रविवार, 27 मई 2018

स्मितरेखा

अद्यत्वे राधावल्लभत्रिपाठीरचितं ‘स्मितरेखा’ इति पुस्तकं पठन्नस्मि। काल्पनिककथाभ्य उपेतमदः पुस्तकम्। कथा धार्मिका न सन्ति प्रत्युत दैनन्दिनजीवनविषये सन्ति। पुस्तकभाषा नातिसरला नातिकठिना। तत्तु मम क्षेमाय। एतादृशी भाषा पर्याप्ताभिग्रहं मम दिशि निक्षिपति। त्वरया पठितुं न शक्नोमि। बहवो नूतनशब्दा वर्तन्ते। तेषामर्थज्ञानाय शब्दकोशे द्रष्टव्यम्। तस्मान्मम शब्दज्ञानँव्वर्धेत। सन्धिसमासलङलिटलकारा उपयुज्यन्ते पुस्तकेऽस्मिन्। तेऽपि मम व्याकरणज्ञानँव्वर्धयन्ति। मुहुर्मुहुः पठामि बहूनि वाक्यानि यत एतादृशं पुस्तकं विरलतया लभ्यते। अमुष्मात्पुस्तकात् संस्कृतभाषाया ज्ञानवर्धनस्यावकाशँव्वर्तते। अहं तु पुस्तकस्य शीर्षकस्यार्थोऽपि न जानामि। जानामि यत ‘स्मित’ इत्युक्ते मन्दहासः। ‘रेखा’ इत्युक्ते काचन पङ्क्तिः। तर्हि ‘स्मितरेखा’ किम्? मन्दहसन्ती रेखा? सा का? प्रायः ‘रेखा’ शब्दस्यात्राभिप्रायः ‘रेखाचित्रम्’। ‘मन्दहसत् रेखाचित्रम्’ इति युक्तं प्रतिभाति। पुस्तकं पठने बहुदिवसा आवाश्यका भाषाकाठिन्यन्निमित्तेन। साशंसं पुस्तकं पठित्वा शीर्षकस्यार्थञ्ज्ञास्यामि।

शनिवार, 26 मई 2018

यमवामनग्रहः

‘चेज़िङ्ग-न्यू-होरायज़न्स्’ इति पुस्तकमपाठिषम्। यमवामनग्रहम् (प्लूटो-ड्वार्फ्-प्लैनेट्) उद्दिश्य 'न्यू-होरायज़न्स' नामान्तरिक्षयानस्य यात्राया विषये पुस्तकमदः। यमवामनग्रहमुद्दिश्यान्तरिक्षयानं प्रेषणाय कियाञ्छ्रमः सहस्रा जनाश्चक्रुरमुष्मिन् पुस्तके विवृतम्। एलनस्टर्न-डेविडग्रिनस्पूनवर्याभ्याँल्लिखितं पुस्तकमिदं मानवस्य सर्वोच्चतमां सिद्धिँव्वर्णयति। १९८९ वर्षादारभ्य यमवामनग्रहङ्गमनाय योजना परिकल्पिता। यमवामनग्रहस्य सन्निद्धौ यानमुपगमय्य २०१५ तमे वर्षे सा योजना साधिता। वैज्ञानिकैरनन्तास्तन्त्रज्ञानिका वैज्ञानिकाश्च बाधाः सम्मुखीकृताः। किञ्च बहवा राजनैतिका आर्थिकाश्च बाधा अपि सम्मुखीकृताः। एताः सर्वाः बाधा विजित्य त्रिमहार्बुदमीलपरिमिता यात्रा कृत्वा मानवनिर्मितयानँय्यमवामनग्रहमुपायात्। एतादृशे कालेऽहञ्जीवाम्यस्मै धन्योऽस्मि।

रविवार, 20 मई 2018

प्रेरयन्ती वार्ता

अद्य प्रातःकाले दूरदर्शने काञ्चन प्रेरयन्तीं वार्तामश्रौषम्। कस्यचित् पुरुषस्य गुरुत्वं पञ्चशतपौन्डपरिमिता आसीत्। स स्वप्रयासेन तल्पादप्युत्थातुमसमर्थ आसीत्। तदानीं स शनैः शनैः स्वस्य शारीरिकक्रियाँव्वर्धितुं प्रयासमकुरुत। प्रथमतः स गृहयेव चलनमारभत, तदनन्तरङ्गृहाद्बहिः। अनन्तरं स धावनमरब्धवान्, तदनन्तरमर्धधदीर्घधावन्स्पर्धायां (हाफ-मैरेथोन्) धावनम्, तदनन्तरं दीर्घधावन्स्पर्धायां। तत्पश्चात् स ‘आयरन-मैन्’ इति स्पर्धायां भागं पर्युपास्त। ‘आयरन-मैन्’ स्पर्धायां न केवलं धावनमपि च तरणं द्विचक्रिकाचालनञ्चाप्यपेक्ष्येते। स एतत्सर्वं सार्धद्वयोर्वर्षयोः साधितवान्। किञ्च स पञ्चसप्तत्यधिकद्विशतपौन्डपरिमिता गुरुत्वमत्यजत्। ‘श्लाघ्नीयोपलब्धिः’ तस्मायेतौ शब्दावपर्याप्तौ। असम्भवानि लक्षितानि कार्याण्यपि कर्तुं शक्यन्तयिति पाठोऽस्मात् पुरुषादस्माभिर्लब्धव्यः।

सत्कथाः

‘सत्कथाः’ इति पुस्तकमपाठिषम्। अमुष्मै पुस्तकाय मन्मनसि द्वैधीभावो वर्तते। यतो व्याकरणस्य दृष्टया पुस्तकमुत्तमा भाषोपेतं परङ्कथानां विषयाः केवलं धार्मिकमेव। केचन कथा मह्यमोरचन्त परं प्रायशः कथा नारोचन्त यतोऽहं धार्मिको नास्मि। पुस्तकस्य भाषायाँल्लुङलिडौ दृश्येतयति तु महते सन्तोषाय यतः सामान्यतोऽमू लकारावर्वाचीनसाहित्ये न दृश्येते। उत्तमभाषानिमित्तेनैवाहङ्कथमपि पुस्तकं सम्पूर्णतयापाठिषम्।

शर्कराया व्याप्तिर्लिप्सा च

अर्वाचीनकाले सर्वासु दिक्षु सर्वेषु खाद्येषु शर्करा दृश्यते। शर्कराया आसक्तिर्मानवोद्विकासस्य लक्षणः। प्राचीनकाले भोजनं दुर्लभमबभूव। गात्रस्य कृते मानवः पर्याप्तोर्जाङ्कदापि न लेभे। तन्निमित्तमस्मद्मस्तिष्कः शर्करामभिलषति। परन्त्वद्यत्वे तु भोजनस्यतिशयो दृश्यते। वणिच्संस्था भोजनमधिकमात्रायाँव्विक्रयणार्थमदः स्वादुङ्करणार्थमुष्मिन् बहुमात्रायां शर्करा पातयन्ति। शर्करा व्यसनजनयन् पदार्थः। अनभिज्ञतयाद्य वयं सर्वः शर्कराधीनाः। शर्करा महते हानये भवेत् (मधुमेहः स्थूलत्वमित्यादयः)। वयं सर्वोऽपि शर्कराया भेया यतः साति हानिकारिणी। पच्यामाने भोजनेऽल्पमात्रायां शर्करोपयोजनीया। कार्यालये, अन्येषाङ्गृहेषु, उपाहारगृहेषु शर्करायुक्तानि खाद्यानि परिहरणीयानि। मिष्ठानि विरलतया खादनीयानि। सर्वे सन्तु निरामयाः!

जन्मदिवसोत्सवः

ह्यः पुत्रस्य जन्मदिवसोत्सव स्वगृहयाचरत्। पुत्रः पञ्चवर्षीयऽभूत्। बहवो जना कस्मिँश्चिदुपाहारगृहे तेषामपत्यानाञ्जन्मदिवसोत्सवमायोजयन्ति। तन्मह्यन्न रोचते यतः प्रायो द्वे घण्टे यावदेव समयो दीयतयुपाहारगृहेण। द्वे घण्टे पश्चात् सर्वैर्गन्तव्याः। उपाहारगृहे तस्मिन्नेव काले बहवऽन्ययुत्सवाः प्रचलन्तः सन्तीत्यतः कोलहालँव्वर्तते। गृहे एतादृशा बन्धना न सन्ति। अपि च सर्वा व्यवस्थाः स्वानुसारेण कर्तुं शक्यन्ते। कोलाहलमधिकन्नास्ति। जनाः स्वेच्छयागच्छेयुस्तिष्ठेयुर्गच्छेयुश्च। ह्यस्तनोत्सवे विंशतिर्जना आगच्छन् तत्तु महते सन्तोषाय। सर्वेऽरमन्त। केचन जना अन्यस्मान्नगरादप्यागच्छन्। तदर्थङ्कृतज्ञोऽस्मि। पुत्रं तु नूनमतिप्रसन्नचिदभवद्यतस्तेन बहून्युपायनान्यलभ्यन्त।

रविवार, 13 मई 2018

निवासस्थलम्

हवाईराज्ये ज्वालामुखी प्रतिदिनं दन्दह्यते वर्धते च। जनाः किमर्थं तादृशे स्थाने निवसन्ति न जानेऽहम्। नैसर्गिकसौन्दर्यस्य कृते? ज्वालामुख्या विनापि द्वीपे जीवनङ्कठिनम्। सर्वेषाँव्वस्तूनां मूल्यान्यधिकतराणि - शाकफलानां वाहनेन्धनस्य प्रभृति। चतसृषु दिक्षु जलवशात् कुत्रचिदपि गमनाय विमानमारोहणीयम्। विमानचिटिकापि बहुमूल्यमपेक्षते। काले काले द्वीपा झञ्जावातेन विनाशमनुभूयन्ते। प्राणधनहानिरनुभूयन्ते। सेन-फ्रान्सिस्कोनगरी धनवत्युन्नतनगरी च। सा तु ज्वालामुख्यां तिष्ठति। आगामिषु त्रिंशद्वर्षेषु सा ज्वालामुखी स्फोटयेदिति महती सम्भावना। तस्यां नगर्यामपि सर्वं बहुमूल्यमपेक्षते। आयकरोऽप्युच्चतरः। तथापि प्रतिदिनञ्जनास्तत्र धनर्जनाय गच्छन्ति। प्रायः सुष्ठु वातावरणँव्वशाज्जनास्तत्र गच्छन्ति। न ह्यहम्। अहं नीरसनगर्यामुषित्वा सन्तुष्टोऽस्मि। तादृशं (ज्वालामुखीस्थम्, बहुमूल्यमपेक्षमानम्) जीवनं मह्यन्न रोचते।

अद्यतनस्याः प्रातःक्रिया

अद्य प्रातःकाले वातावरणं सुष्ठ्वभूत्। मत्पुत्रेण बहिर्गन्तव्य इत्यहमैषिषम्। परं स दूरदर्शनमददृक्षीत्। कथमपि स बहिर्गमनायाङ्ग्यकार्षीत्। आवामुद्यानेऽटनार्थमगमाव। मीलपरिमितमचालिष्व। उत्कूलं निकूलञ्चाटिष्व। तेन कञ्चन व्यायाममलप्स्वहि। तदनन्तरङ्काफ्यापणमगमाव। तत्राहङ्काफीपेयमपां स किञ्चित्खाद्यमखादीत्। काफ्यापणे चतुरङ्गमक्रीडिष्व। तत्तु महते सन्तोषाय यतो दूरदर्शनं वीक्षणस्यापेक्षया काचिन्मस्तिष्कोपयोज्या क्रिया पुत्रेण कृता। तिस्रो घण्टा यावदावां बहिरभूव। आवयोर्मनसोः शरीरयोश्च व्यायाममभूत्। प्रतिदिनं स कञ्चचन समयं बहिर्यापयेदिति मदीया वाञ्छा।

शनिवार, 12 मई 2018

सन्दोहः

‘सन्दोहः’ इति जनार्दनहेगडेवर्यरचितं पुस्तकमपठम्। यद्यप्यदः पुस्तकं संस्कृतकार्यकतॄणाङ्कृते लिखितं तथापि पुस्तकेऽमुष्मिन् पाठ्यमानाः पाठाः सर्वेभ्य उपयोगिनः। यतः समस्तपुस्तकं संस्कृतविषये न प्रत्युतेतिकर्तव्यताविषये कार्यनीतिविषये च। फलापेक्षया विनास्वार्थभावेन कथङ्कार्यङ्करणीयमिति मार्गो दर्शितः। लेखकस्य कार्यनैतिकताश्लाघ्नीया। आलस्यं परित्यज्य, फलस्यापेक्षया विना यावदपेक्षितं तत्सर्वं तेन क्रियते। तदेव पठितृभिः कर्तव्यमिति सन्देशः। अमुष्मिन् पुस्तके ये पाठाः पाठ्यन्ते ते सर्वे दैनन्दिनजीवनेऽप्युपोगिनः। एतत्पुस्तकङ्कस्याचिद्बृहदोद्यौगिकसंस्थाया अध्यक्षेन (जेफबेजोस्, बिलगेट्स् इत्यादयः) लिखितमिति यद्युद्येत तत्तु विश्वसनीयं भासेत् - एतादृशी कार्यनीतिर्विवृता। विवृतकार्यनीतिर्लेखकेन स्वजीवने व्यापृतेति तु स्पष्टम्। एतादृशा जना यदि संस्कृतहिताय कार्यङ्कुर्युः संस्कृतस्य भविष्यत्सुरक्षितं भवेत्। यदि वयमपि दैनन्दिनजीवनयेषा कार्यनीतिं स्वीकुर्वीमहि तर्हि जीवनस्य सर्वेषु क्षेत्रेषु साफल्याय भवेत्। अस्य कार्यनीतेः केचनांशाः -

१. ‘यावच्छक्यङ्करोमि’ इति न ‘यदपेक्षितं तत्सर्वङ्करोमि’ इति वरमभिवृत्तिः पालनीया।
२. फलापेक्षया विना कार्यङ्करणीयम्। श्रमपूर्वकंङ्कृतङ्कार्यं स्वयमेव फलमावापस्यति।
३. प्रथमतोऽनुभविनामनुसरणेन कौशलः प्रापनीयः। तदनन्तरं स्वस्याः कार्यशैली विकसितव्या।
४. यत्र कार्यसाधनस्य मार्गो न दृश्यते तत्र नूतनमार्गः स्रष्टव्यः।
५. कौशलानुभवौ प्राप्यान्येषाङ्कौशलो विकसितव्यः।
६. कार्ये समस्या न भवेयुरिति न चिन्तनीयम्। कार्ययागमिष्यमानाः समस्याः कथं परिह्रियेरन्निति चिन्तितव्यम्।
७. नूतने कार्ये प्राप्ते विचारेण विना कार्यन्नारम्भणीयम्। कार्ये कीदृशाः समस्या आगच्छेयुस्तासां परिहाराय किङ्किङ्कुर्वीरनिति परिशील्यानुभविभिः सह समालोक्याग्रे गन्तव्यम्।
८. असाधिते कार्ये तदसाफल्यमन्येषु नारोपणीयम्। अपितु परिहाराय चिन्तनीयम्।
९. साधिते कार्येऽहमहमिका न पालनीया। कार्यकर्तॄणां समुद्रेऽहमेकं तरङ्गमिवेति चिन्तनीयम्।
१०. क्रियमाणेन कार्येण सन्तुष्टिः प्रापनीया न तस्य फलेन।
११. आलस्यं त्यक्तव्यम्।

इदं पुस्तकमन्यासु भाषासु अनूद्येतेति मन्ये। पुस्तकं मया द्विवारमपठ्यत। प्रायेण पुनः पठिष्यामि।

शनिवार, 5 मई 2018

कृत्रिमप्रकाशः

कृत्रिमप्रकाश आधुनिकजीवनस्य परमसुखम्। प्राचीनकाले साँयकाले रात्रौ च जना बहूनि कार्याणि कर्तुन्न शेकुर्यतः पर्याप्तप्रकाशो न वर्तते स्म। दुर्जना गाढान्धकारे बहवोऽपराधा अपि चक्रुः। अद्यत्वे विद्युद्दीपैर्वयङ्किमपि कर्तुं शक्नुमः - गृहकार्याणि, पुस्तकपठनम्, दूरदर्शनवीक्षणम्, भोजनपचनं प्रभृति कार्याणि - सूच्यनन्ता। परन्त्वस्मिन् प्रपञ्चे सर्वेषाँव्वस्तूनाँल्लाभहानावुभौ वर्तेते। कृत्रिमप्रकाशवशादद्यत्वेऽस्माकञ्जीवनं सदा व्यस्तः। पुरातनकालेऽन्धकारवशाज्जना बहूनि कार्याणि कर्तुन्न शेकुरतस्ते कुटुम्बकेन सह समयं व्ययीचक्रिरे परन्त्विदानीङ्कृत्रिमप्रकाशवशाज्जनाः स्वकार्ये व्यस्ता वर्तन्ते - कश्चन दूरदर्शनं पश्यत्युद्युक्तः, काचन सङ्गणके, काचन पुस्तकपठने, गृहिणी गृहकार्ये। कुटुम्बसदस्या न्यूूनतया साकं समयँय्यापयन्ति। कौटुम्बिकारोग्यङ्खिद्यते। केवलमेतन्न। अपिच कृत्रिमप्रकाशेन निद्रापि क्षयति। मानवोद्विकासवशादास्माकीना निद्रा सूर्यप्रकाशेन सहान्विता। आ प्राचीनकालाद्वयं सूर्योदयेन जागराञ्चकृम सूर्यास्तेन शिश्यिमहे। अद्यत्वे न। रात्रावपि गृहे सर्वत्र सर्वाणि वस्तूनि प्रकाशन्ते। तेनास्माकं मस्तिष्को मुह्यति। दिनरात्रयोः सामञ्जस्यः परिक्लिश्यते। रात्रौ चिरेण शेमहे प्रातःकाले चिरेण जागृम उत घट्टिकाध्वनिना जागर्यामहे। निद्रा सम्पूर्णतया न लभ्यते। अस्माकमारोग्यमुपभुङ्कते। गृहे सूर्यास्तस्य पश्चात् साँयकाले कृत्रिमप्रकाशं न्यूनङ्करणीयम्। केवलमावश्यकतानुसारेण विद्युद्दीपा ज्वालयितव्याः। प्रदीप्तश्वेतप्रकाशमाना दीपाः केवलं दिने ज्वालनीयाः, रात्रौ सौम्यपीतदीपा ज्वालनीयाः। साँयकाले सङ्गणकदूरदर्शनयोरुपयोगं न्यूनङ्करणीयम्। निद्रारोग्यञ्च वर्धेयाताम्।