शनिवार, 1 सितंबर 2018

अगवेष्यो जालपुटः

अस्मिञ्जालपुटे सुतराँल्लिखाम्यहम्। गूगलगवेषकेण सूचीकृतोऽयञ्जालपुटः। तथापि प्रायेणैष जालपुटोऽगवेष्यः। केन कारणेन? गूगलगवेषणपरिपाटिः केवलं सम्पूर्णशब्दानाङ्गवेषणङ्करोति। उदारहणतः ‘दृष्ट्वामोदिषि’ अस्मिञ्छब्दे वस्तुतो द्वौ शब्दौ स्तः - ‘दृष्ट्वा’ ‘अमोदिषि’ च। गूगलगवेषकः ‘दृष्ट्वामोदिषि’ संयुक्तशब्दमेव सूचीकरोति। अतो यदि ‘दृष्ट्वा’ उत ‘अमोदिषि’ इति शब्दाभ्याङ्केनापि गवेषणङ्क्रियते तर्हि ‘दृष्ट्वामोदिषि’ इति शब्देनाधृतजालपुटो न दृश्यते यतो गूगलगवेषकः शब्दान् भागशो न सूचीकरोति। अत एष जालपुटोऽन्तर्जाले वर्तित्वाप्यन्तर्हितः। सोल्लुण्ठनञ्जनास्तेषाञ्जालपुटान् गवेष्यः करणार्थङ्किङ्किन्न कुर्वते। अहन्तु प्रतिकूलङ्करोमि। सन्धिमुपयुज्य मदीयञ्जालपुटमगवेष्यङ्कारयामि। जना एतं पठेयुरित्यहमीहे परन्तु स्वच्छन्दतया स्वोपज्ञलेखनशैलीं प्रयोक्तुं शक्यते मयेत्यस्य जालपुटस्यास्तित्वस्य निदानम्। एष जालपुटोऽन्तर्जाले गवेष्य इत्यस्याङ्गता मह्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें