शनिवार, 4 अगस्त 2018

अर्धकथानकम्

बनारसीदासस्य ‘अर्धकथानक’ इत्यात्मकथायाः संस्कृतानुवादमपठम्। अयमनुवादा राधावल्लभत्रिपाठीवर्येण कृतः। बनारसीदासः सप्तदशशताब्दयुत्तरभारते कश्चन वणिज्। जीवनस्यापरे भागे तेन केचन ग्रन्था रचिताः। भ्रजभाषायां स्वस्यात्मकथामपि रचयामास। मनुष्यस्य सम्पूर्णवयो दशाधिकशतवर्षाणीति जैनधर्मस्य प्रत्ययः। बनारसीदासो जैनधर्मानुयाय्यासीत्। यस्मिन् काले स इमामात्मकथाँल्लिलेख स पञ्चपञ्चाशद्वर्षदेशीय आसीत्। अतः 'अर्धकथानक' इति तेन स्वीया कथा संज्ञप्ता। कथा लघुः परं तस्मिन् काले जीवनङ्कीदृशमासीदिति द्योतयति। कीदृशञ्जीवनम्? कठिनम्। अतिकठिनम्। अर्वाचीनकालस्य नानासौविध्यानि न बभूवुस्तस्मिन्काले। तस्य द्वे भार्ये नवापत्यानि च दिवञ्जग्मुः। महती व्यथा तेनानुभूता। तदानीन्तनकाले विकरालरोगा व्याप्ताः। काले काले सर्वे रोगग्रस्तास्तस्थुः। बहुशो मम्रुश्च। स सप्तपञ्चाशद्वर्षदेशीय आसीद्यदा स जगन्मुमोच। तस्य कथा पठित्वा मम नेत्रेबाष्पकुलेऽभवताम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें