काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः॥
सन्धिना विना रूपम् -
काकः कृष्णः पिकः कृष्णः कः भेदः पिककाकयोः।
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः॥
काकस्य वर्णः कृष्णः पिकस्य अपि वर्णः कृष्णः। दर्शनमात्रेण अनयोः भेदः ज्ञातुं क्लेशः जायते। परन्तु यदा वसन्तर्तुः आगच्छति तर्हि तौ कूजतः। वयं जानीमः काकस्य कूजनं कथम् अस्ति पिकस्य कूजनम् अस्ति। अतः वसन्तर्तौ तयोः भेदः स्पष्टः भवति। तयोः भेदः दर्शनमात्रेण ज्ञातुं न शक्नुमः परन्तु तौ किं कुरुतः तस्मात् भेदं ज्ञातुं शक्नुमः।
सुभाषितम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

सोमवार, 27 मई 2019
चिन्तनीया हि विपदामादावेव प्रतिक्रिया
चिन्तनीया हि विपदामादावेव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥
सन्धिना विना रूपम् -
चिन्तनीया हि विपदाम् आदौ एव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥॥
विपदा का? समस्या। यदा समस्या आगच्छति तस्मिन् काले तस्याः परिहारः न अन्वेषणीयः। विपदाम् आदौ एव अन्वेषणीयम्। विपदायाः पूर्वमेव परिहारः अन्वेषणीयः। उदाहरणतः - यस्मिन् काले गृहं अग्निना प्रज्वलन्न अस्ति तस्मिन् काले जलस्य अन्वेषणाय कूपखननं न आरम्भनीयम्। तावता तु अतीवविलम्बः अभवत्। अग्नेः निर्वापणाय पूर्वमेव जलं सज्जीकरणीयम्। अतः विपदायाः आगमनात् पूर्वं तस्याः परिहारः सज्जीकरणीयम् इति अस्य सुभाषितस्य सन्देशः।

गौरवं लभ्यते दानान्न तु वित्तस्य सञ्चयात्
गौरवं लभ्यते दानान्न तु वित्तस्य सञ्चयात्।
स्थितिरुच्चैः पयोदानां पयोधीनामधः स्थितिः॥
सन्धिना विना रूपम् -
गौरवं लभ्यते दानात् न तु वित्तस्य सञ्चयात्।
स्थितिः उच्चैः पयोदानां पयोधीनाम् अधः स्थितिः॥
गौरवं कथं लभ्यते - इति एषत् सुभाषितम् अस्मान् बोधयति। गौरवं लभ्यते दानेन न तु धनसङ्ग्रहेणेन। स्थितिः उच्चैः पयोदानां - पयोदः कः? मेघः। मेघः कुत्र अस्ति? उपरि अस्ति। तस्य स्थितिः उच्चैः - आकाशे अस्ति। पयोधीनाम् अधः स्थितिः - पयोधिः कः? समुद्रः / सागरः। समुद्रः कुत्र अस्ति। पृथ्वयां, निच्चैः अधः। तर्हि यतः मेघस्य स्थितिः उपरि अस्ति, समुद्रस्य स्थितिः निच्चैः अस्ति तथैव दानस्य स्थितिः उपरि अस्ति, दानेन गौरवं लभ्यते न तु धनसञ्चयनेन। धनसञ्चयस्य स्थितिः अधः अस्ति।

रविवार, 13 जनवरी 2019
करत करत अभ्यास के...
अभ्यासस्य महत्वमहं सम्यक्तया जानामि। परं वाद्ययन्त्राभ्यासे क्रियमाणे बाल्यकाले पठितः कविवृन्देन रचित एषः ‘दोहा’ स्मरामि -
करत करत अभ्यास के जड़मति होत सुजान।
रसरी आवत-जात ते सिल पर परत निसान॥
यथा रज्जोः पौनःपुन्येन गमनमागमनेन प्रस्तरः कलङ्क्यते तथैवाभ्यासेन नवकेन पारङ्गम्यते।

शनिवार, 17 मार्च 2018
यत्र नार्यस्तु पूज्यन्ते
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥
सन्धिविच्छेदितरूपम् -
यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्र ताः तु न पूज्यन्ते सर्वाः तत्र अफलाः क्रियाः॥
एतत्सुभाषितं नारीणां महत्वं द्योतयति।
प्रथमवाक्यस्यार्थः - यत्र नारीणामादरसम्मानौ क्रियेते तत्र स्वयं देवा निवसन्ति।
द्वितीवाक्यस्यार्थः - यत्र नारीणामादरसम्मानौ न क्रियेते तत्र सर्वाणि कार्याणि असफलानि भवन्ति।
आ प्राचीनकालान्नारी पुरुषस्याधीना तस्मिन्नाश्रिता च। यः पुरुषस्ताङ्कथयामास सा चकार। एवं मानवसमाज आसीत्। आधुनिककाले नार्यः स्वाधीनता तस्या महत्वञ्चास्माभिर्ज्ञेये ज्ञापयनीये च। तस्यायादरसम्मानौ देयौ। सा वस्त्विव न भावयितव्या। यद्यस्मिन् काले वयमेतत् कर्तुन्न शक्नुमस्तर्हि का प्रगतिः साधिता मानवैः?

रविवार, 10 दिसंबर 2017
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥
अर्थः - यथा सुप्तस्य सिंहस्य मुखे मृगाः स्वयमेव न प्रविशन्ति, मृगा उत्तिष्ठेन सिंहेन हन्यन्तां तथैव केवलं मनसि चिन्तनङ्कृत्वा कार्याणि न सिध्यन्ते। तानि परिश्रमङ्कृत्वैव सिध्यन्ते।

बुधवार, 6 दिसंबर 2017
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत ।
शनै: शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम्॥
सन्धिविच्छेदितरूपम् -
अतितृष्णा न कर्तव्या तृष्णां न एव परित्यजेत।
शनै: शनैः च भोक्तव्यं स्वयं वित्तम् उपार्जितम्॥
एतत् सुभाषितं मनुष्यस्य तृष्णाथवेच्छा विषयेऽस्ति। साधारणमनुष्यस्य बहव इच्छाः सन्ति। स प्रभूतं धनमर्जितुमिच्छति। कार्यालये समाजे चौन्नत्यँव्वर्धयितुमिच्छति। ताः सर्वा अपीच्छास्तीव्राः सन्ति।
अतितृष्णा न कर्तव्या - इच्छा करोतु परन्तु सेच्छा सीमिता भवेन्न तु प्रभूतानन्ता च।
तृष्णां नैव परित्यजेत - कानिचन नीतिशास्त्राणि सर्वा इच्छास्त्यजत्विति कथयन्ति। परन्तु एतद्वाक्यङ्कथयतीच्छा त्यक्तुमावशयकता नास्ति। सेच्छा केवलं सीमितमात्रायाङ्करोतु।
शनै: शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् - शनैः शनै इत्युक्ते मन्दं मन्दम्। इच्छा पूरयित्वा यदर्जितं तं मन्दं मन्दं भुनक्तु। कीदृशमर्जितम्? स्वयं वित्तमुपार्जितम्। वित्तमिइत्युक्ते धनम्। यानि सुखसुविधानि धनराशयः स्वकीयपरिश्रमेणार्जितानि तान्येव शनैः शनैर्भुनक्तु।
इदानीँव्वयमस्य सुभाषितस्यार्थः सङ्क्षिपतरूपेण वक्तुं शक्नुमः। इच्छाः करोतु परन्तु लघुमात्रायां न बहुमात्रायाम्। इच्छाः पूरयित्वा यदर्जितं तत् शनैः शनैर्भुनक्तु न वेगेन।

रविवार, 19 नवंबर 2017
अङ्गं गलितं, पलितं मुण्डं
अद्य वयमादिशङ्कराचार्यलिखितं सुभाषितं पठिष्यामः। एतत् सुभाषितं तेन लिखितञ्चर्पटमञ्जर्यां दृश्यते। सुभाषितं इति -
अङ्गं गलितं, पलितं मुण्डं, दशनविहीनं जातं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं, तदपि न मुञ्चति आशा पिण्डम्॥
एतत्सुभाषितं मनुष्यस्यानन्तेच्छा विषयेऽस्ति।
अङ्गं गलितं - शरीरस्याङ्गानि ग्लायन्ति शक्तिक्षीणानि जातानि।
पलितं मुण्डं - मुण्डमित्युक्ते शिरः, पलितं मुण्डमर्थः - दीर्घायुवशात् तस्य शिरसि केशाः पलिता अथवा धूसरवर्णा भवन्ति।
दशनविहीनं जातं तुण्डम् - मुखस्य यस्मिन् भागे दन्ता वर्तन्ते तं तुण्डमुच्यते। दीर्घायुः कारणाद्मुखे दन्ता न सन्ति।
वृद्धो याति गृहीत्वा दण्डं - याति अर्थश्चलति - यतः स वृद्धोऽतः स दण्डङ्गृहीत्वा चलति।
तदपि न मुञ्चति आशा पिण्डम् - मुञ्चति ‘मुच्’ धातोः रूपम्। स वृद्धः, आशा, इच्छा, लिप्सा न मोचयति, यद्यपि स वृद्धस्तथापि तस्य बहव इच्छाः सन्ति - इत्यर्थः।
सुभाषितस्य सम्पूर्णार्थ इति - यद्यपि वृद्धावस्थायाः कारणात् कश्चचन मनुष्यस्याङ्गानि क्षीणानि जातानि, तस्य केशाः श्वेतवर्णा भवन्ति, तस्य मुखं दन्तहीनञ्जातं, स दण्डस्य सहायतया चलति तथापि स तस्य बहव इच्छा न मोचयति। तथापि स बहूनि वस्तूनि प्राप्तुमिच्छति। मनुष्यस्येच्छा अनन्ता इत्येतत् सुभाषितं सूचयति।

सोमवार, 6 नवंबर 2017
यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति
इदानीङ्किञ्चित् सुभाषितं पठिष्यामः।
सुभाषितमिति -
यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः॥
प्रथमवाक्येऽन्तिमशब्दो वर्जयित्वा सर्वे शब्दाः सुलभा एव। अतः प्रथमतः प्रथमवाक्यस्यान्तिमशब्दः पठामः।
पण्डितानुपाश्रयति - अत्र सन्धिविच्छेदः कृत्वा 'पण्डितान् उपाश्रयति' लभ्यते। पण्डितान् - अस्मिञ्छब्दे पण्डितशब्दस्य द्वितीयाविभक्तेर्बहुवचनमस्ति। उपाश्रयति - इत्युक्ते समीपे तिष्ठति। अतः पण्डितानुपाश्रयत्यर्थः पण्डितानथवा ज्ञानिनः समीपे तिष्ठति। प्रथमवाक्यस्यार्थः कः? यो मनुष्यः पण्डितान् समीपे पठति लिखति पश्यति प्रश्नाः पृच्छति।
द्वितीयवाक्यं पठामः।
तस्य दिवाकरकिरणैः नलिनीदलमिव विकास्यते बुद्धिः॥
दिवाकरकिरणैः - अस्मिञ्छब्दे द्वे पदे स्तः। एष षष्ठीतत्पुरुषसमासः। अत्र समासविग्रहङ्कृत्वा 'दिवाकरस्य' 'किरणैः' एते द्वे पदे लभ्येते। दिवाकरः कः? यो दिवसः कारयति स दिवाकरः। को दिवसः कारयति? सूर्यः खलु! अतो दिवाकरोऽर्थः सूर्यः।
नलिनीदलमिव - अत्रापि षष्ठीतत्पुरुषसमासोऽस्ति। त्रयः शब्दाः सन्ति। नलिनी दलम् इव। नलिनी किमस्ति? नलिनी इत्युक्ते कमलपुष्पम्। दलङ्किम्? कमलपुष्पस्य पर्णानि। अतो यथा कमलपुष्पस्य पर्णानि सूर्यस्य किरणैर्द्वारा विकसिता भवन्ति तथैव तस्य मुष्यस्य बुद्धिरपि विकसिता भवति - इति द्वितीयवाक्यस्यार्थः। कस्य मनुष्यस्य बुद्धिः? यः पण्डितान् समीपे तिष्ठति पठति लिखति च।
इदानीं सुभाषितस्य सम्पूर्णार्थो वक्तुं शक्नुमः। यो मनुष्यः पण्डितान् समीपे तिष्ठति पठति लिखति प्रश्नाः पृच्छति। येन प्रकारेण सूर्यस्य किरणैर्द्वारा कमलपुष्पँव्विकसितं भवति तथैव तस्य मनुष्स्य बुद्धिर्विकसिता भवति। अतः - सदैव बुद्धिमतः समीपे तिष्ठतु। सुसङ्गतिः प्राप्नोतु - इत्यस्य सुभाषितस्य सन्देशः।

शनिवार, 14 अक्टूबर 2017
अन्नदानं परं दानं विद्यादानमतः परम्
अन्नदानं परं दानं विद्यादानमतः परम्।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया॥
सन्धिविच्छेदितरूपम्
अन्नदानं परं दानं विद्यादानम् अतः परम्।
अन्नेन क्षणिका तृप्तिः यावत् जीवं च विद्यया॥
अस्य सुभाषितस्यार्थोऽयम् -
अन्नदानं श्रेष्ठमस्ति। तस्माद्वविद्यादानं श्रेष्ठतरम्। अन्नङ्गृहीत्वा क्षणमात्रेण तृप्तिः प्राप्यते परन्तु विद्या प्राप्य या तृप्तिः प्राप्यते सा आजीवनं वर्तते।

मंगलवार, 19 सितंबर 2017
पिबन्ति नद्यः स्वयमेव नाम्भः
पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः॥
एतत् सरलं सुभाषितमेव।
पिबन्ति नद्यः स्वयमेव नाम्भः - अस्मिन् वाक्ये केवलमेकः शब्दः कठिनः, नाम्भः। नाम्भः - अयं नञसमासः। समासविगृहङ्कृत्वा - न, अम्भः - एतौ द्वौ शब्दौ लभ्येते। अम्भः अर्थो जलम्। नद्यः स्वानाञ्जलं न पिबन्तीति वाकस्यार्थः।
स्वयं न खादन्ति फलानि वृक्षाः - एतत्त्वति सुलभं। वृक्षाः स्वानां फलानि न खादन्ति - सत्यमेव।
नादन्ति सस्यं खलु वारिवाहाः - न अदन्ति। अदन्ति अत्राद्धातुर्दृश्यते। अदन्त्यर्थः खादन्ति। सस्यमित्युक्ते धान्यवनस्पतयः - उदारणत ओदनं, तण्डुलमित्यादीनि।
वारिवाहाः - अर्थः कः? वारिवाहाः - अयं व्याधिकरणबहुव्रीहिसमासः। - यो वारि वहति सः। कः वारि वहति? मेघा वारि वहन्ति। अतो वाक्यस्यार्थः - मेघाः सस्यानि न खादन्ति। ते तानि वारि ददति।
परोपकाराय सतां विभूतयः - विभूतयः - एष विभूति शब्दस्य बहुवचनं - विभूत्यर्थान्महान्ता, सतां - अर्थः सज्जनपुरुषाणां। सतां विभूतयः - अर्थात् सज्जनपुरुषाणां महान्ता।
अतो वाक्यस्यार्थ इति - महात्मनोऽन्येषाङ्कल्याणायैव जीवन्ति।
सङ्क्षिप्तरूपेण सुभाषितस्यार्थ इति - यथा नद्यो वृक्षा मेघा अन्येभ्यो जलं फलं ददति तथैव सज्जनपुरुषा अन्येषाङ्कल्याणायैव जीवन्ति।

शनिवार, 9 सितंबर 2017
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता॥
अमुष्य सुभाषितस्यार्थः कः?
करुणायुक्तान्यथवा समीचीनि वचनान्युक्त्वा सर्वे जीवानि प्रसन्ना भवन्सतीति प्रथमवाक्यस्यार्थः।
द्वितीवाक्ये प्रथमपदस्य सन्धिविच्छेदः कृत्वा त्रयः शब्दा लभ्यन्ते - तस्मात् तत् एव।
वक्तव्यङ्कः? यदुच्यतां तद्वक्त्व्यम्। तस्मात्कारणात्तद्वक्तव्यम्। कस्मात्कारणात्? समीचीनानि वचनान्युक्त्वा जीवानि प्रसन्ना भवन्ति - इति कारणात्। समीचीनां वचनानाङ्कोऽप्यभावो नास्ति अतो वदने सङ्कोचो मा कुरु।
सङ्क्षिप्तरूपेण सुभाषितस्यार्थ इति -
सर्वाणि जीवानि करुणायुक्तान्यथवा समीचीनानि वचनान्युक्त्वा प्रसन्ना भवन्ति। अस्मिञ्जगति करुणायुक्तानां वाक्यानाङ्कोऽप्यभावो नास्ति। तस्मात्कारणाद्यदा यदा वयङ्कानिचन वचनानि वदामस्तेषु करुणायुक्तानि वचनान्यवश्यं प्रयोक्त्वयं।

रविवार, 3 सितंबर 2017
सुभाषितम्
सुभाषितम् - अस्य शब्दस्य का परिभाषा? भाषितमित्युक्ते ‘उक्तं वचनं’। अतः सु-भाषितम् - समीचीनँव्वचनमथवा बुद्धियुक्तँव्वचनमित्यर्थः।
इदानीँव्वयमेकं सुभाषितम्पठिष्यामः। परन्त्वेतत्सुभाषितं विशेषमस्ति। एतत्सुभाषितं सुभाषितस्य विषयैवास्ति। एतत्सुभाषितमिति-
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
ततोऽपि काव्यं मधुरं तस्मादपि सुभाषितम्॥
प्रथमतः प्रथमवाक्यस्यान्तिमशब्दं पश्यामः। गीर्वाणभारती - एतस्मिञ्छब्दे द्वौ शब्दौ स्तः। गीर्वाण भारती च। गीर्वाणार्थः - देवः, भगवान्, ईश्वरः इत्यादयः। भारतीत्युक्ते - वाणी, वचनानि, भाषा इत्यादयः। अतो गीर्वाणभारती शब्दस्यार्थः कः? या भाषा देवानां भाषा सा गीर्वाणभाषा (अयं व्यधिकरणबहुव्रीहिसमासः - या भारती गीर्वाणानां सा)। कस्या भाषाया एतदुचितं विवरणं? संस्कृतभाषैव खलु। दिव्यार्थः कः? दिव्यशब्दो देवशब्दादुत्पद्यते। अतो दिव्यार्थः - स्वर्गादवतरिता। सम्प्रति वयं प्रथमवाक्यस्यार्थोऽवगन्तुं शक्नुमः। सर्वासु भाषासु संस्कृतभाषैवातीवमधुरा दिव्या चेति प्रथमवाक्यस्यार्थः।
द्वितीयवाक्यं पश्यामः। ततोऽपि काव्यं मधुरं तस्मादपि सुभाषितम्। ततोऽपि - सन्धिविच्छेदः कृत्वा - ततः अपि इत्येतौ शब्दौ लभ्येते। ततः अपि काव्यं मधुरं - इत्युक्ते भाषाया अपेक्षया कविता मधुराः सन्ति। तस्मादपि सुभाषितम् - पुनर्सन्धिविच्छेदः कृत्वा तस्मात् अपि इत्येतौ शब्दौ लभ्येते। तस्मात् अपि सुभाषितमर्थः कः? कविताभिरपेक्षया सुभाषितानि मधुराणि सन्ति।
इदानीँव्वयमेतस्य सुभाषितस्यार्थस्संक्षिप्तरूपे कथयितुं शक्नुमः - सर्वासां भाषानामपेक्षया संस्कृतं मधुरा। संस्कृतभाषाया अपेक्षया संस्कृतभाषायां विरचिताः कविता मधुराः। कवितानामपेक्षया सुभाषितान्यर्थाद्बुद्धियुक्तानि वचनानि मधुराणि।

गुरुवार, 31 अगस्त 2017
ऐश्वर्यस्य विभूषणं सुजनता
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्यसंयमो
ज्ञानस्योपशमो कुलस्य विनयो वित्तस्य पात्रे व्ययः।
अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्॥
कस्यचिद्वस्तुनः किमाभूषणमस्तीत्येतत् सुभाषितङ्कथयति। ऐश्वर्यस्य विभूषणं सुजनता - ऐश्वर्य इत्युक्ते सिद्धिः, सुजनता अर्थः कः? अन्याञ्जनान् प्रत्युदारता - अतः सिद्धेराभूषणमुदारतास्तीत्यर्थः।
शौर्यस्य वाक्यसंयमः - वीरताया आभूषणँव्वाण्यां संयमोऽस्ति। तन्नाम वाण्यां नियन्त्रण इति वीरताया आभूषणम्।
ज्ञानस्य उपशमः - उपशम इत्युक्ते धैर्यः, सहनशीलता इत्यादयः। अतो ज्ञानस्याभूषणं धैर्योऽथवा सहनशीलतास्ति।
कुलस्य विनयो - विनयोऽर्थः कः? विनयशब्दस्यार्थो नम्रताथवा शालीनता। अत उन्नतोथवा साधु कुटुमबस्याभूषणं नम्रता शालीनता वास्ति।
वित्तस्य पात्रे व्ययः - वित्तशब्द्स्यार्थो धनम्। साधुकार्यार्थं दानमिति धनस्याभूषणमस्ति।
अक्रोधस्तपसः - तपस आभूषणङ्क्रोधे नियन्त्रणः।
क्षमा बलवतां - शक्तिमाननरस्याभूषणङ्क्षमास्ति।
धर्मस्य निर्व्याजता - व्याज इत्युक्ते छलकपटः, निर्व्याजो विपरीतार्थः - अतो धर्मस्याभूषणञ्छलकपटस्याभावः।
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्। एतद्वाक्यङ्किङ्कथयति? सद्योऽस्माभिर्बहवो गुणा गणिताः । एतेषां सर्वेषाङ्गुणानां मूलकारणङ्किं? एतेषाङ्गुणानां मूलकारणमुत्तमचरित्रमेवास्ति। अत उत्तमचरित्रं सर्वोच्चतमाभूषणमस्ति।

रविवार, 20 अगस्त 2017
पापान्निवारयति योजयते हिताय
पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥
सन्धिना विना रूपम्
पापात् निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद् गतं च न जहाति ददाति काले
सद् मित्रलक्षणम् इदं प्रवदन्ति सन्तः॥
व्याख्या - उत्तममित्रस्य लक्षणानि कानि इति एषा सुभाषिता ज्ञापयति। सः त्वां पापात् दूरं करोति। सः यः करोति तव हिताय एव। यदि त्वयि अपगुणाः सन्ति स तान् गोपयति। अपि च गुणान् प्रकटीकरोति। आपत्काले स त्वया सह तिष्ठति। त्वां न त्यजति। यस्मिन् काले साहाय्यम् आवश्यकं स तत् तुभ्यं ददाति। एतानि लक्षणानि सन्ति उत्तमस्य मित्रस्य इति वदन्ति मेधाविनः।

सदस्यता लें
संदेश (Atom)