मंगलवार, 31 अगस्त 2021

वातानुकूलयन्त्राच्चिन्ताग्रस्तोऽस्मि

द्वाभ्यां मासाभ्यां पूर्वमुपरितनस्य स्तरस्य वातानुकूलयन्त्रं परिष्कारितम्। तदर्थं पञ्चसहस्ररुप्यकाणि व्ययितानि। सम्प्रति बहुघर्मवशान्निम्नस्तरस्य वातानुकूलयन्त्रं रात्रिन्दिवङ्कार्यङ्करोति। तद्भग्नं भवेदिति चिन्ता बाधते।

सोमवार, 30 अगस्त 2021

द्वे गीते

प्रपरह्योऽन्दर्जाले द्वे गीते लब्धे। विशेषतस्तयोर्वादनशैली। आ विंशतिवर्षेभ्य इमे गीते मह्यं रोचेते। कस्मिंश्चिद्दिनेऽमू वादयिष्यामीति चिन्तयामि स्म। अद्यत्वे तयोरभ्यासङ्करोमि। मासप्राये ते वादयितुं शक्ष्यामीत्यूहेऽहम्।

पुत्रस्य स्वसङ्गणकम्

विद्यालयेन दत्तं सङ्गणकं बृहत्फलकेन सह युज्यते। अतोऽद्यारभ्य पुत्रः स्वस्य सङ्गणकस्य प्रयोगङ्करिष्यति। अनेन दिनेऽहं मम सङ्गणकस्य प्रयोगकङ्कर्तुं शक्नोमि। पूर्वं पुत्र आदिनं मदीयस्य सङ्गणकस्य प्रयोगङ्करोति स्म। तस्मादहं तस्य प्रयोगङ्कर्तुन्न शक्नोमि स्म।

रविवार, 29 अगस्त 2021

विद्यालयात्सङ्गणकम्

गतवर्षे पुत्रो गृहादशिक्षत। आवर्षं स मम सङ्गणं प्रायुङ्क्त। यद्यपि तस्य विद्यालयः सङ्गणं ददाति तथापि वयं तन्नागृह्णीम यतो वयं नाजानीमहि आवर्षङ्गृहादेव पठिष्यते। अस्मिन्वर्षेऽपि पुत्रो गृहाच्छिक्षते। परन्तु वयं विद्यालयात्सङ्गणकमगृह्णीम। यदि तत्सङ्गणकं बृहत्फलकेन सह युज्येत तर्हि वरमन्यथा पुनर्मम सङ्गणकं प्रयोक्तव्यम्।

गुरुवार, 26 अगस्त 2021

नूतनपर्यवेक्षकश्चेक्रीयते

आ द्वाभ्यां मासाभ्यां नूतनवपर्यवेक्षकेण सह कार्यङ्करोमि। स सज्जनो भासते। मत्पदोन्नतयेऽपि स यतते। तस्य पर्यवेक्षकोऽपि सज्जनो भासते परन्तु स किञ्चिदधिकतया कार्यमपेक्षते। अतो मम पर्यवेक्षको यायत्यते। तस्य द्विषड्वर्षीयौ पुत्रौ वर्तेते। तेन सहानुभवामि।

रविवार, 22 अगस्त 2021

अष्टजनाः पञ्ज्यकुर्वत

आग्रिममासाद्गीतासोपानवर्गोऽनुवर्तयिष्यते। अष्टजनाः पञ्ज्यकुर्वत। विस्मितोऽहं। सामान्यतो जना अन्तिमद्वित्रिदिनेषु पञ्जीकुर्वते। प्राय इतोऽपि जनाः पञ्जीकुर्युः। मोदावहो विषयोऽयम्।

शनिवार, 21 अगस्त 2021

याननिरीक्षणम्

प्रतिवर्षं कारयानस्य निरीक्षणङ्कारणीयमिति सर्वकारेण विहीतम्। मम यानस्य चक्रमेकं जीर्णम्। तन्निरीक्षणन्नोत्तरिष्यतीति मया चिन्तितमासीत्। परन्तु दिष्ट्या तेन निरीक्षणमुत्तरितम्। नोत्तरेच्चेच्चक्रं परिवर्तनीयम्। परन्तु परिवर्तनन्न कारणीयमासीत्।

काष्ठवृतिर्निर्मास्यते

मम मम प्रतिवेशिनो गृहयोर्मध्ये स्थिता वृतिर्जीर्णा जाता। पतन्ती सा वृतिः परिष्करणीया। अहं मम प्रतिवेशी च निर्णयमकुर्वहि नूतनवृतिः स्थापनीयेति। सहस्ररुप्यकाणि व्ययित्वा सा निर्मास्यते। मया प्रतिवेशिनोभाभ्यां पञ्चशतमितव्ययो वोढव्यः।

सार्धैकवर्षात्परस्तात्

ह्यः सार्धैकवर्षात्परस्तात्कार्यलयमगच्छम्। नूतनपर्यवेक्षकेण मदीयस्य समूहस्य मेलनमायोजितमासीत्। तस्मै सर्वे जना आगच्छन्। अहमधिकसमयाय नातिष्ठासम्। अतोऽर्धघण्टां यावदेव स्थित्वा गृहमागच्छम्। कार्यालये दग्धविद्युद्दीपाः कोषाश्च स्वीक्रियन्ते। गृहे सङ्गृह्यमाणा बहवो विद्युद्दीपाः कोषाश्च तत्रास्थापयम्।

शनिवार, 14 अगस्त 2021

कृदन्तवर्गोऽवसितः

गतसप्ताहे कृदन्तवर्गोऽवसितः। मुख्यकृदन्तप्रत्ययानपाठयम्। छात्राः कृतज्ञतामदर्शयन्। १२-सितम्बरदिनाङ्कान्नूतनवर्ग आरप्स्यते। गीतासोपानमनुवर्तयिष्यते।

गुरुवार, 12 अगस्त 2021

पर्यवेक्षक आगच्छति

कार्यालये मम पर्यवेक्षकोऽस्मिन्सप्ताहेऽन्यस्मान्नगरान्मम नगरमागच्छति। अन्यच्च स मद्गणीयान्सर्वान्मिमिलषति। मम नगरे करोणाप्रकोपो वर्धते। तादृगवस्थायां मेलनन्न समीचीनम्। कुत्रापि बहिर्मिलेम चेत्कर्तुं शक्यते परन्तु स कार्यालये मिमिलिषति। तत्र वयं सर्वेऽकस्मिन्प्रकोष्ठे भविष्यामः। मम पुत्रेणेतोऽपि सूच्यौषधन्न प्राप्तं तर्हि कार्यालयेऽन्यान्मिलित्वाहं तस्मायपायञ्जनयितुं शक्नोमि। तन्मयि चिन्ताञ्जनयति।

अफ्घानिस्तानस्य दुर्दशा

अफ्घानिस्तानदेशे बाह्यसेनानां निर्गमनात्परं स्वल्पकालयेवोग्रवादिभिर्देशस्य बहूनि नगराणि प्रसभं विजितानि। तद्वेगं दृष्ट्वा विस्मितोऽहम्। विंशतिवर्षेभ्योऽमेरिकीसेना तस्मिन्देशे विद्यमानासीत्। तावत्सु वर्षेषु साफ्घानिस्तानसेनायै प्रशिक्षणमायुधानि च ददौ। कीदृशं प्रशिक्षणमासीद्येन मासायापि स्वदेशस्य रक्षाङ्कर्तुन्न शक्यते? कस्य दोषः? अमेरिकीसेनायाः, अफ्घानिस्तानसेनायाः, सर्वकारेण वा? न जानेऽहं परन्तु तद्देशीयानां दुर्दशां दृष्ट्वा शोचामि।

रविवार, 8 अगस्त 2021

चीनगाहकौ

ह्यो दूरदर्शने गाहकानामौलोम्पिक्स्पर्धामपश्याम। बहवो गाहका आसन्। तेषु द्वौ चीनगाहकावेकब्रिटिशगाहक उत्तमाः। अन्येषाङ्गाहकानां कौशलं तेषामपेक्षया न्यूनमासीत्। परन्तु त्रिषु गाहकेषु चीनगाहकयोः कौशलमनन्यमासीत्। ब्रिटिशगाहकस्तावतिशेतुन्नाशक्नोत्। टीकावक्ताराववदताञ्चीनगाहकौ परस्परं वसतः प्रशिक्षणं प्राप्नुतश्च। तयोर्गृहाद्दूरे। तावन्यत्किमपि न कुरुतः। तयोर्जीवनङ्गाहनमेव। एवं सति कस्तावतिशयीत?

ओलोम्पिक्क्रीडा अवसिताः

अद्यौलम्पिक्क्रीडा अवसिताः। गृहात्कार्यङ्कुर्वन्नस्मीत्यतोऽस्मिन्वारमधिकतया क्रीडा अपश्यम्। पुत्रस्यपि ग्रीष्मविराम आसीत्। भार्याया रुचिरप्यासीत्। क्रीडाः पश्यन्तो वयं सर्वेऽरमामहि।

शनिवार, 7 अगस्त 2021

अग्रिमे वर्षे गन्तव्यम्

कार्यालयं प्रत्यागमनाय मदीयया कार्यसंस्थया ७-सितम्बरदिनाङ्को विहित आसीत्। परन्तु करोणाप्रकोपः पुनर्वर्धते। पुत्रेणापि विद्यालयो गन्तव्य आसीत्। तस्य विद्यालयेनान्तर्जालेन पठनाय विकल्पो दत्त आसीत्। परन्तु यद्यावाभ्यां कार्यालयौ गन्तव्यौ तर्हि पुत्रो गृहे स्थित्वा कथं पठितुं शक्नुयात्। स गृहादेव पठेदेतस्मायहं मम प्रबन्धकमन्वरुणधं माङ्गृहादेव कार्यङ्करणायानुमतिर्देयेति। सोऽददात्। परन्तु तस्मिन्नेव दिने कार्यालेण पुनरागमनाय तिथिर्व्याक्षिप्ता। इदानीं मया जनवरीमासे कार्यालयो गन्तव्यः। अतः पुत्रोऽपि गृहादेव पठितुं शक्नोति।

कार्यन्न चिकीर्षति

पुत्रस्य ग्रीष्मविरामो वर्तते। आ दिनं दूरदर्शनन्न पश्येदित्यस्मात्पुत्रेण तस्य गृहकार्यपुस्तकस्य चत्वारः पुटाः करणीया इत्यावाभ्यां विहितम्। तदतिरिच्य प्रतिदिनं प्यानोवादनाभ्यासोऽपि करणीय इत्यपि निर्दिष्टम्। उभाभ्याङ्कार्याभ्यामाहत्य घण्टामात्रमावश्यकम्। तथापि पुत्रस्ते कार्ये कर्तुन्न चिकीर्षति। गतग्रीष्मविरामे स इतोऽप्यधिककार्यङ्करोति स्म। स न विरुणद्धि स्म। परन्तु वर्षेऽस्मिन्स विरुणद्धिु। मम विरामोऽस्ति तर्हि मया किमर्थङ्कार्यङ्कर्तव्यमिति विद्रोहङ्करोति। स वर्धते। अतस्तस्य विवादशक्तिरपि वर्धते। आगामिषु वर्षेषु स आवाभ्यां विहितन्न करिष्यति। परन्तु सर्वेषां बालकानां तादृशो व्यवहारो वर्ततयिति मत्वाहञ्चिन्ताग्रस्तो नास्मि।

रविवार, 1 अगस्त 2021

पुत्रेण गीतङ्कारितम्

गीतवादनाभ्यासङ्करोमि। पुत्राय गीतमेकं रोचततेतमाम्। मह्यमाधिक्येन न रोचते स्म। पुत्रः पुनः पुनस्तद्गीतं श्रावयति स्म। गच्छता कालेन तद्गीतं मह्यमप्यरोचत। बहुभ्यो दिनेभ्यस्तद्गीतस्याभ्यासङ्कुर्वन्नस्मि। ह्यो गीतं पूर्णतया वादितम्। इदानीमदो गीतं श्रुत्वा वादयित्वा चाहं रमे। पुत्रवशादेव।