बुधवार, 19 दिसंबर 2018

कार्यालये सोपानम्

मम कार्यालयोऽष्टमेऽट्टे स्थितः। तं प्रापनायोन्नयन्या गन्तव्यम्। कार्यालयभवनं द्वादशस्तरीयम्। अन्याः संस्था अपि तस्मिन् भवने वर्तन्ते। गच्छन्ती सोन्नयनी प्रतिस्तरं विरमते यतो जनैः स्वीयानां स्तरेष्ववतरितव्यम्। एतस्मादुपरितनाः स्तरा विलम्बेन प्राप्यन्ते। उन्नयन्यां सर्वथा जनौघो दृश्यते। स्वेदगन्धोऽपि घ्रातुं शक्यते। भवने सोपानमस्ति परमितः पूर्वं तस्य प्रयोगो निषिद्ध आसीत्। द्वाभ्यां दिनाभ्यां पूर्वं तत्सोपानस्योपयोगायानुमतिर्दत्ता भवनविनियोगसंस्थया। एतच्छ्रुत्वा तुष्टोऽहम्। इतःपरन्न केवलमुन्नयन्याः प्रतीक्षा न करणीयापि च सोपानं प्रयुज्य कार्यालयेऽपि व्यायामं प्राप्तुं शक्यते। अहं प्रतिदिनं बहुकृत्वोऽष्टस्तरानारूह्यावारूह्य प्रभूतव्यायामं प्राप्स्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें