शनिवार, 30 जून 2018

खाद्येषूर्जांशः

दिष्ट्या मम गात्रं स्थूलत्वेन न पीड्यते। तथाप्यहमतिमात्रायामूर्जांशयुक्तानि ('ऊर्जांश' = कार्बोहैड्रेट्स्) खाद्यानि न्यूनतया भुञ्जे। कथं स्थूलत्वं निवारणीयमनया चिन्तया लोको निमग्नः। परन्तु समाधानं त्वतिसरलम्। येषाङ्खाद्यानामूर्जांशो न्यूनस्तानि खादनीयान्यनानि हेयानि। गात्रस्थूलत्वं न्यूनीकरणाय केवलमेकं तथ्यं स्मर्तव्यम्। गृह्यमाणाया ऊर्जाया अपेक्षया व्यय्यमानोर्जाधिकतरा भवतु। इदं तु भौतिकशास्त्रात्। इदङ्कथं साधनीयमिति स्वैरम्। यावदेतस्य यथार्थ्यं भवेत्तावद्गुरुत्वं न्यूनीभवेत्। व्यायामेनोर्जाव्ययो वर्ध्यते। न्यूनोर्जांशान्वितभोजने भक्ष्यमाणे गृह्यमाणोर्जा स्वयमेव ह्रसते।

समधिककार्यम्

गतसप्ताहे कार्यालये समधिककार्यमवर्तत। ह्यो दशहोराभ्यः कार्यमकरवम्। पुत्रमपि विद्यालयादानेतुन्नाशक्नवम्। भार्यया तमानाययम्। व्यायाममपि नाकरवम्। एतत्तु मज्जीवनेऽसामान्यम्। सामान्यतोऽहं प्रतिदिनं षड्ढोरा यावत्कार्यङ्करोमि। विशेशतः शुक्रवासरे केवलञ्चतुर्होराभ्यः कार्यङ्करोमि। अतो ह्योऽन्यविधं दिनम्। अद्य कयोश्चन बालिकयोर्जन्मदिवसमहोत्सवङ्गन्तव्यं मया। सप्ताहान्ते कार्यन्न क्रियासम्!

रविवार, 24 जून 2018

स्मितरेखा-३

अद्याहं ‘स्मितरेखा’ इति पुस्तकस्य लेखकाय सङ्गगणकपत्रं व्यमुचम्। तस्य पुस्तकपठनाद्महत्सन्तोषमन्वभवमित्यलेखिषम्। तस्य प्रत्युत्तर आगमत्। तस्मिन् पत्रे लिखितँय्यदेज्ज्ञात्वा स प्रसन्नोऽभूत्। स्वरचिताः काश्चनान्याः कथा अपि स मह्यं प्रेषयिष्यतीति तेन लिखितम्।

सम्भाषणशिबिरम्-४

अद्यतनस्य वर्गः सम्यक्तया प्राचालीत्। दशजना आगमन्। द्वौ नूतनछात्रावप्युपस्थितवन्तौ। प्रायो ये छात्रा गतवर्गयासँस्तेषु पञ्चषाश्छात्रा अद्य नावर्तिषत। सर्वे ते वर्गशुल्कं न ददुरिति तु स्पष्टम्। अमुकश्छात्रस्तु कस्माच्चिदन्यनगरादागच्छति। अभ्यासाय छात्रेभ्यो गृहकार्यं देयम्। तदहं सज्जीकरिष्यामि।

शनिवार, 23 जून 2018

सम्भाषणशिबिरम्-३

श्वः सम्भाषणशिबिरस्य द्वितीयवर्गं भविता। गतवर्गे पञ्चदशजना अवर्तन्त। श्वः कति जना आगन्तारः श्व एव ज्ञास्यते। सामान्यतः प्रथमवर्गे बहवो विद्यार्थिनो वर्तन्ते। गच्छता कालेन छात्रसङ्ख्या न्यूना जाता। निश्शुल्कवर्गयेतद्दृश्यं दृश्यते। परमयँव्वर्गस्तु न निश्शुल्कः। छात्रसङ्ख्या ध्रुवा भवेदिति मन्ये।

पर्यवेक्षकस्यानुपस्थितिः

कार्यालये मम पर्यवेक्षकः सप्तदिनयात्रायै युरोपमहाद्वीपङ्गतः। कञ्चनोपशममनुभवामि यतः स सूक्ष्मतया संविधत्ते। तस्यागमनात् प्राङ्मम पूर्वपर्यवेक्षकस्त्वतिव्यस्त आसीत्। सूक्ष्मतया संविधातुं तत्समीपे समय एव नासीत्। अतोऽस्य पर्यवेक्षकस्य कार्यविधिर्मह्यं विशेषतो न रोचते। गतद्वाभ्यां दिनाभ्यामहं व्यस्त आसम्। साशंसमगामिषु त्रिषु दिनेषु किञ्चिन्न्यूनङ्कार्यं भवेत्। तस्मात् पर्यवेक्षकस्यानुपस्थितेर्लाभान्वितो भवेयम्।

स्मितरेखा-२

‘स्मितरेखा’ इति पुस्तकस्य पठनं समापम्। पठितेषु पुस्तकेषु पुस्तकमिदं मम प्रियतमं बभूवेति न काप्यतिशयोक्तिः। अत्युत्कृष्टभाषया सुसज्जितमदः पुस्तकं मां परमानन्दमदात्। अनेन पुस्तकेनोपपञ्चशता नूतनशब्दा मत्स्मृतौ समाविष्टा इति मन्ये। कृच्छ्रेण महदोद्यमेन पुस्तकं पठितवानहँय्यतो मां कठिनाभात् पुस्तकभाषा। यथा कठोरव्यायामस्य पश्चात् सम्पूर्णगात्रं परितपति परन्तु तेनानन्दमनुभूयते तथैवास्य पठनात् परं मस्तिष्को वेदनामन्वभवत्परन्त्वानन्दोऽप्यन्वभूयत्। पुस्तके तु केवलमुपशताः पृष्ठा वर्तन्ते परन्त्वेकमासप्रायो व्ययितो मया पठने। काश्चन कथास्तु द्विवारमपठम्। ‘स्मितरेखा’ इति शब्दस्यार्थस्तु मन्दहास एवास्तीतीदानीमहञ्जाने। उदर्केऽप्येतादृशानि पुस्तकानि पठ्यासम्।

सोमवार, 18 जून 2018

पुत्रस्य सङ्ख्याध्ययनम्

अद्यत्वे मत्पुत्रः सङ्ख्यास्वभिरुचिर्दर्शयति। प्रातःकाले यदावाङ्कारयानेन विद्यालयङ्गच्छन्तौ स्वः स अन्यकारयानानां सङ्ख्याः पठति। ताः सङ्ख्यास्तु केवलञ्चतुरङ्कीयाः। स ताः सम्यक्तया पठितुं शक्नोतीति दृष्ट्वाहं पञ्चाङ्कीयाः सङ्ख्याः पठितुं तं प्रोत्साहनमददम्। गृहे श्वेतफलकमस्ति। तस्मिन् पञ्चाङ्कीयाः सङ्ख्या विलिख्य ताः कथं पठ्येरँस्तमहमपाठयम्। केनचिदभ्यासेन स ताः पठितुमशक्नोत्। तदनन्तरं तं षडङ्कीयाः सङ्ख्याः पाठितवान्। ता अपि स पठितुं शक्नोति। प्रतिदिनं श्वेतफलकयावामभ्यासङ्कुर्वहे। द्वित्रदिनाभ्यान्तरे तं सप्ताङ्कीयाः सङ्ख्याः पाठयिष्यामि। साँयकालस्य श्वेतफलकस्य चायमुत्तम उपयोगः।

रविवार, 17 जून 2018

पितृदिवसः

अद्य पितृदिवसः। प्रातःकाले पुत्रं तस्य मातामह्या गृहादानैषम्। स मातामह्या गृहे महदानन्दमनुभूतवान्। यत्किमपीच्छति स तत्र प्राप्नोति। अत्र तु शर्करायुक्तानि खाद्यानि न्यूनतयैव स भुङ्क्ते। तस्यागमनात्परस्तान्मम भार्या सर्वेषाङ्कृते भोजने नवनीतकुक्कुटमपाक्षीत्। सा जानात्यददः खाद्यं मह्यमस्मत्पुत्राय च रोचते। भोजनस्य पुरस्सरमपूपमप्यखादिष्म। पुत्रोऽपि मह्यं शुभाशयपत्रमदात्। इदानीन्तु स बहिः क्रीडारतः। मध्याह्नि संस्कृतशिबिरमपि सम्यक्तया प्राचालीत्। उत्तमो दिनोऽयम्।

सम्भाषणशिबिरम्-२

अद्य संस्कृतसम्भाषणशिबिरमायोजितः। प्रथमवर्गः प्रवृत्तः। प्रायाः पञ्चविंशतिश्छात्रा आगमन्। एतादृशी सङ्ख्या तु मया नापेक्षिता यतो द्वाभ्यां दिनाभ्यां पूर्वङ्केवलं त्रिजनाः पञ्जीकृतवन्तः। बहवो जना गतौ दिनौ पञ्जीकृतवन्त इति प्रतिभाति। एतावति सङ्ख्यायाञ्जना आगतवन्तस्तत्तु महते सन्तोषाय। सर्वंय्यथाव्यवस्थितं सञ्जातम्। छात्रेष्वोत्साहोऽदृश्यत। साशंसमागामिषु सप्ताहेष्वप्ययमोत्साहोऽनुवर्तेत।

शनिवार, 16 जून 2018

सम्भाषणशिबिरम्

श्वः संस्कृतसम्भाषणशिबिरमारप्स्यते। शिबिरशुल्कं पञ्चसप्तत्यधिकशतरुप्यकाणि। मन्ममतावेतावत्शुल्कमधिकतरम्। शिबिरसञ्चालकौ मया मन्त्रणा न कृतवन्तौ। एतावत्पर्यन्तङ्केवलं त्रिजनैः पञ्जीकृताः। अहमाश्चर्यचकितो नास्मि। संस्कृतस्य कृते जना एतावद्धनन्न व्ययेयुः। मन्मतौ शिबिरं निश्शुल्कन्न भवेत् परन्त्वेतावत्शुल्कमपि न भवेत्। अधिकतमं शतरुप्यकाणि परिमितानि शुल्कं सुष्ठ्विति मन्येऽहम्। शिबिरार्थङ्कति जना आग्नतारः श्वो द्रष्टास्मि।

पुत्रो गतः

मत्पुत्रस्तस्य मातामह्या गृहङ्गतः। तस्य गमने कदाचिदहं प्रसन्नो भवामि यतः कञ्चन समयमात्मने प्राप्स्यामि। परन्तु यदा स गतस्तदा तस्यानुपस्थितिर्मां दुनोति। दिने बहुसमयमस्तीति प्रतिभाति। तस्योपस्थिते समयः क्षिप्रङ्गच्छति यतो भ्रमणार्थमावां बहिरुद्यानङ्गच्छावः। अनेकशः काफ्यपाणमपि गच्छावः। स श्वः प्रतियाता। अन्यच्च तस्मिन् विद्यालये ह्यः पित्रदिवसोत्सव आचरितः। विद्यालययावां साकं प्रातराशिङ्खादिवन्तौ। स त्वतिप्रसन्न आसीत्। 'भवान् विश्वे सर्वोत्तमपिता' इति स मामकथयत्।

रविवार, 10 जून 2018

चित्रकथाः

पुत्रस्य कृते कानिचन बालसंस्कृतपुस्तकान्यक्रीणाम्। तेषु ‘चित्रकथाः’ अन्यतमम्। सोत्साहमहं पुत्रेण सह तत्पुस्तकपठनमारब्धवान्। धार्मिककथा मह्यन्न रोचते विशेषतः पुत्रस्य कृते। प्रथमे द्वे कथे तु कृष्णस्यापारमहिमनो विषये। विस्तरेण बकसर्पयोर्विदारणं दर्शयन्त्याविमे कथे कथँव्वत्सानाङ्कृते सन्ति न जानेऽहम्। कथमप्यहं ते पठितवान्। अग्रेऽपि पुस्तके कश्चन देवस्य कृतेऽमुकः स्वकीयस्य भुजाङ्कर्तयन्नपश्यमहम्। रक्तस्रावोऽपि दर्शितवान् पुस्तके। ततः शराघातेन कश्चन भूमौ पतितन्नरं दृष्टवान्। पुस्तकपठनं स्थगितवानहम्। एतादृशानि हिंसायुक्तानि पुस्तकानि धर्मनाम्नापत्यानाङ्कृते विहितानीति दुःखकारि।

पुरातनमित्रम्

ह्यः किञ्चिद्दूरवर्ति पुरातनमित्रं मां दूरवाण्यामाहूतवान्। गतावसरे यदावां सम्भाषावहि स तु पञ्चवर्षेभ्यः पूर्वमासीत्। तत्काले तस्य विवाहविच्छेदञ्जज्ञे। तदनन्तरमावयोः सँल्लापो न जातः। एतावतः समयस्यानन्तरं स किमर्थं मामाह्वयन्नस्तीत्यहमचिन्तयम्। जनाः पुरातनमित्राणि द्वयोरवसरयोः स्मरन्ति - आपत्काले सुसमृद्धिकाले वेत्यहं मन्ये। परङ्कापि तादृशी वार्ता नासीत्। मन्नगरयुदावसितुञ्चिकीर्षुः स इति स न्यगदत्। तदर्थं स मन्नगरस्य विषये बहवः प्रश्ना अपृच्छत्। अहं तस्य सर्वेषां प्रश्नानानामोत्तराण्यददाम्। यदि स मन्नगरयागच्छेत्तत्तु महते सन्तोषाय।

इन्सोम्निया

‘इन्सोम्निया’ इति चलच्चित्रमपश्यम्। बहुसम्यक् चलच्चित्रम्। अलास्काप्रदेशे काचन मृतकन्याया विचारणा कुर्वाणः कश्चनारक्षकोऽकामतस्तस्य सहकर्मकरिणं ममार। पूर्वङ्कस्मिँश्चिद्विषये तयोः किञ्चिद्विवादं बभूव। कोऽपि न मन्येत यत् स तं स्वच्छन्दतया न ममारेति विचिन्त्य स हननस्य तिरोधानञ्चक्रे। यः पुरुषस्ताङ्कन्यां ममार सोऽमुमारक्षकं सूचयामास यत् स जानात्यारक्षकेण किङ्कृतम्। परस्परं साहाय्यङ्करणीयमावाभ्यां स बभाण। अहं त्वया कृतन्न कथयामि त्वं मया कृतं मा वादीर्हन्ता निजगाद। अग्रे किं प्रवृत्तमहन्न कथयामि। चलच्चित्रं दृश्यताम्।

रविवार, 3 जून 2018

ऐन्स्टैनः

दूरदर्शने ‘ऐन्स्टैन्स्-मैन्ड्’ इति वृत्तान्तं दृष्टवान्। ऐन्स्टैनवर्येण प्रतिपादितस्य ‘रिलेटिविटि’ सिद्धान्तस्य विषये वृत्तान्तोऽयम्। ऐन्स्टैनवर्यः १९१५ तमे वर्षयिममं सिद्धान्तं ददौ। रिलेटिविटिसिन्द्धान्तं रोरुच्यते मह्यम्। आ बाल्यादहमस्मिन् विषये काले काले पठामि। अस्मिन्विषये बहूनि पुस्तकान्यपि मत्सकाशे वर्तन्ते। कस्मिँश्चिद्भविष्यत्दिवसेऽहमेष सिद्धान्तं सम्यकतया परिशीलयामीत्यहमभिलषामि। भौतिकशास्त्रपठनं बहुसमयँय्याचते। इदानीन्तु कुटुम्बजीविकयोर्दायित्वौ वर्तेते। स्यान्नाम सेवानिवृत्तेरनन्तरं पठितुं शक्तास्मि।

शनिवार, 2 जून 2018

परीक्षा

केभ्यश्चिद्गतप्ताहेभ्योऽहं संस्कृतवर्गं पाठयामि। परीक्षया विना विद्वत्ता न वर्धतयति मन्येऽहम्। अतः पुस्तकस्य प्रतिपाठं प्रपाठ्याहं परीक्षायोजयामि। छात्राः परीक्षाभयात् पठन्ति स्मरणीया अंशाः स्मरन्ति च। सर्वे छात्राः परीक्षायोजनार्थं मह्यङ्कृतज्ञता दर्शयन्ति। परीक्षातीवोपयोगिनी ते विभावयन्ति। अहञ्छात्रोत्साहं द्रष्टुं शक्नोमि। आस्माकीनस्य समयस्य सदुपयोगं भवति नूतनजनानां संस्कृतज्ञानँव्वर्धते च तत्तु महते सन्तोषाय।

अवसन्नता

निरामयचिरजीवनार्थं व्यायामस्य महत्वपूर्णता तु लोकज्ञाता। तन्निमित्तमहं प्रतिदिनं व्यायामङ्करोमि। पूर्वमहमार्धघण्टा यावद्व्यायामङ्करोमि स्म। तत एकघण्टा यावदारभे। परन्तु यदि घण्टा यावद्व्यायामङ्क्रियेत शरीराङ्गेषु वेदनामनुभवामि। यदि घण्टा यावच्चलनयन्त्रे चलामि तर्हि दक्षिणजानुगुल्फयोर्वेदनामनुभवामि। यदि घण्टा यावल्लौहभारमुद्धरामि तर्हि वामबाहौ वेदनामनुभवामि। अधिकव्यायामेन मद्रक्तचापं न्यूञ्जायते, सम्यङ्निद्रापि मया प्राप्यते। मम गुरुत्वन्न्यूनायते। शारीरिकहानिभयादहमधिकव्यायामकरणस्य विषयेऽभिशङ्के। पूर्वोक्तँल्लाभाँश्च्युतिर्मामवसन्नङ्करोति।

अपव्ययितजीवनम्

दूरदर्शने ‘ईवल्-जीनियस्’ नाम्ना धनकोषलुण्ठनस्य विषये वृत्तान्तं दृष्टवान्। २००३ तमे वर्षे न केवलं धनकोषलुण्ठनं प्रववृते कस्माच्चिद्दुर्भाग्यवतः पुरुषादपराधिनो विस्फोटेन तज्जीवनमप्यपजह्रुः। प्रमुखापराधिनी ‘मार्जरी-आर्मस्ट्रोंग’ नाम्ना काचन स्त्री। यौवने सा सुन्दरी बुद्धीमती च। विश्विद्यालये सोत्तमा छात्रा। परन्तु मान्सिकासन्तुलनवशात् सा नैतिकमार्गं तत्याज। सा कूटयोजना रचयामास। तस्याञ्जीवने बहवो जना मृत्युं प्रापुः - तन्निमित्तम्। अन्ततः सर्वकारस्ताङ्कारागारे पातयामास। सा तस्या जीवनमपव्ययीकृतवती। यथा पूर्वोक्तं सा बुद्धिमती सुन्दरी च। नैतिकमार्गेणैव सा सर्वं प्राप्तुमशक्ष्यत्। अपव्ययितजीवनं तस्याः।

शुक्रवार, 1 जून 2018

शीलारजनीशौ

दूरदर्शने रजनीशो नाम्ना कश्चनाध्यात्मिकगुरुर्विषये वृत्तान्तं दृष्टवान्। ‘व्हैल्ड्-व्हैल्ड्-कन्ट्री’ इति १९८० तमे दशके सात्त्विकघटनास्वाधारितोऽद्भुतवृतान्तः। गुरोस्तस्य मुख्यकर्मकरिण्याः शीलायाश्च नेतृत्वे किङ्किं प्रवृत्तमिति दृष्ट्वा मम चिबुकं तु भूतले पतितवान्। लोकः कञ्चन मनुष्यङ्कथमीश्वरायतयिति दृष्ट्वा विस्मितोऽस्मि। जना गतानुगतिकतया किमपि कर्तुं सज्जाः। शीलारजनीशौ स्वच्छन्दतया बहूनि दुष्कर्माणि चक्रतुः। तावुछृङ्खलौ बभूवतुः। रजनीशस्य विश्वसितकर्मकरिण्याः शीलायाः कथने तस्य भक्ता अन्याञ्जनान् संहर्तुमपि सज्जिताः। ते कृत्स्नग्रामं विषं ददुः। शीला सम्पूर्णग्रामं संहरणमादिदेश, सर्वकारीणि कार्यालये विस्फोटङ्कारयञ्चकार, सर्वकार्यधिकारिणो हननकपटप्रबन्धं रचयामास तथापि सा केवलं सार्धत्रीणि वर्षाणि यावत्कारागारे समयँय्यापयञ्चकार! स गुरुरपि किमपि दण्डन्न प्राप! अहो, एनयोः सौभाग्यम्! विस्तरेभ्यो वृत्तान्तं वीक्षस्व, जीवने किङ्किन्न करणीयं तदवगतयेऽपि वीक्षस्व।