रविवार, 27 मई 2018

स्मितरेखा

अद्यत्वे राधावल्लभत्रिपाठीरचितं ‘स्मितरेखा’ इति पुस्तकं पठन्नस्मि। काल्पनिककथाभ्य उपेतमदः पुस्तकम्। कथा धार्मिका न सन्ति प्रत्युत दैनन्दिनजीवनविषये सन्ति। पुस्तकभाषा नातिसरला नातिकठिना। तत्तु मम क्षेमाय। एतादृशी भाषा पर्याप्ताभिग्रहं मम दिशि निक्षिपति। त्वरया पठितुं न शक्नोमि। बहवो नूतनशब्दा वर्तन्ते। तेषामर्थज्ञानाय शब्दकोशे द्रष्टव्यम्। तस्मान्मम शब्दज्ञानँव्वर्धेत। सन्धिसमासलङलिटलकारा उपयुज्यन्ते पुस्तकेऽस्मिन्। तेऽपि मम व्याकरणज्ञानँव्वर्धयन्ति। मुहुर्मुहुः पठामि बहूनि वाक्यानि यत एतादृशं पुस्तकं विरलतया लभ्यते। अमुष्मात्पुस्तकात् संस्कृतभाषाया ज्ञानवर्धनस्यावकाशँव्वर्तते। अहं तु पुस्तकस्य शीर्षकस्यार्थोऽपि न जानामि। जानामि यत ‘स्मित’ इत्युक्ते मन्दहासः। ‘रेखा’ इत्युक्ते काचन पङ्क्तिः। तर्हि ‘स्मितरेखा’ किम्? मन्दहसन्ती रेखा? सा का? प्रायः ‘रेखा’ शब्दस्यात्राभिप्रायः ‘रेखाचित्रम्’। ‘मन्दहसत् रेखाचित्रम्’ इति युक्तं प्रतिभाति। पुस्तकं पठने बहुदिवसा आवाश्यका भाषाकाठिन्यन्निमित्तेन। साशंसं पुस्तकं पठित्वा शीर्षकस्यार्थञ्ज्ञास्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें