सोमवार, 27 अगस्त 2018

ममावकरः कस्यचिद्धनम्

अस्मिन् सप्ताहे नगरपालिका निष्प्रयोजकानि वस्तूनि सङ्गृह्णाति। यानि यानि वस्तूनि नावश्यकानि तानि गृहाद्बहिः स्थापनीयानि। नगरपालिकाया अवकरयानं तानि नेष्यति। कल्यमहमेकं दूरदर्शनं, एकं सङ्गणकं, एकञ्चलच्चित्रवृत्तकचालनयन्त्रञ्च (‘डी-वी-डी-प्लैयर्’) गृहाद्बहिरतिष्ठिपम्। तनयं विद्यालयं प्रापय्य कानिचन कार्याणि संसाध्य प्रत्यागत्याद्राक्षं तानि सर्वाणि वस्तूनि गतानि। कश्चन जनः स्वस्मै तान्यनैषीत्। मदीयोऽवकरः कस्मैचिदुपयोगी सिध्येदेतन्न क्लेशाय। प्रायशः स तानि परिष्कृत्य विक्रीणीयाद्धनञ्चार्जयेत्। अस्मिन्नपि कोऽपि क्लेशो नास्ति।

रविवार, 26 अगस्त 2018

नूतनवर्गः-२

नूतनवर्गः प्रवृत्तः। पूर्ववत्प्रथमदिने बहवो जना आगमन्। प्रायः षोडष प्रौढास्तत्येवापत्यानि चावर्तिषत। वर्गस्थलैकः प्रकोष्ठः विशालऽपरस्तदपेक्षया लघीयान् - अतिलघीयान्। वस्तुतो द्वितीयप्रकोष्ठो सम्भारप्रकोष्ठऽस्ति। षोडषजनास्तस्मिन् प्रकोष्ठे कृच्छ्रेणैव सुस्था जाताः। प्रथमदिने तु सर्वदा बहृदोत्साहः दृश्यतेऽधिकतमा जनाश्चागच्छन्ति। आगामिषु वर्गेषु कति जना वर्गे तिष्ठेयुरिति द्रष्टव्यम्। अद्याहमेतान् विषयानपाठिषम् -

भवान्, भवती, भवतः, भवत्याः, करोमि, करोति, कुत्र, मम नाम, संस्थायाम्, कार्यालये, कः, का, किम्।

आगामिनि वर्गैतान् विषयान् पाठयितास्मि -
प्रथमतः पुनस्स्मरणङ्कर्तास्मः। ततः -
सः, सा, तत्, एषः, एषा, एतत्, एतस्य, एतस्याः, तस्य, तस्याः, कस्य, कस्याः, बालकस्य, बालिकायाः
पुत्रः, पुत्री, पुस्तकम्, लेखनी, घटी, अस्ति, नास्ति, रमा, राधिका।

शनिवार, 25 अगस्त 2018

वात्यासारः

चतुर्दशाधिकसहस्रतमे वर्षे साहित्याकादेम्या पुरस्कृतं ‘वात्यासारः’ इत्याख्यं पुस्तकमपठिषम्। ओडियाभाषालेखकेन चन्द्रशेखरदासशर्मावर्येण लिखितं नारायणदाशवर्येण संस्कृतानुवादितं पुस्तकमिदं मम नेत्रे लोतकपूर्णेऽचीकरत्। सामान्यतो लोकप्रियकथानामवसानं सर्वदा हर्षोपेतम्। क्षुल्लका धनं प्राप्नुवन्ति, रोगिण आरोग्यं, परस्परवियुक्तयोः प्रणयिनोरयुक्तिः, परिग्रहात्परं सुखीजीवनम् - नैवास्मिन् ग्रन्थे। बहवः कथा दुःखान्तिकाः। एतद्विरलम्। कथाः सात्त्विका नादर्शिकाः। पाषाणहृदयानपि विद्रावयेयुरिमाः कथाः। पुस्तकं निश्चयेन प्रशस्त्यार्हम्।

नूतनवर्गः-१

श्वो नूतनसंस्कृताभिमुखवर्ग आरब्धा। ऐदम्प्राथम्येन वर्गेऽहमेवाध्यापको भवितास्मि। लेशमात्रमुद्विग्नता नानुभवामि प्रत्युत हर्षमनुभवामि। जना आगम्यासुः संस्कृतं पठ्यासुरिति ममाशा।

गुरुवार, 23 अगस्त 2018

पौर्वाह्णिकी चर्या

दारकस्य विद्यालयङ्गमने सति मामकीनायां पौर्वाह्णिक्याञ्चर्यायां परिवर्तनञ्जातम्। पूर्वतनं विद्यालयङ्गमनार्थमन्तरालं दीर्घमासीत्। सार्धषड्वादनादारभ्य नववादनं पर्यन्तङ्कदाचिदपि गन्तुमशक्नुवावाम्। नूतने विद्यालये तदन्तरालं तदपेक्षया लघुतरम्। सपादसप्तवादनादारभ्य चत्वारिंषदधिकसप्तवादनं पर्यन्तमेव। अहं दारकं सपादसप्तवादने विद्यालयं प्रापयामि यतोऽन्तरालस्यादौ वाहनसञ्चारो न्यूनः। तं विद्यालयं प्रापय्य बहुसमयो वर्तते मत्सकाशे। सार्धसप्तवादने कार्यालयङ्गमनं मह्यन्न रोचते। तत्काले कार्यालयो निर्जनः। अहमेतावच्छीघ्रमागतवानेतदुपलक्षणार्थं तत्र कोऽपि न विद्यमानः। अतः प्रतिदिनमहं दारकं विद्यालयं प्रापय्य काफ्यापणङ्गच्छामि। सार्धसप्तवादनादरभ्य सार्धाष्टवादनं पर्यन्तं तत्रैव स्थिरीभूय काफीपेयं पिबति कश्चन ग्रन्थः पठामि। समयस्य सदुपयोगः कुर्वति मम सन्तोषाय। काफ्यापणः कार्यालयन्निकषा। अतस्तत्तः कार्यालयङ्गमने वाहनसम्मर्दोऽपि न क्लेषाय। पूर्वमहमेव दारकं विद्यालयादानयामि स्म। परमयं विद्यालयस्त्वपराह्णे त्रिवादने छात्राँश्च्यावयति। तस्मिन् काले त्वहङ्कार्यालये स्थातव्यः। अतस्तस्य माता तमानयति। इदानीं यावदेषा दिनचर्या मम सन्तोषाय।

मंगलवार, 21 अगस्त 2018

अध्यापिकानामल्पभृतिः

तनयस्य विद्यालये प्रथमसप्ताहं समाप्तप्रायम्। स तु सोत्साहं विद्यालयङ्गच्छति। तन्महते सन्तोषाय। तस्याध्यापिका कियत्कार्यङ्करोत्येद्वीक्ष्य चकितोऽस्मि। सप्ताहान्तेऽपि सा वैद्युतकपत्रं प्रेषयति। अद्य सांयकाले विद्यालये मातापितॄणाङ्कृते समागमोऽभूत्। तत्रापि सावर्तिष्ट। न केवलमवर्तिष्ट, सर्वान्मातापितॄनपि कक्षामनैषीत्सा। दिनेऽपत्यानि के के पाठाः पाठयतीत्यप्यवादीत्सा। दूरदर्शने ह्यस्तनासु वार्तासु दृष्टवान् यदध्यापिकानां भृतिर्न्यूना। प्रायेण नूतनाध्यापिकाष्टविंशतिसहस्ररूप्यकमात्रं वेतनं प्राप्नोति। एतच्छ्रुत्वा विस्मित आसमहम्। अनुभविन्याध्यापिका अपि केवलं चत्वारिंशत्सहस्ररुप्यकमात्रं वेतनं प्राप्नुवन्ति। मम मनश्चेखिद्यते। अध्यापिका अतिमहत्वपूर्णकार्यङ्कुर्वन्ति। तासां दायित्वं सुमहत्। ताः प्रभूतकार्यङ्कुर्वन्ति। ताभ्योऽधिकं वेतनं देयम्।

सोमवार, 20 अगस्त 2018

जले कामपि मा प्रणौत्सीः

दूरदर्शने दृष्टवान् केचित्सख्यौ युवती कस्मिँश्चित्सेतौ तिष्ठतः। षष्टिपादास्तयोरधः कूलङ्कषा वहति। व्यक्तं रमणाय तस्मात्सेतोर्जनास्तस्यां सरिति कूर्दन्ति। अन्यतरा कूर्दनभयान्ननुचङ्करोति। अपरा तां प्रेरयति। तथापि सा न कूर्दति। आकस्मिकतयापरा तां प्रणुद्य पातयामास। सा मूढा व्यस्मरद्यज्जलेऽकामतः पतनङ्कुट्टिमे पतनमिव। सा वराकी बहून्यस्थीनि भग्नवती। प्रणोदिकारक्षकैर्निगडिता।

रविवार, 19 अगस्त 2018

सम्भाषणशिबिरम्-६

अद्य सम्भाषणशिबिरं पर्यवसितम्। अन्तिमवर्ग उद्यापितः। षड्जना आगमन्। चत्वारो जना गृहकार्यमकृषत्। देवनागरीटङ्कनं तानभ्ययुक्त। प्रायेण जनाः सम्यक्तया नाकृषत्तथापि तेषां प्रयासास्तेषामुद्धाराय। आगामिनः सप्ताहादारभ्यो नूतनवर्गं प्रचलिष्यति। अहं प्रौढान् पाठयिष्यामि मम सहकरः शिशूँश्च। आगमिष्यामाना वर्गाः सश्शुल्कं प्रचलिष्यन्तीति मत्सन्तोषाय। बहवो जना आगच्छेयुः संस्कृतस्य कृते धनं देयासुः संस्कृतज्ञानमवाप्यासुश्च।

शुक्रवार, 17 अगस्त 2018

निश्शुल्कमुत सशुल्कम्?

अहं दूरवाण्या संस्कृतवर्गं पाठयामि। स वर्गो निश्शुल्कः। भवन्तश्चिन्तयन्त्येतच्छ्लाघनीयम्। अभ्युपगच्छामि परं निश्शुल्कवर्गः समस्या जनयति। निश्शुल्के वर्गे सति जना गभीरतया न तँव्विभावयन्ति। ते नियततया नागच्छन्ति, नियततया गृहकार्याणि न कुर्वते। निश्शुल्कन्न पाठनीयमिति चिन्तयामि। इमाङ्कक्षान्निवृत्य सशुल्कमभिमुखकक्षां पाठयिष्यामि। यर्हि जनाः शुल्कं दद्युस्तर्हि तयागच्छेयुः। नागच्छेयुश्चेन्न्यूनातिन्यूनं संस्कृतप्रचारस्य कृते धनं त्वर्जेत्।

गुरुवार, 16 अगस्त 2018

आत्मजस्य विद्यालये प्रथमदिनम्

अद्यात्मजस्य सार्वकारिकविद्यालये प्रथमदिनमभूत्। एतावत्पर्यन्तमपि स कस्मिंश्चिद्विद्यालये गच्छति स्म परन्तु स तु प्रायेण शिशुपालनकेन्द्रमासीत्। तथापि स उत्तमो विद्यालयः। आत्मजस्तत्र बहून् विषयानधीतवान्। अद्य स सार्वकारिकविद्यालये प्रथमकृत्वोऽगमत्। स व्याकुलोद्विग्नग्रस्तो भविष्यतीत्यहमचिचिन्तं परं स तु महदोत्साहेन नूतनविद्यालयमगमत्। लेशमात्रन्नाक्रन्दील्लवमात्रन्न विह्वलोऽभूत्सः। प्रहृष्टं सोऽगमत्। मय्यपि काचनोद्विग्नताभूद्यतोऽपत्यानां नयनानयनसमये विद्यालयं परितोऽतिमात्रँव्वाहनसञ्चारमवरीवृतिष्ट। समधिको वाहनसञ्चारस्त्वभूत्परङ्कोऽपि विशेषक्लेशो नाभूत्। अद्य स आवाञ्च जीवनस्य नूतने प्रकरणे प्राविक्षाव।

मंगलवार, 14 अगस्त 2018

दूरवाण्या अङ्कीकारकः

अद्य घण्टाद्वयँय्यावज्जङ्गमदूरवाण्या विषयेऽनुसमधिषि। अन्तर्जालेन ज्ञातँय्यत प्रायेण दूरवाण्याः ‘अङ्कीकारकः’ (‘डिजिटैज़र’) इत्यंशो विकलो जातः। सोऽंशः पुनराधानीयः। परन्तु स्वेन करणङ्कृच्छ्राय। केनचन समीकरणापणेन परिष्कर्तव्या दूरवाण्यसौ। स तु न्यूनातिन्यूनं शतरुप्यकाणि याचेत। पञ्चवर्षकल्पां दूरवाणीं परिष्करणार्थमेतादृशं धनं व्ययितुं मम मनो नाभ्युपगच्छते। इदानीं तु दूरवाण्या उपयोगङ्कर्तुं शक्नोम्यतस्तदेव कुर्वे।

सोमवार, 13 अगस्त 2018

जङ्गमदूरवाणी विकला जाता

मज्जङ्गमदूरवाण्याः फलकङ्केषुचित्स्थानेष्वङ्गुलिस्पर्शन्न पञ्जीकरोति। असौ जङ्गदमदूरवाणी पञ्चवर्षकल्पा। प्रायेण जना जङ्गमदूरवाणी एतावते कालाय न प्रयुञ्जते। प्रतिवर्षन्नूतनदूरवाणी क्रेतव्येति मयि कापि मनीषा न जायते। अहं त्विदानीं पर्यन्तं सूनृतमसावुपयुञ्जन्नासम्। भाविनिकालेऽप्यसौ मया प्रयोजनीयमिति चिन्तयामि। इदानीं तु कथञ्चिदमुष्या उपयोगङ्कर्तुं शक्नोमि। परन्तु कियन्ति दिनानि यावत्कर्तुं शक्ष्यामि न जानेऽहम्। समीपवर्तिनि भाविनिकाले शतशा रूप्यकाणि व्ययनीयानीति प्रतिभाति।

नैपुण्यवर्गम्

गतसप्ताहान्ते संस्कृतनैपुण्यवर्गस्य कृतेऽन्यन्नगरमगच्छम्। दिनद्वयँय्यावत्प्रचलददः शिबिरमति रुचिकरि मनोरञ्जकञ्चासीत्। संस्कृतं स्वजीवने कथं योजनीयं तस्य प्रचारङ्कथङ्करणीयमिति पठितं मया शिबिरेऽस्मिन्। अध्यापको बह्वनुभव्यासीत्। स हास्यजनका चाप्यासीत्। कैश्चिन्नूतनैर्जनैः सहाप्यहं सँल्लापङ्कृतवान्। षण्निमेषा यावदहं संस्कृतेन मामका विचाराः सर्वेषां पुरस्तादभिव्यक्तवान्।

मंगलवार, 7 अगस्त 2018

स्फोरकपत्राणि

संस्कृतभाषाया ज्ञानवर्धनाय द्वाभ्यां मासाभ्यामारभ्याहं स्फोरकपत्राणां (फ्लैशकार्ड्स्) रचनायां निरतः। प्रत्यहँय्यदा कदा मया कश्चन नूतनशब्दः परिलक्ष्यते तत्कालैव तस्य स्फोरकपत्रं रचयामि। ‘आन्की’ नाम्ना जङ्गमदूरवाण्यावृत्तावहं स्फोरकपत्राण्युत्सृजामि। एतावत्पर्यन्तमुपद्विसहस्राणि स्फोरकपत्राणि मया रचितानि। प्रतिदिनङ्कानिचन स्फोरकपत्राणि पठामि। अस्मान्मम शब्दज्ञानँव्वरीवृर्ध्यते।

सम्पर्कः

पराम्बाश्रीयोगमायया विरचितं ‘सम्पर्कः’ इत्यभिहितं पुस्तकमपठिषम्। वस्तुत इदं मम द्वितीयं पठनम्। वर्षात् पूर्वमेवापि पठितवानहं परन्तु तस्मिन् काले मम संस्कृतज्ञानं न्यूनमासीत्। तस्मात्कथाः पूर्णतया नावगताः। अतः पुनःपठनीयमित्यचिन्तयम्। पुस्तकेऽस्मिन् सन्धेः सम्यक्प्रयोगो दृश्यते। एतादृशः प्रयोग आधुनिकसाहित्ये विरलतया लभ्यते। एतन्निभाल्यामोदिष्यहम्। पुस्तके सर्वाः कथा नारीणां विषये। तासां सामाजिकसमस्यानां विषये। प्रायः सर्वाः कथाः सन्निभाः। कथा यथायथं नारीणां सामाजिकस्थितिं द्योतयन्ति।

शनिवार, 4 अगस्त 2018

अर्धकथानकम्

बनारसीदासस्य ‘अर्धकथानक’ इत्यात्मकथायाः संस्कृतानुवादमपठम्। अयमनुवादा राधावल्लभत्रिपाठीवर्येण कृतः। बनारसीदासः सप्तदशशताब्दयुत्तरभारते कश्चन वणिज्। जीवनस्यापरे भागे तेन केचन ग्रन्था रचिताः। भ्रजभाषायां स्वस्यात्मकथामपि रचयामास। मनुष्यस्य सम्पूर्णवयो दशाधिकशतवर्षाणीति जैनधर्मस्य प्रत्ययः। बनारसीदासो जैनधर्मानुयाय्यासीत्। यस्मिन् काले स इमामात्मकथाँल्लिलेख स पञ्चपञ्चाशद्वर्षदेशीय आसीत्। अतः 'अर्धकथानक' इति तेन स्वीया कथा संज्ञप्ता। कथा लघुः परं तस्मिन् काले जीवनङ्कीदृशमासीदिति द्योतयति। कीदृशञ्जीवनम्? कठिनम्। अतिकठिनम्। अर्वाचीनकालस्य नानासौविध्यानि न बभूवुस्तस्मिन्काले। तस्य द्वे भार्ये नवापत्यानि च दिवञ्जग्मुः। महती व्यथा तेनानुभूता। तदानीन्तनकाले विकरालरोगा व्याप्ताः। काले काले सर्वे रोगग्रस्तास्तस्थुः। बहुशो मम्रुश्च। स सप्तपञ्चाशद्वर्षदेशीय आसीद्यदा स जगन्मुमोच। तस्य कथा पठित्वा मम नेत्रेबाष्पकुलेऽभवताम्।

अभिनवशुकसारिका-२

‘अभिनवशुकसारिका’ पठनं समाप्तम्। यत्प्रागेव मयोक्तं तद्वयतिरिक्तँव्वदितुङ्किमपि नास्ति।