मंगलवार, 26 दिसंबर 2023

उपायनानि

क्रिस्तमसपर्वणि वयमुपायनानां विनिमयमकरवाम। सर्वेषामुुपयनानि रोचकाणि। भार्या तु बृहच्चिन्तनं कृत्वा मह्यमुपनायानि ददाति। पुत्रस्तु सर्वदा चलच्चित्रक्रीडामिच्छति। प्राप्तोपायनेषु चलच्चित्रक्रीडान्यतमा।

वर्षस्यान्तिमसप्ताहः

वर्षस्यान्तिमसप्ताहः। मदीये दले बहवो जनाः कार्यं कुर्वन्ति। अन्तिमे सप्ताहे मुख्यतया जना अवकाशे भवेयुरिति मन्ये। परन्तु दलस्य सदस्याः कुुटुम्बविहीनाः। येषां कुटुम्बोऽस्ति स कुटुम्बोऽन्यस्मिन्नगरे वर्तते। अतो दलसदस्या अत्रैकाकिनः। न केवलं ते कार्यं कुर्वन्ति ते कार्यालयमागत्य कार्यं कुर्वन्ति। यस्मिन् दलसदस्या मम समवयस्कास्तादृश उद्योगो लब्धव्यः।

शुक्रवार, 22 दिसंबर 2023

प्रवासः

षड्दिनात्मकप्रवासमकरवाम। ह्यः प्रत्यागच्छाम। प्रवासः सम्यगासीत् परन्तु विमानयात्रा मह्यं न रोचते। विमानपतने महज्जनसम्मर्दोऽवर्तत। किञ्च भार्यापुत्रौ गतिरोगेन पीड्येते। तस्मात्किञ्चित्क्लेशः सर्वदा भवत्येव। अहमपि गृहभोजनं विहाय प्रतिदिनं बाह्यभोजनं खादामि चेदुदरक्रिया सम्यङ्न प्रचलति। तेन मह्यमपि क्लेशो भवति। एतद्विहाय प्रवास उत्तम आसीत्। अहं मम मित्रमप्यमिलं यत्स प्रवासनगरयेव वसति। सप्तवर्षाणामनन्तरं मिलित्वावां रमावहे।

शनिवार, 2 दिसंबर 2023

सम्भाषणसन्देशपत्रिका

आ पञ्चभ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां पठामि। अधुना तस्याः पत्रिकायाः किञ्चिन्नैरस्यमनुभवामि। प्रतिमासं पत्रिकाया लेखाः समानरूपकाः समानविषयकाश्च। द्वित्रलेखा मन्दिरदेवादीनां विषयकाः। केचन लेखा भारतस्वतन्त्रतासङ्ग्रामविषयकाः। याः कथाः कल्पनात्मकास्ता अपि कुत्रचिद्देवसंन्यासिपण्डितान् स्थापयन्ति। पौनपुन्येन समादृशाँल्लेखान् पठित्वेदानीं तस्याः पत्रिकायाः पठनं क्लेशाय। तर्हि नववर्षे पत्रिकाया ग्राहकतां न नवीकुर्यामिति चिन्तयामि।

शनिवार, 18 नवंबर 2023

क्रिकेट्स्पर्धा

आ मासात्क्रिकेट्स्पर्धाया विश्वचषकः प्रचलति। स्पर्धाः पश्यामि परन्तु मध्यरात्रावरभन्ते। श्वोऽन्तिमस्पर्धा भविष्यति।

रविवार, 15 अक्तूबर 2023

सूर्यग्रहणमपश्याम

ह्यः सूर्यग्रहणमपश्याम। परह्यो भार्या सूर्यदर्शनोपनेत्राण्यक्रीणात्। प्रथमवारं सूर्यग्रहणं दृष्ट्वा पुत्रोऽमोदत। २०२४ वर्षस्याप्रैलमासे पुनः सूर्यग्रहणं भविता। तदापि द्रष्टास्मः।

शनिवार, 14 अक्तूबर 2023

नूतनोद्योगार्थं प्रयायत्ये

साम्प्रतिकोद्योगसंस्थां त्यजेयमिति बहुवारं चिन्तयामि। परन्तु संस्थया सर्वोत्तमवेतनं दीयतयित्यस्मात्त्यक्तुं न शक्नोमि। अधुना कार्यं न रोचतयेव। किञ्च यत्कौशलमोद्योगापणयेपेक्षयते तत्कौशलमस्यां संस्थायां न प्रयुज्यते। इत्यस्माद्वेतनह्रासं स्वीकृत्याप्योद्योगपरिवर्तेयेति चिन्तयामि। तेन कौशलवृद्धिर्भवेत्। इतोऽपि बहुभ्यो वर्षेभ्यः कार्यं करणीयं तर्हि नूतनकौशलनानि ग्राह्याणि।

शनिवार, 7 अक्तूबर 2023

श्वशुरावमेलिष्म

अद्य श्वशुरौ मेलनाय तयोर्गृहमगमाम। तयोर्गृहं पुत्रं प्रापय्य सङ्ग्रहालयमगमाव। तत्रत्या प्रदर्शिनी भार्यायै रोचते। तद्दृष्ट्वा पुत्रं श्वशुरगृहाल्लब्ध्वा पुनः स्वगृहमागमाम। सम्पूर्णदिनमेवं गतम्।

गुरुवार, 28 सितंबर 2023

संस्कृतवर्ग आरब्धः

संस्कृतवर्ग आरब्धः। गीतासोपानस्य द्वितीयभागस्यानुवर्तनं कुर्मः। एतत्पुस्तकं समाप्य पाठनाद्विरामं ग्रहीष्यामीति चिन्तयामि। आ षड्भ्यो वर्षेभ्यः पाठयन्नस्मि। सम्प्रति पाठनं न रमे।

नूतनकार्यं न रोचते

कार्यालये दलपरिवर्तनमकरवम्। नूतनकार्यं समधिकमस्ति। मह्यं न रोचते। अस्य दलस्य ग्राहका विश्वव्यापिनः। अतो कुत्रापि कदापि समस्या आगच्छेच्चेत्तेऽस्मानाह्वयेयुः। तस्मान्मध्यरात्र्यप्याह्वानमागच्छति। पूर्वतने दले ग्राहकाः केवलं केषुचिद्देशेष्वासन्। नववर्षयोद्योगपरिवर्तनं करवाणि। वर्षान्तयुद्योगपरिवर्तनो दुर्लभः।

गुरुवार, 7 सितंबर 2023

कारयानस्य नेमी

प्रतिवर्षं कारयानस्य परीक्षणं कारयितव्यम्। यानं सुरक्षतया चालयितुं शक्यतयित्यस्य निर्णयाय। यदि यानेन सुरक्षणपरीक्षा नोत्तीर्यते तर्हि कारयानं समीकृत्वा पुनः परीक्षा कारयितव्या। परीक्षायां यानस्याग्रिमे द्वे नेमी उत्तीर्णे नाभूताम्। ते जीर्णयास्ताम्। नूतने नेमी क्रीत्वा स्थापिते। तदनन्तरमेव यानं परीक्षामुदतरत्।

पुत्रो यूट्यूबश्च

पुत्रो यूट्यूबजालस्थाने तस्य चलचित्रक्रीडानां क्रीडनं स्थापयितुमिच्छति। बहुभ्यो दिनेभ्यः स यूट्यूबवाहिनीमिच्छन्नासीत्। ह्यो वाहिनी रचिता। द्वे चलचित्रेऽपि स्थापिते। सो हर्षितः।

रविवार, 20 अगस्त 2023

वर्गा अन्तर्जालेन

अभिमुखं मेलनान्येव करणीयानीति राष्ट्रियकेन्द्रस्यादेशः। यद्यपि मह्यं न रोचते तथाप्यहं संस्कृतस्य हेतवे सज्जः। परन्तु ह्यः स्थानीयकेन्द्रसञ्चालकेन सन्देशः प्रेषितोऽभिमुखमेलनेभ्यः स्थलो न लब्धः। तस्मान्मेलनान्यन्तर्जालेन प्रचलिष्यन्ति। सेप्टेम्बरमासस्य षोडषदिनाङ्कादारप्स्यन्ते वर्गाः। अहं गीतासोपानस्य द्वितीयभागस्य पाठनमनुवर्तयिष्यामि।

शुक्रवार, 11 अगस्त 2023

विद्यालय आरभते

आगामिनि मङ्गलवासरे सार्धद्विमासाणां विरामस्य परस्तात् पुत्रो विद्यालयो गमिष्यति। प्रतिदिनं स विद्यालयं नेतव्यो मध्याह्न आनेतव्यश्च। ह्यः साँयकाले तस्य विद्यालयं गत्वा तस्य नूतनाध्यापकानमिलाम।

बुधवार, 9 अगस्त 2023

पुत्रस्यालस्यम्

यथा यथा पुत्रो वर्धते तस्यालस्यमपि वर्धते। यस्मिन्कस्मिन्नपि कार्ये श्रम आवश्यक स न चिकीर्षति। अद्य तरणकुण्डे गच्छेवेति चिन्तितमासीत् परन्तु गमनसमये सोऽतर्कितकारणानि दत्त्वा गन्तुं नाशक्नोत्। प्रतिदिनं केवलं चलच्चित्रक्रीडाणां विषये चिन्तयति तासां विषय एव सम्भाषणं करोति। अन्यत्केवलं कदाचित्पुस्तकानि पठति। तेष्वपि तस्य रुचिर्न्यूना जातेति भासते।

सोमवार, 7 अगस्त 2023

अस्मिन्सप्ताहे विरामः

अस्मिन्सप्ताहे मया कार्यालयाद्विरामो गृहीतः। पुत्रो ग्रीष्मकालविद्यालयं न गच्छति। स गृहे तिष्ठति। तर्हि मयापि स्थातव्यम्। सम्प्रति ममोद्योगसंस्था मां सप्ताहे त्रिवारं कार्यालयमाह्वयति। कार्यालयं न गच्छानि तदर्थहं विरामं स्वीकृतवान्।

शुक्रवार, 4 अगस्त 2023

लूनशाखा गताः

ह्यः सर्वकारयानं गृहस्य पुरतः स्थापिता लूनशाखा अनैषीत्।

बहूनि मेलनानि

कार्यालये नूतनदले कार्यं करोमि। वस्तुतो द्वौ दलौ स्तः। तयोरहमेव महानुभवी। अतो द्वयोर्दलयोरपेक्षास्त्यहं तयोः साहाय्यं करोमि। तस्मादहं द्वयोर्दलयोर्मेलनेषु गच्छामि। तेन प्रतिदिनमर्धदिनं मेलनेष्वेव याति। तदुपरि सम्प्रति नियततया कार्यालयं गन्तव्यम्। तस्मादपि समयो व्यर्थीभवति।

रविवार, 30 जुलाई 2023

शाखा लूना

आगामिनि सप्ताहे सर्वकारयानं लूनशाखा अर्जनार्थमागमिष्यति। शाखा अवकरपात्रे न समागच्छन्ति। तदर्थमद्य शाखा लूत्वा गृहस्य पुरतः स्थापिताः। द्वित्रिदिनेषु सर्वकारयानमागत्य ता नेष्यति।

रविवार, 23 जुलाई 2023

वाचालः सहकरी

कार्यालये नूतनदले मम सहकरी वाचालः। केवलं वाचालो न स सर्वदौच्चैर्वदति। यत्किमपि सो वदति सर्वलोकः श्रोतुं शक्नुयुः। तेन सह सम्भाषणं दुष्करं यतः स कार्यालयस्य जनानां विषये कटुवचांसि वदति। मम विषयेऽपि ममानुपस्थित्यां किं वदेदिति चिन्तयामि।

परिवेशिनोः पुत्र्योर्नृत्यं

अस्मिन्सप्ताहान्ते परिवेशिनोः पुत्र्योः नृत्यकार्यक्रमोऽस्ति। द्वयोर्नृत्यप्रदर्शनमवलोकनायाहत्य न्यूनातिन्यूनं दशघण्टा आवश्यक्यः। तावन्तं समयं त्वहं न ददामि कस्यचिन्नृत्यमवलोकनाय। परन्तु भार्या गच्छति।

रविवार, 16 जुलाई 2023

मित्रे आगमताम्

यतो बहि समधिकघर्मोऽस्तीत्यतः पुत्रस्य मित्रे गृहमागमताम्। सामान्यतो बालका बहिः क्रीडन्ति परन्तु घर्मवशाद्बालके गृहमाहूते। ताभ्यां सह क्रीडित्वा पुत्रो हर्षितोऽभूत्।

रविवार, 2 जुलाई 2023

घटरञ्जनम्

अद्य घटरञ्जनायागमाम। एकस्मिन्नापणे घटान् क्रीत्वा तान् रञ्जयितुं शक्नुमः। तत्र गत्वा चषकस्थालिका इत्यादीनि मृत्पात्राणि क्रीत्वा तत्रोपविश्य तान्यराङ्क्ष्म। भार्या बहुभ्यो दिनेभ्य एतदिच्छन्त्यासीत्। अद्य कृतम्। आपणस्वामी पात्राणामग्निभर्जनं कृत्वा  सप्ताहानन्तरं दास्यति।

भ्रात्रा मातृपितृभ्याञ्च सह सम्भाषणम्

अद्य प्रातःकाले भ्रात्रा मातृपितृभ्याञ्च सह सम्भाषणमभूत्। त्रयोरेव कुशलिनः। भ्रातुः पुत्रस्य विश्वविद्यालये प्रवेशस्य समय आगतः। तत्कृते तौ प्रयतेते। भ्रातृव्यस्य भविष्यदुज्जवलं भूयात्।

रविवार, 25 जून 2023

पुस्तकालयगमनस्य शुल्कम्

सर्वकारीयपुस्तकालय तु सर्वदा निश्शुल्कं भवति। परन्तु मह्यं पुस्तकालयगमनं प्रायशः शुल्कयुक्तं भवति। यदा कदापि पुस्तकालयं गच्छामो वयं त्रयोऽपि गच्छामः। पुस्तकालयगमनाय त्वधिकसमयो नावश्यकः। बहिर्गच्छामश्चेत्किमप्यन्त्कुर्यामेति विचारो मनस्स्वागच्छति। ग्रीष्मकाले किमपि शीतलं खाद्यमिति चिन्तयित्वा हिमपयः खादामः। तस्मात्पुस्तकालययात्रा निश्शुल्कं न भवति।

शनिवार, 24 जून 2023

भार्याया दीर्घदिनम्

भार्यायाः कार्यालयः स्थलपरिवर्तनं करोति। तेन कारणेन ह्यो भार्या विलम्बेनागच्छत्। प्रातःकाले सार्धसप्तवादने गत्वा साँयकाले सप्तवादने प्रत्यागच्छत्। अहं तामुक्तवान् रात्रिभोजनं कार्यालयस्य धनेन क्रीत्वा कुरु यतस्त्वं कार्यालयाय यतसे। प्रबन्धकः सहर्षमनुमतिं दद्यात्। परन्तु सा कार्यालयधनप्रयोगं नैच्छत्। तर्हि साँयकालेऽहं पुत्रश्च गत्वा त्रिभ्यो जनेभ्यो भोजनमक्रीणीव। यदा भार्यागच्छत्तदाखादाम।

कार्यं प्राप्तम्

कार्यालये आ मासान्नूतनदलेऽस्मि। एतावत्पर्यन्तं कार्यं न प्राप्तमासीत्। तेन कारणेन प्रतिदिनस्थेषु मेलनेषु किं कार्यं कुर्वन्नस्मीत्यस्य वर्णनं क्लेशाय। ह्यः कार्यं प्राप्तम्। प्रथमं कार्यं सम्यग्भूयादिति प्रार्थये यतः सर्वे तत्कार्यं दृष्ट्वा मद्विषये तेषां मतं रचयेयुः। प्राथमिकं मतं महत्वपूर्णम्।

रविवार, 11 जून 2023

प्रबन्धकस्यावकाशः

कार्यालये श्वः प्रबन्धकेनावकाशो गृहीतः। तस्मात्कार्यं न्यूनं भवेदिति चिन्तयामि।

पुस्तकालयं गमिष्यामः

अद्य पुस्कालयं गमिष्यामः। आ नवभ्यः सप्ताहेभ्यः पुस्तकान्यस्मत्सकाशे सन्ति। तानि प्रत्यर्पणीयानि। अन्यथा दण्डशुल्कं ददाम।

बुधवार, 7 जून 2023

बहूनि मेलनानि

अद्य कार्यालये बहूनि मेलनान्यभूवन्। नूतनदलसदस्यैः सह मेलनानि कृतानि।

शनिवार, 3 जून 2023

भोजनालये भोजनम्

पुत्रस्य जन्मदिवसोत्सवः केभ्यश्चिद्दिनेभ्यः पूर्वमभूत्। तथापि तस्य जन्मदिवसोत्सवाय भोजनालये भोजनं करणीयमिति पुत्रो वदति। प्रायोऽद्य साँयकाले गमिष्यामः।

बुधवार, 31 मई 2023

मातामह्या गृहे

गते सप्ताहान्ते पुत्रो मातामह्या गृहमगच्छत्। बहुभ्यो मासेभ्यः परं सोऽगच्छत्। तस्मादावां किञ्चित्समयमलभावहि।

कार्यालयमगमम्

अद्य कार्यालयमगमम्। नूतनदले कार्यमारब्धम्। तदर्थमगमम्। श्वोऽपि गमिष्यामि।

सोमवार, 22 मई 2023

जन्मदिवसोत्सवः २

पुत्रस्य जन्मदिवसोत्सवः सम्यक्तयाभवत्। दश बालका आगच्छन्। भोजनं क्रीडाश्च आसन्। पुत्र उपायनानि प्राप्नोत्।

रविवार, 21 मई 2023

जन्मदिवसोत्सवः

अद्य पुत्रस्य जन्मदिवसोत्सवः। पूर्वेषु वर्षेषु गृह एवोत्सव आयोजितः। अस्मिन्वारमुके क्रीडालय उत्सवं कुर्मः। अधिकधनव्ययो भविष्यति परन्तु सौकर्यमपि भविष्यति।

वर्गः समापितः

मया संस्कृतवर्गः समापितः। ग्रीष्मकाले बहवो जनाः प्रवासाय गच्छन्ति। तस्मान्न्यूना जना एव वर्गमागच्छन्ति। इत्यतो वर्गः समापितः। पूर्वेषु वर्षेषु ग्रीष्मकाले मया विशेषव्याकरणविषयाः पाठिताः परन्तु विरामेऽस्मिन् न पाठयिष्यामि। विराममेव स्वीकरिष्यामि। अगस्तमासादारभ्य वर्गः पुनरनुवर्तिष्यते।

शनिवार, 13 मई 2023

विजेता

अद्यादिनं वर्षापप्तत्। वर्षायां पादकन्दुकस्पर्धाया अन्तिमे क्रीडे भविष्यत उत नेति न ज्ञातम्। परन्तु क्रीडेऽभूताम्। पुत्रस्य दलं स्पर्धायां विजेताभूत्। पुत्रो हर्षितः।

शुक्रवार, 12 मई 2023

व्यजने स्थापिते

सप्तवर्षेभ्यो गृहेऽस्मिन् निवसामि। द्वयोः प्रकोष्ठयोश्छादव्यजने नावर्तताम्। एतावत्पर्यन्तं भूमिस्थव्यजने क्रीत्वा ताभ्यां वायुमलभामहि। परन्तु ताभ्यां ग्रीष्मः सम्यक्तया न निवारितः। अद्य छादव्यजने स्थापिते। ताभ्यामतीवानुकूल्यमागतम्।

रविवार, 7 मई 2023

मेलनम्

ह्योऽन्यन्नगरमगच्छम्। तत्र संस्कृतमेलनमासीत्। तस्मिन्नेव नगरे भार्याया मातृपितरौ निवसतः। सा पुत्रश्च मया सहागच्छताम्। परन्तु वाहनसम्मर्दवशात्तौ मातृपित्रोर्गृहे गन्तुं नाशक्नुताम्। यदाहं मेलने भागं वहन्नासं तदा तौ विपणौ गत्वा भोजनमखादताम्। रात्रौ नववादने गृहमागच्छाम।

शनिवार, 6 मई 2023

भारतभूषा गीतम्

भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये ।
संस्कृतिरक्षा राष्ट्रसमृद्धि: भवतु हि भारतदेशे ॥

श्रद्धा महती निष्ठा सुदृढा स्यान्न: कार्यरतानाम्
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम् ।
न हि विच्छित्तिश्चित्तविकार: पदं निदध्मस्सततम्
सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम् ॥

श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम्
चेतो वाणी प्राणा: काय: संस्कृतहिताय नियतम् ।
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीम्
पुष्टिस्तुष्टिस्संस्कृतवाक्त: तस्मादृते न किञ्चित् ॥

नाहं याचे हारं मानं न चापि गौरववृद्धिम्
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित् ।
यस्मिन् दिवसे संस्कृतभाषा विलसेज्जगति समग्रे
भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु ॥

मंगलवार, 2 मई 2023

हृष्यामि

अहं सामान्यतोऽन्येषां जालपुटानां सङ्केतानत्र न स्थापयामि। परन्त्विदं दृष्ट्वा हृष्यामि। पश्यत कथं चीनदेशीया निर्गलतया संस्कृतेन मधुरवचांसि वदति!

https://www.youtube.com/watch?v=40sCpRdhMNk

गृहमूल्यकरः

गृहमूल्यकरः कियान् भवत्वित्यस्य निर्णयस्य समय आगतः। सर्वकारेण गृहस्य मूल्यं पूर्ववर्षस्यापेक्षया न्यूनं निश्चितम्। तथापि करो वर्धितः! कीदृशी विडम्बना!

नूतनदलाच्छ्रुतम्

आ कतिपयसप्ताहेभ्यः कार्यालये दलसङ्क्रमणाय प्रयते। अद्य प्रातःकाले नूतनदलेनामन्त्रणं दत्तम्। अद्य मम प्रबन्धकं सूचयिष्यामि। न जाने तस्य प्रतिक्रिया का भविष्यति।

शनिवार, 29 अप्रैल 2023

हिमखण्डपतनम्

ह्यः साँयकाले हिमखण्डपतनमभूत्। अहं तु गृहयासं परन्तु भार्या कारयाने मार्गयासीत्। वर्षावशाद्वाहनसम्मर्द आसीत्। तेन सा किञ्चिद्विलम्बेन गृहमागच्छत्।

पादत्राणे

पुत्रस्य पादत्राणे षण्मासेष्वेव जीर्णे जाते। पञ्चचत्वारिंशद्रुप्यकाणि व्ययित्वोत्तमे पादत्राणे क्रीत आस्ताम्। ते दीर्घकालं यावदपयोगकरी भवेतामित्यपेक्षासीत्। परन्तु पुत्रः प्रतिदिनं त्रिचतुश्होरा यावन्मार्गे क्रीडति। तस्मात्ते क्षीयेते।

सङ्क्रमणाय विलम्बः

आ द्वाभ्यां सप्ताहाभ्यां दलसङ्क्रमणायामुकेन दलेन सह सम्भाषणं कुर्वन्नस्मि। सर्वाणि सन्दर्शनानि सम्पन्नानि। तथापि तद्दलेनाङ्गीकारो न दत्तः। स दलोन्यान् प्रत्याशिनोऽपि परीक्षत इति चिन्तयामि। अस्मिन् विषयेऽहं तु किमप्यन्त्कर्तुं न शक्नोमि।

संस्कृतसम्मेलनम्

अस्मिन् सप्ताहान्ते राष्ट्रियस्तरीयं संस्कृतमेलनमस्ति। अन्तर्जालेन भागं वहिष्यामि।

मंगलवार, 25 अप्रैल 2023

प्रधानाभ्यन्तृणा सह सन्दर्शनम्

दलसङ्क्रमणाय प्रयत इत्यहं पूर्वं सूचितवान्। तदर्थं ह्यः प्रधानाभ्यन्तृणा सह सन्दर्शनमभवत्। सम्यगभवदिति मन्ये। इतोऽपि न्यूनातिन्यूनं सन्दर्शनमेकमवशिष्यते। तस्मात्परं दलसङ्क्रमणायावसरो लभ्यत इति भावयामि।

रविवार, 23 अप्रैल 2023

रोगग्रस्तः पुत्रः

गतेषु त्रिषु दिनेषु पुत्रा रोगग्रस्त आसीत्। शनिवासरे पादकन्दुकक्रीडा स्पर्धासीत्। तत्र गन्तुं नाशक्नोत्। अद्य स स्वस्थं भासते। श्वो विद्यालयं गन्तव्यम्।

बुधवार, 19 अप्रैल 2023

सप्तभ्यो वर्षेभ्यः परस्तात्

सप्तभ्यो वर्षेभ्यः परस्तात्सम्प्रत्यहं कार्यालये नूतनदलं गमनाय प्रयते। अस्मिन्वर्षे मदीये दले हर्षदायकं कार्यं नास्त्येव। यत्किमपि कार्यमस्ति तदतिनैरस्यपूर्वकमस्ति। अतो दलसङ्क्रमणाय प्रयते। द्वाभ्यां दलाभ्यां सह सम्भाषणं जातम्। तयोः कोऽपि मां स्वीकुर्याद्वा नेति द्रष्टव्यम्।

शनिवार, 15 अप्रैल 2023

पादकन्दुकक्रीडा

पुत्रः पादकन्दुकक्रीडां क्रीडति। प्रतिमङ्गलवासरे क्रीडाभ्यासः प्रचलति। शनिवासरे स्पर्धा। बुधवासरे पुत्रस्य जलतरणपाठो भवति। अतः सप्ताहे त्रिषु दिनेषु कुत्रचित्पुत्रो नेतव्यः।

बुधवार, 5 अप्रैल 2023

कार्यम्

अद्यत्वे कार्यालये कार्यं न्यूनमस्ति। तस्माद्भौतिकविज्ञानं पठनाय समयो लभ्यते। परन्तु महच्छ्रमः समयश्च आवश्यकौ। आ मासात् पठन्नस्मि। प्रगतिः सम्यगस्ति परन्तु श्रान्तिमप्यनुभवामि। यदा कार्यालये कार्यं सामान्यं भवेत्तर्हि भौतिकविज्ञानं पठेयमिति सम्भावना विरला।

रविवार, 26 मार्च 2023

कार्यालये परिवर्तनम्

कार्यालये वर्षेऽस्मिन् मदीयाय दलाय करणार्हा विशेषप्रकल्पा न वर्तन्ते। इत्यस्मान्मम दलमन्येन दलेन सह योजितम्। आहत्य बहूनां प्रचलत्तन्त्रांशानां क्षेमोऽस्माभिः करणीयः। नूतनप्रकल्पा न सन्तीति मह्यं न रोचते। सर्वं कार्यं निरुत्साहं भविष्यति। परन्त्विदानीं नूतनोद्योगस्यान्वेषणं कष्टकरम्। अतः कथञ्चित्कार्यं करणीयमेव।

दन्तचिकित्सा

श्वो दन्तचिकित्सा भविता। अभिरक्षायोजना स्वल्पशुल्कमेव दास्यति। शेषं मया दातव्यम्। दन्तचिकित्सा सम्यग्भूयात्।

बुधवार, 15 मार्च 2023

अन्तरिक्षयानमपश्याम

सोममङ्गलवासरयोः प्रावासायागच्छाम। समुद्रतटे समयमयापयाम। तदनन्तरमन्तरिक्षसंस्थामगच्छाम। तत्रान्तरिक्षयानं दर्शितमासीत्। अहं बहुभ्यो वर्षेभ्यः पूर्वमन्तरिक्षयानमपश्यं परन्तु भार्यापुत्राभ्यां प्रथमवारं दृष्टम्।

बुधवार, 1 मार्च 2023

भौतिविज्ञानम्

अद्यत्वे भौतिविज्ञानं पठामि। आ बाल्याद्भौतिकविज्ञानं मह्यं भृशं रोचते। पठनाय बहुवारं प्रयत्नं कृतं मया परन्तु समधिकसमय आवश्यकः। त्रिसप्ताहेभ्यः पूर्वं पुस्तकालयादेकं पुस्तकमगृह्णाम्। उत्तमं पुस्तकमस्ति। प्रतिदिनं पठामि। इदानीं पुस्तकं समाप्तप्रायम्। इदं पुस्तकं विहाय त्रीणि पुस्तकानि सन्ति यान्यनेन लेखकेन लिखितानि। तान्यपि पिपठिषामि। एतेषु चतुर्षु पुस्तकेषु भौतिकविज्ञानं गणितेन सह पाठ्यते। अस्मात् पठनं न सरलम्। चतुर्णां पुस्तकानां पठनाय प्रायः सम्पूर्णवर्ष आवश्यक इत्यहमूहे।

रविवार, 12 फ़रवरी 2023

मोलीज़्-गेम्

मोलीज़्-गेम् इति चलचित्रमद्राक्षम्। मोली हिमसर्पणस्पर्धासु भागं वहमाना काचन महिला। दुर्घटनावशात् सा व्रणिता बभूव। तदनन्तरं सा स्पर्धासु भागं नोवाह। तत्स्थाने सा पत्रक्रीडानामयोजनं चकार। परन्तु सर्वकारदृष्ट्या ताः क्रीडा अवैधाः। सत्यां कथामाधारीकृत्य रचितं चलचित्रमिदं मह्यमरोचत।

पुत्राय तन्त्रांशरचना न रोचते

तन्त्रांशरचना मम वृत्तिः। मह्यं भृशं रोचते। किञ्च तर्कयुक्तं कार्यं तत्। तेन बुद्धिर्वर्धते। पुत्रोऽपि तन्त्रांशं रचयितुं शक्नुयादिति चिन्तयामि। तं प्रेरयामि परन्तु तस्य रुचर्नास्ति। गते वर्षे ग्रीष्मविरामकाले तेन सह मिलित्वा किञ्चित्तन्त्रांशा रचितः परन्तु सम्प्रति स न चिकीर्षति।

मंगलवार, 7 फ़रवरी 2023

भग्नाः शाखा लाविताः

ह्यो भग्नाः शाखा लाविताः। काश्चन शाखास्तु स्वयमेवालुनीव परन्तु बहवः शाखा उन्नत्य आसन्। ताः कर्तनाय कार्यकर्तारो नियुक्ताः। पञ्चाशदधिकसप्तशतरुप्यकाणि दत्त्वाधुना शाखा लम्बमाना न सन्ति। अद्य श्वश्च वृष्टिः पतितुं शक्नुयात्। तस्मात्पूर्वं शाखा लूना इति वरं यतो वर्षाजलभारवशाद्भग्नाः शाखाः शिरसि पतितुं शक्नुयुः।

सोमवार, 6 फ़रवरी 2023

रिच्-डैड्-पूर्-डैड् - १०

अथ दशमाध्यायस्य पाठः।

कर्म क्रियताम्। बहवो जना किं कर्तव्यमिति जानन्ति परन्तु कदापि न कुर्वन्ति, केवलं चिन्तयन्ति। धनं स्वयं नागच्छति। धनं प्रापणाय कर्म कर्तव्यम्।

रिच्-डैड्-पूर्-डैड् - ९

अथ नवमाध्यायस्य पाठः।

धनार्जनाय केचनांशाः -

१. धनार्जनेच्छान्तरिकी भावनात्मकी च भवतु। न भवति चेद्यावाञ्छ्रम आवश्यकस्तावन्तं करणं दुष्करम्।

२. धनं कथं व्ययितव्यमिति प्रतिदिनं वयं चिनुमः। सम्यक्तया धनस्य प्रयोगः करणीयः।

३. धनं कथमर्जनीयमिति धनाढ्यमित्रेभ्यः शिक्षणीयम्। धनं कथं न व्ययितव्यमिति दीनमित्रेभ्यः शिक्षणीयम्।

४. धनार्जनाय बहवो मार्गाः। कञ्चन मार्गमनुसृत्य धनं सङ्ग्रह्यान्यो मार्गोऽनुसरणीयो यतो गच्छता कालेन प्रथममार्गो बहुभिर्ज्ञायेत। तस्माद्धनार्जनावसरा न्यूना भवेयुः। नूतनमार्गो गम्यते चेज्जनाभावादधिकावसरा भवेयुः।

५. धनस्य मूल्यं गच्छता कालेन क्षीयते। अतः सर्वप्रथमं धनं स्वस्मै प्रयोक्तव्यम्। तदनन्तरमेवान्येभ्यः।

६. ये जना धनार्जनायास्माकं साहाय्यं कुर्वन्ति तेभ्य औदार्येण धनं दातव्यं यतस्तेषां कारणेनैव वयं समधिकधनमर्जयितुं शक्नुमः।

७. धनार्जनाय धननिवेशनमावश्यकम्। धननिवेशनं कृत्वा निविष्टं धनं पुनर्लभ्येत परन्तु तस्मादधिकं किं लब्धुं शक्यतयित्यस्य विषयेऽवधानं करणीयम्। तस्मादधिकं यल्लब्धुं शक्यते तस्य विशेषमहत्त्वमस्ति यतस्तन्निश्शुल्कं भवितुं शक्नोति।

८. धनस्य स्वामी भव। विपरीतं मा भवतु। धनाधीनो मा भूः।

९. आदर्शजनाननुसरणं करणीयम्। यशस्विनः किं कुर्वन्तित्यस्यावधानं कृत्वा स्वजीवने तेषां धनाचरणं करणीयम्।

१०. अन्यान्धनविषये पाठय। अन्येभ्यः धनं ज्ञानं च दातव्ये। यद्दीयते न केवलं पुनः प्राप्यते, यावद्दत्तं तस्मादधिकं प्राप्यते।

रविवार, 5 फ़रवरी 2023

नूतनपुस्तकालयमगमाम

अद्य नूतनपुस्तकालयमगमाम। गते सप्ताहयेव स पुस्तकालय उद्घाटितः। विशालः सुन्दरश्च पुस्तकालयः। ततो दश पुस्तकानि ऋणरुपेणाग्रहीष्म। षट्पुस्तकानि पुत्राय। त्रीणि मह्यम्। एकं भार्यायै।

रिच्-डैड्-पूर्-डैड् - ८

अथाष्टाध्यायस्य पाठः।

स्वसंस्थायै कार्यं करणेऽस्माकं संशयोऽस्ति। तस्य कारणानीमानि।

१. धनच्युतेर्भयम् - ये कदापि धनहानिं न सहन्ते ते आवश्यकीं सन्देहास्पदतां न स्वीकुर्युः। तस्माद्धनं कदापि नागच्छति। धनवर्धनाय किञ्चित्सन्देहास्पदता सहनीयैव।

२. संशायलुता - सर्वं सर्वदा विनाशकरि भवितुं शक्नोतीति ये चिन्तयन्ति ते कदापि धननिवेशनं न कुर्वन्ति। तस्माद्धनं कदापि नागच्छति।

३. आलस्यम् - ये धनविषये चिन्तनं परिहरन्ति ते साकूतमन्येषु कार्येषु मनोनिवेशनं कृत्वा व्यस्ता भवन्ति। मनस्सु ते जानन्ति तैर्धनविशयेऽवधेयं परन्तु तच्छिरोवेदनां परहिरन्ति। तस्मात्तेषां सम्पन्न वर्धते।

४. हीना धनशालीनता - धनं यादृशं वस्त्वस्ति यस्य मूल्यं गच्छता कालेन क्षीयते। अतो धनमस्ति चेत्स्वस्मै सर्वप्रथमं धनस्य प्रयोगः करणीयः। अन्येभ्यो धनं दातव्यं चेद्यावच्छक्यं तावद्विलम्बेन दातव्यम्। न दातव्यमिति नास्ति। पूर्वनिश्चिततिथिसीमामतिक्रम्य दातव्यमित्यपि नास्ति। परन्तु देयतिथेः परिधिरस्ति चेत्तर्हि परिधेरन्तिमभागे धनं दातव्यम्। तस्मात्पूर्वं स्वस्मै धनोपयोगः करणीयः।

५. दर्पः - यदहं जानामि तस्यैव महत्त्वं, तदेव धनं वर्धयितुं शक्नोति, यन्न जानामि तस्य महत्त्वं नास्ति, तस्माद्धनमर्जयितुं न शक्यतयिति चिन्त्यते चेन्निश्चयेन धनहानिर्भवेत्। स्वस्याज्ञानमभिज्ञाय नूतनविषयाः पठनीया यस्मान्नूतनपद्धतिभिर्धनार्जयितुं शक्येत।

रिच्-डैड्-पूर्-डैड् - ७

अथ सप्तमाध्यायस्य पाठः।

अन्याभ्यः संस्थाभ्यः कार्यं कुर्याम चेत्कौशलं वर्धनायैव धनार्जनाय न। वेतनं विना कार्यं करणीयमिति नाभिप्रायः परन्तु वेतनस्य महत्त्वं गौणं कौशलस्य प्रधानमिति चिन्तनं भवतु। कौशलं लब्ध्वा स्वसंस्था प्रवर्तनीया यस्माद्धनमसमभ्यमर्ज्यते न त्वन्येभ्यः।

रिच्-डैड्-पूर्-डैड् - ६

अथ षष्ठाध्यायस्य पाठः।

धनिका धनं निर्मान्ति। अधनिका धनाय कार्यं कुर्वन्ति। स्वव्यवसायेन वयमपि धनं निर्मातुं शक्नुमः। तत्स्याच्चेदन्येभ्यः कार्यकरणं नावश्यकम्। धनं निर्माय धनार्जनं कर्तुं शक्नुमः।

रिच्-डैड्-पूर्-डैड् - ५

अथ पञ्चमाध्यायस्य पाठः।

अन्याभ्यः संस्थाभ्यः कार्यं कुर्मश्चेत्सर्वप्रथमं सर्वकारायायकरो देयः। तदनन्तरमयदवशिष्यते तदसम्भ्यम्। स्वस्य संस्थां रचयित्वा कार्यं कुर्मश्चेत्सर्वप्रथमं स्वस्मै धनं दीयते। तदनन्तरमयद्वशिष्यते तदेव सर्वकारेणायकररूपेण दीयते। उभयोः स्थित्योर्महान् भेदः। यावच्छक्यं स्वसंस्थायै कार्यं कर्तव्यं न त्वन्याभ्यः संस्थाभ्यः।

रिच्-डैड्-पूर्-डैड् - ४

अथ चतुर्थाध्यायस्य पाठः।

यदि सामान्योद्योगः क्रियते तर्हि वयमन्येभ्यो धनमर्जयामः। यदि स्वव्यवसायाय कार्यं कुर्मस्तर्हि स्वेभ्यो धनमर्जयामः। स्वेषां सम्पत्कथं वर्धनीयेति मनसि निधाय कार्यं कर्तव्यम्। अन्येषां सम्पद्वर्धनाय न कार्यं करणीयम्।

रिच्-डैड्-पूर्-डैड् - ३

अथ तृतीयाध्यायस्य पाठः।

कार्यस्वान्त्र्यं प्रापणाय धनविषयका अङ्का अवगन्तव्याः। किं धनं सम्पत्किं देयकमित्यभिज्ञातव्यम्। तस्मात्समपदर्जनं वर्धेत देयकानि क्षायेयुः। वर्धन्त्या सम्पदा कार्यस्वान्त्र्यं लभ्येत।

शनिवार, 4 फ़रवरी 2023

घनीभूतेन हिमेन शाखाः पतिताः

गते सप्ताहे हिमपातोऽभवत्। वृक्षशाखासु हिमो घनीभूतः। हिमभारवशाच्छाखा लम्बमाना जाताः। बहवः शाखाः भग्ना अपि जाताः। अद्य प्रातःकाले लम्बमानाः शाखा आलाविष्व। आगामिषु दिनेषु नगरपालिका ताः शाखा गृह्णीयात्।

सोमवार, 30 जनवरी 2023

पुत्रा रुग्णः

शनिवासरे पुत्रा रुग्ण आसीत्। आ दिनमवमत्। तस्मात्स चतुरङ्गस्पर्धायां भागं नावहत्। षट्त्रिंशद्धहोराभ्यः स किमपि नाखदत्। ह्यः शनैः शनैः स खादनमारभत। इदानीं स सम्यगस्ति। अद्य विद्योलयमप्यगच्छत्। श्वो हिमसम्भावनावशाद्विद्यालयः पिहितः। अतः स श्वो न गन्ता।

रविवार, 29 जनवरी 2023

रिच्-डैड्-पूर्-डैड् - २

रिच्-डैड्-पूर्-डैड् इति पुस्तकं पठामि। विंशतिवर्षेभ्यः पूर्वं पुस्तकमपठम्। धनविषये पुस्तकमस्तीत्येव स्मरामि। तस्मादधिकं किमपि न स्मरामि। अधुना पुनः पठामि।

अथ द्वितीयाध्यायस्य पाठः।

धनार्जनाय धनस्य कृते न कार्यं करणीयम्। धनार्जनाय धनेनास्मभ्यं कार्यं कारयितव्यम्। सामान्योद्योगोऽस्ति चेत्काश्चन होरा यावत्कार्यं कृत्वा ध्रुवराशिधनं लभ्यते। स्वस्य व्यवसायो भवेच्चेदसीमितधनं लब्धुं शक्यते। किञ्च लभ्यमानो धनराशिर्व्ययितहोराराशेः समधिको भवितुं शक्नोति।

थिङ्किङ्ग्-इन्-बेट्स् - ६

अथ षष्ठाध्यायस्य पाठः।

निर्णयं कुर्वति सति तस्य निर्णयस्य विषये भूतकाले भविष्यत्काले च चिन्तनीयम्। निर्णयोऽयं यदि पञ्चवर्षेभ्यः पूर्वमकरिष्यतासीत् तर्हि कथं भाव्यते। पञ्चवर्षेभ्यः परं क्रियेत चेत्तर्हि कथं भाव्यते। मदिरापानं कृत्वा वाहनचालनाय सज्जो जनः स्वं प्रष्टुं शक्नोति - एतस्य विषये श्वोऽहं कथं चिन्तयामि। अन्यच्च भविष्यत्काले कीदृशाः प्रमादाः कर्तुं शक्नुयाम तद्विचिन्त्य सम्प्रति तन्निवारणाय पदानि स्थापनीयानि येन प्रमादाः न भवेयुरेव। बहुषु विकल्पेषु कस्य विकल्पस्य कियती सम्भावनास्तीति चिन्तयित्वा निर्णयः करणीयः। यल्लक्ष्यमस्ति तत्साधितमिति चिन्तयित्वा तत्साधनाय किं किं कर्तव्यमिति स्पष्टं भवति। भविष्यत्काले लक्ष्यमसाध्यं तिष्ठतीति चिन्तयित्वा किं किं न करणीयमिति स्पष्टं भवति। सम्यङ्निर्णयकरणायोभे आवश्यके।

शनिवार, 28 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - ५

अथ पञ्चमाध्यायस्य पाठः।

कोऽपि सन्देशो न रोचते चेद्दूतो न हन्तव्य इति तु सर्वज्ञातम्। सत्यमेव। तदतिरिच्य सन्देशः सत्योऽस्ति चेत्सन्देशोऽपि न हन्तव्यः। तन्नाम सन्देशस्य सत्यता न रोचते चेत्सन्देशो नोपेक्षणीयः। किमपि सत्यं कुत आगतम्, कथमागतम्, केन दत्तमित्युपेक्ष्य तत्सत्याद्वयं किं शिक्षितुं शक्नुयामेति चिन्तनीयम्। तस्मान्निर्णयकरणकौशलं वर्धनीयम्। जनसमूहे कैश्चन जनैः सह मतभेदस्तु भवत्येव। तत्सामान्यम्। येभ्यो मतभेदोऽस्ति तेषामुपेक्षा न करणीया। तेषां मतं श्रुत्वा स्वस्य मते ये दोषाः सन्ति ते परिष्करणीयाः। अपि चान्यैः सह मतभेदे सति 'परन्तु' इत्यस्य प्रयोगोऽत्यवधानेन करणीयः। यावच्छक्यं 'च' प्रयोक्तव्यः। 'त्वमेवमेवं वदसि परन्तु...' इत्यस्य स्थाने 'त्वं यद्वदस्यहमवगच्छामि। तदतिरिच्यास्माभिरेवमेवमपि परिशीलनीयम्' - एतत्क्रियते चेत्समूहे द्वेषभावना न भवेत्। सर्वे मिलित्वा कर्तव्यं कार्यं समीचीनतया करणाय प्रयतन्तयिति भावो वर्धते।

पुत्रस्य स्वास्थ्यम्

अद्य चतुरङ्गस्पर्धास्ति परन्तु पुत्रस्य स्वास्थ्यं सम्यङ्नास्ति। स्पर्धायै गच्छेव वा नेति न जाने।

मंगलवार, 24 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - ४

अथ चतुर्थाध्यायस्य पाठः।

कृतस्य निर्णयस्य दुष्परिणामस्य निमित्तं दौर्भाग्यमिति चिन्तनस्य निवारणाय केषाञ्चिद्विशिष्टमित्राणां समूहः सृष्टव्यः। सामान्यतो मित्राणि दुष्परिणामेषु सान्त्ववचांसि ददति। न तव दोषो दौर्भाग्यस्यैव दोष इति सामान्यमित्राणि ब्रुवन्ति। परन्तु दुष्परिणामेभ्यो वयं नूतनपाठान्पठाम। तदर्थं ये जनाः सान्त्ववचांसि त्यक्त्वा वयं कुत्र दोषमकरवामिति विशदीकुर्युस्तादृशानि मित्राणि भवन्तु। एभिर्मित्रैः परस्परावगमनं भवतु यद्वयमस्मिन् समूहे निस्सङ्कोचं दोषान् विषदीकुर्याम। एतस्मात्परस्परं लाभो भवेत्। समूहे केनापि दोषे विशदीकुर्वत्यन्यैर्द्वेषो न करणीयः। अनेन भविष्यत्कालेऽस्माकं समीचीननिर्णयकरणकौशलं वर्धेत।

सोमवार, 23 जनवरी 2023

चतुरङ्गस्पर्धा

आ द्वाभ्यां वर्षाभ्यां पुत्रश्चतुरङ्गाभ्यासं कुर्वन्नस्ति। आगामिनि सप्ताहे विद्यालये चतुरङ्गस्पर्धा भविता। स तस्यां भागं वक्ष्यति। स विजेता भूयात्।

रविवार, 22 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - ३

अथ तृतीयाध्यायस्य पाठः।

कृतस्य निर्णयस्य दुष्परिणामः स्याच्चेद्वयं दुर्भाग्ये दोषं स्थापयामः। परिणामोऽस्मदनुगुणं स्याच्चेद्वयं स्वस्य कौशलं कारणभूतं घोषयामः। अन्यैः कृतेषु निर्णयेषु वयं विपरीततया व्यवहरामः। दुष्परिणामास्तेषां कौशलाभाववशाद्घोषयामः। उत्तमपरिणामास्तेषां सौभाग्यवशाद्घोषयामः। एषा प्रवृत्तिः परिहरणीया। कोऽपि परिणामो भाग्यकौशलयोः केनिचित्संयोजनेन लभ्यते। दुष्परिणामो भवेत्सुपरिणामो भवेद्वा कृतेषु निर्णयेषु के के दोषा अस्माभिः कृताः, तेभ्यो दोषेभ्यो वयं कं पाठं ग्रहीतुं शक्नुम इति चिन्तनीयम्। तस्मादग्रिमेषु निर्णयेषु जीवने च लाभो भवेत्।

शनिवार, 21 जनवरी 2023

थिङ्किङ्ग्-इन्-बेट्स् - २

अथ द्वितीयाध्यायस्य पाठ:।

सर्वेषामुकी विचारसरणिरस्ति। जनास्तद्विचारसरणिं दृढीकरणाय प्रमाणमन्विष्यन्ति। विचारसरणेर्विपरीतप्रमाणं लभ्यते चेज्जनास्तत्प्रमाणं तृणीकुर्युः। तन्न कर्तव्यम्। अस्माकं साम्प्रतिकविचारसरणिः समीचीनास्ति वा नेत्यस्य प्रश्नः करणीयः। गच्छता कालेन यदा यदा प्रमाणं लभ्यते तदा तदा तदाधारीकृत्य विचारसरणिः परिवर्तनीया त्यक्तव्या वा। यस्मिन्नस्माकं विश्वासस्तदुपरि वयं धनेन पणयितुं सज्जा वा? यदि न तर्ह्यधिकप्रमाणमन्वेषणीयम्। जीवने सर्वे निर्णयाः पणीकरणमिव। कियती दृढा प्रतीतिरस्तीति चिन्तयित्वा निर्णयाः करणीयाः।

तरणपरीक्षा

पूर्वं पुत्रस्तरति स्म। तस्य तरणकौशलं न क्षीयेतित्यतः स पुनस्तरणपाठाँल्लभेतामिति चिन्तयावः। अद्य प्रातःकाले तरणपरीक्षणार्थं तमनैष्व। पञ्चनिमेषान्यावत् तस्य कौशलं दृष्ट्वा शिक्षकस्तस्य तरणवर्गस्य स्तरमचैषीत्। प्रतिरविवासरं साँयकाले स तरणाभ्यासाय गमिष्यति।

अण्डानामाभावः

कुक्कुटरोगवशात् पञ्चदशलक्षकुक्कुटा मारिताः। तस्मादण्डानामाभावो वर्तते।

थिङ्किङ्ग्-इन्-बेट्स् - १

थिङ्किङ्ग्-इन्-बेट्स् इति पुस्तकं पठामि। अथ प्रथमाध्यायस्य पाठः।

कश्चन निर्णयः सम्यगसीद्वा नेत्यस्य निर्णयः कृतस्य निर्णयस्य परिणाममाधारीकृत्य न कर्तव्यः। जीवने बहूनि निमित्तकारणानि न केवलमस्माकं हस्ते न सन्ति परन्तु तेषां विषये बहुवारं वयं न जानीम एव। निर्णयः सम्यक् सत्यपि परिणामो हानिकारको भवितुं शक्नोति। निर्णयसमये सर्वा ज्ञातसूचनाः परिशील्य पर्याप्तचिन्तनं कृत्वा च निर्णयः कृत एतदेव सम्यङ्निर्णयं सूचयति। परिणामस्त्वस्माकं हस्ते नास्ति।

बुधवार, 18 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः १२

अथ द्वादशमाध्यायस्य पाठः।

कौतुकमत्यावश्यम्। बालकेषु कौतुकं श्लाघनीयम्। तस्माच्छिक्षणं सम्यग्भवेत्। तस्माद्बालका नूतनकौशलानि लभेरन्।

ब्रेन्-रूल्स् - अध्यायः ११

अथैकादशमाध्यायस्य पाठः।

पुरुषस्त्रियोर्मस्तिष्कौ भिन्नतया कार्यं कुरुतः। तयोर्भेदमवगम्य तदानुसारं पठनं पाठनञ्च करणीयम्। तस्मात्पुरुषस्त्रियोरुभयोः शिक्षणं सम्यग्भवेत्। एतन्न केवलं विद्यालयेऽपितु कार्यालयेऽपि करणीयः।

यद्यपि पुस्तकमुपरिदत्तं पाठं पाठयति तथाप्यद्यत्वे तादृशं कर्तुं शक्यतयित्यस्मिन् मम सन्देहः। यतोऽद्यत्वे सर्वत्र स्त्रीपुरुषसामान्यताया गानमेवास्ति। कोऽपि भिन्नतया वदेच्चेत्स स्त्रीद्वेषी भाव्यते।

ब्रेन्-रूल्स् - अध्यायः १०

अथ दशमाध्यायस्य पाठः।

सर्वेष्विन्द्रियेषु दृष्टिः प्रधाना। सर्वेष्विन्द्रियेषु मस्तिष्को दृष्टये सर्वाधिकसंसाधनानि ददाति। चित्रमेकं सहस्रशब्दा इवेत्युच्यते। तत्सत्यम्। अवगमनाय सूचनां दानाय च चित्राणां प्रयोगः करणीयः। तस्मात्सूचना दीर्घं यावत्स्मर्येत।

सोमवार, 16 जनवरी 2023

पुत्रस्य मित्रस्य जन्मदिवसोत्सवः

अद्य कार्यालयस्य विद्यालयस्य चावकाशोऽभूत्। पुत्रस्य मित्रस्य जन्मदिवसोत्सवेऽहं पुत्रश्चागमाव। तिस्रो घण्टा यावत्पुत्रोऽरंस्त। स्वादुभोजनं जग्ध्वा चलच्चित्रक्रीडाः क्रीडित्वा सोऽहर्षीत्।

ब्रेन्-रूल्स् - अध्यायः ९

अथ नवमाध्यायस्य पाठः।

कस्यचिद्वविषयेऽवगमने बहूनीन्द्रियाणी प्रयुज्यन्ते चेद्दीर्घकालं यावद्विषयस्य स्मरणं भवति। इन्द्रियेषु जिघ्रणं विशिष्टमस्ति। सुगन्धेन बहुवर्षेभ्यः पूर्वं स्मृतमपि झटिति मस्तिष्के मुखे चागच्छति।

ब्रेन्-रूल्स् - अध्यायः ८

अथाष्टमाध्यायस्य पाठः।

उद्वेगो मस्तिष्कस्य स्मरणपरीक्षणशक्ती क्षाययति। कार्यालये विद्यालये चोत्तमरीत्या कार्यं करणाय मानसिकसन्तुलमावश्यकम्। करणीयेषु कार्येषु यद्यस्माकं नियन्त्रणं भवेत्तर्ह्युद्वेगो न्यूनो भवेत्।

भ्रातुर्नूतनोद्योगः

शनिवासरे भ्रात्रा सह समभाषे। गते सप्ताहे तेन नूतनोद्योग आरब्धः। वेतनं सम्यगस्ति। कार्यमपि तस्मै रोचते। तस्य तन्त्रांशनुभवः स्वल्पमस्ति। अहं तस्मै साहयकं ज्ञानमददाम्। नूतनोद्योगे स साफल्यं लप्सीष्ट।

रविवार, 15 जनवरी 2023

यात्रा १

मार्चमासे पुत्रस्य विद्यालयस्य विरामो भविता। तस्मिन्काले यात्रां कर्तास्मः। यात्रायाः पूर्वमितोऽपि द्वे मासे वर्तेते। परन्तु गच्छता कालेन निवासालयभाटको वर्धिष्यते। अतोऽद्यैव निवासालयेषु भाटके प्रकोष्ठा ग्रहीताः। कारयानेन गन्तास्मः। अतो विमानचिटिकाक्रयणं नावश्यकम्।

शाखाः लूनाः

गृहोद्याने केषाञ्चन् वृक्षाणां शाखा लम्बमाना आसन्। बालका उद्याने क्रीडन्ति। ताभ्यः शाखाभ्यो बालका व्रणिता न भवेयुरित्यतो ह्यः शाखाः लूनाः। अहं भार्या च विद्युतलवित्रेण शाखा अलुनीव। अग्रिमे सप्ताहे सर्वेभ्यो गृहेभ्यः सर्वकारो लूनाः शाखाः सङ्ग्रहीष्यति। अतो लूनाः शाखाः कथमोणामेत्यस्य विषये चिन्ता नास्ति।

गुरुवार, 12 जनवरी 2023

कार्यालयं गमिष्यामि

अधुनापि गृहादेव कार्यं करोमि। इतःपरं कार्यालये सर्वेभ्यो ध्रुवस्थानं न भविष्यति। अतः कार्यालयं गत्वा नैजवस्तून्यानेतव्यानि। तदर्थमद्य द्वाभ्यां घण्टाभ्यां कार्यालयं गमिष्यामि।

सोमवार, 9 जनवरी 2023

पुत्राय वित्तकोषः

बहुभ्यो दिनेभ्यः पुत्रः स्वस्मै वित्तकोषं याचमान आसीत्। ह्यस्तस्मै मया वित्तकोष उद्घाटितः। स उत्साहितः।

रविवार, 8 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः ७

अथ सप्तमाध्यायस्य पाठः।

दिने यदधीतं रात्रौ निद्रायां मस्तिष्कस्तद्दृढीकरोति। अतः सम्यगवगमनाय स्मरणाय च पूर्याप्ता निद्रावश्यकी।

शनिवार, 7 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः ६

अथ षष्ठाध्यायस्य पाठः।

कस्यचिद्विषयं सम्यक् स्मरणाय तद्विषयः पौनःपुन्येन पठनीयः। तावदेव न। पुनरपठनानां मध्ये किञ्चित्कालो भवितव्यः। तस्माद्विषयो मस्तिष्के दीर्घकालं यावत्तिष्ठेत्।

बुधवार, 4 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः ५

अथ पञ्चमाध्यायस्य पाठ:।

स्मरणमावर्तनेन शाश्वतं भवति। यदि स्थानभावनादीनि घटितवृतान्त इव भवन्ति तर्हि स्मृतेः प्रत्यावर्तनमनायासेन भवति।

ब्रेन्-रूल्स् - अध्यायः ४

अथ चतुर्थाध्यायस्य पाठः।

बहुषु प्रसङ्गेषु मस्तिष्कोऽवधानं दातुं न शक्नोति। बहूनि कार्याणि युगपत् कर्तुं न शक्नोति। यावच्छक्यमेकस्मिन् समये कार्यमेकमेव सम्यक्तया करणीयम्। अन्यच्च मस्तिष्को लघुवेलां यावदेवावधानं दातुं शक्नोति। ततः परं पुनरवधानवान् भवितव्यम्। मस्तिष्को मुख्यविषयमधीकृत्य प्रथममवधानवान् करणीयः। तदनन्तरमेव विस्तरेण तद्विषयः पठनीयः। अन्यथा मस्तिष्कस्यावधानं गच्छेद्विषयो न स्मर्येत च।

मंगलवार, 3 जनवरी 2023

ब्रेन्-रूल्स् - अध्यायः ३

अथ तृतीयाध्यायस्य पाठः।

यद्यपि सर्वेषां मस्तिष्कानां रचना समाना तथापि सर्वेषु मस्तिष्केषु नाडीकोशानां सम्पर्कमार्गा भिन्नाः सन्ति। तस्माद्भिन्नजना भिन्नतया शिक्षन्ते। इदं मनसि निधायैव शैक्षणिकव्यवस्था निर्वहणीया।

ब्रेन्-रूल्स् - अध्यायः २

अथ द्वितीयाध्यायस्य पाठः।

आ प्राचीनकालात् केवलमस्माकं शरीर एव न मन्दपरिवर्तित:। अमस्माकं मस्तिष्कोऽपि।

ब्रेन्-रूल्स् - अध्यायः १

ब्रेन्-रूल्स् इति पुस्तकं पठामि। अथ प्रथमाध्यायस्य पाठः।

व्यायामो बहून् रोगान् निवारयति। कदाचिद्रोगमपसारयत्यपि। व्यायामो दीर्घजीवनं कल्पयति।

सोमवार, 2 जनवरी 2023

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १५

अथ पञ्चदशमाध्यायस्य पाठः।

अन्ये जना अस्माकं विषये किं चिन्तयन्तीत्यस्माकं निर्णयान् प्रभवति। वयमन्येषानुकरणं न कुर्मः, अस्माकं स्वबुद्धिरस्तीति दर्शनाय कदाचिद्वयं यं निर्णयं कुर्मो यो वयं गुप्ततया कदापि न कुर्याम। एतस्मादवधानवन्तो भवाम।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १४

अथ चतुर्दशमाध्यायस्य पाठः।

सामान्यतः सज्जना व्याजं न कुर्वन्ति। परन्तु व्याजावसरे यदि धनस्य स्थाने किमप्यन्यद्वस्तु भवेच्चेत्ते सज्जना एव व्याजं कुर्तुं शक्नुयुः। अतोऽस्माभिर्विशेषावधानं देयं यद्वयं धनाभावस्थितौ व्याजं न करवाम।

रविवार, 1 जनवरी 2023

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १३

अथ त्रयोदशमाध्यायस्य पाठः।

अवसरो लभ्यते चेज्जना व्याजं कुर्युः। परन्तु धार्मिकनैतिकशपथाः स्मार्यन्ते चेत्ते जना एव व्याजं न कुर्युः। अतो दैनन्दिनजीवने विशेषतो ये जना प्रभावशालिनः सन्ति तान् निश्चयेन शपथाः स्मारयितव्याः।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १२

अथ द्वादशमाध्यायस्य पाठः।

समाजे विश्वासस्य महत्त्वमस्ति। येषु समाजेषु जनाः संस्थाश्च विश्वसनीया न सन्ति तस्मिन् समाजे जीवनं कठिनमस्ति। अतो यावच्छक्यं विश्वासः परिरक्षणीयः।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ११

अथैकादशमाध्यायस्य पाठः।

कस्यचिद्वस्तुनः शुल्कं तस्य गुणवत्ताया विषयेऽस्मान् प्रभवति। महार्घं वस्तु वरिष्ठं न्यूनशुल्कवस्तु जघन्यमिति वयं चिन्तयामः। औषधं प्रभावि नास्ति चेदप्यौषधमस्माकं रोग्यं निवारयतीति चिन्तयित्वैव वयं बहुवारं तदौषधं भुक्त्वा निरामया भवेम। अतो वस्तुनो विषयेऽस्माकं के विचाराः कियती श्रद्धेत्यस्य विशेषमहत्त्वमस्ति। यावच्छक्यं तादृशी चित्तवृत्तिः परिहरणीया।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १०

अथ दशमाध्यायस्य पाठः।

अपेक्षाऽस्माकं दृष्टिकोणं प्रभवति। कस्यापि वस्तुनः समीचीनासमीचीनत्वं साध्वसाधुता तारातम्यं च तस्य वस्तुनो विषये वयं किं जानीमः, तद्ववस्तु कीदृश्यां व्यवस्थायामस्तीत्यस्य समधिकमहत्त्वमस्ति। एकमेव वस्तु भिन्नजनैर्विविधदृष्ट्या दृश्यते। अतोऽपेक्षाणां प्रभावः सर्वदा मनसि निधायैव निर्णयः करणीयः।