शनिवार, 4 जनवरी 2020

प्रत्यूर्जता-२

प्रतिशीतकालं प्रत्यूर्जता मां पीडयति। ‘सीडर्-एलेर्जि’ मां बाबाध्यते। यदि बहिस्थवायोः श्वसिमि तर्ह्यादिनमारात्रि च क्षौमि। ह्यः केवलं पञ्चदशनिमेषान् यावद्बहिरगच्छम्, तेनैव नासिका स्रवति, क्षुतानि चागतानि। नेत्रयोः कण्डूयनमनुभूयते। औषधं भक्षयामि। तेन व्यथा स्तोकन्निवार्यते। अयं सप्ताहान्तस्तापमानदृष्ट्या उत्तमः। बहिर्गन्तव्यम्। वातावरणं रन्तव्यम्। परन्तु प्रत्यूर्जता कारणात्कर्तुन्न शक्नोमि। मुक्तमानवः सन्नपि बन्दिरिव जीवामि। पुत्रस्य स्थितिरपीयमेव।

3 टिप्‍पणियां:

  1. इस टिप्पणी को लेखक द्वारा हटा दिया गया है.

    जवाब देंहटाएं
  2. अपि भवन्तः जलनेती इति क्रियायाः अभ्यासमचिन्तयन्? क्रिया सरलास्ति। मां जलनेतीक्रियायाः लाभोऽभवत्। कृपया चिन्तयन्तु।

    जवाब देंहटाएं