मंगलवार, 26 दिसंबर 2023

उपायनानि

क्रिस्तमसपर्वणि वयमुपायनानां विनिमयमकरवाम। सर्वेषामुुपयनानि रोचकाणि। भार्या तु बृहच्चिन्तनं कृत्वा मह्यमुपनायानि ददाति। पुत्रस्तु सर्वदा चलच्चित्रक्रीडामिच्छति। प्राप्तोपायनेषु चलच्चित्रक्रीडान्यतमा।

वर्षस्यान्तिमसप्ताहः

वर्षस्यान्तिमसप्ताहः। मदीये दले बहवो जनाः कार्यं कुर्वन्ति। अन्तिमे सप्ताहे मुख्यतया जना अवकाशे भवेयुरिति मन्ये। परन्तु दलस्य सदस्याः कुुटुम्बविहीनाः। येषां कुटुम्बोऽस्ति स कुटुम्बोऽन्यस्मिन्नगरे वर्तते। अतो दलसदस्या अत्रैकाकिनः। न केवलं ते कार्यं कुर्वन्ति ते कार्यालयमागत्य कार्यं कुर्वन्ति। यस्मिन् दलसदस्या मम समवयस्कास्तादृश उद्योगो लब्धव्यः।

शुक्रवार, 22 दिसंबर 2023

प्रवासः

षड्दिनात्मकप्रवासमकरवाम। ह्यः प्रत्यागच्छाम। प्रवासः सम्यगासीत् परन्तु विमानयात्रा मह्यं न रोचते। विमानपतने महज्जनसम्मर्दोऽवर्तत। किञ्च भार्यापुत्रौ गतिरोगेन पीड्येते। तस्मात्किञ्चित्क्लेशः सर्वदा भवत्येव। अहमपि गृहभोजनं विहाय प्रतिदिनं बाह्यभोजनं खादामि चेदुदरक्रिया सम्यङ्न प्रचलति। तेन मह्यमपि क्लेशो भवति। एतद्विहाय प्रवास उत्तम आसीत्। अहं मम मित्रमप्यमिलं यत्स प्रवासनगरयेव वसति। सप्तवर्षाणामनन्तरं मिलित्वावां रमावहे।

शनिवार, 2 दिसंबर 2023

सम्भाषणसन्देशपत्रिका

आ पञ्चभ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां पठामि। अधुना तस्याः पत्रिकायाः किञ्चिन्नैरस्यमनुभवामि। प्रतिमासं पत्रिकाया लेखाः समानरूपकाः समानविषयकाश्च। द्वित्रलेखा मन्दिरदेवादीनां विषयकाः। केचन लेखा भारतस्वतन्त्रतासङ्ग्रामविषयकाः। याः कथाः कल्पनात्मकास्ता अपि कुत्रचिद्देवसंन्यासिपण्डितान् स्थापयन्ति। पौनपुन्येन समादृशाँल्लेखान् पठित्वेदानीं तस्याः पत्रिकायाः पठनं क्लेशाय। तर्हि नववर्षे पत्रिकाया ग्राहकतां न नवीकुर्यामिति चिन्तयामि।