मम मस्तिष्के जीवने च यत् प्रचलति तत् संस्कृतेन लिखितमत्र।
पोकेमोन्-पत्रेषु पुत्रस्य रुचिर्वरीवृध्यते। ह्यो नगरे पोकेमोन्-आपण आयोजितः। तत्र पुत्रेण सहागच्छाव। पुत्रो द्विशतकाधिकरुप्यकाणि व्ययीकृत्य पत्राणि क्रीतवान्। यावत्तस्य वयोर्वधते तावत् पोकेमोन्-पत्रेषु तस्य रुचिरपि वर्धते।