शनिवार, 5 मई 2018

कृत्रिमप्रकाशः

कृत्रिमप्रकाश आधुनिकजीवनस्य परमसुखम्। प्राचीनकाले साँयकाले रात्रौ च जना बहूनि कार्याणि कर्तुन्न शेकुर्यतः पर्याप्तप्रकाशो न वर्तते स्म। दुर्जना गाढान्धकारे बहवोऽपराधा अपि चक्रुः। अद्यत्वे विद्युद्दीपैर्वयङ्किमपि कर्तुं शक्नुमः - गृहकार्याणि, पुस्तकपठनम्, दूरदर्शनवीक्षणम्, भोजनपचनं प्रभृति कार्याणि - सूच्यनन्ता। परन्त्वस्मिन् प्रपञ्चे सर्वेषाँव्वस्तूनाँल्लाभहानावुभौ वर्तेते। कृत्रिमप्रकाशवशादद्यत्वेऽस्माकञ्जीवनं सदा व्यस्तः। पुरातनकालेऽन्धकारवशाज्जना बहूनि कार्याणि कर्तुन्न शेकुरतस्ते कुटुम्बकेन सह समयं व्ययीचक्रिरे परन्त्विदानीङ्कृत्रिमप्रकाशवशाज्जनाः स्वकार्ये व्यस्ता वर्तन्ते - कश्चन दूरदर्शनं पश्यत्युद्युक्तः, काचन सङ्गणके, काचन पुस्तकपठने, गृहिणी गृहकार्ये। कुटुम्बसदस्या न्यूूनतया साकं समयँय्यापयन्ति। कौटुम्बिकारोग्यङ्खिद्यते। केवलमेतन्न। अपिच कृत्रिमप्रकाशेन निद्रापि क्षयति। मानवोद्विकासवशादास्माकीना निद्रा सूर्यप्रकाशेन सहान्विता। आ प्राचीनकालाद्वयं सूर्योदयेन जागराञ्चकृम सूर्यास्तेन शिश्यिमहे। अद्यत्वे न। रात्रावपि गृहे सर्वत्र सर्वाणि वस्तूनि प्रकाशन्ते। तेनास्माकं मस्तिष्को मुह्यति। दिनरात्रयोः सामञ्जस्यः परिक्लिश्यते। रात्रौ चिरेण शेमहे प्रातःकाले चिरेण जागृम उत घट्टिकाध्वनिना जागर्यामहे। निद्रा सम्पूर्णतया न लभ्यते। अस्माकमारोग्यमुपभुङ्कते। गृहे सूर्यास्तस्य पश्चात् साँयकाले कृत्रिमप्रकाशं न्यूनङ्करणीयम्। केवलमावश्यकतानुसारेण विद्युद्दीपा ज्वालयितव्याः। प्रदीप्तश्वेतप्रकाशमाना दीपाः केवलं दिने ज्वालनीयाः, रात्रौ सौम्यपीतदीपा ज्वालनीयाः। साँयकाले सङ्गणकदूरदर्शनयोरुपयोगं न्यूनङ्करणीयम्। निद्रारोग्यञ्च वर्धेयाताम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें