बुधवार, 19 अप्रैल 2023

सप्तभ्यो वर्षेभ्यः परस्तात्

सप्तभ्यो वर्षेभ्यः परस्तात्सम्प्रत्यहं कार्यालये नूतनदलं गमनाय प्रयते। अस्मिन्वर्षे मदीये दले हर्षदायकं कार्यं नास्त्येव। यत्किमपि कार्यमस्ति तदतिनैरस्यपूर्वकमस्ति। अतो दलसङ्क्रमणाय प्रयते। द्वाभ्यां दलाभ्यां सह सम्भाषणं जातम्। तयोः कोऽपि मां स्वीकुर्याद्वा नेति द्रष्टव्यम्।

1 टिप्पणी:

  1. नूतनदलस्य गमनाय इति स्यात् इत्यहं मन्ये कर्तृकर्मणोः कृति सूत्रेण?

    जवाब देंहटाएं