायू

ऊष्णवायुरुद्गच्छति शीतवायुरवतरतीति विज्ञानस्य सर्वविदिततथ्यम्। सिद्धान्तोऽयं मम गृहे सुस्पष्टं द्रष्टुं शक्यते। मम गृहं द्विस्तरीयम्। उपरितने स्तरे चलनयन्त्रमस्ति। अतो व्यायामनिमित्तमेवोपरि गन्तव्यं सर्वैः। न केनाप्यन्येन हेतुना। यदा चलनयन्त्रं निरुपयुज्यमानमस्ति तदा सर्वदोपरितनस्य प्रकोष्ठस्य द्वारं पीहितमस्ति। शैत्यकाले तस्य प्रकोष्ठस्यातपस्तरः स्वयमेव न्यूनो भवति। निम्नस्थानां प्रकोष्ठानामपेक्षया तापमानं दशडिगरीर्यावन्न्यूनतरम्। यदि प्रकोष्ठस्य द्वारमुद्घाट्य निमन्स्थोष्णयन्त्रञ्चालयामो झटिति सोपाने शीतवायोरवतरणमूष्णवायोरद्गगमनमनुभूयेते। विंशतिनिमेषाभ्यान्तरयुपरितने स्तरे तापमानं षड्डिगरीर्यावद्वर्धते, होरार्धे दशडिगरीर्यावत्। एतावदेव न यद्यपोष्णयन्त्रङ्कार्यरतं तथापि निम्नस्तरस्य तापमानमपि ह्रसते! शीतोष्णवायोर्विनिमयेन। पादोनहोराभ्यान्तरयुभयोः स्तरयोस्तापमानं समानं भवति। यद्यप्युपरितने स्तरेऽप्यूष्णयन्त्रमस्ति तथापि तच्चालयितुमावश्यकता नास्ति।

शनिवार, 29 दिसंबर 2018

शतनिमेषान् यावत्

अद्य भार्या सुतमानयनाय तस्या मातृगेहङ्गता। अतो गृहेऽहमेकलः। प्रातःकाले काफ्यापमगमम्। तत आगत्य चलनयन्त्रे शतनिमेषान् यावदचालिषम्। तस्यामवधौ पञ्चमैलेभ्योऽप्यधिकमाटिषम्। शतनिमेषाः परस्ताच्चलनयन्त्रं स्यवमेव व्यरमत। एतद्भवेदिति मया न ज्ञातँय्यतोऽहं पूर्वङ्कदाप्येतावद्दूरन्नातरम्। एतस्मिन्नन्तराले शताधिकसहस्रोष्माङ्कानदहम्। एतावन्त ऊष्माङ्काः पूर्वङ्कदापि न दग्धा मया। यतो ह्योऽहञ्चलनयन्त्रे नाचलमित्यतोऽद्यैतावच्चलित्वा महत्सन्तोषं प्रापम्।

शुक्रवार, 28 दिसंबर 2018

गृहादेव कार्यम्

बुधवासरेऽहङ्कार्यालयमगच्छम्। तत्र केवलमेको मदीयो दलीय आगच्छत्। सोऽपि दशवादनयेागत्वैकवादने प्रत्यागच्छत्। तस्मिन् गतेऽहमपि गृहं प्रतिनिवृत्तः। गुरुशुक्रवासरयोरपि गृहादेव कार्यङ्कृतवान्। यतः कार्यन्न्यूनम्। मम पर्यवेक्षका अपि कार्यालये न सन्ति। अयं सप्ताहः सुकरः। सर्वे सप्ताहा एतावत् सुकराः भूयासुः।

बुधवार, 26 दिसंबर 2018

अद्य कार्यालये

अहमाद्य कार्यालयमगमम्। यद्यप्यहमजानाँय्यत्कार्यालये न्यूना जना एव भवेयुस्तथाप्यहमागमम्। दिनचतुष्टयँय्यावद्गेहयेवास्थितोऽहम्। प्रत्यूर्जतावशादाधिक्येन बहिर्नगतवान्। अतो नैरस्यमनुभूतवान्। तन्निवारणाय कार्यालयमागमं परमत्रापि बहवो जना न सन्ति। विशेषतो मम देले तु कोऽपि नास्ति। अर्धघण्टाभ्यान्तरे यदि मदीयो दलीयः कोऽपि नागच्छेत्तर्हि गृहं प्रतिनिवर्त्स्ये।

मंगलवार, 25 दिसंबर 2018

पत्रे धनन्न प्रेषणीयम्

अद्य श्वश्र्वागमत्। आवाभ्यां धनेन किङ्कृतमिति साप्राक्षीत्। किं धनमावां प्रत्यप्राक्ष्व। यद्धनं मया अभिनन्दनपत्रे प्रेषितं तत्। आवाङ्कथङ्कथिकतया मिथोऽद्राक्ष्व। किमपि पत्रन्न प्राप्तमावाभ्यामिति तामजीज्ञपाव। पत्रे कियद्धनमासीदावामप्राक्ष्व। द्विशतरुप्यकाणि सावादीत्! आवां तां पूर्वमपि बहुकृत्वो बोधितवन्तौ यत् पत्रे धनन्न प्रेषणीयं परं सा न शृणोति। अपि नामेतिवृत्तेन तया पाठमवगम्येत।

क्रिस्तमसपर्वः

अद्य क्रिस्तमसपर्वः। श्वश्र्वागमत्। श्वशुरः कार्यरत इत्यतः स नागमत्। वयं सर्वेयुपायनानां विनिमयमकार्ष्म। तनयेन तु बहूनि क्रीडकानि प्राप्तानि। स प्रहृष्टोऽभूत्। मयापि बहूनि नूतनानि वस्त्राणि प्राप्तानि - त्रीणि युतकानि द्वयुरुके च। सौरभान्विते फेनकेऽपि प्राप्ते। शीतर्तौ मदीयाभ्यां पादाभ्यां बहुशैत्यमनुभूयते। अनेन कारणेन मम भार्या मह्यमौर्णिकपादकोषावदात्। अहं भार्यायै मिश्रकं त्वचाफेनकञ्चादाम्। सर्वे सन्तुष्य विविधानि पक्वान्यखादिषुः। अनन्तरं सुतस्तस्य मातामह्या सह तस्या गृहमगमत्। स रविवासरयागन्ता।

सोमवार, 24 दिसंबर 2018

अंशापणः पुनरपप्तत्

अद्यांशापणः पुनरपप्तत्। शुक्रवासरेऽपि भूरिप्रमाणेन सोऽपतत्। तद्दिनेऽहङ्किमप्यंशपत्राणि नाक्रीणि। सुयोगस्य क्षेपो कृत इति विचिन्त्य सप्ताहान्ते विषादो मयानुभूतः। अद्यांशापणः केवलङ्घण्टाचतुष्टयँय्यावदुद्घाटितः। प्रातःकालादेवाहं तस्मिन् दृष्टिं प्रसारयन् सङ्गणके स्थितः। यदा स पतन्नासीत्तदा कानिचनांशपत्राण्यक्रेषि। सद्य गतपञ्चसु वर्षेषु यन्ननिवेशितं तत्सर्वं लाभशून्यञ्जातम्। इदानीं यावन्मूलनिधिस्तु संरक्षिता। आगामिषु दिनेष्वंशापणः कथं व्यवहरिष्यतीति द्रष्टव्यम्।

साहिब-बीबी-और-गुलाम

ह्यो दूरदर्शने ‘साहिब-बीबी-और-गुलाम’ इत्याख्यया चलनचित्रमपश्म्। द्विषष्ट्यधिकनवशताधिकसहस्रतमे वर्षे गुरुदत्तवर्येण निर्मितञ्चलनचित्रमिदं द्रष्टुमनुज्ञा न प्राप्ता मया बाल्यकाले यतो चलनचित्रस्य विषयः प्रौढेभ्यः। अतो यदा ‘एमेज़ोन्’ आवृत्त्यामिदमपश्यं तदा दिदृक्षोद्भूता। अत्युत्तममित्यनेन पदेन तु नाहमिदञ्चलनचित्रं विभावयामि परमेकवारं तु दर्शनार्हमिति कथयित्वा विरमे।

स्वल्पवाहनसञ्चारः

अद्य प्रातःकाले प्रातराशस्य निमित्तं पुत्रं बहिरजीगमम्। अद्य कार्यालयानां विरामस्तु नास्ति परँय्यतो बहुभिर्जनैर्विरामः प्राप्त इत्यतो वाहनसञ्चारो न्यूनम्। येन मार्गेणावामगमाव सामान्यतस्तस्मिन् मार्गे महान् वाहनसम्मर्दो द्रष्टुं शक्यते। नाद्य। वाहनसञ्चाचरः सर्वदैवं भवेच्चेज्जीवनं सुकरं भवेत्।

रविवार, 23 दिसंबर 2018

रोमन्-एम्पैर्

दूरदर्शने ‘रोमन्-एम्पैर्’ इति नाम्ना वृत्तान्तं दृष्टवान्। द्विसहस्रवर्षेभ्यः पूर्वमिट्लीप्रदेशे राजनीत्याँय्यज्जातं तद्दर्शितम्। प्रमुखतः सेनापतिज्यूलियससीज़रमधारीकृत्य दर्शितं वृत्तान्तेऽमुष्मिन्। अमुष्य वृत्तान्तस्य दर्शनात्पूर्वं मया तत्सेनापत्युर्विषये ज्ञातं परं वृत्तान्ते बहुसमयक्तया सविशेषञ्च सर्वं ज्ञापितम्। असौ वृत्तान्तो न केवलं ज्ञानवर्धको मनोरञ्जकोऽप्यासीत्।

श्वस्तनङ्कार्यम्

श्वो कार्यविरामो नास्ति। यतो श्वः क्रिस्तमसपर्वात् पूर्वदिनमित्यतः कार्यालये प्रायो जना विरामं स्वीकर्तारः। अहङ्गृहादेव कार्यङ्करिष्यामि। बहुकार्यन्नास्ति। औपचारिकदृष्ट्या कार्यङ्करणीयम्। अतो दिनमनयासेन गन्ता।

शनिवार, 22 दिसंबर 2018

सार्धद्विहोरा यावन्निद्रा

सामान्यतोऽहं मध्याह्ने शयनन्न करोमि। अद्यैकवादनेऽतिमात्रं श्रान्तिरनुभूता। सार्धद्विहोरा यावन्निद्रामकृषि। रात्रौ निद्रा लभ्यते वा न, द्रक्ष्यामि।

अंशापणो ह्रसते

गतमासेऽंशापणस्य ह्रासो जातः। सद्य शृङ्गादंशापणो विंशतिप्रतिशतमपतत्। पूर्वतनस्य गेहस्य विक्रयणात् परं लब्धस्य धनस्य निवेशनायाहमंशापणस्य ह्रासस्यैव प्रत्यपालयम्। यथा यथा ह्रासो जातस्तथा तथा मितप्रमाणेन धनं निवेशितं मया। तथापि सम्प्रति मम निवेशितं धनमाहत्य हान्यापन्नमभूत्।

पादवेदना

परह्यश्चलनयन्त्रे मैलचतुष्टयँय्यावदचलम्। ह्योऽपि मैलद्वयँय्यावदचलम्। अद्य दक्षिणपादे वेदनानुभूयते। अतोऽद्य चलनयन्त्रे नाचालिषम्। अन्यं व्यायाममकृषि।

सहकारिभिः साकं भोजनम्

ह्यः कार्यालयेऽस्माकं त्रिष्वपि परिवेक्षकेष्वेकोऽपि न आसीत्। सर्वेऽभियन्तार आसन्। वयं सर्वे मध्याह्नभोजनायोपाहारगृहमगच्छाम। ‘थाई’ भोजनमाद्म। सामान्यतो मदीये दले सर्वेऽन्तर्मुखिनः। तद्दृष्ट्या तु सर्वेष्वहमेव भूयिष्ठः। कार्यान्तरेण वर्जयित्वा सामान्यतोऽहं सहकारिभिः सह कुत्रापि न गच्छामि किमपि न संवदामि च। ह्यः सर्वयेकचित्तीभूय भोजनार्थं सार्धमगच्छन्निति सन्तोषाय।

प्रत्यूर्जता

प्रत्यूर्जतया पीडितोऽहम्। प्रतिवर्षमेषा कथा। बाल्यकाले प्रत्यूर्जतया कदापि नाहमपीड्ये। प्रौढावस्थायाङ्किञ्चित् परिवर्तनञ्जातमिति भाति। मध्यरात्रौ बहुकृत्वः क्षौमि। नेत्रनासिकाभ्यान्नीरं स्रवति। कण्ठे कासो जायते। अक्षिणोः पीडानुभूयते। प्रतिषेधकौषधं सेवित्वा दरमुपशमं प्राप्नोमि। यद्यपि बहिः सुदिनं दृश्यते तथापि यावच्छक्यङ्गृहान्तरयेव स्थातव्यम्।

शुक्रवार, 21 दिसंबर 2018

'वद्' धातुः सोपसर्गम्

‘वद्’ इति धातोः सोपसर्गा अर्था अत्र सङ्ग्रह्यन्ते -

वदति - speak
प्रवदति - speak well or a lot
संवदति - converse (with someone else)
सम्प्रवदति - yell, crow
अभिवदति - welcome, greet
विवदति - debate, argue
अपवदति - tell lie
उपवदति - curse, speak ill of
आवदति - shout, be loud
अववदति - insult, abuse
अनुवदति - speak after / following, translate
परिवदति - accuse, defame
विसंवदति - contradict, fail to honor agreement, break promise

गुरुवार, 20 दिसंबर 2018

'हृ' धातुः सोपसर्गम्

'हृ' इत्यत्युपयोगी धातुः। उपसर्गैः सह बहवोऽर्था निष्पद्यन्ते -
हृ - to carry
अपहरति - to kidnap
उपहरति - to offer / gift
आहरति - to eat
विहरति - to stroll
परिहरति - to ward off / avoid
उद्धरति - to borrow / extract
प्रहरति - to hit
प्रतिहरति - to close / shut
संहरति - to cut short

बुधवार, 19 दिसंबर 2018

कार्यालये सोपानम्

मम कार्यालयोऽष्टमेऽट्टे स्थितः। तं प्रापनायोन्नयन्या गन्तव्यम्। कार्यालयभवनं द्वादशस्तरीयम्। अन्याः संस्था अपि तस्मिन् भवने वर्तन्ते। गच्छन्ती सोन्नयनी प्रतिस्तरं विरमते यतो जनैः स्वीयानां स्तरेष्ववतरितव्यम्। एतस्मादुपरितनाः स्तरा विलम्बेन प्राप्यन्ते। उन्नयन्यां सर्वथा जनौघो दृश्यते। स्वेदगन्धोऽपि घ्रातुं शक्यते। भवने सोपानमस्ति परमितः पूर्वं तस्य प्रयोगो निषिद्ध आसीत्। द्वाभ्यां दिनाभ्यां पूर्वं तत्सोपानस्योपयोगायानुमतिर्दत्ता भवनविनियोगसंस्थया। एतच्छ्रुत्वा तुष्टोऽहम्। इतःपरन्न केवलमुन्नयन्याः प्रतीक्षा न करणीयापि च सोपानं प्रयुज्य कार्यालयेऽपि व्यायामं प्राप्तुं शक्यते। अहं प्रतिदिनं बहुकृत्वोऽष्टस्तरानारूह्यावारूह्य प्रभूतव्यायामं प्राप्स्यामि।

रविवार, 16 दिसंबर 2018

नूतनवर्गः-१५-२

नूतनवर्गः पूर्वतनोऽभूत्। अन्तिमवर्गे त्रयोदश जना आगमन् परीक्षाञ्चादुः। द्वौ विषयौ पाठयित्वागामिवर्षस्य पाठनयोजनामशिश्रवाव (अहं सञ्चालकश्च)। आगामिवर्गाय को न पञ्जीकरिष्यतीत्यहमप्राक्षम्। कस्यापि हस्तो नोन्नमितः। इति दृष्ट्वा सन्तोषोऽन्वभूम्। द्वयोश्छात्रयोर्ज्ञानमधिकम्। आगामिवर्गे ते नैरस्यमनुभवेतामिति सम्भावना। ताभ्याङ्किञ्चिदन्यः पाठ्यक्रमः कल्पनीय इति चिन्तयामि। सर्वेभ्यश्छात्रेभ्यः प्रोत्साहनङ्गृहकार्यञ्चादाव। इदानीं मासपरिमितोऽवकाशः। तत्काले जना संस्कृताध्ययनङ्क्रियासुः।

नूतनवर्गः-१५

अद्यास्य वर्षस्यान्तिमवर्गः। केवलं द्वौ विषयौ पाठनीयौ। तावेतौ -

आरभ्य
स्म

परीक्षाङ्कृत्वोपरितनौ विषयौ पाठयित्वागामिवर्षस्य योजनां श्रावयिष्यावः (अहमस्माकं सञ्चालकश्च)। आगामिवर्षस्य वर्गाय पञ्जीकरणाय छात्रेभ्यः प्रोत्साहनं दास्यावः। सर्वे साम्प्रतिकछात्राः पञ्जीक्रियासुः। कतिपयहोरानामनन्तरं वर्गोऽयन्नूतनो न प्रत्युत पुरातनो भविष्यति।

शनिवार, 15 दिसंबर 2018

काफ्यापणङ्गमनम्

सप्ताहमन्तरा भवेदुतान्तः प्रतिदिनमहङ्काफ्यापणङ्गच्छामि। तत्र काफीपेयं पिबामि किञ्चित्खाद्यमपि खादामि। एतस्मै प्रतिदिनं धनं विनयनीयम्। काफ्यापणे खाद्यान्यपि पथ्यानि न सन्ति। प्रायः सर्वाणि खाद्यानि शर्करायुतानि। तानि सर्वाण्यपथ्यानि। किमेतत्सात्म्यं दुर्व्यसनम्? कार्यालये मह्यं बहुकार्यन्नास्तीत्यतः प्रातःकाले पुत्रं विद्यालयं प्रापय्य कल्यमेव कार्यालयन्न जिगमिषामि। कालयापनायैव काफ्यापणङ्गच्छामि। स्यान्नाम किञ्चिद्दुर्व्यसनमिदम्। परमन्येषां दुर्व्यसनानामपेक्षया तु समीचीनतरम्। जना मदिरापानं धूम्रपानञ्च कुर्वन्ति। तादृशेभ्यो दुर्व्यसनेभ्यस्त्वेनं दुर्व्यसनं वरन्ननु?

पितुर्जन्मदिवसः

अद्य पितुर्जन्मदिवसः। तं दूरवाण्या सम्पर्कङ्कृत्वा वर्धापनान्यदाम्। अद्य स एकोनसप्ततिवर्षीयोऽभूत्। एतावत्पर्यन्तं तस्यानामयं समीचीनमस्तीति हर्षकारिणी वार्ता।

अन्तिमौ सप्ताहौ

वर्षस्यान्तिमौ सप्ताहावागतौ। गुरुवासरादारभ्य पुत्रस्य विद्यालयस्यावकाश आरप्स्यते। कार्यालये मम पर्यवेक्षकः प्रवासाय यूरोपमहाद्वीपङ्गतः - सप्ताहँय्यावत्। तदनन्तरं स गृहादेव कार्यङ्करिष्यति। कार्यालये मह्यमपि बहुकार्यन्नास्ति। यतः पुत्रस्य विद्यालयस्यावकाशो भविष्यत्यतोऽहमपि प्रायस्तद्वद्गृहात् कार्यङ्करिष्यामि। देवैरिष्यते चेदागामीनि पञ्चदशदिनान्यनायासेन गम्यासुः।

शब्दानां व्युत्पत्तिः

बहोः कालादहंं संस्कृतपठनरतः। इतोऽपि संस्कृतशब्दानां व्युत्पत्तिर्मां विस्माययति। कानिचनोदाहरणानि -

यः पङ्के जातः सः पङ्कजः। (कमलम्)
यः अग्रे जातः सः अग्रजः। (ज्येष्ठभाता)
यः अनुजातः सः अनुजः। (कनीयान् भ्राता)

यः खे गच्छति सः खगः। (पक्षी)
यः न गच्छति सः नगः। (पर्वतः)
यः उरसा गच्छति सः उरगः। (सर्पः)

यः आसनं ददाति सः आसन्दः।
यः वरं ददाति सः वरदः।

शब्दानां सौन्दर्यं व्युत्पत्तिश्च मनोहारिणी।

रविवार, 9 दिसंबर 2018

अद्यतनो वर्गः

अद्यतनो वर्गः सम्यक्तया प्राचालीत्। त्रयोदश जना आगमन्। अस्माकं सञ्चालकोऽप्यवर्तिषि। सोऽवादीदितः पूर्वञ्चतुर्दशे वर्गे तेन कदापीयन्तश्छात्रा न दृष्टाः। सः प्रहृष्टोऽभूत्। एषम इतोऽपि एको वर्गोऽवशिष्टः। आगामिवर्षेऽपि एते सर्वे छात्राः पुनः पञ्जीकुर्युरिति ममाशा। तेषां स्तरो वर्धेत, अनन्तरं तयेव कार्यकर्तारो भवेयुरिति संस्कृतोपकाराय।

शनिवार, 8 दिसंबर 2018

नूतनवर्गः-१४

श्वस्तने वर्गे पाठनीया अंशाः -

यद्यपि / तथापि
यद्यपि अहं ताम् आहूतवान् तथापि सा न आगतवती।
यद्यपि सः सम्यक्तया पठितवान् तथापि सः परीक्षायां उत्तीर्णः न अभवत्।

अपेक्षया
रामस्य अपेक्षया महेशः उन्नतः।
ह्यः अपेक्षया अद्य शैत्यम् अस्ति।
पूर्वस्य अपेक्षया अद्यतनी परीक्षा आसीत्।

कीदृशः / कीदृशी
कीदृशः भोजनं भवान् इच्छति?
कीदृशी शाटिकां द्रष्टुम् इच्छति?
अत्र कीदृशाः छात्राः पठन्ति? अत्र प्रौढाः छात्राः पठन्ति।
कीदृश्यः शाटिकाः भवती क्रीतवती? कौशेयशाटिकाः क्रीतवती।

यः / या / यत्
यः गच्छति सः कः? सः रामः।
या गच्छति सा का? सा रमा।
यत् दत्तम् तत् किम्? तत् फलम्।

आगामिवर्षस्य योजना

गुरुवासरेऽस्माकं संस्कृतप्रशिक्षणसञ्चालको मम गृहमागच्छम्। आगामिवर्षे पाठनयोजना कथं भवेदिति चर्चाङ्करणाय। अहञ्छात्रा अपि पृष्टवानागामि वर्षे ताः किं पिपठिषन्ति। ऐषमः पठिताः पाठाः पुनस्समरणीया इति प्रायशश्छात्रा निवेदितवत्यः। काश्चन छात्रा नूतनविषयान् पिपठिषन्ति। तादृशीभ्यश्छात्राभ्यः पृथग्वर्ग आयोजयितुं शक्यते परं पृथग्वर्गमधिकसमयं याचते। तादृशीभिश्छात्राभिरितोऽप्यधिकसम्भाषणाभ्यास आवश्यक इति सञ्चालकस्योऽभिप्रायः। अतो नूतनवर्गमकृत्वा तत्स्थानयेकस्मिन् वर्गयेव सम्भाषणाभ्यास आधिक्येन करणीय इति तेनोक्तम्। तस्मिन् वर्गयेवापरिणतछात्राः पाठनीयाः। तस्मात्ताः परिणतिः प्राप्नुयुः। परिणतछात्राः सम्भाषणाभ्यासः प्राप्नुयुः। सम्भाषणाभ्यासस्तु सर्वेषामुपकाराय।

रविवार, 2 दिसंबर 2018

प्यासा

अद्य ‘प्यासा’ इत्याख्यया चलनचित्रमद्राक्षम्। सप्तपञ्चाशदधिकनवशताधिकसहस्रतमे वर्षे निर्मितमिदञ्चलनचित्रँय्यदा गतावसरे दृष्टवांस्तदाशीतिदशाब्द आसीत्। तदानीन्त्वहं बालक आसम्। प्रौढेभ्यश्चलनचित्रं तदानीं मह्यं न रोचन्ते स्म। अतोऽद्योत्साहेनाहं मम भार्याश्च चलनचित्रमिदमद्राक्ष्व। सुष्ठु चलनचित्रम्। कानिचन गीतान्यप्यभिविश्रुतानि। एतादृशानि शोकात्मकानि चलनचित्राणि साम्प्रतिककाले न निर्मीयन्ते।

वर्गाय जालपुटः

अहं संस्कृतवर्गं पाठयामीति तु त्वञ्जानासि। प्रतिवर्गात्परमहञ्जालपुटेन गृहकार्यं परीक्षाविषयाँश्च सूचयामि। तत्रैव वर्गे पठिताः शब्दाः स्थापयामि। तैः शब्दैर्युतानि वाक्यानि विरच्य्य तत्र स्थापयामि - छात्राणामवगतेर्वर्धनाय। कोऽपि तानि वाक्यानि पठति वा नेतः पूर्वन्न ज्ञातं मया। अद्याहं तद्विषयेऽप्राक्षम्। बहवश्छात्रावादिषुर्यत्तानि वाक्यानि तेषां हिताय - ते तानि नियततया पठन्ति। एतच्छ्रुत्वाहममोदिषि। अमूनि वाक्यानि न कालक्षेपायेति सन्तोषः।

नूतनवर्गः-१३

अद्यतने वर्गे पाठनीयानि अव्ययानि -

१. पुरतः, पृष्ठतः, वामतः, दक्षिणतः, उपरि, अधः (षष्ठी पुरस्सरम्)
२. अन्तः, बहिः
३. इतः, ततः, कुतः, इतस्ततः
४. शीघ्रम्, मन्दम्, शनैः, उच्चैः, नीचैः
५. चेत् / नो चेत्

शनिवार, 1 दिसंबर 2018

पट्टिकाशकटं बृहत्क्रीडनकम्

नगरकेन्द्रे पट्टिकाशकटक्रीडनकानां प्रदर्शिन्यभूत्। अद्य तनयं तत्राजीगमाव। तावदेव न, पट्टिकाशकटैः सह बृहन्नगरमपि दर्शितम्। नगरे शकटनिस्स्थानम्, जनाः, हट्टाः, आपणाः, तैलखनिश्चाप्यदृश्यन्त। एतत्सर्वं दृष्ट्वा पुत्रः प्रहृष्टोऽभूद्यतः पट्टिकाशकटानि तस्मै रोरुच्यन्ते। तदनन्तरं भोजनालये मध्याह्णतनं भोजनमकृष्महि। तदनु मिष्टान्नापणङ्गत्वा मिष्टान्नान्यबभक्षामहि। गृहमागत्य सर्वे निद्राधीना अभूवन्।