मोलीज़्-गेम् इति चलचित्रमद्राक्षम्। मोली हिमसर्पणस्पर्धासु भागं वहमाना काचन महिला। दुर्घटनावशात् सा व्रणिता बभूव। तदनन्तरं सा स्पर्धासु भागं नोवाह। तत्स्थाने सा पत्रक्रीडानामयोजनं चकार। परन्तु सर्वकारदृष्ट्या ताः क्रीडा अवैधाः। सत्यां कथामाधारीकृत्य रचितं चलचित्रमिदं मह्यमरोचत।
रविवार, 12 फ़रवरी 2023
मोलीज़्-गेम्
रविवार, 18 दिसंबर 2022
स्टोर्क्स्
स्टोर्क्स् इति चलच्चित्रमद्राक्ष्व। यदा ह्यो भार्या गतासीत्तदा पुत्रायानुप्राणितचलच्चित्रमिदं मया चालितम्। शिशवः कथञ्जायन्तयिति प्रश्नो यदा बालैः पृच्छ्यते तर्हि पक्षिभिः शिशव आनीयन्तयिति मातृपितरो मिथ्यां वदन्ति। तदाधारीकृत्य चलच्चित्रमिदं रचितम्। शिशूनाधारीकृत्य चलच्चित्रमस्तीति व्यपदेशेन पुत्रेण चलच्चित्रन्न दृष्टम्। अद्याहं भार्या चाद्राक्ष्व। मनोरञ्जकञ्चलच्चित्रम्।
शनिवार, 3 दिसंबर 2022
वैज्ञानिककल्पनाचलच्चित्राणि
इमानि वैज्ञानिककल्पनाचलच्चित्राणि मम प्रियाणि -
१. इन्टर्स्टेलर्
२. ओब्लिवियन्
३. एक्स्-मेकेना
४. टर्मिनेटर् १,२
शनिवार, 12 नवंबर 2022
ओब्लिवियन्
ओब्लिवियनिति चलच्चित्रमपश्यम्। बहुभ्यो वर्षेभ्यः पूर्वञ्चलच्चित्रालये दृष्टमासीद्मया। इदानीं दूरदर्शनेऽपश्यम्। उत्तमचलच्चित्रम्। विज्ञानकल्पनायुक्तेषु मम प्रियतमचलच्चित्रेष्विदमूर्ध्वं विराजते। 'इन्टरस्टेलर्', 'अरैवल्' अन्ये द्वे मम प्रिये विज्ञानकल्पनाचलच्चित्रे।
रविवार, 31 जुलाई 2022
पादकन्दुकक्रीडा
दूरदर्शने बह्व्यः क्रीडा दर्श्यन्ते। सामान्यतोऽहमुपविश्य ता न पश्यामि। परन्तु तासु क्रीडासु पादकन्दुकक्रीडा दर्श्यमानास्ति चेत्पश्यामि। पादकन्दुकक्रीडायां मम विशेषरुचिर्नास्ति तथाप्यन्याः क्रीडा विहाय किमर्थं तां पश्यामि? पादकन्दुकक्रीडा केवलं नवतिनिमेषपरिमिता क्रीडा। अन्यच्चान्याः क्रीडा इव मध्ये मध्ये बहवो विरामा न वर्तन्ते। मध्यविरामं विहाय क्रीडा नैरन्तर्येण प्रचलति। तस्माद्विज्ञापनान्यपि न दर्श्यन्ते। अतः क्रीडा मनोरञ्जका। तेन कारणेनैव पादकन्दुकक्रीडां द्रष्टुं शक्नोमि।
गुरुवार, 2 जून 2022
'जन्गल्'
ह्य 'जन्गल्' इति नाम्ना चलच्चित्रमपश्यम्। सत्यकथामाधारीकृत्य चलच्चित्रमिदं रचितम्। बोलिव्यादेशस्थे निबिडवने त्रीणि मित्राणि मार्गभ्रष्टा बभूवुः। ते केनचिदपरिचितेन सह जग्मुः। ते कथं निबिडवने जिजीवुरिति दर्शितम्। तैरमूर्खत्वं दर्शितमिति मन्ये। विदेशेऽज्ञातनिबिडवने परजनेन सह गमनमपायजनकम्। चतुर्षु जनेषु द्वौ जनौ पुनर्नगरं लेभाते। अन्याभ्यां द्वाभ्याङ्कापि वार्ता न श्रुता। कदाप्यपरिचितेन सह निर्जनस्थानन्न गन्तव्यम्।
रविवार, 17 अप्रैल 2022
सोलरिस् (चलचित्रम्)
अद्य सोलरसिति चलचित्रमद्राक्षम्। पुस्तकं पठित्वा चलचित्रं दर्शनायेच्छा जागरुका। प्रायः विंशतिवर्षेभ्यः पूर्वञ्चलचित्रं द्रष्टमासीत्। तस्मिन्काले चलचित्रं मह्यन्नारोचतेति स्मरामि। परन्तु विंशतिवर्षेभ्यः पूर्वहं युवक आसम्। तस्मात्कालादहं बहूननुभवानलभे। सम्प्रत्यपि चलिचित्रन्न रूच्येतेति वक्तुं न शक्येत। चलचित्रं दृष्ट्वा सन्तुष्टोऽस्मि। चलचित्रं मह्यमरोचत। चलचित्रं पुस्तकात्किञ्चिद्भिन्नं परन्तु तत्तु किञ्चिदावश्यकमेवान्यथा जनाश्चलचित्रन्न पश्येयुः।
गुरुवार, 14 अक्टूबर 2021
संस्कृतचलनचित्रम्
अस्य मासस्य सम्भाषणसन्देशपत्रिकायां प्रतिकृतिरिति नूतनतया मुक्तस्य चलनचित्रस्य विषयेऽपठम्। संस्कृतचलनचित्राणि निर्मीयन्तयिति मोदावहो विषयः। परन्तु सर्वाणि संस्कृतचलनचित्राणि संस्कृतविषयकानि सन्तीति ममाक्षेपः। यदि चलनचित्राणि संस्कृतवक्तारोऽतिरिच्य सामान्यजनैर्द्रष्टव्यानि तर्हि चलनचित्राणां विषयाः सामान्यसामाजिकविषया भवन्तु येषु सामान्यजनानां रुचिर्भवेत्। आदिशङ्कराचार्यः, भग्वद्गीता, धेनुः, तालपत्राणीत्यादयो विषयाः सामान्याधुनिकजनेभ्यो न रोचन्ते। यदि संस्कृतचलनचित्रेभ्यो जनानां रुचिरवर्धनीया तर्हि सामान्यविषया दर्शनीयास्तेषु चलनचित्रेषु।
मंगलवार, 8 जून 2021
'स्टोऽवे'
'स्टोऽवे' इति चलचित्रमवीक्षे। मनोरञ्जकञ्चलचित्रम्। पृथ्व्या मङ्गलग्रहं गच्छन्तस्त्रयो जना विदन्ति तेषां यानेऽन्यजनोऽप्यस्ति। स कश्चन कर्मकरः। यानस्य प्राणवायुयन्त्रं भग्नञ्जातम्। केवलं द्वाभ्याञ्जनाभ्यां प्राणवायुरवशिष्टा। तदा ते किङ्कुर्युरिति दर्शितम्। चलचित्रस्य केचनांशा निन्दनार्हाः परन्त्वाहत्य सम्यक्चलचित्रमस्ति।