बुधवार, 28 दिसंबर 2022

पुत्रेण सह पर्णसङ्ग्रहणम्

अद्य पुनः गृहोद्याने पर्णानि समग्रहीषम्। सामान्यतः पुत्रस्तस्य मित्रैः सह क्रीडति। परन्त्वद्य तस्य मित्राणि विलम्बेनागमन्। अत आवां मिलित्वा पर्णानि समग्रहीष्व। ह्यः सार्धैकघण्टासु मयैकाकिना त्रयस्यूतमितानि पर्णानि सङ्ग्रहीतानि। अद्य पुत्रः साहाय्यमकार्षीत्। तथापि तावति समये तत्येव स्यूताः सङ्ग्रहीताः। स बालकः। स मादृशेन वेगेन कार्यङ्कर्तुन्न शक्नोति। आवां विभज्य कार्यमकृष्वहि। तस्मान्मम वेगस्तस्य वेगः समः कर्तव्य आसीत्। परन्तु तत्र न कोऽपि क्लेशः। आवां मिलित्वा कार्यमकृष्वहि। तस्मादावामुभावरंस्वहि।

3 टिप्‍पणियां:

  1. "तत्येव स्यूताः" / "वेगो तस्य" इत्यत्र दोषः अस्ति वा महोदय?

    जवाब देंहटाएं
    उत्तर
    1. तत्येव = तति + एव (that many only) , अहमत्र कमपि दोषं द्रष्टुं न शक्नोमि।
      वेगो तस्य - आम्। अत्र दोषोऽस्ति। परिष्कृतः।

      कोऽपीममं जालपुटं पठतीति मया न ज्ञातम्। पठनाय दोषनिवारणाय च धन्यवादाः।

      हटाएं
  2. धन्यवादाः महोदय! तत्येव इत्यस्य अर्थः मया न ज्ञातः! अतः पृष्टम्। अहं भवतः जालपुटं बहु वर्षेभ्यः पठन्नस्मि। नियमेन इति नास्ति। यदाकदापि पठामि। भवतः लेखनानां पठनेन पठितृणां भाषाज्ञानम् अवश्यं वर्धते इति मे मतिः। भवते मम प्रणामाः।

    जवाब देंहटाएं