रविवार, 10 जून 2018

चित्रकथाः

पुत्रस्य कृते कानिचन बालसंस्कृतपुस्तकान्यक्रीणाम्। तेषु ‘चित्रकथाः’ अन्यतमम्। सोत्साहमहं पुत्रेण सह तत्पुस्तकपठनमारब्धवान्। धार्मिककथा मह्यन्न रोचते विशेषतः पुत्रस्य कृते। प्रथमे द्वे कथे तु कृष्णस्यापारमहिमनो विषये। विस्तरेण बकसर्पयोर्विदारणं दर्शयन्त्याविमे कथे कथँव्वत्सानाङ्कृते सन्ति न जानेऽहम्। कथमप्यहं ते पठितवान्। अग्रेऽपि पुस्तके कश्चन देवस्य कृतेऽमुकः स्वकीयस्य भुजाङ्कर्तयन्नपश्यमहम्। रक्तस्रावोऽपि दर्शितवान् पुस्तके। ततः शराघातेन कश्चन भूमौ पतितन्नरं दृष्टवान्। पुस्तकपठनं स्थगितवानहम्। एतादृशानि हिंसायुक्तानि पुस्तकानि धर्मनाम्नापत्यानाङ्कृते विहितानीति दुःखकारि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें